०७४ ओङ्कारमाहात्म्यम्

॥ स्कन्द उवाच ॥ ॥
शृणु वातापि संहर्तः काश्यां पातकतङ्किनी ॥
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः ॥१॥
भारद्वाजस्य तनयो दमनो नाम नामतः ॥
कृतमौञ्जीविधिः सोथ विद्याजातं प्रगृह्य च ॥ २ ॥
संसारदुःखबहुलं जीवितं चापि चञ्चलम् ॥
विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात् ॥ ३ ॥
काञ्चिद्दिशं समालम्ब्य निर्वेदं परमं गतः ॥
प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम् ॥ ४ ॥
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः ॥
यावन्त्यायतनानीह तिष्ठन्ति परितो भुवम् ॥५॥
अध्युवास स तावन्ति संयतेन्द्रियमानसः ॥
परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै ॥ ६ ॥
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः ॥
कदाचिद्दैवयोगात्स दमनो नाम तापसः ॥७॥
रेवातटे निरैक्षिष्ट तीर्थं चामरकण्टकम् ॥
महदायतनं पुण्यमोङ्कारस्यापि तत्र वै ॥८॥
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह ॥
अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान् ॥ ९ ॥
विभूतिभूषिततनून्कृतलिङ्गसमर्चनान् ॥
विहितप्राणयात्रांश्च कृतागमविचारणान् ॥ 4.2.74.१० ॥
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् ॥
प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ ॥ ११ ॥
प्रबद्धहस्तयुगलः प्रणमतरकन्धरः ॥
अथ पाशुपताचार्यो गर्गो नाम महामुनिः ॥ १२ ॥
वार्धकेन समाक्रान्तस्तपसा कृशविग्रहः ॥
शम्भोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु ॥१३॥
पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः ॥
तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम ॥।१४॥।
इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् ॥
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय ॥ १५ ॥
कथयामि यथार्थं ते निजचेतोविचेष्टितम् ॥
अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः ॥ १६ ॥
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् ॥
अनेनैव शरीरेण महासिद्धिमभीप्सता ॥१७॥
स्नातं बहुषु तीर्थेषु मन्त्रा जप्तास्तु कोटिशः ॥
देवताः सेविता बह्व्यो हवनं च कृतं बहु ॥ १८ ॥
शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् ॥
महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः ॥ १९ ॥
शिखराणि गिरीन्द्राणां मया चाध्युषितान्यहो ॥
दिव्यौषधि सहस्राणि मया संसाधितान्यपि ॥4.2.74.२०॥
रसायनानि बहुशः सेवितानि मया पुनः ॥
महासाहसमालम्ब्य सिद्धाध्युषितकन्दराः ॥ २१ ॥
मया प्रविष्टा बहुशः कृतान्तवदनोपमाः ॥
तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः ॥ २२ ॥
परं किञ्चित्क्वचिन्नैक्षि सिद्ध्यङ्कुरमपि प्रभो ॥
इदानीं त्वामनुप्राप्य महीं पर्यटता मया ॥ २३ ॥
मनसः स्थैर्यमापन्नमिव सम्प्राप्तसिद्धिना ॥
अवश्यं त्वन्मुखाम्भोजाद्यद्वचो निःसरिष्यति ॥ ॥ २४ ॥
तेनैव महती सिद्धिर्भवित्री मम नान्यथा ॥
तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम ॥ २५ ॥
अनेनैव शरीरेण पार्थिवेन प्रथीयसी ॥
दमनस्य निशम्येति गर्गाचार्यो वचस्तदा ॥ २६ ॥
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् ॥
सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् ॥
मुमुक्षूणां धृतवतां महापाशुपतं व्रतम् ॥२७॥
॥ गर्ग उवाच ॥ ॥
अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः ॥
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम् ॥२८॥
अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् ॥
धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे ॥ २९ ॥
समाश्रितानां जन्तूनां सर्वेषां सर्वकर्मणाम् ॥
शलभानां प्रदीपाभे तमःस्तोम महाद्विपि ॥ 4.2.74.३० ॥
कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि ॥
निर्वाणलक्ष्मी क्षीराब्धौ सुखसङ्केतसद्मनि ॥ ३१ ॥
दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि ॥
यातायातश्रमापन्नप्राणिमार्गमहीरुहि ॥ ३२ ॥
अनेकजन्मजनित महापापाद्रिवज्रिणि ॥
नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि ॥ ३३ ॥
विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः ॥
स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले ॥ ३४ ॥
एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि ॥
प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते ॥ ३५ ॥
यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् ॥
तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः ॥ ३६ ॥
तीर्थानि यानि लोकेस्मिञ्जन्तूनामघहान्यहो ॥
तानि सर्वाणि शुद्ध्यर्थं काशीमायान्ति नित्यशः ॥ ३७ ॥
अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी ॥
स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः ॥ ३८ ॥
रागबीजसमुद्भूतः संसारविटपो महान् ॥
दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते ॥ ३९ ॥
सर्वेषामूषराणां तु काशी परम ऊषरः ॥
वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति ॥ 4.2.74.४० ॥
स्मरिष्यन्तीह ये काशीमवश्यं तेपि साधवः ॥
तेप्यघौघ विनिर्मुक्ता यास्यन्ति गतिमुत्तमाम् ॥ ४१ ॥
विभूतिः सर्वलोकानां सत्यादीनां सुभङ्गुरा ॥
अभङ्गुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया ॥ ४२ ॥
कृमिकीटपतङ्गानामविमुक्ते तनुत्यजाम् ॥
विभूतिर्दृश्यते या सा क्वास्ति ब्रह्माण्डमण्डले ॥ ४३ ॥
वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् ॥
स उपायो विधातव्यो येन नो निष्क्रमो बहिः ॥ ४४ ॥
पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः ॥
पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे ॥४५॥
इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् ॥
मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम् ॥४६॥
क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् ॥
तत्र श्राद्धप्रदातुश्च मुच्यन्ते प्रपितामहाः ॥ ४७ ॥
अविमुक्त समं क्षेत्रमपि ब्रह्माण्डगोलके ॥
न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम् ॥४८॥
रक्षन्ति सततं क्षेत्रं यत्र पाशासिपाणयः ॥
महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः ॥ ४९ ॥
प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः ॥
रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः ॥ 4.2.74.५० ॥
तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः ॥
गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः ॥ ५१ ॥
उदग्द्वारं तथा रक्षेद्घण्टाकर्णो महागणः ॥
ऐशङ्कोणं छागवक्त्रो भीषणो वह्निदिग्दलम् ॥५२ ॥
रक्षः काष्ठां शङ्कुकर्णो दृमिचण्डो मरुद्दिशम् ॥
इत्थं क्षेत्रं सदा पान्ति गणा एतेऽति भास्वराः ॥८५३॥
कालाक्षोरण भद्रस्तु कौलेयः कालकम्पनः ॥
एते पूर्वेण रक्षन्ति गङ्गापारे स्थिता गणाः ॥ ५४ ॥
वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः ॥
स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः ॥ ५५ ॥
विशालाक्षो महाभीमः कुण्डोदरमहोदरौ ॥
रक्षन्ति पश्चिमद्वारं देहलीदेशसंस्थिताः ॥५६॥
नन्दिसेनश्च पञ्चालः खरपादकरण्टकः ॥
आनन्दोगोपको बभ्रू रक्षन्ति वरणातटे ॥॥ ५७ ॥
तस्मिन्क्षेत्रे महापुण्ये लिङ्गमोङ्कारसञ्ज्ञकम्॥
तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः ॥ ५८ ॥
कपिलश्चैव सावर्णिः श्रीकण्ठः पिगलोंशुमान् ॥
एते पाशुपताः सिद्धास्तल्लिङ्गाराधनेन हि ॥ ५९ ॥
एकदा तस्य लिङ्गस्य कृत्वा पञ्चापिपूजनम् ॥
नृत्यतः सहुडुत्कारं तस्मिल्ँलिङ्गे लयं ययुः ॥ 4.2.74.६० ॥
अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् ॥
निशामय महाबुद्धे दमन द्विजसत्तम ॥ ६१ ॥
एका भेकी मुने तत्र चरन्ती लिङ्ग सन्निधौ ॥
प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी ॥ ६२ ॥
सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् ॥
क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः ॥ ६३ ॥
वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् ॥
विषमेकाकिनं हन्ति थिवस्वं पुत्रपौवकम् ॥ ६४॥
शिवस्य परिपुष्टाङ्गाः स्पर्शनीया न साधुभिः ॥
तेन कर्मविपाकेन ततस्ते रौरवौकसः ॥६५॥
कश्चित्काकः समालोक्य मण्डूकीं तामितस्ततः ॥
पोप्लूयमानामादाय चञ्च्वा क्षेत्राद्बहिर्गतः ॥६६ ॥
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ॥
अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे ॥ ६७ ॥
प्रदक्षिणीकरणतो लिङ्गस्यस्पर्शनादपि॥
पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे ॥ ६८ ॥
शुभावयवसंस्थाना शुभलक्षणलक्षिता ॥
परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात् ॥ ६९ ॥
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ॥
सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः ॥4.2.74.७० ॥
ताना एकोनपञ्चाश ताला एकोत्तरंशतम् ॥
रागाः षडेव तेषां तु पञ्चपञ्चापि चाङ्गनाः॥७१ ॥
षड्विंशद्रागरागिण्य इति रागि मुदावहाः ॥
देशकाल विभेदेन पञ्चषष्टिस्तथा पराः ॥ ७२ ॥
यावन्त एव तालाः स्यु रागास्तावन्त एव हि ॥
इति गीतोपनिषदा प्रत्यहं सा शुभव्रता ॥ ७३ ॥
माधवी मधुरालापा सदोङ्कारं समर्चयेत् ॥
प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता ॥ ७४ ॥
प्राग्जन्मवासनायोगादोङ्कारं बह्वमंस्त वै ॥
स्वभाव चञ्चलं चेतस्तस्यास्तल्लिङ्ग सेवनात् ॥ ७५ ॥
दमनस्थैर्यमगमद्योगेनेव महात्मनः ॥
न दिवा बाधयाञ्चक्रे क्षुत्तृण्निद्रा क्षपा सुताम् ॥ ७६ ॥
अतन्द्रितमना आसीत्सा तल्लिङ्ग निरीक्षणे ॥
अक्ष्णोर्निमेषा यावन्तस्तस्या आसन्दिवानिशम् ॥ ७७ ॥
तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते ॥
निमेषान्तरितः कालो यो यो व्यथोङ्गतो मम ॥
लिङ्गानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत ॥ ७८ ॥
इति सञ्चितयन्त्येव सेवां तत्याज नोङ्कृतेः ॥
जलाभिलाषिणी सा तु लिङ्गनामामृतं पिबेत् ॥ ७९ ॥
नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि ॥
विहाय लिङ्गमोङ्कारं हृद्विहायः स्थितं सताम् ॥ 4.2.74.८० ॥
तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ ॥
अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ ॥ ८१ ॥
नान्यत्र चरणौ तस्याश्चरतः सुखवाञ्छया ॥
त्यक्त्वोङ्काराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया ॥ ८२ ॥
ओङ्कारं प्रणवं सारं परब्रह्मप्रकाशकम् ॥
शब्दब्रह्मत्रयीरूपं नादबिन्दुकलालयम् ॥ ८३ ॥
सदक्षरं चादिरूपं विश्वरूपं परावरम् ॥
वरं वरेण्यं वरदं शाश्वतं शान्तमीश्वरम् ॥ ८४ ॥
सर्वलोकैकजनकं सर्वलोकैकरक्षकम् ॥
सर्वलोकैकसंहर्तृ सर्वलोकैकवन्दितम् ॥ ८५ ॥
आद्यन्तरहितं नित्यं र्शिवं शङ्करमव्ययम् ॥
एकगुणत्रयातीतं भक्तस्वान्तकृतास्पदम् ॥ ८६ ॥
निरुपाधिं निराकारं निर्विकारं निरञ्जनम् ॥
निर्मलं निरहङ्कारं निष्प्रपञ्चं निजोदयम् ॥ ८७ ॥
स्वात्माराममनन्तं च सर्वगं सर्वदर्शिनम् ॥
सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम् ॥८८॥
वागिन्द्रियं तदीयं च प्रोच्चरत्तदहर्निशम् ॥
नामान्तरं न गृह्णाति क्वचिदन्यस्यकस्यचित्॥८९॥
एतन्नामाक्षररसं रसयन्ती दिवानिशम् ॥
रसना नैव जानाति तस्या अन्यद्रसान्तरम् ॥ 4.2.74.९० ॥
सम्मार्जनं रङ्गमालाः प्रासादं परितः सदा ॥
विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम् ॥ ९१ ॥
तत्र पाशुपता ये वै प्रणवेशार्चने रताः ॥
तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः ॥ ९२ ॥
वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी ॥
रात्रौ जागरणं कृत्वा दिवोपवसान्विता ॥ ९३ ॥
यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः ॥
सम्मार्जनादिकं कृत्वा लिङ्गमभ्यर्च्य हर्षतः ॥ ९४ ॥
गायन्ती मधुरं गीतं नृत्यन्ती निजलीलया॥
ध्यायन्ती लिङ्गमोङ्कारं तत्र लिङ्गे लयं ययौ ॥ ९५ ॥
अनेनैव शरीरेण पार्थिवेन महामतिः ॥
अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम् ॥ ९६ ॥
प्रादुर्बभूव यल्लिङ्गाज्ज्योतिर्जटिलिताम्बरम् ॥
तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत् ॥ ९७ ॥
राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः ॥
तत्र यात्रां प्रकुर्वन्ति महोत्सवपुरःसराः ॥ ९८ ॥
तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः ॥
प्राप्नुवन्ति परं ज्ञानं यत्रकुत्रापि वै मृताः ॥ ९९ ॥
ब्रह्माण्डोदर मध्ये तु यानि तीर्थानि सर्वतः ॥
तानि वैशाखभूतायामायान्त्योङ्कृति दर्शने ॥4.2.74.१००॥
लिङ्गाग्रे श्रीमुखी नाम्नी गुहास्ति परमोत्तमा ॥
पातालस्य च तद्द्वारं तत्र सिद्धा वसन्ति हि ॥ १ ॥
तिष्ठेयुः पञ्चरात्रं ये गुहायां तत्र सुव्रताः ॥
ते नागकन्याः पश्यन्ति ब्रूयुस्ताश्च शुभाशुभम् ॥ २ ॥
कन्दरोत्तरदिग्भागे तत्र कूपो रसोदकः ॥
आषण्मासं च तत्पीत्वा पिबेद्ब्रह्मरसायनम् ॥ ३ ॥
तत्र नादेश्वरं लिङ्गं दृष्ट्वा नादनिदानभूः ॥
सर्वनादात्मकं विश्वं तच्छ्रवो गोचरी भवेत् ॥ ४ ॥
तत्र मत्स्योदरीं स्नात्वा स्वर्धुनीं वरुणाप्लुताम् ॥
कृतकृत्यो भवेज्जन्तुर्नैव शोचति कुत्रचित् ॥ ५ ॥
असङ्ख्याता गताः सिद्धिमोङ्कारेश्वरसेवकाः ॥
पार्थिवेनैव देहेन दिव्यभूतेन तत्क्षणात् ॥ ६ ॥
अविमुक्तं परं क्षेत्रं ब्रह्माण्डादपि सर्वतः ॥
ततोपि पर ओङ्कार उक्तो मत्स्योदरी तटे ॥ ७ ॥
प्रणवेशोंऽग यैः काश्यां न नतो नापि चार्चितः ॥
किमर्थं ते समुत्पन्ना मातृतारुण्यहारिणः ॥ ८ ॥
यदा प्रभृति विश्वेशो मन्दरादागतोऽभवत् ॥
तस्मिन्नानन्द गहने तदाप्रभृति सत्तम ॥ ९ ॥
सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ॥
स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः ॥ ॥ 4.2.74.११० ॥
इदानीं मम भाग्येन स्मारितोहं त्वया मुने ॥
अहमप्यागमिष्यामि यामः काशीं शनैः शनैः ॥ ११ ॥
एतेपि मम शिष्या ये महापाशुपतव्रताः ॥
काशीं यियासवस्तेपि यतः सर्वे मुमुक्षवः ॥ १२ ॥
अपि वार्धकमासाद्य यैः काशी नैव शीलिता ॥
मानुषे दुर्लभे नष्टे कुतस्तेषां महासुखम् ॥ १३ ॥
यावन्नेन्द्रिय वैकल्यं यावन्नैवायुषः क्षयः ॥
तावत्सेव्यं प्रयत्नेन शम्भोरानन्दकाननम्॥ १४ ॥
य आनन्दवनं शम्भोः शिश्रियुः श्रीनिकेतनम् ॥
अचलाश्रीर्न मुञ्चेत्तान्महासौख्यैकशेवधीन् ॥ १५ ॥
इत्याख्याय कथां रम्यां गर्गः पाशुपतोत्तमः ॥
भारद्वाजेन सहितः प्राप वाराणसीं पुरीम् ॥ १६ ॥
दमनोपि हि धर्मात्मा गर्गाचार्येण संयुतः ॥
आराध्य श्रीमदोङ्कारं तस्मिल्ँलिङ्गे लयं गतः ॥ १७ ॥
॥ स्कन्द उवाच ॥ ॥
इल्वलारे परं स्थानमोङ्कारमविमुक्तके ॥
तत्र सिद्धिपरां जग्मुः साधका बहुशो मुने ॥ १८ ॥
कलौ कलुषचित्तानां पुरो नाख्येयमेव हि ॥
प्रणवेश्वरमाहात्म्यं नास्तिकानां विशेषतः ॥ १९ ॥
ये निन्दन्ति महादेवं क्षेत्रं निन्दन्ति येऽधियः ॥
पुराणं ये च निन्दन्ति ते सम्भाष्या न कुत्रचित् ॥ 4.2.74.१२० ॥
ओङ्कारसदृशं लिङ्गं न क्वचिज्जगतीतले ॥
इति गौर्यै समाख्यातं देवदेवेन निश्चितम् ॥ १२१ ॥
इममध्यायमाकर्ण्य नरस्तद्गतमानसः ॥
विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात् ॥ १२२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थेकाशीखण्ड उत्तरार्ध ओङ्कारमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥