अगस्त्य उवाच ॥
त्रिलोचनं समासाद्य देवदेवः षडाननः ॥
जगदम्बिकयायुक्तः किं चकाराशु तद्वद ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
मुने कलशजाख्यामि यत्पृष्टं तन्निशामय ॥
विरजःसञ्ज्ञकं पीठं यत्प्रोक्तं सर्वसिद्धिदम् ॥ २ ॥
तत्पीठदर्शनादेव विरजा जायते नरः ॥
यत्रास्ति तन्महालिङ्गं वाराणस्यां त्रिलोचनम् ॥ ३ ॥
तीर्थं पिलिपिलाख्यं तद्द्युनद्यम्भसि विश्रुतम् ॥
सर्वतीर्थमयं तीर्थं तत्काश्यां परिगीयते ॥ ४ ॥
विष्टपत्रितयान्तर्ये देवर्षिमनुजोरगाः ॥
ससरित्पर्वतारण्याः सन्ति ते तत्र यन्मुने ॥ ५ ॥
तदारभ्य च तत्तीर्थं तच्च लिङ्गं त्रिलोचनम् ॥
त्रिविष्टपमिति ख्यातमतोहेतोर्महत्तरम् ॥ ६ ॥
त्रिविष्टपस्य लिङ्गस्य महिमोक्ताः पिनाकिना ॥
जगज्जनन्याः पुरतो यथा वच्मि तथा मुने ॥७॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ शर्व सर्वद सर्वग ॥
सर्वदृक्सर्वजनक किञ्चित्पृच्छामि तद्वद ॥ ॥८॥
इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम् ॥
नैःश्रेयस्याः श्रियो गेहं ममापि प्रीतिदं महत् ॥९॥
यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते ॥
तस्याखिलस्य महिमा विष्वक्केनावगम्यते ॥ 4.2.73.१० ॥
यानीह सन्ति लिङ्गानि तानि सर्वाण्यसंशयम् ॥
निर्वाणकारणान्येव स्वयम्भून्यपि तान्यपि ॥ ११ ॥
यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि ॥
काश्यामनादिसिद्धानि कानि लिङ्गानि शङ्कर ॥१२॥
यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः ॥
यैरियं प्रथितिं प्राप्ता काशी मुक्तिपुरीति च॥ ॥ १३ ॥
येषां स्मरणतोप्यत्र भवेत्पापस्य सङ्क्षयः॥
दर्शनस्पर्शनाभ्यां च स्यातां स्वर्गापवर्गकौ ॥ १४ ॥
येषां समर्चनादेव मध्ये जन्म सकृद्विभो ॥
लिङ्गानि पूजितानि स्युः काश्यां सर्वाणि निश्चितम् ॥१५॥
विधाय मय्यनुक्रोशं कारुण्यामृतसागर ॥
एतदाचक्ष्व मे शम्भो पादयोः प्रणतास्म्यहम् ॥१६॥
इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम्॥
कथयामास र्विध्यारे महालिङ्गानि सत्तम ॥१७॥
यन्नामाकर्णनादेव क्षीयन्ते पापराशयः ॥
प्राप्यते पुण्यसम्भारः काश्यां निवार्णकारणम् ॥ १८ ॥
॥ देवदेव उवाच ॥ ॥
शृणु देवि परं गुह्यं क्षेत्रेऽस्मिन्मुक्तिकारणम् ॥
इदं विदन्ति नैवापि ब्रह्मनारायणादयः ॥ १९ ॥
असङ्ख्यातानि लिङ्गानि पार्वत्यानन्दकानने ॥
स्थूलान्यपि च सूक्ष्माणि नानारत्नमयानि च ॥ 4.2.73.२० ॥
नानाधातुमयानीशे दार्षदान्यप्यनेकशः ॥
स्वयम्भून्यप्यनेकानि देवर्षिस्थापितान्यहो ॥२१॥
सिद्धचारणगन्धर्व यक्षरक्षोर्चितान्यपि ॥
असुरोरगमर्त्यैश्च दानवैरप्सरोगणैः ॥२२॥
दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः ॥
पतत्रिप्रमुखैर्देवि स्वस्वनामाङ्कितानि वै ॥२३॥
प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि ॥
अदृश्यान्यपि दृश्यानि दुरवस्थान्यपि प्रिये ॥२४॥
भग्नान्यपि च कालेन तानि पूज्यानि सुन्दरि॥
परार्धशतसङ्ख्यानि गणितान्येकदा मया॥ २५॥
गङ्गाभस्यपि तिष्ठन्ति षष्टिकोटिमितानिहि॥
सिद्धलिङ्गानि तानीशे तिष्येऽदृश्यत्वमाययुः ॥ २६ ॥
गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये ॥
प्रतिष्ठितानि यानीह तेषां सङ्ख्या न विद्यते ॥२७॥
त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम् ॥
तानि लिङ्गानि वक्ष्यामि मुक्तिहेतूनि सुन्दरि ॥ २८ ॥
कलावतीव गोप्यानि भविष्यन्ति गिरीन्द्रजे ॥
परं तेषां प्रभावो यः स्वस्वस्थानं न हास्यति ॥ २९ ॥
कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः ॥
एतेषां सिद्धलिङ्गानां ज्ञास्यन्त्याख्यामपीह न ॥ 4.2.73.३० ॥
नामश्रवणतोपीह यल्लिङ्गानां शुभानने ॥
वृजिनानि क्षयं यान्ति वर्धन्ते पुण्यराशयः ॥ ३१ ॥
ओङ्कारः प्रथमं लिङ्गं द्वितीयं च त्रिलोचनम् ॥
तृतीयश्च महादेवः कृत्तिवासाश्चतुर्थकम् ॥ ॥ ३२ ॥
रत्नेशः पञ्चमं लिङ्गं षष्ठं चन्द्रेश्वराभिधम् ॥
केदारः सप्तमं लिङ्गं धर्मेशश्चाष्टमं प्रिये ॥ ३३ ॥
वीरेश्वरं च नवमं कामेशं दशमं विदुः ॥
विश्वकर्मेश्वरं लिङ्गं शुभमेकादशं परम् ॥ ३४ ॥
द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम् ॥
चतुर्दशं महालिङ्गं मम विश्वेश्वराभिधम् ॥ ३५ ॥
प्रिये चतुर्दशैतानि श्रियोहेतूनि सुन्दरि ॥
एतेषां समवायोयं मुक्तिक्षेत्रमिहेरितम् ॥ ३६ ॥
देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः ॥
आराधिताः प्रयच्छन्ति नृभ्यो नैःश्रेयसीं श्रियम् ॥३७ ॥
आनन्दकानने मुक्त्यै प्रोक्तान्येतानि सुन्दरि ॥
प्रिये चतुर्दशेज्यानि महालिङ्गानि देहिनाम् ॥ ३८ ॥
प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम् ॥
एतेषां लिङ्गमुख्यानां कार्या यात्रा प्रयत्नतः ॥३९॥
अनाराध्य महादेवमेषु लिङ्गेषु कुम्भज ॥
कः काश्यां मोक्षमाप्नोति सत्यं सत्यं पुनःपुनः ॥4.2.73.४०॥
तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः ॥
पूज्यान्येतानि लिङ्गानि भक्त्या परमया मुने ॥४१॥
॥ अगस्त्य उवाच ॥ ॥
एतान्येव किमन्यानि महालिङ्गानि षण्मुख ॥
निर्वाणकारणानीह यदि सन्ति तदा वद ॥ ४२ ॥
॥ स्कन्द उवाच ॥ ॥
अन्यान्यपि च सन्तीह महालिङ्गानि सुव्रत ॥
कलिप्रभावाद्गुप्तानि भविष्यन्त्येव तानि वै ॥ ॥ ४३ ॥
यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः ॥
स एवैतानि लिङ्गानि वेत्स्यत्यन्यो न कश्चन ॥ ४४ ॥
येषां नामग्रहेणापि कलिकल्मष सङ्क्षयः ॥
अमृतेशस्तारकेशो ज्ञानेशः करुणेश्वरः ॥ ४५ ॥
मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा ॥
ब्रह्मेशो लाङ्गलश्चैव वृद्धकालेश्वरस्तथा ॥ ४६ ॥
वृषेशश्चैव चण्डीशो नन्दिकेशो महेश्वरः ॥
ज्योतीरूपेश्वरं लिङ्गं ख्यातमत्र चतुर्दशम् ॥ ४७ ॥
काश्यां चतुर्दशैतानि महालिङ्गानि सुन्दरि ॥
इमानि मुक्तिहेतूनि लिङ्गान्यानन्दकानने ॥ ४८ ॥
कलिकल्मषबुद्धीनां नाख्येयानि कदाचन ॥
एतान्याराधयेद्यस्तु लिङ्गानीह चतुर्दश ॥ ४९ ॥
न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ॥
काशीकोशोयमतुलो न प्रकाश्यो यतस्ततः ॥ ॥ 4.2.73.५० ॥
एतल्लिङ्गाभिधा देवि महापद्यपि दुःखहृत् ॥
रहस्यं परमं चैतत्क्षेत्रस्यास्य वरानने ॥ ५१ ॥
चतुर्दशापि लिङ्गानि मत्सान्निध्यकराणि हि ॥
अविमुक्तस्य हृदयमेतदेव गिरीन्द्रजे ॥ ५२ ॥
इमानि यानि लिङ्गानि सर्वेषां मुक्तिदानि हि ॥
एकैकभुवनस्येह सारमादाय सर्वतः ॥
मयैतानि कृतान्येव महाभक्तिकृपावशात् ॥ ५३ ॥
अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये ॥
कारणं तत्र लिङ्गानि ममैतानि चतुर्दश ॥५४॥
त एव व्रतिनः कान्ते त एव च तपस्विनः॥
ध्यातान्येतानि यैर्भक्तैर्लिङ्गान्यानन्दकानने ॥५५॥
त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि ॥
काश्यामिमानि लिङ्गानि यैर्दृष्टान्यपि दूरतः ॥ ५६॥
इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः ॥
ते सर्वे तेन विहिता यावज्जीवं निरेनसा ॥ ५७ ॥
येनाविमुक्तमासाद्य महालिङ्गानि पार्वति ॥
सकृदभ्यर्चितानीह स मुक्तो नात्र संशयः ॥ ५८ ॥
॥ स्कन्द उवाच ॥ ॥
अन्यान्यपि च विन्ध्यारे देव्यै प्रोक्तानि शम्भुना ॥
स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज ॥ ५९ ॥
शैलेशः सङ्गमेशश्च स्वर्लीनो मध्यमेश्वरः ॥
हिरण्यगर्भ ईशानो गोप्रेक्षो वृषभध्वजः ॥ 4.2.73.६० ॥
उपशान्त शिवो ज्येष्ठो निवासेश्वर एव च ॥
शुक्रेशो व्याघ्रलिङ्गं च जम्बुकेशं चतुर्दशम् ॥ ६१ ॥
मुने चतुर्दशैतानि महान्त्यायतनानि वै ॥
एतेषामपि सेवातो नरो मोक्षमवाप्नुयात् ॥ ६२ ॥
चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः ॥
आ चतुर्दशिपूज्यानि लिङ्गान्येतानि सत्तमैः ॥ ६३ ॥
एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम् ॥
कार्या मुमुक्षुभिः सम्यक्क्षेत्रसंसिद्धिदायिनी ॥ ॥ ६४ ॥
मुने चतुर्दशैतानि महालिङ्गानि यत्नतः ॥
दृष्ट्वा न जायते जन्तुः संसारे दुःखसागरे ॥६५॥
क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम् ॥
संसाररोगग्रस्तानामिदमेव महौषधम् ॥ ६६ ॥
क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम् ॥
कर्मकाननदावाग्निरेषा लिङ्गावलिः प्रिये ॥ ६७ ॥
एकैकस्यास्य लिङ्गस्य महिमाद्यन्त वर्जितः ॥
मयैव ज्ञायते देवि सम्यङ्नान्येन केनचित् ॥६८॥
इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा ॥
प्रणम्य देवमीशानं सर्वज्ञं सर्वदं शिवम् ॥ ६९ ॥
॥ देव्युवाच ॥ ॥
रहस्यं परमं काश्यां यदेतत्समुदीरितम् ॥
तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ ॥ 4.2.73.७० ॥
यदुक्तं लिगमेकैकं महासारतरं परम् ॥
काश्यां परमनिर्वाणकारणं कारणेश्वर ॥ ७१ ॥
प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर ॥
चतुर्दशानां लिङ्गानां श्रवणादघहारिणाम् ॥ ॥ ७२ ॥
ओङ्कारेशस्य लिङ्गस्य कथमत्र समागमः ॥
अतिपुण्यतमात्तस्मात्क्षेत्रादमरकण्टकात् ॥ ७३ ॥
किमात्मकोऽयमोङ्कारो महिमास्य च को हर ॥
केनाराधि पुरा चैष ददावाराधितश्च किम् ॥ ७४ ॥
मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम् ॥
कथामकथयद्देव ओङ्कारस्यमहाद्भुताम् ॥ ७५ ॥
॥ देवदेव उवाच ॥ ॥
कथामाकर्णयापर्णे वर्णयामि तवाग्रतः ॥
यथोङ्कारस्य लिङ्गस्य प्रादुर्भाव इहाभवत् ॥७६॥
पुरानन्दवने चात्र ब्रह्मणा विश्वयोनिना ॥
तपस्तप्तं महादेवि समाधिं दधतापरम् ॥ ७७ ॥
पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्॥
उदतिष्ठत्पुरोज्योतिर्विद्योतित हरिन्मुखम् ॥ ७८ ॥
यदन्तराविरभवन्निर्व्याजेन समाधिना॥
तदेव परमं धाम बहिराविरभूद्विधेः ॥७९॥
योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः॥
तच्छब्दाद्व्यसृजद्वेधाः समाधिं क्रमतो वशी ॥ ॥ 4.2.73.८० ॥
स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने ॥
पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ॥ ८१ ॥
अकारं सत्त्वसम्पन्नमृक्क्षेत्रं सृष्टिपालकम् ॥
नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम् ॥ ८२ ॥
उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम् ॥
विधातारं समस्तस्य स्वाकारमिव बिम्बितम् ॥ ८३ ॥
नीरवध्वान्तसङ्केत सदनाभं तदग्रतः ॥
मकारं स ददर्शाथ तमोरूपं विशेषतः ॥ ८४ ॥
साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम् ॥
अथ तत्पुरतो ध्याता व्यधात्स्वनयनातिथिम् ॥ ८५ ॥
विश्वरूपमयाकारं सगुणं वापि निर्गुणम्॥
अनाख्यनादसदनं परमानन्दविग्रहम् ॥८६॥
शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम् ॥
अथोपरिष्टान्नादस्य बिन्दुरूपं परात्परम् ॥ ८७ ॥
कारणं कारणानां च जगद्योनिं च तं परम् ॥
विधिर्विलोकयाञ्चक्रे तपसागोचरीकृतम् ॥ ८८ ॥
अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः ॥
भक्तमुन्नयते यस्मात्तदोमिति य ईरितः ॥ ८९ ॥
अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ॥
तारयेद्यद्भवाम्भोधेः स्वजपासक्तमानसम् ॥
ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत् ॥ 4.2.73.९० ॥
प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः ॥
सर्वेभ्योभ्यधिकस्तस्मात्प्रणवो यैः प्रकीर्तितः ॥ ९१ ॥
स्वसेवितारं पुरुषं प्रणयेद्यः परम्पदम् ॥
अतस्तप्रणवं शान्तं प्रत्यक्षीकृतवान्विधिः ॥ ९२ ॥
त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः ॥
नादबिन्दुस्वरूपो यः स प्रैक्षि द्विजगामिना ॥ ९३ ॥
प्रावर्तन्त यतो वेदाः साङ्गाः सर्वस्य योनयः ॥
सवेदादिः पद्मभुवा पुरस्तादवलोकितः ॥ ९४ ॥
वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः ॥
सनेत्रविषयी चक्रे परमः परमेष्ठिना ॥ ९५ ॥
शृङ्गश्चत्वारि यस्यासन्हस्तासः सप्त एव च ॥
द्वे शीर्षे च त्रयः पादाः स देवो विधिनैक्षत ॥ ९६ ॥
यदन्तर्लीनमखिलं भूतं भावि भवत्पुनः ॥
तद्बीजं बीजरहितं द्रुहिणेन विलोकितम् ॥ ९७ ॥
लीनं मृग्येत यत्रैतदाब्रह्मस्तम्बभाजनम्॥
अतः स भाज्यते सद्भिर्यल्लिङ्गं तद्विलोकितम् ॥९८॥
पञ्चार्था यत्र भासन्ते पञ्चब्रह्ममयं हि यत् ॥
आदिपञ्चस्वरूपंयन्निरैक्षि ब्रह्मणा हि तत् ॥ ९९ ॥
तमालोक्य ततो वेधा लिङ्गरूपिणमीश्वरम् ॥
पञ्चाक्षरं प्रपञ्चाच्च भिन्नं तुष्टाव शङ्करम् ॥ 4.2.73.१०० ॥
ब्रह्मोवाच ॥ ।
नम ओङ्काररूपाय नमोऽक्षरवपुर्धृते ॥
नमोऽकारादिवर्णानां प्रभवाय सदाशिव ॥ १ ॥
अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते ॥
ऋग्यजुः सामरूपाय रूपातीताय ते नमः ॥ २ ॥
नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने ॥
अलिङ्गलिङ्गरूपाय सर्वरूपस्वरूपिणे ॥ ३ ॥
नमस्ते धाम निधये निधनादिविवर्जित ॥
नमो भवाय रुद्राय शर्वाय च नमोस्तुते ॥ ४ ॥
नम उग्राय भीमाय पशूनां पतये नमः ॥
नमस्तारस्वरूपाय सम्भवाय नमोस्तु ते ॥ ५ ॥
अमायाय नमस्तुभ्यं नमः शिवतराय ते ॥
कपर्दिने नमस्तुभ्यं शितिकण्ठ नमोस्तु ते ॥ ६ ॥
मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः ॥
नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे ॥ ७ ॥
कुमारगुरवे तुभ्यं कुमारवपुषे नमः ॥
नमः श्वेताय कृष्णाय पीतायारुणमूर्तये ॥ ८ ॥
धूम्रवर्णाय पिङ्गाय नमः किर्मीरवर्चसे ॥
नमः पाटलवर्णाय नमो हरिततेजसे ॥ ९ ॥
नानावर्णस्वरूपाय वर्णानां पतये नमः ॥
नमस्ते स्वररूपाय नमो व्यञ्जनरूपिणे ॥ 4.2.73.११० ॥
उदात्तायानुदात्ताय स्वरिताय नमो नमः ॥
ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः ॥ ॥ ११ ॥
अनुस्वारस्वरूपाय नमस्ते सानुनासिक ॥
नमो निरनुनासाय दन्त्यतालव्यरूपिणे ॥ १२ ॥
ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे ॥
अन्तस्थाय नमस्तुभ्यं पञ्चमाय पिनाकिने ॥ १३ ॥
निषादाय नमस्तुभ्यं निषादपतये नमः ॥
वीणावेणुमृदङ्गादि वाद्यरूपाय ते नमः ॥ १४ ॥
नमस्ताराय मन्द्राय घोरायाघोरमूर्तये ॥
नमस्तानस्वरूपाय मूर्च्छनां पतये नमः ॥ १५ ॥
स्थायिसञ्चारिभेदेन नमो भावस्वरूपिणे ॥
तालप्रियाय तालाय लास्यताण्डवजन्मने ॥ १६ ॥
तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय ॥ तौर्यत्रिककृताम्भक्त्या निर्वाणश्रीप्रदायक ॥१७॥
स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्य स्वरूपिणे ॥
अर्वाचीनाय च नमः पराचीनाय ते नमः ॥ १८ ॥
वाक्प्रपञ्च स्वरूपाय वाक्प्रपञ्च पराय च ॥
एकायानेकभेदाय सदसत्पतये नमः ॥१९॥
शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते ॥
नमो वेदान्तवेद्याय वेदानां पतये नमः ॥ 4.2.73.१२० ॥
नमो वेदस्वरूपाय वेदगोचरमूर्तये ॥
पार्वतीश नमस्तुभ्यं जगदीश नमोस्तु ते ॥ २१ ॥
नमस्ते देवदेवेश देव दिव्यपदप्रद ॥
शङ्कराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ २२ ॥
नमस्ते जगदानन्द नमस्ते शशिशेखर ॥
मृत्युञ्जय नमस्तुभ्यं नमस्ते त्र्यम्बकाय च ॥ २३ ॥
नमः पिनाकहस्ताय त्रिशूलायुधधारिणे ॥
नमस्त्रिपुरहन्त्रे च नमोन्धक निषूदन ॥ २४ ॥
कन्दर्पदर्पदलन नमोजालन्धरारये ॥
कालाय कालकालाय कालकूटविषादिने ॥ २५ ॥
विषादहन्त्रे भक्तानामभक्तैक विषादद ॥
ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते ॥ ॥ २६ ॥
योगसिद्धिप्रदोसि त्वं योगिनां योगसत्तम ॥
तपसां फलदोसि त्वं तपस्विभ्यस्तपोधन ॥ २७ ॥
त्वमेव मन्त्ररूपोसि मन्त्राणां फलदो भवान् ॥
महादानफलं त्वं वै महादानप्रदो भवान् ॥ २६ ॥
महायज्ञस्त्वमेवेश महायज्ञ फलप्रद ॥
त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान् ॥२९॥
सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक ॥
योगिनां हृदयाकाश कृतालय नमोस्तु ते ॥ 4.2.73.१३० ॥
त्वमेव विष्णुरूपेण शङ्खचक्रगदाधर ॥
त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोस्तु ते ॥ ३१॥
त्वमेव विदधास्ये तद्विधिर्भूत्वा विधानवित् ॥
रजोरूपं समालम्ब्य नीरजस्कपदप्रद ॥ ३२ ॥
त्वमेव हि महारुद्रस्त्वं महोग्रो भुजङ्गभृत् ॥
त्वमेव हि महाभीमो महापितृवनेचर ॥ ३३ ॥
तामसीं तनुमाश्रित्य त्वं कृतान्त कृतान्तक ॥
कालाग्निरुद्रो भूऽत्वान्ते त्वं संवर्त प्रवर्तकः ॥ ३४ ॥
त्वं पुम्प्रकृतिरूपाभ्यां महदाद्यखिलं जगत् ॥
अक्षिपक्ष्मसमुत्क्षेपात्पुनराविः करोप्यज ॥३५॥
उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् ॥
कपालमालाखेलोयं भवतः स्वैरचारिणः ॥ ३६ ॥
त्वत्कण्ठे नृकरोटीयं धूर्जटे या विभासते ॥
सर्वेषामन्तदग्धानां सास्फुटं बीजमालिका ॥ ३७ ॥
त्वत्तः सर्वमिदं शम्भो त्वयि सर्वं चराचरम् ॥
कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम् ॥ ३८ ॥
स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च ॥
वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किञ्चन ॥ ३९ ॥
त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा ॥
त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः ॥ 4.2.73.१४० ॥
इत्युदीर्यासकृद्वेधाः प्रणनाम महेश्वरम् ॥
प्रणवाख्यं महालिङ्गरूपिणं दण्डवत्क्षितौ ॥ ४१ ॥
॥ ईश्वर उवाच ॥ ॥
ततो गिरीन्द्रतनये श्रुत्वा ब्रह्मस्तुतिं पराम् ॥
परमैश्वर्यसम्पत्ति हेतुं तुष्टोहमद्भुतम् ॥ ४२ ॥
अमूर्तोऽहं ततो लिङ्गान्मूर्तिमास्थाय शाङ्करीम् ॥
प्रसन्नोस्मि वरं ब्रूहीत्युवाच चतुराननम् ॥ ४३ ॥
चतुर्वक्त्रः समुत्थाय प्रत्यक्षं वीक्ष्य मामथ ॥
पुनर्जयजयेत्युक्त्वा प्रणनाम कृताञ्जलिः ॥ ४४ ॥
आनन्दबाष्पसलिलनेत्रो हृष्टतनूरुहः ॥
गद्गदेन स्वरेणाथ प्रोवाच जलजासनः ॥ ४५ ॥
ब्रह्मोवाच ॥ ॥
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥
तदेतस्मिन्महालिङ्गे सान्निध्यं तेऽस्तु शङ्कर ॥ ४६ ॥
अयमेव वरो देयो नान्यं वरमहं वृणे ॥
ओङ्कारेश्वरनामैतदस्तु भक्तैकमुक्तिदम् ॥ ४७ ॥
॥ स्कन्द उवाच ॥ ॥
विध्युक्तमिति विप्रर्षे समाकर्ण्य तदेशिता ॥
उवाच वचनं चैतत्तथास्तु चतुराननम् ॥४८॥
वरानन्यानपि विभुः प्रसन्नस्तत्क्षणाद्ददौ॥
विधये दीर्घतपसे तया स्तुत्यातितोषितः ॥४९॥
॥ ईश्वर उवाच ॥
सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव ॥
सृष्टेःकरणसामर्थ्यं तवास्तु मदनुग्रहात् ॥4.2.73.१५०॥
पितामहस्त्वं सर्वेषां सर्वेषां मान्यभूर्भवान् ॥
त्वत्तपःफलदानार्थं यदेतल्लिङ्गमुत्थितम् ॥ ५१ ॥
परमोङ्काररूपं च शब्दब्रह्ममयं विधे ॥
अस्याराधनतः पुंसां न दूरं ब्रह्मणः पदम् ॥५२॥
अकाराख्यमिदं लिङ्गमुकाराख्यमिदं परम् ॥
मकाराह्वयमेतच्च नादाख्यं बिन्दुसञ्ज्ञकम् ॥ ५३ ॥
पञ्चायतनमीशानमित्थमेतदुदीरितम् ॥
मोक्षाय सर्वजन्तूनामस्मिन्नानन्दकानने ॥ ५४ ॥
स्नात्वा मत्स्योदरी तीर्थे विलोक्योङ्कारमीश्वरम् ॥
न जातु जायते जन्तुर्जननी जठरे क्वचित् ॥ ५५ ॥
एतन्नादेश्वरं लिङ्गमेतल्लिङ्गं सुदुर्लभम् ॥
रम्ये मत्स्योदरी तीरे दृष्टं स्पृष्टं विमुक्तिदम् ॥ ५६ ॥
यदेतत्कापिलं ज्योतिरेतल्लिङ्गे विलोक्यते ॥
अतस्तु कपिलेशाख्यमेतल्लिङ्गं सुदुर्लभम् ॥५७॥
मत्स्योदरी यदा गङ्गा कपिलेश्वर सन्निधौ ॥
तदा तत्र नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ५८ ॥
वरणोत्सिक्तपानीये द्युनदीतोयमिश्रिते ॥
स्नात्वा नादेश्वरं दृष्ट्वा नरः किमनुशोचति ॥ ५९ ॥
अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः ॥
षष्टि कोटि सहस्राणि मत्स्योदर्यां विशन्ति हि ॥4.2.73.१६०॥
प्रणवेश समीपे तु यदा गङ्गा समेष्यति ॥
तदा पुण्यतमः कालो देवर्षि पितृवल्लभः ॥ ६१ ॥
तत्र स्नानं जपोदानं हवनं देवतार्चनम् ॥
मत्स्योदर्यामक्षयं स्यादोङ्कारेश्वरसन्निधौ ॥ ६२ ॥
ओङ्कारदर्शनादेव वाजिमेधफलं लभेत् ॥
तस्मात्काश्यां प्रयत्नेन दृश्य ओङ्कार ईश्वरः ॥ ६३ ॥
दुर्लभं मानवं जन्म चतुर्वर्गैकसाधनम् ॥
जलबुद्बुदवत्तत्स्यान्नादेशो येन नेक्षितः ॥ ६४ ॥
निरीक्ष्य कपिलेशानं स्नात्वा मत्स्योदरीजले ॥
कृत्वा पिण्डप्रदानानि पितॄणामनृणो भवेत् ॥ ६५ ॥
कृत्वापि मोहात्पापानि भूरीण्येव महान्त्यपि ॥
काश्यामोङ्कारमालोक्य कुतस्त्रस्यति वै यमात् ॥ ६६ ॥
ओङ्कारयात्राभिमुखं नरं वीक्ष्य पितामहाः ॥
परिनृत्यन्ति मुदिताः स्वसन्तानसमुद्भवम् ॥ ६७ ॥
यस्य यस्य च वै नाम स्मृत्वा स्मृत्वा नमस्यति ॥
तं तमुन्नयते प्राज्ञः पितरं ब्रह्मणः पदम् ॥ ६८ ॥
रुद्राणां नियुतं जप्त्वा यत्फलं सम्यगाप्यते ॥
तत्फलं लभते नूनं भक्त्योङ्कार विलोकनात् ॥ ६९ ॥
केवलं भूमिभाराय जन्मिनो जन्म तस्य वै ॥
येनानन्दवने दृष्टो नोङ्कारः सर्वकामदः ॥ 4.2.73.१७० ॥
एकमोङ्कारमालोक्य समस्ते क्षोणिमण्डले ॥ लिं
गजातानि सर्वाणि दृष्टानि स्युर्न संशयः ॥ ७१ ॥
प्रणवेशं प्रणम्याथ यद्यन्यत्र विपद्यते ॥
स्वर्गलोकमवाप्याथ काश्यां मुक्तिमवाप्नुयात् ॥ ७२ ॥
अस्मिल्ँलिङ्गे सदा ब्रह्मन्स्थास्यामीति विनिश्चितम् ॥
दास्यामि च सदा मोक्षमेतल्लिङ्गार्चकाय वै ॥ ७३ ॥
ओङ्कारं सकृदप्यत्र नरो नत्वा प्रयत्नतः ॥
कृतकृत्यो भवेन्नूनं परमान्मदनुग्रहात ॥ ७४ ॥
ओङ्कारपश्चिमे भागे तारतीर्थमनुत्तमम् ॥
कृतोदकक्रियस्तत्र नरस्तरति दुर्गतिम् ॥ ७५ ॥
ओङ्कारेशस्य ये भक्ता ज्ञेयास्ते नैव मानवाः ॥
मनुष्यचर्मणा नद्धास्ते रुद्रा मोक्षगामिनः ॥ ७६ ॥
अस्य लिङ्गस्य महिमा नान्यैरत्रावगम्यते ॥
त्वत्पुण्योदयतो यस्माद्विधेत्राविरभूदिदम् ॥ ७७ ॥
एतल्लिङ्गप्रभावाच्च सर्वं ज्ञास्यसि तत्त्वतः ॥
विधे विधेहि तस्मात्त्वं सर्वमेतच्चराचरम् ॥७८॥
इति दत्त्वा वरं तस्मै ब्रह्मणे पद्मसम्भवे।
तस्मिन्नेव महालिङ्गे शम्भुर्लीनो बभूव ह ॥७९॥
॥ स्कन्द उवाच ॥ ॥
ब्रह्मापि भजतेद्यापि तल्लिङ्गं कलशोद्भव ॥
स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि ॥4.2.73.१८०॥
ब्रह्मस्तवं जपन्मर्त्यः सर्वैः पापैः प्रमुच्यते ॥
पूर्यते च महापुण्यैर्ज्ञानं प्राप्नोति सत्तमम् ॥ ८१ ॥
ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम् ॥
अन्तकाले भवेज्ज्ञानं येन बन्धात्प्रमुच्यते ॥ ॥ १८२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संह्तिायां चतुर्थे काशीखण्ड उत्तरार्ध ओङ्कारमहिमवर्णनन्नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥