०७८ धर्मेशमहिमाख्यानम्

॥ पार्वत्युवाच ॥
आनन्दकानने शम्भो यल्लिङ्गं पुण्यवर्धनम् ॥
यन्नामस्मरणादेव महापातकसङ्क्षयः ॥ १ ॥
यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा ॥
यत्र दत्तं हुतं जप्तं ध्यातं भवति चाक्षयम् ॥ २ ॥
यस्य संस्मरणादेव यल्लिङ्गस्य विलोकनात् ॥
यल्लिङ्गप्रणतेश्चापि यस्य संस्पर्शनादपि ॥ ३ ॥
पञ्चामृतादि स्नपनपूर्वाद्यस्यार्चनादपि ॥
तल्लिङ्गं कथयेशान भवेच्छ्रेयः परम्परा ॥४॥
॥ स्कन्द उवाच ॥ ॥
इति देवीसमुदितं समाकर्ण्य वटोद्भव ॥
सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु ॥ ९ ॥
देवदेव उवाच ॥ ॥
उमे भवत्या यत्पृष्टं भवबन्धविमोक्षकृत् ॥
ततोऽहं कथयिष्यामि लिङ्गं स्थिरमना भव ॥ ६ ॥
आनन्दकानने चात्र रहस्यं परमं मम ॥
न मया कस्यचित्ख्यातं न प्रष्टुं वेत्ति कश्चन ॥७॥
सन्ति लिङ्गान्यनेकानि ममानन्दवने प्रिये॥
परं त्वया यथा पृष्टं यथावत्तद्ब्रवीमि ते ॥ ८ ॥
यत्र मुक्तिस्वरूपा त्वं स्वयं तिष्ठसि विश्वगे ॥
यत्र ते नन्दनश्चास्ति क्षेत्रं विघ्नविघातकृत् ॥ ९ ॥
ममापि येन त्रिपुरं समरे जयकाङ्क्षिणः ॥
जयाशा पूरिता स्तुत्या बहुमोदकदानतः ॥ 4.2.78.१० ॥
यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम् ॥
यत्स्नानाद्वृत्रहा वृत्रवधपापाद्विमुक्तवान् ॥ ११ ॥
धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान् ॥
सुदुष्करं तपस्तप्त्वा परमेण समाधिना ॥ १२ ॥
पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम् ॥
रम्यो हिरण्मयो यत्र बभूव बहुपाद्द्रुमः ॥ ॥ १३ ॥
यल्लिङ्गदर्शनादेव दुर्दमो नाम पार्थिवः ॥
उद्वेजकोपि लोकानां क्षणाद्धर्ममतिस्त्वभूत् ॥ १४ ॥
तस्य लिङ्गस्य माहात्म्यमाविर्भावं च सुन्दरि ॥
निशामयाभिधास्यामि महापातक नाशनम् ॥ १५ ॥
धर्मपीठं तदुद्दिष्टमत्रानन्दवने मम ॥
तत्पीठदर्शनादेव नरः पापैः प्रमुच्यते ॥ १६ ॥
पुरा विवस्वतः पुत्रो यमः परमसंयमी ॥
तपस्तताप विपुलं विशालाक्षि तवाग्रतः ॥ १७ ॥
शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ॥
तपर्तौ पञ्चवह्निस्थः कदाचिदिति तप्तवान् ॥ १८ ॥
पादाग्राङ्गुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ॥
एकपादस्थितः सोपि कदाचिद्बह्वनेहसम् ॥ १९ ॥
समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् ॥
पपौ स तु पिपासुः सन्कुशाग्रजलविप्रुषः ॥ 4.2.78.२० ॥
दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ॥
चतुर्गुणं दिदृक्षुर्मां परमेण समाधिना ॥ २१ ॥
ततोहं तस्य तपसा सन्तुष्टः स्थिरचेतसः ॥
ययौ तस्मै वरान्दातुं शमनाय महात्मने ॥२२॥
वटः काञ्चनशाखाख्यो यस्तपस्तापसन्ततिम् ॥
दूरीचकार सुच्छायो बहुद्विजसमाश्रयः ॥ २३ ॥
मन्दमद मरुल्लोल पल्लवैः करपल्लवैः ॥
योध्वगानध्वसन्तप्तानाह्वये दिवतापहृत् ॥ २४ ॥
स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः ॥
प्रीणयेदर्थिसार्थं यो वृत्तैर्निजफलैरलम् ॥२५॥
तदधस्तात्परं वीक्ष्य तमहं तपनाङ्गजम् ॥
स्थाणुनिश्चल वर्ष्माणं नासाग्रन्यस्तलोचनम् ॥ २६ ॥
तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम् ॥
भानुमन्तमिवाकाशे सुनीले स्वेन तेजसा ॥ २७ ॥
स्वाख्याङ्कितं महालिङ्गं प्रतिष्ठाप्यातिभक्तितः ॥
स्वच्छ सूर्योपलमयतेजः पुञ्जैरिवार्चितम् ॥ २८ ॥
साक्षीकृत्येव तल्लिङ्गं तप्यमानं महत्तपः ॥
प्रत्यवोचं धर्मराजं वरं ब्रूहीति भास्करे ॥ २९ ॥
अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत ॥
निशम्य शमनश्चेति दृष्ट्वा मां प्रणनाम ह ॥ 4.2.78.३० ॥
चकार स्तवनं चापि परिहृष्टेन्द्रियेश्वरः ॥
निर्व्याजं स समाधिं च विसृज्य ब्रध्ननन्दनः ॥ ३१ ॥
धर्म उवाच ॥ ॥
नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय ॥
नमोनमः कार्यमयाय तुभ्यं नमोनमः कार्यविभिन्नरूप ॥ ३२ ॥
अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ॥
अपारपाराय पराब्धिपार प्रदाय तुभ्यं शशिमौलये नमः॥ ॥ ३३ ॥
अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ॥
कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते ॥३४ ॥
त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनन्तशक्ते ॥
त्वमात्मरूपः परमात्मरूपस्त्वमन्तरात्मासि चराचरस्य ॥ ३५ ॥
त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबन्धो ॥
हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते ॥ ३६ ॥
मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ॥
त्वं शङ्करः सोमसुभक्तिभाजामुग्रोसि रुद्र त्वमभक्तिभाजाम् ॥ ३७ ॥
त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि ॥
श्रीकण्ठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकण्ठः ॥ ३८ ॥
नमोस्तु ते शङ्कर शान्तशम्भो नमोस्तु ते चन्द्रकलावतम्स ॥
नमोस्तु तुभ्यं फणिभूषणाय पिनाकपाणेंऽधकवैरिणे नमः ॥ ३९ ॥
स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ॥
तवस्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः ॥ 4.2.78.४० ॥
कस्त्वामिह स्तोतुमनन्तशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ॥
प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत् ॥ ४१ ॥
स्कन्द उवाच॥ ॥
उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः ॥
इलामिलन्मौलिरतीव हृष्टः सहस्रकृत्वः प्रणनाम शम्भुम् ॥४२॥
ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः ॥
वरान्ददौ सप्ततुरङ्गसूनवे त्वं धर्मराजो भव नामतोपि ॥ ४३ ॥
त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजङ्गमानाम् ॥
मया नियुक्तोद्य दिनादिकृत्यः प्रशाधि सर्वान्मम शासनेन ॥४४॥
त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजन्तोः ॥
त्वद्दर्शिताध्वान इतो व्रजन्तु स्वकर्मयोग्यां गतिमुत्तमाधमाः ॥ ४५ ॥
त्वया यदेतन्ममभक्तिभाजा लिङ्गं समाराधितमत्र धर्म ॥
तद्दर्शनात्स्पर्शनतोऽर्चनाच्च सिद्धिर्भविष्यत्यचिरेण पुंसाम्॥ ४६ ॥
धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः ॥
स्नात्वा पुरस्तेऽत्र च धर्मतीर्थे न तस्य दूरे पुरुषार्थसिद्धिः ॥ ४७ ॥
कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात्॥
सहेतनो जातु स नारकीं व्यथां कथां तदीयां दिविकुर्वतेमराः ॥ ४८ ॥
यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः ॥
कथं स धर्मत्वमिवातितेजाः करिष्यति स्वं कृतकृत्यमेव ॥
त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः ॥
तथैव धर्मेश्वरभक्तिभाजां कामाः फलिष्यन्ति न संशयोत्र ॥ 4.2.78.५० ॥
कृत्वाप्यघान्येव महान्त्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन् ॥
कुतो बिभेति प्रियबन्धुरेव तव त्वदीयार्चित लिङ्गभक्तः ॥ ५१ ॥
पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति ॥
समर्चयिष्यन्त्यमृतान्धसस्तं मन्दारमालाभिरतिप्रहृष्टाः ॥ ५२ ॥
त्वत्तो विभेष्यन्ति कृतैनसो ये भयं न तेषां भविता कदाचित् ॥
धर्मेश्वरार्चा रचनां करिष्यतां हरिष्यतां बन्धुतयामनस्ते ॥ ५३ ॥
यदत्र दास्यन्ति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च ॥
तदक्षयं भावि युगान्तरेपि कृतप्रणामास्तव धर्मलिङ्गे ॥ ५४ ॥
ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यन्ति नरा उपोषिताः ॥
रात्रौ च वै जागरणं महोत्सवैर्धर्मेश्वरे तेन पुनर्भवा भुवि ॥ ५५ ॥
स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यन्ति तवाग्रतः क्वचित् ॥
निरेनसस्ते मम लोकगामिनः प्राप्स्यन्ति ते वैभवतः सखित्वम् ॥ ५६ ॥
पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नन्दन धर्मराज ॥
अदेयमत्रास्ति न किञ्चिदेव ते विधेहि वागुद्यममात्रमेव ॥ ५७ ॥
प्रसन्नमूर्तिं स विलोक्य शङ्करं कारुण्यपूर्णं स्वमनोरथाभिदम् ॥
आनन्दसन्दोहसरोनिमग्नो वक्तुं क्षणं नैव शशाक किञ्चित् ॥ ५८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे धर्मेशमहिमाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥