०७१ दुर्गपराक्रमः

॥ अगस्त्य उवाच ॥ ॥
कथं दुर्गेति वै नाम देव्या जातम्मुमासुत ॥
कथं च काश्यां सा सेव्या समाचक्ष्वेति मामिह ॥ १॥ ॥
स्कन्द उवाच ॥ ॥
कथयामि महाबुद्धे यथा कलशसम्भव ॥
दुर्गा नामाभवद्देव्या यथा सेव्या च साधकैः ॥ २ ॥
दुर्गो नाम मदादैत्यो रुरु दैत्याङ्गजोभवत्॥
यश्च तप्त्वा तपस्तीव्रं पुम्भ्योजेयत्वमाप्तवान् ॥ ३ ॥
ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि ॥
स्वसात्कृता विनिर्जित्य रणे स्वभुजसारतः ॥ ४ ॥
स्वयमिन्द्रः स्वयं वायुः स्वयं चन्द्रः स्वयं यमः ॥
स्वयमग्निः स्वयं पाशी धनदोभूत्स्वयं बली ॥ ५ ॥
स्वयमीशानरुद्रार्क वसूनां पदमाददे ॥
तत्साध्वसाद्विमुक्तानि तपांस्यति तपस्विभिः॥६ ॥
न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः ॥
यज्ञवाटा विनिर्ध्वस्तास्तद्भटैरतिदुःसहैः ॥ ७ ॥
विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः ॥
प्रसभं च परस्वानि अपहृत्य दुरासदाः ॥ ८ ॥
अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः ॥
नद्यो विमार्गगा आसञ्ज्वलन्ति न तथाग्नयः॥९॥
ज्योतींषि न प्रदीप्यन्ति तद्भयाकुलितान्यहो ॥
दिग्वधूवसनन्यासन्विच्छायानि समन्ततः ॥ 4.2.71.१० ॥
धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः ॥
त एव जलदीभूय ववृषुर्निज लीलया ॥ ११ ॥
सस्यानि तद्भयात्सूते त्वनुप्तापि वसुन्धरा॥
सदैव फलिनो जातास्तरवोप्यवकेशिनः ॥१२॥
बन्दीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा ॥
दिवौकसः कृतास्तेन समस्ताः काननौकसः ॥ १३ ॥
मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः ॥
अपि सम्भाषमात्रेण नार्च्चयन्ति विपज्जुषः ॥ १४ ॥ ॥
स्कन्द उवाच ॥
न कौलीन्यं न सद्वृत्तं महत्त्वाय प्रकल्पते ॥
एकमेव पदं श्रेयः पदभ्रंशो हि लाघवम् ॥ १५ ॥
विपद्यपि हि ते धन्या न ये दैन्यप्रणोदिताः ॥
धनैर्मलिनचित्तानामालभन्तेङ्गणं क्वचित् ॥ १६ ॥
पञ्चत्वमेव हि वरं लोके लाघववर्ज्जितम् ॥
नामरत्वमपि श्रेयो लाघवेन समन्वितम् ॥ १७ ॥
त एव लोके जीवन्ति पुण्यभाजस्त एव वै ॥
विपद्यपि न गाम्भीर्यं यच्चेतोब्धिः परित्यजेत् ॥ १८ ॥
कदाचित्सम्पदुदयः कदाचिद्विपदुद्गमः ॥
दैवाद्द्वयमपि प्राप्य धीरो धैर्यं न हापयेत् ॥ १९ ॥
उदयानुदयौ प्राज्ञैर्द्रष्टव्यौ पुष्पवन्तयोः ॥
सदैकरूपताऽत्याज्या हर्षाहर्षौ ततोऽध्रुवौ ॥ 4.2.71.२० ॥
यस्त्वापदं समासाद्य दैन्यग्रस्तो विपद्यते ॥
तस्य लोकद्वयं नष्टं तस्माद्दैन्यं विवर्जयेत् ॥ २१ ॥
आपद्यपि हि ये धीरा इह लोके परत्र च ॥
न तान्पुनः स्पृशेदापत्तद्धैर्येणावधीरिता ॥ २२ ॥
भ्रष्टराज्याश्च विबुधा महेशं शरणं गताः ॥
सर्वज्ञेन ततो देवीप्रेरिताऽसुरमर्दने ॥२३॥
माहेश्वरीं समासाद्य भवान्याज्ञां प्रहृष्टवत् ॥
अमर्त्यायाऽभयं दत्त्वा समरायोपचक्रमे ॥२४॥
कालरात्रीं समाहूय कान्त्या त्रैलोक्यसुन्दरीम् ॥
प्रेषयामास रुद्राणी तमाह्वातुं सुरद्रुहम् ॥ २५ ॥
कालरात्री समासाद्य तं दैत्यं दुष्टचेष्टितम् ॥
उवाच दैत्याधिपते त्यज त्रैलोक्यसम्पदम् ॥ २६ ॥
त्रिलोकीं लभतामिन्द्रस्त्वं तु याहि रसातलम् ॥
प्रवर्तन्तां क्रियाः सर्वा वेदोक्ता वेदवादिनाम् ॥ २७ ॥
अथ चेद्गर्वलेशोऽस्ति तदायाहि समाजये ॥
अथवा जीविताकाङ्क्षी तदिन्द्रं शरणं व्रज ॥ २८ ॥
इति वक्तुं महादेव्या महामङ्गलरूपया ॥
त्वदन्तिके प्रेषिताहं मृत्युस्ते तदुपेक्षया ॥२९॥
अतो यदुचितं कर्तुं तद्विधेहि महासुर ॥
परं हितं चेच्छृणुयाज्जीवग्राहं ततो व्रज ॥ 4.2.71.३० ॥
इत्याकर्ण्य वचो देव्या महाकाल्याः स दैत्यराट् ॥
प्रजज्वाल तदा क्रोधाद्गृह्यतां गृह्यतामियम् ॥ ३१ ॥
त्रैलोक्यमोहिनी ह्येषा प्राप्ता मद्भाग्यगौरवैः ॥
त्रैलोक्यराज्यसम्पत्ति वल्ल्याः फलमिदं महत् ॥ ३२ ॥
एतदर्थं हि देवर्षि नृपा बन्दी कृता मया ॥
अनायासेन मे प्राप्ता गृहमेषा शुभोदयात् ॥ ३३ ॥
अवश्यं यस्य योग्यं यत्तत्तस्येहोपतिष्ठते ॥
अरण्ये वा गृहे वापि यतो भाग्यस्य गौरवात् ॥ ३४ ॥
अन्तःपुरचरा एतां नयन्त्वन्तःपुरं महत् ॥
अनया सदलं कृत्या मम राष्ट्रमलङ्कृतम् ॥ ३५ ॥
अहो महोदयश्चाद्य जातो मम महामते ॥
केवलं न ममैकस्य सर्वदैत्यान्वयस्य च ॥ ३६ ॥
नृत्यन्तु पितरश्चाद्य मोदन्तां बान्धवाः सुखम् ॥
मृत्युः कालोंऽतको देवाः प्राप्नुवन्त्वद्य मे भयम् ॥ ३७ ॥
इति यावत्समायातास्तां नेतुं सौविदल्लकाः ॥
तावत्तया कालरात्र्या प्रत्युक्तो दैत्यपुङ्गवः॥ ॥ ३८ ॥ ॥
कालरात्र्युवाच ॥ ॥
दैत्यराज महाप्राज्ञ नैतद्युक्तं भवादृशाम् ॥
वयं दूत्यः परवशा राजनीतिविदुत्तम ॥ ३९ ॥
अल्पोपि दूतसम्बाधां न विदध्यात्कदाचन ॥
किं पुनर्ये भवादृक्षा महान्तो बलिनोऽधिपाः ॥ 4.2.71.४० ॥
दूतीषु कोनुरागोयं महाराजाल्पिकास्विह ॥
अनायासेन च वयमायास्यामस्तदागमात् ॥ ४१ ॥
विजित्य समरे तां तु स्वामिनीं मम दैत्यप ॥
मादृशीनां सहस्रणि परिभुङ्क्ष्व यथेच्छया ॥४२॥
अद्यैव ते महासौख्यं भावितस्याविलोकनात्॥
बान्धवानां सुखं तेद्य भविता सह पूर्वजैः ॥ ४३ ॥
सम्पत्स्यन्तेऽद्य ते कामाः सर्वे ये चिरचिन्तिताः ॥
अबला सा च मुग्धा च तस्यास्त्राता न कश्चन ॥ ४४ ॥
सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति ॥
अहं हि दर्शयिष्यामि यत्र साऽस्ति जगत्खनिः ॥ ४५ ॥
धृतायामपि चैकस्यां कस्ते कामो भविष्यति ॥
अहं ते सन्निधिं नैव त्यक्ष्याम्यद्य दिनावधि ॥ ४६ ॥
ततो निवारयैतान्मामादित्सून्सौविदल्लकान् ॥
इति श्रुत्वा वचस्तस्याः स कामक्रोधमोहितः ॥ ४७ ॥
तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः ॥
शुद्धान्तरक्षिणश्चैतां शुद्धां तं प्रापयन्त्वरम् ॥ ४८ ॥
इति तेन समादिष्टाः सर्वे वर्पवरा मुने ॥
तां धर्तुमुद्यमं चक्रुर्बलेन बलवत्तराः ॥ ४९ ॥
सा तान्भस्मीचकाराशु हुङ्कारजनिताग्निना ॥
ततो दैत्यपतिः क्रुद्धो दृष्ट्वा तान्भस्मसात्कृतान् ॥ 4.2.71.५० ॥
क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसम्मितान् ॥
दृशा व्यापारयामास दुर्धरं दुर्मुखं खरम् ॥ ५१ ॥
सीरपाणिं पाशपाणिं सुरेन्द्रदमनं हनुम् ॥
यज्ञारिं खङ्गलोमानमुग्रास्यं देवकम्पनम् ॥ ॥ ५२ ॥
बद्ध्वा पाशैरिमां दुष्टामानयन्त्वाशु दानवाः ॥
विध्वस्तकेशवेशां च विस्त्रस्ताम्बरभूषणाम् ॥ ५३ ॥
इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः ॥
पाशासिमुद्गरधरास्तामादातुं कृतोद्यमाः ॥ ५४ ॥
गिरीन्द्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः ॥
दिगन्तं ते परिप्राप्तास्तदुच्छ्वासानिलाहताः ॥ ५५ ॥
तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च ॥
निर्जगाम ततः सा तु कालरात्रिर्नभोध्वगा ॥ ५६ ॥
ततस्तां तु विनिर्यान्तीमनुजग्मुर्महासुराः॥
कोटिकोटिसहस्राणि पूरयित्वा तु रोदसी ॥ ५७ ॥
दुर्गोनाम महादैत्यः शतकोटि रथावृतः ॥
गजानामर्बुदशतद्वयेनपारिवारितः ॥ ५८ ॥
कोट्यर्बुदेन सहितो हयानां वातरंहसाम् ॥
पदातिभिरसङ्ख्यातैः पच्चूर्णितशिलोच्चयैः ॥ ५९ ॥
उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः ॥
समेतः स महादैत्यो दुर्गः क्रुद्धो विनिर्ययौ ॥ 4.2.71.६० ॥
अथ दृष्ट्वा महादेवी विन्ध्याचलकृतालयाम् ॥
आगत्य कालरात्र्यां च निवेदित तदागसम् ॥ ६१ ॥
महाभुजसहस्राढयां महातेजोभिबृंहिताम् ॥
तत्तद्घोरप्रहरणां रणकौतुकसादराम् ॥ ६२ ॥
प्रौद्यच्चन्द्रसहस्रांशु निर्मार्जित शुभाननाम् ॥
लावण्यवार्धि निर्गच्छच्चञ्चच्चन्द्रैकचन्द्रिकाम् ॥ ६३ ॥
महामाणिक्यनिचय रोचिःखचितविग्रहाम् ॥
त्रैलोक्यरम्यनगरी सुप्रकाशप्रदीपिकाम् ॥६४॥
हरनेत्राग्निनिर्दग्ध कामजीवातुवीरुधम् ॥
लसत्सौन्दर्यसम्भार जगन्मोहमहौषधिम् ॥ ६५ ॥
विषमेषु शरैर्भिन्नहृदयो दैत्यपुङ्गवः ॥
आदिष्टवान्महासैन्यनायकानुप्रशासनः ॥ ६६ ॥
अयि जम्भ महाजम्भ कुजम्भ विकटानन ॥
लम्बोदर महाकाय महादंष्ट्र महाहनो ॥ ६७ ॥
पिङ्गाक्ष महिषग्रीव महोग्रात्युग्रविग्रह ॥
क्रूराक्ष क्रोधनाक्रन्द सङ्क्रन्दन महाभय ॥ ६८ ॥
जितान्तक महाबाहो महावक्त्र महीधर ॥
दुन्दुभे दुन्दुभिरव महादुन्दुभिनासिक ॥ ६९ ॥
उग्रास्य दीर्घदशनमेवकेश वृकानन ॥
सिंहास्य सूकरमुख शिवाराव महोत्कट ॥ 4.2.71.७० ॥
शुकतुण्ड प्रचण्डास्य भीमाक्ष क्षुदमानस ॥
उलूकनेत्र कङ्कास्य काकतुण्ड करालवाक् ॥७१॥
दीर्घग्रीव महाजङ्घ क्रमेलक शिरोधर ॥
रक्तबिन्दो जपानेत्र विद्युज्जिह्वाग्नितापन ॥ ७२ ॥
धूम्राक्ष धूमनिःश्वास चण्डचण्डांशुतापन ॥
महाभीषणमुख्याश्च शृण्वन्त्वाज्ञां ममादरात् ॥ ७३ ॥
भवत्स्वेतेषु चान्येषु एतां विन्ध्यवासिनीम्॥
धृत्यानेष्यति बुद्ध्या वा बलेनापि च्छलेन वा ॥७४॥
तस्याहमिन्द्रपदवीमद्य दास्याम्यसंशयम्॥
दृष्ट्वैतां सुन्दरीमद्य मनो मे व्याकुलं भवेत् ॥ ७२॥
यान्तु क्षिप्रं नयावन्मे पञ्चेषु शरपीडितम् ॥
मनोविह्वलतां गच्छेदेतत्प्राप्तेरभावतः ॥७६॥
इत्याकर्ण्य वचस्तस्य दुर्गस्य दनुजेशितुः ॥
प्रोचुः सर्वे तदा दैत्याः प्रबद्धकरसम्पुटाः ॥ ७७ ॥
अवधेहि महाराज किमेतत्कर्मदुष्करम् ॥
अनाथायास्तथैकस्या अबलया विशेषतः ॥ ७८॥
अस्या आनयने कोयं महायत्नविधिः प्रभो ॥
कोऽस्मान्प्रलयकालाग्निमहाज्वालावलीसमान् ॥ ७९ ॥
सहेत त्रिषु लोकेषु त्वत्प्रसादात्कृतोद्यमान् ॥
यद्यादेशो भवेदद्य तदेन्द्रं स मरुद्गणम् ॥ 4.2.71.८० ॥
सान्तःपुरं समानीय क्षिप्नुमस्त्वत्पदाग्रतः ॥
भूर्भुवःस्वरिदं सर्वं त्वदाज्ञावशवर्तितम् ॥ ८१ ॥
महर्जनस्तपःसत्यलोकास्त्वदधिकारिणः ॥
तत्राप्यसाध्यं नास्माकं त्वन्निदेशान्महासुर ॥ ८२ ॥
वैकुण्ठनायको नित्यं त्वदाज्ञापरिपालकः ॥
यानि रम्याणि रत्नानि तानि सम्प्रेषयन्मुदा ॥८३॥
अस्माभिरेव सन्त्यक्तः कैलासाधिपतिः स वै ॥
विपाशी चातिनिःस्वत्वाद्भस्मकृत्त्यहिभूषणः॥ ८४ ॥
अर्धाङ्गेनास्मद्भयतो योषिदेका निगूहिता ॥
तस्य ग्रामेपि सकले द्वितीयो न चतुष्पदः ॥ ८५ ॥
एकोऽजरद्गवः सोपि नान्यस्मात्परिजीवति ॥
श्मशानवासिनः सर्वे सर्वे कौपीनवाससः ॥८६॥
सर्वे विभूतिधवला सर्वेप्येक कपर्द्दिनः ॥
समस्ते नगरे तस्य वसन्त्येवंविधा गणाः॥८७॥
तेषां गणानां किं कुर्मो दरिद्राणां वयं विभो ॥
समुद्रा रत्नसम्भारं प्रत्यहं प्रेषयन्ति च ॥ ८८ ॥
नागा वराकाश्चास्माकं सायंसायं स्वयं प्रभो ॥
प्रदीपयन्ति सततं फणा रत्नप्रदीपकान् ॥ ८९ ॥
कल्पद्रुमः कामगवी चिन्तामणिगणा बहु ॥
तव प्रसादादस्माकमपि तिष्ठन्ति वेश्मसु ॥ 4.2.71.९० ॥
वायुर्व्यजनतां यातस्त्वां सेवेत प्रयत्नतः ॥
स्वच्छान्यम्बूनि वरुणः प्रत्यहं पूरयत्यहो ॥ ९१ ॥
वासांसि क्षालयेदग्निश्चन्द्रश्छत्रधरः स्वयम् ॥
सूर्यः प्रकाशयेन्नित्यं क्रीडावाप्यम्बुजानि च ॥९२॥
कस्त्वत्प्रसादं नेक्षेत मर्त्यामर्त्योरगेषु च ॥
सर्वे त्वामुपजीवन्ति सुराऽसुरखगादयः ॥ ॥ ९३ ॥
पश्य नः पौरुषं राजन्नानयामो बलादिमाम्॥
इत्युक्त्वा युगपत्सर्वे क्षुब्धास्तोयधयो यथा ॥९४॥
संवर्तकालमासाद्य प्लावितुं जगतीमिमाम्॥
रणतूर्य निनादश्च समुत्तस्थौ समन्ततः ॥ ९५ ॥
रोमाञ्चिता यच्छ्रवणात्कातरा अप्यकातराः ॥
ततो देवा भयत्रस्ताश्चकम्पे च वसुन्धरा ॥ ९६ ॥
क्षुब्धा अम्बुधयः सर्वे पेतुर्नक्षत्रमालिकाः ॥
रोदसीमण्डलं व्याप्तं तेन तूर्यरवेण वै ॥ ९७ ॥
ततो भगवती देवी स्वशरीरसमुद्भवाः ॥
शक्तीरुत्पादयामास शतशोऽथ सहस्रशः ॥९८॥
ताभिः शक्तिभिरेतेषां बलिनां दितिजन्मनाम् ॥
प्रत्येकं परितो रुद्ध उद्वेलः सैन्यसागरः ॥ ९९ ॥
शस्त्रास्त्राणि महादैत्यैर्यान्युत्सृष्टानि सङ्गरे॥
ताभिः शक्तिभिरुग्राणि तृणीकृत्योज्झितान्यरम् ॥ 4.2.71.१०० ॥
ततोतिकोपपूर्णास्ते जम्भमुख्याः सुरारयः ॥
असि चक्र भुशुण्डीभिर्गदामुद्गरतोमरैः ॥ १ ॥
भिन्दिपालैश्च परिघैः कुन्तैः शल्यैश्च शक्तिभिः ॥
अर्धचन्द्रैः क्षुरप्रैश्च नाराचैश्च शिलीमुखैः ॥ २ ॥
महाभल्लैः परशुभिर्भिन्दुरैर्मर्मभेदिभिः ॥
वृक्षोपलमहावर्षैर्ववृषुर्जलदा इव ॥ ३ ॥
अथ सा विन्ध्यनिलया महामाया महेश्वरी ॥
आदायोद्दण्डकोदण्डं वायव्यास्त्रेण हेलया ॥ ४ ॥
दैत्यास्त्रशस्त्रजालानि परिचिक्षेप दूरतः ॥
ततो महासुरो दुर्गो वीक्ष्य सैन्यं निरायुधम् ॥ ५ ॥
ज्वलन्तीं शक्तिमादाय तां देवीं प्रति सोऽक्षिपत् ॥
तां तु शक्तिं समायान्तीं महावेगवतीं रणे ॥ ६ ॥
निजचापविनिर्मुक्तैर्बाणैश्चूर्णी चकार सा ॥
भग्नां शक्तिं समालोक्य ततो दुर्गो महासुरः ॥ ७ ॥
चक्रं च प्रेषयामास दैत्यचक्रातिहर्षदम् ॥
तच्च देव्या शरशतैरन्तरैवाणुवत्कृतम् ॥ ८ ॥
ततः शार्ङ्गं समादाय धनुः शक्रधनुर्यथा ॥
हृदि विव्याध बाणेन तां देवीममरार्दनः ॥ ९ ॥
स च बाणस्तया देव्या निज बाणैर्महाजवैः ॥
निवारितोपि वेगेन तां देवीमभ्यगान्मुने ॥ 4.2.71.११० ॥
ततः कोदण्डदण्डेन आषुगेन तमाशुगम् ॥
हत्वा निवारयामास कालदण्डमिवापरम् ॥ ११ ॥
तस्मिन्विमुखतां याते मार्गणे दुर्गमासुरः ॥
क्रुद्धः शूलं समादाय संवर्तानलसुप्रभम् ॥ १२ ॥
महावेगन चिक्षेप तां देवीमभि दैत्यपः ॥
परापतच्च तच्छूलं निजशूलेन चण्डिका ॥ १३ ॥
अन्तरैव प्रचिच्छेद सह दैत्यजयाशया ॥
तस्मिन्नपि महाशूले देवीशूलावहेलिते ॥ १४ ॥
गदामादाय दैत्येन्द्रः सहसाभिपपात ह ॥
आजघान च तं देवीं भुजमूले महाबलः ॥ १५ ॥
सापि देवी भुजं प्राप्य गिरीन्द्रशिखराकृतिः ॥
गदाशुपरिपुस्फोट शतधा च सहस्रधा ॥ १६ ॥
तदा देव्या स दैत्येन्द्रो वामपादतलेन हि ॥
आताडितः पपातोर्व्यां हृदि गाढं प्रपीडितः ॥१७॥
तत्क्षणादेव दैत्येन्द्रः पतित्वा पुनरुत्थितः ॥
बभूव सहसा दृश्यो दीपो वातहतो यथा ॥ १८ ॥
तावञ्जगज्जनन्याताः प्रेरिता निज शक्तयः ॥
विचेरुर्दैत्यसैन्येषु संवर्ते मृत्युसैन्यवत् ॥ ११९ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे दुर्गपराक्रमो नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥