॥ स्कन्द उवाच ॥ ॥
शृणुष्व मैत्रावरुणे पुराकल्पे रथन्तरे ॥
इतिहास इहासीद्यः पीठे विरजसञ्ज्ञिते ॥ १ ॥
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ॥
नानाभङ्गि गवाक्षाढ्ये रत्नसानाविवायते ॥ २ ॥
कदाचिदपि कल्पान्ते द्यो लोके भ्रंशति क्षये ॥
प्रोत्तम्भनं स्तम्भ इव दत्तो विश्वकृता स्वयम् ॥ ३ ॥
मरुत्तरङ्गिताग्राभिः पताकाभिरितस्ततः ॥
सन्निवारयतीवेत्थमघौघान्विशतो मुने ॥ ४ ॥
देदीप्यमान सौवर्ण कलशेन विराजिते ॥
पार्वणेन शशाङ्केन खेदादिव समाश्रिते ॥ ५ ॥
तत्र पारावतद्वन्द्वं वसेत्स्वैरं कृतालयम् ॥
प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम् ॥ ६ ॥
उड्डीयमानं परितः पक्षवातेरितस्ततः ॥
रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने ॥ ७ ॥
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत् ॥ ८ ॥
चतुर्विधानि वाद्यानि शम्भुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ॥ ९ ॥
मङ्गलारार्तिकज्योतिस्त्रिसन्ध्यं पक्षिणोस्तयोः ॥
नेत्रान्त निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत् ॥4.2.76.१०॥
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीयवाञ्छितं यातः पश्यन्तौ कौतुकं खगौ ॥ ११ ॥
तत्र भक्तजनाकीर्णं प्रासादं परितो मुने ॥
तण्डुलादि चरन्तौ तौ कुर्वाते च प्रदक्षिणम् ॥ १२ ॥
देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् ॥
तृषार्तौ धयतो विप्र स्नातौ जातु चिदण्डजौ ॥ १३ ॥
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ॥ १४ ॥
अथ देवालयस्कन्धे गवाक्षान्तर्गतौ च तौ ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ ॥ १५ ॥
तच्च पारावतद्वन्द्वं श्येनः परिजिघृक्षुकः ॥
अवतीर्याम्बरादाशु प्रविष्टोन्यशिवालये ॥ १६ ॥
ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ ॥ १७ ॥
केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् ॥
कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः ॥ १८ ॥
मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् ॥
एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिन्तयन् ॥ १९ ॥
अहो दुर्गबलं प्राज्ञाः शंसन्त्येवेति हेतुतः ॥
दुर्बलोप्याकलयितुं सहसारिर्न शक्यते ॥4.2.76.२० ॥
करिणां तु सहस्रेण वराश्वानां न लक्षतः ॥
तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत् ॥ २१ ॥
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ॥
स्वतन्त्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम् ॥ २२ ॥
इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोङ्गणम् ॥ २३ ॥
अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् ॥
महाबलं दुर्गबला प्राह पारावतं पतिम् ॥ २४ ॥ ॥
कलरव्युवाच ॥ ॥
प्रिय पारावत प्राज्ञ सर्वकामि सुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः ॥ २५ ॥
सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः ॥
पारावतीमुवाचेदं का चिन्तेति तव प्रिये ॥ २६ ॥
॥ पारावत उवाच ॥ ॥
कति नाम न सन्तीह सुभगे व्योमचारिणः ॥
कति देवालयेष्वेषु खगा नोपविशन्ति हि ॥ २७ ॥
कति चैव न पश्यन्ति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ॥ २८ ॥
रमस्व त्वं मया सार्धं त्यज चिन्तामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि ॥ २९ ॥
इत्थं पारावतवचः श्रुत्वा पारावती ततः ॥
मौनमालम्ब्य सन्तस्थे पत्युः पादार्पितेक्षणा ॥ 4.2.76.३० ॥
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया ॥
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ॥ ३१ ॥
अन्येद्युरप्यथायातः श्येनो पश्यत्स दम्पती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ॥ ३२ ॥
अथ मण्डलगत्या स प्रासादं परितो भ्रमन् ॥
निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः ॥ ३३ ॥
गतेऽथ नभसि श्येने पुनः पारावताङ्गना ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ॥ ३४ ॥
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ॥ ३५ ॥
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न ता गतीर्वेत्ति या वेदाहं नभोङ्गणे ॥ ३६ ॥
प्रडीनोड्डीन सण्डीन काण्डव्याडकपाटिकाः ॥।
स्रंसनी मण्डलवती गतयोष्टावुदाहृताः ॥ ३७ ॥
यथैतास्विह कौशल्यं मयि पारावति प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथाम्बरे ॥ ३८ ॥
सुखेन तिष्ठ का चिन्ता मयि जीवति ते प्रिये ॥
इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती ॥ ३९ ॥
अपरेद्युरपि श्येनस्तत्र भारशिलातले ॥
कियदन्तरमासाद्योपविष्टोऽतिप्रहृष्टवत् ॥4.2.76.४०॥
आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च ॥
पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः ॥४१॥
प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् ॥
असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत् ॥ ४२ ॥
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ॥
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ॥ ४३ ॥
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ॥
तयोरभिमुखं तत्र स्थितो याम द्वयावधि ॥४४॥
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्॥
गतेथ शकुनौ तस्मिन्सा बभाषे विहङ्गमी॥ ॥४५॥
नाथ स्थानान्तरं यावो मृत्युर्नौ निकटोत्र यत् ॥
पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय ॥४६॥
प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा ॥
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्॥ ४७ ॥
सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् ॥
स पङ्गुर्नाशमाप्नोति कूलस्थित इव द्रुमः ॥ ४८ ॥
प्रियोदितं निशम्येति स भवित्री दशार्दितः ॥
सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः ॥ ४९ ॥
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि ॥
तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः ॥ 4.2.76.५० ॥
अस्ताचलस्य शिखरं याते भानौ गते खगे ॥
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ॥ ५१ ॥
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः ॥
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते ॥ ५२ ॥
त्वयि जीवति दुष्प्राप्यं न किञ्चिज्जगतीतले ॥
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ॥ ॥ ५३ ॥
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि ॥
तदा सर्वं हरिश्चन्द्रभूपेनेवेह लभ्यते ॥ ५४ ॥
अयमात्मा प्रियो बन्धुरयमात्मा महद्धनम् ॥
धमार्थकाममोक्षाणामयमात्मार्जकः परः ॥ ५५ ॥
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये ॥
सोपि क्षेमः सुमतिना यशसा सह वाञ्छ्यते ॥ ९६ ॥
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् ॥
तद्यशः प्राप्यते पुम्भिर्नीतिमार्गप्रवर्तने ॥ ५७ ॥
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज ॥
न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि ॥ ५८ ॥
इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः ॥ ५९ ॥
अथोषसि समागत्य श्येनेन बलिना तदा ॥
तन्निर्गमाध्वा संरुद्धः किञ्चिद्भक्ष्यवता मुने ॥ 4.2.76.६० ॥
दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः ॥
पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम् ॥ ६१ ॥
किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्॥ ६२ ॥
द्वौ भवन्तावहं चैकश्चलौ जयपराजयौ !।
स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा ॥ ६३ ॥
पुरुपार्थं समालम्ब्य ये यतन्ते महाधियः ॥
विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः ॥ ६४ ॥
इत्थं स श्येनसम्प्रोक्तः पत्न्याप्युत्साहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ॥ ६५ ॥
क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चञ्च्वा सापि धृता खगी॥ ६६ ॥
तावादायोड्डयाञ्चक्रे श्येनो व्योमनि सत्वरम् ॥
चिन्तयद्भक्षणस्थानमन्यपक्षिविवर्जितम् ॥ ६७ ॥
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ॥
वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः ॥ ६८ ॥
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबलायतः ॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ॥ ६५ ॥
तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि ॥ 4.2.76.७० ॥
यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यैवमरेः पादं दृढं दश ॥।७१॥।
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ॥ ७२ ॥
तेन चीत्करणेनाथ मुक्ता सा मुखसम्पुटात्॥
पादाङ्गुलि श्लथत्वेन सोपि पारावतोऽपतत्॥ ७३ ॥
विपद्यपि च न प्राज्ञैः सन्त्या ज्यः क्वचिदुद्यमः ॥
क्व चञ्चुपुटस्तस्य क्व च तत्पादपीडनम् ॥७४॥
क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् ॥
दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत् ॥ ॥ ७५ ॥
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसन्त्युद्यमं चातो विपद्यपि मनीषिणः ॥ ७६ ॥
अथ तौ कालयोगेन विपन्नौ सरयूतटे ॥
मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत् ॥ ७७ ॥
मृतानां यत्र जन्तूनां काशीप्राप्तिर्भवेद्ध्रुवम् ॥
मन्दारदामतनयो नाम्ना परिमलालयः ॥ ७८ ॥
अनेकविद्यानिलयः कलाकौशलभाजनम्॥
कौमारं वय आसाद्य शिवभक्तिपरोभवत् ॥ ७९ ॥
नियमं चातिजग्राह विजितेन्द्रियमानसः ॥
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्॥ 4.2.76.८० ॥
परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् ॥
हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः ॥ ८१ ॥
अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मान्तराभ्यासात्त्रिलोचनसमाश्रयात् ॥ ८२ ॥
समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् ॥
समस्तकामजनकं परानन्दैककारणम् ॥ ॥ ८३ ॥
यावच्छरीरमरुजं यावन्नेन्द्रियविप्लवः ॥
तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि ॥८४॥
इत्थं मान्दारदामिः स नित्यं परिमलालयः ॥
काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान् ॥ ८५ ॥
पारावत्यपि सा जाता रत्नदीपस्य मन्दिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च ॥ ८६ ॥
समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा ॥ ८७ ॥
तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे उभे ॥ ८८॥
स्वदेहादनपायिन्यौ छायाकान्ती यथा तया ॥
ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव ॥ ८९ ॥
सा तु बाल्ये व्यतिक्रान्ते किञ्चिदुद्रिन्नयौवना ॥
शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत् ॥ 4.2.76.९० ॥
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ॥ ॥ ९१ ॥
एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत् ॥ ९२ ॥
दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगन्धिभिः ॥
सुविचित्राणि माल्यानि परिगुम्फ्यार्चयेद्विभुम् ॥ ९३ ॥
तिस्रोपि गीतं गायन्ति लसद्गान्धारसुन्दरम् ॥
रासमण्डलभेदेन लास्यं तिस्रोपि कुर्वते ॥ ९४ ॥
वीणावेणुमृदङ्गांश्च लयतालविचक्षणाः ॥
वादयन्ति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ ॥९५॥
इत्थमाराधयन्तीशं तिस्रो नागकुमारिकाः ॥
विचित्रगन्धमालाभिः सम्मार्जनविलेपनैः ॥ ९६ ॥
एकदा माधवे मासि तृतीयायामुपोषिताः ॥
रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः ॥ ९७ ॥
प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रङ्गमण्डपे ॥ ९८ ॥
सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः ॥
शुद्धकर्पूरगौराङ्गो जटामुकुटमण्डलः ॥ ९९ ॥
तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ॥
वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान् ॥।4.2.76.१००॥
तस्मादेव विनिष्क्रम्य लिङ्गात्पन्नगमेखलात् ॥
उवाच च ततो बाला विभुरुत्तिष्ठतेति सः ॥ १ ॥
उत्थाय ता विनिर्मार्ज्य लोचने श्रुतिसङ्गते ॥
अङ्गमोटनवत्यश्च जृम्भाभिः क्वणिताननाः ॥ २ ॥
यावत्पश्यन्ति पुरतः सम्भ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ॥३॥
ववन्दुरथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्ट्वुश्च प्रहृष्टास्याः सन्नकण्ठ्योतिगद्गदम्॥ ॥ ४ ॥
जयशम्भो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयान्धकनिषूदन ॥ ५ ॥
जय जालन्धरहर जय कन्दर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवर्धन ॥ ६ ॥
जय त्रैलोक्यनिलय जय त्रैलोक्यवन्दित ॥
जय भक्तजनाधीन जय प्रमथनायक ॥ ७ ॥
जय त्रिपथगापाथः प्रक्षालितजटातट ॥
जय चन्द्रकलाज्योतिर्विद्योतितजगत्त्रय ॥ ८ ॥
जय सर्पफणारत्न प्रभाभासितविग्रह ॥
जयाद्रिराजतनया तपःक्रीतार्धदेहक ॥ ९ ॥
जय श्मशाननिलय जय वाराणसीप्रिय ॥
जयानन्दवनाध्यासि प्राणिनिर्वाणदायक ॥ 4.2.76.११० ॥
जय विश्वपते शर्व शर्वरीपरिवर्जित ॥
जय नृत्यप्रियेशोग्र जय गीतविशारद ॥ ११ ॥
जय प्रणवसद्वास जय धाम महानिधे ॥
जय शूलिन्विरूपाक्ष जय प्रणतसर्वद ॥ १२ ॥
विधिः सर्वविधिज्ञोपि न त्वां स्तोतुं विचक्षणः ॥
वाचो वाचस्पतेर्नाथ त्वत्स्तुतौ परिकुण्ठिताः ॥ १३ ॥
विदन्ति वेदाः सर्वज्ञ न त्वां नाथ यथार्थतः ॥
मनतीह मनो न त्वामनन्तं चादिवर्जितम् ॥ १४ ॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोस्तु ते ॥ १५ ॥
इत्युक्त्वा दण्डवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ॥ १६॥
सुतो मन्दारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति ॥ १७ ॥
चिरं विद्याधरे लोके भोगान्भुक्त्वा समन्ततः ॥
ततो निर्वेदमापन्नाः काशीसिद्धिमवाप्स्यथ ॥ ॥ १८ ॥
यूयं तिस्रोपि मे भक्ताः स च विद्याधरो युवा ॥
चत्वारोप्येत एवात्र प्रतिमोक्षमवाप्स्यथ ॥ १९ ॥
जन्मान्तरेपि मे सेवा भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ॥ 4.2.76.१२० ॥
एतच्च भवती स्तोत्रं यः पठिष्यति मे पुरः ॥
तस्य कामं प्रदास्यामि भवतीनामिव स्फुटम् ॥ २१ ॥
त्यजेत्क्षपाकृतं पापं शुचिः प्रातः पठन्नरः ॥
दिवाकृतमलं हन्ति सायं पठनतः स्फुटम् ॥२२॥
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसम्पुटाः ॥ ॥ २३ ॥
नागकन्या ऊचुः ॥ ॥
पृच्छामो ब्रूहि नो नाथ करुणाकर शङ्कर ॥
जन्मान्तरे कथं सेवा चतुर्भिर्भवतः कृता ॥ २४ ॥
भवप्राग्भव वृत्तान्तं तस्यापि सुकृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ॥२५॥
इति श्रुत्वा प्रणयतो बालोदीरितमीशिता ॥
प्रोवाच तासां तस्यापि भवान्तरविचेष्टितम् ॥ ॥ २६ ॥
॥ ईश्वर उवाव ॥ ॥
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवे भवतीनां च तस्यापि कथयाम्यहम् ॥ ९७ ॥
एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोभवत् ॥ २८ ॥
प्रासादेत्र ममैताभ्यामुषितं सुचिरं सुखम्॥
रजःप्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ॥ २९ ॥
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः ॥
व्योम्ना सञ्चरमाणाभ्यां सञ्चरद्भ्यां ममाजिरे ॥ 4.2.76.१३० ॥
स्नातं चतुर्नदे तीर्थे पीतं तत्राम्बु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृतः कलरवो मुदे ॥ ३१ ॥
एताभ्यां स्थिरचेतोभ्यां मुदिताभ्यामतीव हि ॥
दृष्टानि कौतुकान्यत्र मम भक्तैः कृतानि वै ॥३२॥
अमूभ्यां बहुशो दृष्टा मम मङ्गलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ॥ ३३ ॥
तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ॥
मृतं पुर्यामयोध्यायां काशीप्राप्तिकृति ध्रुवम् ॥ ३४ ॥
अयोध्यानिधनादेषा रत्नदीपसुताभवत् ॥
पतिः पारावतोऽस्याः स जातो विद्याधराङ्गजः ॥३५॥
एषा प्रभावती नागी नागराजस्य पद्मिनः ॥
इह जन्मनि कन्यासीत्पूर्वं जन्म ब्रवीमि वः ॥३६॥
त्रिशिखस्योरगेन्द्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तान्तं निशामयत वच्म्यहम्॥ ३७ ॥
भवान्तरे तृतीयेऽतः कन्ये चारायणस्य ह ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ॥३८॥
पित्रा चारायणेनापि ताभ्यां सम्प्रेरितेन ते ॥
आमुष्यायण पुत्राय दत्ते नारायणाय हि ॥३९॥
अप्राप्तयौवनः सोथ समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दन्दशूकेन कानने ॥4.2.76.१४०॥
भवानीगौतमी नाम्न्यो ते तु चारायणाङ्गजे ॥
वैधव्य दुःखमापन्ने दैन्यग्रस्ते बभूवतुः ॥ ४१ ॥
अतएव प्रयत्नेन परिणेता विवर्जयेत् ॥
देवतासरिदाह्वानां कन्या पाणिग्रहे सुधीः ॥ ४२ ॥
अथर्षेः कस्यचिद्दैवादाश्रमे परमाद्भुते ॥
रम्भाफलान्यदत्तानि मोहाज्जगृहतुस्तदा ॥४३॥
कृत्वा मासोपवासादि व्रतानि ब्राह्मणाङ्गजे ॥
अवाप्य निधनं कालाच्छाखामृग्यौ बभूवतुः ॥ ४४ ॥
फलचौर्यविपाकेन वानरीत्वं तयोरभूत् ॥
शीलरक्षणधर्मेण काश्यां जनिमवापतुः ॥४५॥
स च नारायणो विप्रः पितृशुश्रूषणव्रतः॥
दष्टोपि दन्दशूकेन काश्यां पारावतोभवत् ॥ ४६ ॥
एवं भवान्तरेचासीदेतयोः पतिरेष कः ॥
तिसृणां भवतीनां च भावी भर्ताधुनापि हि ॥ ४७ ॥
प्रासादस्यास्य पार्श्वे तु न्यग्रोधस्तु महानभूत् ॥
तस्मिञ्शाखिनि शाखाढ्ये शाखामृग्यौ बभूवतुः ॥ ४८ ॥
चतुःस्रोतस्विनी तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थं तृषातुरे ॥ ४९ ॥
जातिस्वभावचापल्यात्क्रीडन्त्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिङ्गं ददृशतुर्बहु ॥ 4.2.76.१५० ॥
विचरन्त्याविति स्वैरं तत्र न्यग्रोध सन्निधौ ॥
केनचिद्योगिवेषेण पाशेन च नियन्त्रिते ॥ ५१ ॥
भिक्षार्थं शिक्षिते तेन तदुत्प्लुत्यादि नर्तनम्॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशङ्गते॥ ॥ ५२ ॥
काशीवासज पुण्येन त्रैलोचन्यानुसेवया ॥
प्रादक्षिण्यादिरूपिण्या जाते नागसुते इति ॥५३॥
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्च काश्यां निर्वृतिमेष्यथ ॥ ५४ ॥
यदल्पमपि वै काश्यां कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ॥५५॥
त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी ॥
ततोपि लिङ्गमोङ्कारं ततोप्यत्र त्रिलोचनम् ॥५६॥
तिष्ठमानोत्र लिङ्गेहं भक्तमुक्तिं दिशाम्यहम् ॥
ततः सर्वप्रयत्नेन काश्यां पूज्यस्त्रिलोचनः ॥ ५७ ॥
इत्युक्त्वा देवदेवेशस्तत्प्रासादान्तरं विशत् ॥
अवाच्यरूपमासाद्य स्थूलं त्रिभुवनादपि ॥ ५८ ॥
ताश्च स्वं स्वं पदं प्राप्य तद्वृत्तान्तमशेषतः ॥
स्वमातृपुरतश्चोक्त्वा कृतकृत्या इवाभवन्॥५९॥
एकदा माधवे मासि महायात्रा समागता ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ॥4.2.76.१६०॥
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलीम् ॥६१॥
विद्याधराय ता नागैः कन्यास्तिस्रोपि कल्पिताः ॥
मन्दारदामा सन्तुष्टः प्राप्य तच्च स्नुषात्रयम्॥ ६२ ॥
रत्नदीपश्च नागेन्द्रः पद्मी च भुजगेश्वरः ॥
त्रिशिखोपि फणीन्द्रश्च हृष्टा एते त्रयोपि च ॥ ६३ ॥
जामातरं समासाद्य शुभं परिमलालयम् ॥
अन्योन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ॥ ६४ ॥
विवाहोत्सव माकल्प्य स्वं स्वं भुवनमाविशन् ॥
त्रिलोचनस्य लिङ्गस्य वर्णयन्तोतिगौरवम् ॥ ६५ ॥
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वा वाराणसीं प्राप्य संसेव्याथ त्रिलोचनम् ॥ ६६ ॥
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिसंस्मृत्य मध्ये लिङ्गं लयं गतः ॥ ६७ ॥
॥ स्कन्द उवाच ॥ ॥
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
अतोल्पसत्त्वा मनुजा न तल्लिङ्गमुपासते ॥ ६८ ॥
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो ॥
विपाप्मा जायते मर्त्यो लभते च परां गतिम् ॥ १६९ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे त्रिलोचनप्रभावोनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥