०७७ केदारमहिमाख्यानम्

॥ पार्वत्युवाच ॥ ॥
नमस्ते देवदेवेश प्रणमत्करुणानिधे ॥
वद केदारमाहात्म्यं भक्तानामनुकम्पया ॥१॥
तस्मिल्ँलिङ्गे महाप्रीतिस्तव काश्यामनुत्तमा ॥
तद्भक्ताश्च जना नित्यं देवदेवमहाधियः ॥ २ ॥
॥ देवदेव उवाच ॥ ॥
शृण्वपर्णेभिधास्यामि केदारेश्वर सङ्कथाम् ॥
समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात् ॥ ३ ॥
केदारं यातुकामस्य पुंसो निश्चितचेतसः ॥
आजन्मसञ्चितं पापं तत्क्षणादेव नश्यति ॥ ४ ॥
गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम् ॥ जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत् ॥ ५ ॥
मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ॥
देहगेहाद्विनिःसृत्य निराशं याति निःश्वसत् ॥ ६ ॥
सायङ्केदारकेदारकेदारेति त्रिरुच्चरन्॥
गृहेपि निवसन्नूनं यात्राफलमवाप्नुयात् ॥ ७ ॥
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमम्बु च ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥८॥
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ॥
कोटिजन्मार्जितैनोभिर्मुच्यते नात्र संशयः ॥९॥
सकृत्प्रणम्य केदारं हरपापकृतोदकः ॥
स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं गमिष्यति॥4.2.77.१०॥
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ॥
उद्धृत्य सप्तपुरुषान्स मे लोकं गमिष्यति ॥ ११ ॥
पुरा राथन्तरे कल्पे यदभूदत्र तच्छृणु ॥
अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः ॥१२॥
एको ब्राह्मणदायाद उज्जयिन्या इहागतः ॥
कृतोपनयनः पित्रा ब्रह्मचर्यव्रतेस्थितः ॥१३॥
स्थलीं पाशुपतीं काशीं स विलोक्य समन्ततः॥
द्विजैः पाशुपतैः कीर्णां जटामुकुटभूषितैः ॥ १४ ॥
कृतलिङ्गसमर्चैश्च भूतिभूषितवर्ष्मभिः ॥
भिक्षाहृतान्नसन्तुष्टैः पुष्टैर्गङ्गामृतोदकैः ॥ १५ ॥
बभूवानन्दितमना व्रतं जग्राह चोत्तमम्॥
हिरण्यगर्भादाचार्यान्महत्पाशुपताभिधम् ॥ १६ ॥
स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः ॥
स्नात्वा ह्रदे हरपापे नित्यप्रातः समुत्थितः ॥१७॥
विभूत्याहरहः स्नाति त्रिकालं लिङ्गमर्चयन् ॥
नान्तरं स विजानाति शिवलिङ्गे गुरौ तथा ॥१८॥
स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ॥
ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम् ॥१९॥
यत्र गत्वा न शोचन्ति किञ्चित्संसारिणः क्वचित ॥
प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्वमागताः ॥4.2.77.२०॥
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ॥
गुरुर्हिरण्यगर्भाख्यः पञ्चत्वमगमत्तदा ॥ २१ ॥
पश्यतां तापसानां च विमाने सार्वकामिके ॥
आरोप्य तं पारिषदाः कैलासमनयन्मुदा ॥ २२ ॥
यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो ॥
अकातरस्त्यजेत्प्राणान्कैलासे स चिरं वसेत् ॥ २३ ॥
तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः ॥
केदारमेव लिङ्गेषु बह्वमंस्त सुनिश्चितम् ॥ २४॥
अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ॥
अग्रहीन्नियमं चापि यथार्थं चाकरोत्पुनः ॥ ॥ २५ ॥
प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ॥
विलोकयिष्ये केदारं वसन्वाराणसीं पुरीम् ॥ २६ ॥
तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ॥
आनन्दकानने नित्यं वसता ब्रह्मचारिणा ॥ २७ ॥
पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि ॥
परमोत्साहसन्तुष्टः पलिता कलितोप्यलम्॥ २८ ॥
तपोधनैस्तन्निधनं शङ्कमानैर्निवारितः ॥
कारुण्यपूर्णहृदयैरन्यैरपि च सङ्गिभिः ॥ २९ ॥
ततोपि न तदुत्साहभङ्गोभूद्दृढचेतसः ॥
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ॥ 4.2.77.३० ॥
इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ॥
अशूद्रान्न परीपुष्टे तुष्टोहं चण्डिकेऽभवम् ॥ ३१ ॥
स्वप्रेमया स सम्प्रोक्तो वशिष्ठस्तापसोत्तमः ॥
दृढव्रत प्रसन्नोस्मि केदारं विद्धि मामिह ॥ ३२ ॥
अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम् ॥
इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोब्रवीत्॥ ३३ ॥
ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम् ॥
भवादृशाममिथ्यैव स्वाख्या सदृशवर्तिनाम् ॥ ३४ ॥
वरं ब्रूहि प्रसन्नोस्मि स्वप्नशङ्कां त्यज द्विज ॥
तव सत्त्ववतः किञ्चिन्मयादेयं न किञ्चन ॥ ३५ ॥
इत्युक्तं मे समाकर्ण्य वरयामास मामिति ॥
शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः ॥ ३६ ॥
यदि प्रसन्नो देवेश तदा मे सानुगा इमे ॥
सर्वे शूलिन्नुग्राह्या एष एव वरो मम ॥ ३७ ॥
देवि तस्येदमाकर्ण्य परोपकृतिशालिनः ॥
वचनं नितरां प्रीतस्तथेति तमुवाच ह ॥ ३८ ॥
पुनः परोपकरणात्तत्तपो द्विगुणीकृतम् ॥
तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु ॥ ३९ ॥
स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः ॥
देवि मे प्रार्थयामास हिमशैलादिह स्थितिम् ॥ 4.2.77.४० ॥
ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि ॥
हिमशैले ततश्चात्र सर्वभावेन संस्थितः ॥ ४१ ॥
ततः प्रभाते सञ्जाते सर्वेषां पश्यतामहम् ॥
हिमाद्रे प्रस्थितः प्राप्तस्तूयमानः सुरर्षिभिः ॥४२॥
वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम् ॥
हरपापह्रदे तीर्थे स्थितोहं तद्नुग्रहात् ॥ ४३ ॥
मत्परिग्रहतः सर्वे हरपापे कृतोदकाः ॥
आराध्य मामनेनैव वपुषा सिद्धिमागताः ॥ ४४ ॥
तदा प्रभृति लिङ्गेस्मिन्स्थितः साधकसिद्धये ॥
अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः ॥ ४५॥
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम् ॥
तत्फलं सप्तगुणितं काश्यां केदारदर्शने ॥ ४६ ॥
गौरीकुण्डं यथा तत्र हंसतीर्थं च निर्मलम् ॥
यथा मधुस्रवा गङ्गा काश्यां तदखिलं तथा ॥ ४७ ॥
इदं तीर्थं हरपापं सप्तजन्माघनाशनम् ॥
गङ्गायां मिलितं पश्चाज्जन्मकोटिकृताघहम् ॥ ४८ ॥
अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः ॥
पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ ॥४९॥
गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे ॥
गौरीतीर्थं ततः ख्यातं सर्वतीर्थोत्तमोत्तमम् ॥ 4.2.77.५० ॥
अत्रामृतस्रवा गङ्गा महामोहान्धकारहृत् ॥
अनेकजन्मजनित जाड्यध्वंसविधायिनी ॥ ५१ ॥
सरसा मानसेनात्र पूर्वं तप्तं महातपः ॥
अतस्तु मानसं तीर्थं जने ख्यातिमिदं गतम् ॥५२॥
अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते ॥
पश्चात्प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः ॥ ५३ ॥
सर्वे मुक्तिं गमिष्यन्ति यदि देवेह मानवाः ॥
केदारकुण्डे सुस्नातास्तदोच्छित्तिर्भविष्यति ॥ ५४ ॥
सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम्॥
तस्मात्तनुविसर्गेत्र मोक्षं दास्यति नान्यथा ॥ ५५ ॥
ततस्तदुपरोधेन तथेति च मयोदितम् ॥
तदारभ्य महादेवि स्नानात्केदारकुण्डतः॥॥ ५६ ॥
समर्चनाच्च भक्त्या वै मम नाम जपादपि ॥
नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम ॥ ५७ ॥
केदारतीर्थे यः स्नात्वा पिण्डान्दास्यति चात्वरः ॥
एकोत्तरशतं वंश्यास्तस्य तीर्णा भवाम्बुधिम्॥ ५८ ॥
भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः ॥
केदारकुण्डमासाद्य गयाश्राद्धेन किं ततः ॥ ५९ ॥
केदारं गन्तुकामस्य बुद्धिर्देया नरैरियम् ॥
काश्यां स्पृशंस्त्वं केदारं कृतकृत्यो भविष्यसि ॥ 4.2.77.६० ॥
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥
त्रिगण्डूषान्पिबन्प्रातर्हृल्लिङ्गमधितिष्ठति ॥ ६१ ॥
केदारोदकपानेन यथा तत्र फलं भवेत् ॥
तथात्र जायते पुंसां स्त्रीणां चापि न संशयः ॥ ६२ ॥
केदारभक्तं सम्पूज्य वासोन्नद्रविणादिभिः ॥
आजन्मजनितं पापं त्यक्त्वा याति ममालयम् ॥ ॥ ६३ ॥
आषण्मासं त्रिकालं यः केदारेशं नमस्यति ॥
तं नमस्यन्ति सततं लोकपाला यमादयः ॥ ६४ ॥
कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति ॥
यो वेत्स्यति सुपुण्यात्मा सर्वं वेत्स्यति स ध्रुवम् ॥ ६५ ॥
केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत् ॥
तस्मात्काश्यां प्रयत्नेन केदारेशं विलोकयेत् ॥६६॥
चित्राङ्गदेश्वरं लिङ्गं केदारादुत्तरे शुभम् ॥
तस्यार्चनान्नरो नित्यं स्वर्गभोगानुपाश्नुते ॥ ६७ ॥
केदाराद्दक्षिणे भागे नीलकण्ठ विलोकनात् ॥
संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम् ॥ ६८ ॥
तद्वायव्यम्बरीषेशो नरस्तदवलोकनात् ॥
गर्भवासं न चाप्नोति संसारे दुःखसङ्कुले ॥६९॥
इन्द्रद्युम्नेश्वरं लिङ्गं तत्समीपे समर्च्य च ॥
तेजोमयेन यानेन स स्वर्ग भुवि मोदते ॥ 4.2.77.७० ॥
तद्दक्षिणे नरो दृष्ट्वा लिङ्गं कालञ्जरेश्वरम् ॥
जरां कालं विनिर्जित्य मम लोके वसेच्चिरम् ॥७१॥
दृष्ट्वा क्षेमेश्वरं लिङ्गमुद्क्चित्राङ्गदेश्वरात् ॥
सर्वत्र क्षेममाप्नोति लोकेऽत्र च परत्र च ॥७२॥
॥ स्कन्द उवाच ॥ ॥
देवदेवेन विन्ध्यारे केदार महिमा महान् ॥
इत्याख्यायि पुराम्बायै मया तेपि निरूपितः ॥ ७३ ॥
केदारेश्वरलिङ्गस्य श्रुत्वोत्पत्तिं कृती नरः ॥
शिवलोकमवाप्नोति निष्पापो जायते क्षणात् ॥ ७४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे केदारमहिमाख्यानं नाम सप्तसप्ततितमोऽध्यायः ॥७७॥