०७२ दुर्गाविजयः

॥ अगस्त्य उवाच ॥
पार्वतीहृदयानन्द स्कन्द सर्वज्ञनन्दन ॥
काः कास्तु शक्तयस्ता वै तासां नामानि मे वद ॥१॥ ॥
स्कन्द उवाच ॥ ॥
तासां परमशक्तीनामुमावयवसम्भुवाम् ॥
आख्याम्याख्यां शृणु मुने कुम्भसम्भव तत्त्वतः ॥ २ ॥
त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुन्दरी ॥
त्रिपुरा त्रिजगन्माता भीमा त्रिपुरभैरवी ॥ ३ ॥
कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ॥
जया जयन्ती विजया जलेशी चापराजिता ।४॥
शङ्खिनी गजवक्त्रा च महिषघ्नी रणप्रिया ॥
शुभानन्दा कोटराक्षी विद्युज्जिह्वा शिवारवा ॥ ५ ॥
त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमङ्गला ॥
हुङ्कारहेतिस्तालेशी सर्पास्या सर्वसुन्दरी ॥ ६ ॥
सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना ॥
पाशपाणिः खरमुखी वज्रतारा षडानना॥ ७ ॥
मयूरवदना काकी शुकी भासी गरुत्मती ॥
पद्मावती पद्मकेशी पद्मास्या पद्मवासिनी ॥ ८ ॥
अक्षरा त्र्यक्षरा तन्तुः प्रणवेशी स्वरात्मिका ॥
त्रिवर्गा गर्वरहिता अजपा जपहारिणी ॥ ९ ॥
जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता ॥
मैत्रीकृन्मित्रनेत्रा च रक्षोघ्नी दैत्यतापनी ॥ 4.2.72.१० ॥
स्तम्भनी मोहनीमाया बहुमाया बलोत्कटा ॥
उच्चाटनी महोल्कास्या दनुजेन्द्रक्षयङ्करी ॥११॥
क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना ॥
शाकम्भरी मोक्षलक्ष्मीस्त्रिवर्गफलदायिनी ॥ १२ ॥
वार्ताली जम्भली क्लिन्ना अश्वारूढा सुरेश्वरी ॥
ज्वालामुखी प्रभृतयो नवकोट्यौ महाबलाः ॥ १३ ॥
बलानि बलिनां ताभिर्दानवानां स्वलीलया ॥
सङ्क्षिप्ता निजगन्तीव प्रलयानलहेतेभिः ॥ १४ ॥
तावत्स दुर्गो दैत्येन्द्रः पयोदान्तरतो बली ॥
चकार करकावृष्टिं वात्या वेगवतीं बहु ॥१५॥
ततो भगवती देवी शोषणास्त्र प्रयोगतः ॥
वृष्टिं निवारयामास सवर्षोपलमयी क्षणात् ॥ १६ ॥
योषिन्मनोरथवती षण्ढं प्राप्य यथाऽफला ॥
सा दैत्यकरकावृष्टिर्देवीं प्राप्य तथाभवत् ॥ १७ ॥
अथ दैतेयराजेन बाहुसङ्कर्षकोपतः ॥
उत्पाट्य शैलशिखरं परिक्षिप्तं नभोङ्गणात् ॥ १८ ॥
अद्रेः शृङ्गं सुविस्तीर्णमापतत्परिवीक्ष्य सा ॥
शतकोटिप्रहारेण कोटिशः सकलं व्यधात् ॥ १९ ॥
आन्दोल्य मौलिमसकृत्कुण्डलाभ्यां विराजितम्॥
गजीभूयाशु दुद्राव तां देवीं समरेऽसुरः ॥4.2.72.२०॥
शैलाकारं तमायान्तं दृष्ट्वा भगवती गजम् ॥
बद्ध्वा पाशेन जवतः खङ्गेन करमच्छिनत् ॥ २१ ॥
ततोत्यन्तं स चीत्कृत्य देव्याकृत्तकरःकरी ॥
अकिञ्चित्करतां प्राप्य माहिषं वपुराददे ॥ २२ ॥
अचलां सचलां सर्वां स चक्रे सुरघाततः ॥
शिलोच्चयांश्च बहुशः शृङ्गाभ्यां सोक्षिपद्बली ॥२३॥
निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः ॥
उद्वेलिताः समभवन्सप्तापि जलराशयः ॥५४॥
महामहिषरूपेण तेन त्रैलोक्यमण्डपः ॥
आन्दोलितोति बलिना युगान्ते वात्यया यथा ॥ २५ ॥
ब्रह्माण्डमप्यकाण्डेन तद्भयेन समाकुलम् ॥
दृष्ट्वा भगवती क्रुद्धा त्रिशूलेन जघान तम् ॥ २६ ॥
त्रिशूलघातविभ्रान्तः पतित्वा पुनरुत्थितः ॥
तं त्यक्त्वा माहिषं वेषमभूद्बाहुसहस्रभृत् ॥ २७ ॥
स दुर्गो नितरां दुर्गो विबभौ समराजिरे॥
आयुधानां सहस्राणि बिभ्रत्कालान्तकोपमः ॥ २८ ॥
अथ तूर्णं स दैत्येन्द्रस्तां देवीं रणकोविदाम् ॥
महाबलः प्रगृह्याशु नीतवानान्गगनाङ्गणम् ॥ ॥ २९ ॥
ततो नभोङ्गणाद्दूरात्क्षिप्त्वा स जगदम्बिकाम् ॥
क्षणात्कलम्बजालेन च्छादयामास वेगवान् ॥ 4.2.72.३० ॥
अथान्तरिक्षगा देवी तस्य मार्गणमध्यगा ॥
विद्युन्मालेव विबभौ महाभ्रपटलीधृता ॥३१॥
तं विधूय शरत्रातं निजेषु निकरैरलम् ॥
महेषुणाथ विव्याध सा तं दैत्यजनेश्वरम् ॥ ३२ ॥
हृदि विद्धस्तया देव्या स च तेन महेषुणा ॥
व्याघूर्णमाननयनः क्षितिमापाति विह्वलः ॥३३॥
महारुधिरधाराभिः स्रवन्तीं च प्रवर्तयन् ॥
तस्मिन्निपतिते दुर्गे महादुर्गपराक्रमे॥ ॥३४ ॥
देवदुन्दुभयो नेदुः प्रहृष्टानि जगन्ति च ॥
सूर्याचन्द्रमसौ साग्नी तेजो निजमवापतुः ॥ ३५ ॥
पुष्पवृष्टिं प्रकुर्वन्तः प्राप्ता देवा महर्षिभिः ॥
तुष्टुवुश्च महादेवीं महास्तुतिभिरादरात् ॥ ३६ ॥ ॥
देवा ऊचुः ॥ ॥
नमो देवि जगद्धात्रि जगत्रयमहारणे ॥
महेश्वर महाशक्ते दैत्यद्रुमकुठारके ॥ ३७ ॥
त्रैलोक्यव्यापिनि शिवे शङ्खचक्रगदाधरि ॥
स्वशार्ङ्गव्यग्रहस्ताग्रे नमो विष्णुस्वरूपिणि ॥ ३८ ॥
हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि॥
प्राचां वाचां जन्मभूमे चतुराननरूपिणि॥ ३९ ॥
त्वमैन्द्री त्वं च कौबेरी वायवी त्वं त्वमम्बुपा ॥
त्वं यामी नैर्ऋती त्वं च त्वमैशी त्वं च पावकी ॥ 4.2.72.४० ॥
शशाङ्ककौमुदी त्वं च सौरी शक्तिस्त्वमेव च ॥
सर्वदेवमयी शक्तिस्त्वमेव परमेश्वरी ॥ ४१ ॥
त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती ॥
प्रकृतिस्त्वं मतिस्त्वं च त्वमहङ्कृतिरूपिणी ॥ ॥ ४२ ॥
चेतः स्वरूपिणी त्वं वै त्वं सर्वेन्द्रियरूपिणी ॥
पञ्चतन्मात्ररूपा त्वं महाभूतात्मिकेम्बिके ॥ ४३ ॥
शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु ॥
ब्रह्माण्डकर्त्री त्वं देवि ब्रह्माण्डान्तस्त्वमेव हि ॥ ४४ ॥
त्वं परासि महादेवि त्वं च देवि परापरा ॥
परापराणां परमा परमात्मस्वरूपिणी ॥ ४५ ॥
सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे ॥
त्वं चिच्छक्तिर्महामाये त्वं स्वाहा त्वं स्वधामृते ॥ ४६ ॥
वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका ॥
सर्वमन्त्रमयी त्वं वै ब्रह्माद्यास्त्वत्समुद्भवाः ॥ ४७ ॥
चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये ॥
त्वत्तः सर्वमिदं विश्वं त्वयि सर्वं जगन्निधे ॥ ४८ ॥
यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः ॥
तत्र त्वं शक्तिरूपेण किञ्चिन्न त्वदृते क्वचित् ॥ ४९ ॥
मातस्त्वयाद्य विनिहत्य महासुरेन्द्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् ॥
त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः ॥ 4.2.72.५० ॥
लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवन्तः ॥
तेषां यशः प्रसरचन्द्रकरावदातं विश्वं भवेद्भवसि येषु सुदृक्त्वमीशे ॥ ॥ ५१ ॥
त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु ॥
त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपत्नि ॥ ५२ ॥
चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्॥
मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोपि ते दृशिगतः कुगतिं न याति ॥ ५३ ॥
त्वच्छस्त्रवह्निशलभत्वमिता अपीह दैत्याः पतङ्गरुचिमाप्य दिवं व्रजन्ति ॥
सन्तः खलेष्वपि न दुष्टधियो यतः स्युः साधुष्विव प्रणयिनः स्वपथं दिशन्ति ॥ ५४ ॥
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि ॥
प्रत्यग्दिशि त्रिपुरतापन पत्नि रक्ष त्वं पाह्युदीचि निजभक्तजनान्महेशि ॥ ५५ ॥
ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः ॥
रुद्राग्नि नैर्ऋति सदागति दिक्षु पान्तु मृत्युञ्जया त्रिनयना त्रिपुरा त्रिशक्त्यः ॥ ५६ ॥
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ॥
नेत्रे त्रिलोचनवधूर्गिरिजा च नासामोष्ठं जया च विजयात्वधरप्रदेशम् ॥ ५७ ॥
श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चण्डी कपोलयुगलं रसनां च वाणी ॥
पायात्सदैव चिबुकं जयमङ्गला नः कात्यायनी वदनमण्डलमेव सर्वम् ॥ ५८ ॥
कण्ठप्रदेशमवतादिह नीलकण्ठी भूदारशक्तिरनिशं च कृकाटिकायाम् ॥
कौर्म्यं सदेशमनिशं भुजदण्डमैन्द्री पद्मा च पाणिफलकं नतिकारिणां नः ॥ ५९ ॥
हस्ताङ्गुलीः कमलजा विरजानखांश्च कक्षान्तरं तरणिमण्डलगा तमोघ्नी ॥
वक्षःस्थलं स्थलचरी हृदयं धरित्री कुशिद्वयं त्ववतु नः क्षणदाचरघ्नी ॥4.2.72.६०॥
अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम् ॥
पायात्कटिं च विकटा परमास्फिचौ नो गुह्यं गुहारणिरपानमपाय हन्त्री ॥६१ ॥
ऊरुद्वयं च विपुला ललिता च जानू जङ्घे जवाऽवतु कठोरतरात्र गुल्फौ॥
पादौ रसातलचराङ्गुलिदेशमुग्रा चान्द्री नखान्त्पदतलं तलवासिनी च ॥६२॥
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ॥
पातु पुत्रान्प्रियकरी पायादायुः सनातनी ॥ ६३ ॥
यशः पातु महादेवी धर्मं पातु धनुर्धरी ॥
कुलदेवी कुलं पातु सद्गतिं सद्गतिप्रदा ॥ ६४ ॥
रणे राजकुले द्यूते सङ्ग्रामे शत्रुसङ्कटे ॥
गृहे वने जलादौ च शर्वाणी सर्वतोऽवतु ॥ ६५ ॥
इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः ॥
सर्वे सवासवा देवाः सर्षिगन्धर्वचारणाः ॥ ६६ ॥
ततस्तुष्टा जगन्माता तानाह सुरसत्तमान् ॥
स्वाधिकारान्सुराः सर्वे शासतु प्राग्यथायथा ॥ ६७॥
तुष्टाहमनया स्तुत्या नितरां तु यथार्थया ॥
वरमन्यं प्रदास्यामि तच्छृणुध्वं सुरोत्तमाः ॥ ६८ ॥ ॥
दुर्गोवाच ॥ ॥
यः स्तोष्यति तु मां भक्त्या नरः स्तुत्यानया शुचिः ॥
तस्याहं नाशयिष्यामि विपदं च पदे पदे ॥६९॥
एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः ॥
तस्य क्वचिद्भयं नास्ति वज्रपञ्जरगस्य हि ॥4.2.72.७०॥
अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ॥
दुर्गदैत्यस्य समरे पातनादति दुर्गमात्॥७१॥
ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित् ॥
दुर्गास्तुतिरियं पुण्या वज्रपञ्जरसञ्ज्ञिका ॥७२॥
अनया कवचं कृत्वा मा बिभेतु यमादपि ॥
भूतप्रेतपिशाचाश्च शाकिनीडाकिनी गणाः॥७३॥
झोटिङ्गा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः ॥
वेतालाश्चापि कङ्काल ग्रहा बालग्रहा अपि॥७४॥
वातपित्तादि जनितास्तथा च विषमज्वराः ॥
दूरादेव पलायन्ते श्रुत्वा स्तुतिमिमां शुभाम् ॥७५॥
वज्रपञ्जर नामैतत्स्तोत्रं दुर्गाप्रशंसनम् ॥
एतत्स्तोत्रकृतत्राणे वज्रादपि भयं नहि ॥ ७६ ॥
अष्टजप्तेन चानेन योभिमन्त्र्य जलं पिबेत् ॥
तस्योदरगतापीडा क्वापि नो सम्भविष्यति॥७७॥
गर्भपीडा तु नो जातु भविष्यत्यभिमन्त्रणात् ॥
बालानां परमा शान्तिरेतत्स्तोत्राम्बुपानतः ॥ ७८ ॥
यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति ॥
एतास्तु शक्तयः सर्वा सर्वत्र सहिता मया ॥ ७९ ॥
रक्षां परिकरिष्यन्ति मद्भक्तानां ममाज्ञया ॥
इति दत्त्वा वरान्देवी देवेभ्यो तर्हि ता तदा ॥ 4.2.72.८० ॥
तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा ॥ ॥
स्कन्द उवाच ॥
इत्थं दुर्गाभवन्नाम तया देव्या महामुने ॥
काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते ॥८१॥
अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ॥
सम्पूज्या सततं काश्यां दुर्गा दुर्गतिनाशिनी ॥ ८२ ॥
नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता ॥
नाशयिष्यति विघ्नौघान्सुमतिं च प्रदास्यति ॥ ८३ ॥
महापूजोपहारैश्च महाबलिनिवेदनैः ॥
दास्यत्यभीष्टदा सिद्धिं दुर्गा काश्यां न संशयः ॥ ८४ ॥
प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः ॥
शारदं नवरात्रं च सकुटुम्बैः शुभार्थिभिः ॥८५॥
यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः ॥
काश्यां विघ्न सहस्राणि तस्य स्युश्च पदेपदे ॥ ८६ ॥
दुर्गाकुण्डे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम् ॥
दुर्गां सम्पूज्य विधिवन्नवजन्माघमुत्सृजेत् ॥ ८७ ॥
सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः ॥
ताः प्रयत्नेन सम्पूज्या कालरात्रिमुखा नरैः ॥८८॥
रक्षन्ति क्षेत्रमेतद्वै तथान्या नवशक्तयः ॥
उपसर्गसहस्रेभ्यस्ता वैदिग्देवताक्रमात् ॥ ८९ ॥
शतनेत्रा सहस्रास्या तथायुतभुजापरा ॥
अश्वारूढा गजास्या च त्वरिता शववाहिनी ॥ 4.2.72.९० ॥
विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः ॥
एता यत्नेन सम्पूज्याः क्षेत्ररक्षणदेवताः ॥९१॥
तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः ॥
रक्षन्ति सततं काशीं निर्वाणश्रीनिकेतनम् ॥ ९२ ॥
रुरुश्चण्डोसिताङ्गश्च कपाली क्रोधनस्तथा ॥
उन्मत्तभैरवस्तद्वत्क्रमात्संहारभीषणौ ॥ ९३ ॥
चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः ॥
रुण्डमुण्डस्रजः सर्वे कर्त्रीखर्परपाणयः ॥ ९४ ॥
श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः ॥
नग्ना विमुक्तकेशाश्च प्रमत्ता रुधिरासवैः ॥ ९५ ॥
नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः ॥
तदाकारैश्च तद्भृत्यैः कोटिशः परिवारिताः ॥ ९६ ॥
विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः॥
उग्रो विकटदंष्ट्रश्च वक्रास्यो वक्रनासिकः ॥ ९७ ॥
जम्भको जृम्भणमुखो ज्वालानेत्रो वृकोदरः ॥
गर्तनेत्रो महानेत्रस्तुच्छनेत्रोंऽत्रमण्डनः ॥ ९८ ॥
ज्वलत्केशः कम्बुशिराः खर्वग्रीवो महाहनुः ॥
महानासो लम्बकर्णः कर्णप्रावरणोनसः ॥९९॥
इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः ॥
त्रासयन्तो दुराचारान्रक्षन्ति परितः सदा ॥4.2.72.१००॥
त्रैलोक्यविजयाद्याश्च ज्वालामुख्यन्तगाश्च याः ॥
शक्तयोऽत्र मया ख्याता मुने कलशसम्भव ॥ १ ॥
ताः काशीं परिरक्षन्ति चतुर्दिक्षूद्यतायुधाः ॥
ताः समर्च्याः प्रयत्नेन महाविघ्न प्रशान्तये ॥२॥
भैरवा रुरुमुख्याश्च महाभयनिवारकाः ॥
सम्पूज्याः सर्वदा काश्यां सर्वसम्पत्तिहेतवः ॥३॥
विद्युज्जिह्वप्रभृतयो वेताला उग्ररूपिणः ॥
अत्युग्रानपि विघ्नौघान्हरिष्यन्त्यर्चिता इह ॥ ४ ॥
तथा भूतावली चात्र नानाभीषणरूपिणी ॥
उदायुधाऽवति पुरीं शतकोटिमिता मुने ॥ ५ ॥
निर्वाणलक्ष्मीक्षेत्रस्य पालयित्री पदेपदे ॥
एता वै देवताः पूज्याः काश्यां निर्वाणकाङ्क्षिभिः ॥ ६ ॥
श्रुत्वाध्यायमिमं पुण्यं नरो दुर्गजयाभिधम् ॥
नानाशक्तिसमायुक्तं दुर्गमाशु तरिष्यति ॥ ७ ॥
य एते भैरवाः प्रोक्ता ये वेताला उदाहृताः ॥
तेषां नामानि चाकर्ण्य नरो विप्रैर्न दूयते ॥ ८ ॥
अदृष्टा अपि ते भूता एतदाख्यानपाठकम् ॥
रक्षिष्यन्ति प्रयत्नेन सह श्रोतृजनेन च ॥ ९ ॥
तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ॥
श्रोतव्यमिदमाख्यानं महाविघ्ननिवारणम् ॥ ॥ 4.2.72.११० ॥
गृहेपि यस्य लिखितमेतत्स्थास्यति पूजितम् ।
तस्यापदां सहस्राणि नाशयिष्यन्ति देवताः ॥ ११ ॥
काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम् ॥
श्रोतव्यमिदमाख्यानं वज्रपञ्जरसन्निभम् ॥११२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे दुर्गाविजयो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥