॥ अगस्त्य उवाच ॥ ॥
श्रुत्वोङ्कारकथामेतां महापातकनाशिनीम् ॥
न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम् ॥ १ ॥
कथं च कथिता देव्यै देवदेवेन षण्मुख ॥
आविर्भूतिर्महाबुद्धे पुण्या त्रैलोचनी परा ॥ २ ॥
स्कन्द उवाच ॥ ॥
आकर्णय मुने वच्मि कथां श्रमनिवारिणीम् ॥
यथा देवेन कथितां त्रिविष्टपसमुद्भवाम् ॥ ३ ॥
विरजाख्यं हि तत्पीठं तत्र लिङ्गं त्रिविष्टपम् ॥
तत्पीठदर्शनादेव विरजा जायते नरः ॥ ४ ॥
तिस्रस्तु सङ्गतास्तत्र स्रोतस्विन्यो घटोद्भव ॥
तिस्रः कल्मषहारिण्यो दक्षिणे हि त्रिलोचनात् ॥ ५ ॥
स्रोतोमूर्तिधराः साक्षाल्लिङ्गस्नपनहेतवे ॥
सरस्वत्यथ कालिन्दी नर्मदा चातिशर्मदा ॥ ६ ॥
तिस्रोपि हि त्रिसन्ध्यं ताः सरितः कुम्भपाणयः ॥
स्नपयन्ति महाधाम लिङ्गं त्रैविष्टपं महत् ॥ ७ ॥
लिङ्गानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि ॥
तेषां सन्दर्शनात्पुंसां तासां स्नानफलं भवेत् ॥ ८ ॥
सरस्वतीश्वरं लिङ्गं दक्षिणेन त्रिविष्टपात् ॥
सारस्वतं पदं दद्याद्दृष्टं स्पृष्टं च जाड्यहृत् ॥ ९ ॥
यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् ॥
अपि किल्बिषवद्भिश्च यमलोकनिवारणम् ॥ 4.2.75.१०॥।
दृष्टं त्रिलोचनात्प्राच्यां नर्मदेशं सुशर्मदम् ॥
तल्लिङ्गार्चनतो नृणां गर्भवासो निषिध्यते ॥ ११ ॥
स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः ॥
दृष्ट्वा त्रिलोचनं लिङ्गं किं भूयः परिशोचति ॥ १२ ॥
त्रिविष्टपस्य लिङ्गस्य स्मरणादपि मानवः ॥
त्रिविष्टप पतिर्भूयान्नात्र कार्या विचारणा ॥ १३ ॥
त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः ॥
कृतकृत्यास्त एवात्र त एवात्र महाधियः ॥ १४ ॥
आनन्दकानने लिङ्गं प्रणतं यैस्त्रिविष्टपम् ॥
त्रिलोचनस्य नामापि यैः श्रुतं शुद्धबुद्धिभिः ॥ १५ ॥
सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः ॥
पृथिव्यां यानि लिङ्गानि तेषु दृष्टेषु यत्फलम् ॥ १६ ॥
तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम् ॥
काश्यां त्रिविष्टपे दृष्टे दृष्टं सर्वं त्रिविष्टपम् ॥ १७ ॥
क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत ॥
स स्नातः सर्वतीर्थेषु सर्वावभृथवान्स च ॥ १८ ॥
यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहाम्भसि ॥
सरित्त्रयं महापुण्यं यत्र साक्षाद्वसेत्सदा ॥ १९ ॥
तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति ॥
स्नात्वा पिलिपिला तीर्थे कृत्वा वै पिण्डपातनम् ॥ 4.2.75.२० ॥
दृष्ट्वा त्रिविष्टपं लिङ्गं कोटितीर्थफलं लभेत् ॥
यदन्यत्रार्जितं पापं तत्काशी दर्शनाद्व्रजेत् ॥ २१ ॥
काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ॥
प्रमादात्पातकं कृत्वा शम्भोरानन्दकानने ॥ २२॥
दृष्ट्वा त्रिविष्टपं लिङ्गं तत्पापमपि हास्यति ॥
सर्वस्मिन्नपि भूपृष्ठे श्रेष्ठमानन्दकाननम् ॥ २३ ॥
तत्रापि सर्वतीर्थानि ततोप्योङ्कारभूमिका ॥
ओङ्कारादपि सल्लिङ्गान्मोक्षवर्त्म प्रकाशकात् ॥ २४ ॥
अतिश्रेष्ठतरं लिङ्गं श्रेयोरूपं त्रिलोचनम् ॥ २५ ॥
तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी ॥
तथा लिङ्गेषु सर्वेषु परं लिङ्गं त्रिलोचनम् ॥ २६ ॥
त्रिलोचनार्चकानां सा पदवी न दवीयसी ॥
परं निर्वाणपद्माया महासौख्यैकशेवधेः ॥२७॥
सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते ॥
न तदा जन्मसम्पूञ्ज्य लिङ्गान्यन्यानि लभ्यते ॥२८॥
काश्यां त्रिलोचनं लिङ्गं येर्चयन्ति महाधियः ॥
तेर्च्यास्त्रिभुवनौकोभिर्ममप्रीतिमभीप्सुभिः ॥ २९ ॥
कृत्वापि सर्वसन्न्यासं कृत्वा पाशुपतव्रतम् ॥
नियमेभ्यः स्खलित्वापि कुतो बिभ्यति मानवाः ॥ 4.2.75.३० ॥
विद्यमाने महालिङ्गे महापापौघहारिणि॥
त्रिविष्टपे पुण्यराशौ मोक्षनिक्षेपसद्मनि ॥३१॥
समभ्यर्च्य महालिङ्गं सकृदेव त्रिलोचनम् ॥ऽ
मुच्यते कलुषैः सर्वैरपिजन्मशतार्जितैः॥। ३२ ॥
ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः ॥
तत्संयोग्यपि वा वर्षं महापापी प्रकीर्तितः ॥ ३३ ॥
परदाररतश्चापि परहिंसा रतोपि वा ॥
परापवादशीलोपि तथा विस्रम्भघातकः ॥ ३४ ।
कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा ॥
मातापितृगुरुत्यागी वह्निदो गरदोपि वा ॥ ३५ ॥
गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च ॥
क्रूरो वा पिशुनो वापि निजधर्मपराङ्मुखः ॥ ३६॥
निन्दको नास्तिको वापि कूटसाक्ष्यप्रवादकः॥
अभक्ष्यभक्षको वापि तथाऽविक्रेय विक्रयी ॥ ३७ ॥
इत्यादि पापशीलोपि मुक्त्वैकं शिवनिन्दकम ॥
पापान्निष्कृतिमाप्नोति नत्वा लिङ्गं त्रिलोचनम् ॥ ३८ ॥
शिवनिन्दारतो मूढः शिवशास्त्रविनिन्दकः ॥
तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेपि केनचित् ॥ ३९ ॥
आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः ॥
शिवनिन्दां विधत्ते यः स नाभाष्योऽधमाधमः॥ 4.2.75.४०॥
शिवनिन्दारता ये च शिवभक्तजनेष्वपि॥
ते यान्ति नरके घोरे यावच्चन्द्रदिवाकरौ॥४१॥
शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः॥
तेष्वर्चितेष्वपि शिवः प्रीतो भवत्यसंशयः ॥ ४२ ॥
सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया ॥
निःशङ्कैरेव वक्तव्यं प्रमाणज्ञैरिदं वचः ॥ ४३ ॥
पुरश्चरणकामश्चेद्भीतोसि यदि पापतः ॥
मन्यसे यदि नः सत्यं वाक्यशास्त्रप्रमाणतः ॥ ४४ ॥
ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम् ॥
आनन्दकाननं याहि यत्र विश्वेश्वरः स्वयम् ॥ ४५ ॥
यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम् ॥
न बाधतेऽघनिचयः प्राप्येत च परोवृषः ॥ ४६ ॥
तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले ॥
पुण्ये पिलिपिलानाम्नि त्रिसरित्परिसेविते ॥ ४७ ॥
त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि ॥
स्नात्वा गृह्योक्तविधिना तर्पणीयान्प्रतर्प्य च ॥ ४८ ॥
दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः ॥
दृष्ट्वा त्रिविष्टपं लिङ्गं समभ्यर्च्यातिभक्तितः ॥ ४९ ॥
गन्धाद्यैर्विविधैर्माल्यैः पञ्चामृतपुरःसरैः ॥
धूपैर्दीपैः सनैवेद्यैर्वासोभिर्बहुभूषणैः ॥ 4.2.75.५० ॥
पूजोपकरणैर्द्रव्यैर्घण्टादर्पणचामरैः ॥
चित्रध्वजपताकाभिर्नृत्यवाद्यसुगायनैः ॥ ५१ ॥
जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः ॥
परिचारकसन्तोषैः कृत्वेति परिपूजनम् ॥ ५२ ॥
ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन् ॥
एवं कुर्वन्नरः प्राज्ञो निरेना जायते क्षणात् ॥ ५३ ॥
ततः पञ्चनदे स्नात्वा मणिकर्णी ह्रदे ततः ॥
ततो विश्वेशमभ्यर्च्य प्राप्नोति सुकृतं महत् ॥५४ ॥
प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम् ॥
नास्तिके न प्रवक्तव्यं काशीमाहात्म्य निन्दके ॥ ५५ ॥
ददच्च द्रव्यलोभेन प्रायश्चित्तमिदं शुभम्॥
दाता नरकमाप्नोति सत्यंसत्यं घटोद्भव ॥ ५५ ॥
क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते ॥
प्रदोषे तत्फलं काश्यां सप्तकृत्वस्त्रिलोचने ॥ ५७ ॥
भुजङ्गमेखलं लिङ्गं काश्यां दृष्ट्वा त्रिविष्टपम् ॥
जन्मान्तरेपि मुक्तः स्यादन्यत्र मरणे सति ॥ ५८ ॥
अन्यत्र सर्वलिङ्गेषु पुण्यकालो विशिष्यते ॥
त्रिविष्टपे पुण्यकालः सदा रात्रिदिवं नृणाम् ॥ ५९ ॥
लिङ्गान्योङ्कारमुख्यानि सर्वपापप्रकृन्त्यलम् ॥
परं त्रैलोचनी शक्तिः काचिदन्यैव पार्वति ॥ 4.2.75.६० ॥
यतः सर्वेषु लिङ्गेषु लिङ्गमेतदनुत्तमम् ॥
तत्कारणं शृण्व पर्णे कर्णे कुरु वदाम्यहम् ॥ ६१ ॥
पुरा मे योगयुक्तस्य लिङ्गमेतद्भुवस्तलात् ॥
उद्भिद्य सप्तपातालं निरगात्पुरतो महत् ॥ ६२ ॥
अस्मिल्ँलिगे पुरा गौरि सुगुप्तं तिष्ठता मया ॥
तुभ्यं नेत्रत्रयं दत्तं निरैक्षिष्ठास्तथोत्तमम् ॥ ६३ ॥
तदा प्रभृति देवेशि लिङ्गमेतत्त्रिलोचनम ॥
विष्टपत्रितयान्तस्थैर्गीयते ज्ञानदृष्टिदम् ॥ ५४ ॥
त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः ॥
मम पारिषदास्ते तु जीवन्मुक्ताऽस्त एव हि ॥ ६५ ॥
त्रिलोचनस्य लिङ्गस्य महिमानं न कश्चन ॥
सम्यग्वेत्ति महेशानि मयैव परिगोपितम् ॥६६॥
शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे ॥
उपोषणपरा भक्त्या रात्रौ जागरणान्विताः ॥६७॥
त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै ॥
पुनर्लिङ्गं समभ्यर्च्य दत्त्वा धर्मघटानपि ॥ ६८ ॥
सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः ॥
विधाय पारणं पश्चाच्छिवभक्तजनैः सह ॥ ६९ ॥
विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः ॥
भवन्ति देवि नियतं गणा मम पुरोगमाः ॥ 4.2.75.७० ॥
तावद्धमन्ति संसारे देवा मर्त्या महोरगाः ॥
गौरि यावन्न पश्यन्ति काश्यां लिङ्गं त्रिलोचनम् ॥७१॥
सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे ॥
न जातुः मातुस्तनपो जायते जन्तुरत्र हि ॥७२॥
प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि ॥
आयान्ति सर्वतीर्थानि द्रष्टुं देवं त्रिविष्टपम् ॥७३॥
त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि ॥
तत्र सन्ध्यामुपास्यैकां राजसूयफलं लभेत् ॥ ७४ ॥
पादोदकाख्यस्तत्रैव कूपः पापविनाशकः ॥
प्राश्य तस्योदकं मर्त्यो न मर्त्यो जायते पुनः ॥७५ ॥
तस्य लिङ्गस्य पार्श्वे तु सन्ति लिङ्गान्यनेकशः ॥
कैवल्यदानि तान्यत्र दर्शनात्स्पर्शनादपि॥७६॥
तत्र शान्तनवं लिङ्गं गङ्गातीरे प्रतिष्ठितम् ॥
तद्दृष्ट्वा शान्तिमाप्नोति नरः संसारतापितः ॥७७॥
तद्दक्षिणे महालिङ्गं मुने भीष्मेश सञ्ज्ञितम् ॥
कलिः कालश्च कामश्च बाधन्ते न तदीक्षणात् ॥ ७८ ॥
तत्प्रतीच्यां महालिङ्गं द्रोणेश इति कीर्तितम् ॥
यल्लिङ्गपूजनाद्द्रोणो ज्योतीरूपं पुनर्दधौ ॥ ७९ ॥
अश्वत्थामेश्वरं लिङ्गं तदग्रे चातिपुण्यदम् ॥
यदर्चनवशाद्द्रौणिर्न बिभेत्यपि कालतः ॥ 4.2.75.८० ॥
द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम् ॥
तल्लिङ्गं श्रद्धया दृष्ट्वा सर्वक्रतुफलं लभेत् ॥ ८१ ॥
तद्वामे लिङ्गमालोक्य वाल्मीकेश्वरसञ्ज्ञितम् ॥
तस्य सन्दर्शनादेव विशोको जायते नरः ॥ ८२ ॥
अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव ॥
त्रिविष्टपस्य माहात्म्यं देव्यै देवेन भाषितम् ॥ ८३ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥