अगस्त्य उवाच ॥
कात्यायनेय कथय नन्दिना विश्वनन्दिना ॥
यथा व्यापारिता देव्यो देवदेवनिदेशतः ॥ १ ॥
अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः ॥
प्रसादं कुरु मे देव ताः समाचक्ष्व तत्त्वतः ॥ २ ॥
इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः ॥
कथयामास या यत्र स्थिताऽऽनन्दवने मुदा ॥ ३ ॥
स्कन्द उवाच ॥ ॥
वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा ॥
विशालतीर्थं गङ्गायां कृत्वा पृष्ठे व्यवस्थिता ॥ ४ ॥
स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च ॥
विशालां लभते लक्ष्मीं परत्रेह च शर्मदाम् ॥ ५ ॥
भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः ॥
कृत्वा जागरणं रात्रौ विशालाक्षीसमीपतः ॥ ६ ॥
प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः ॥
अलङ्कृता यथाशक्त्या स्रगम्बरविभूषणैः ॥७॥
विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः॥
सम्यग्वाराणसीवासफलं लभ्येत कुम्भज ॥ ८ ॥
तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः ॥
उपसर्ग प्रशान्त्यर्थं निर्वाणकमलाप्तये ॥ ९ ॥
वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः ॥
धूपदीपैः शुभैर्माल्यैरुपहारैर्मनोहरैः ॥4.2.70.१०॥
मणिमुक्ताद्यलङ्कारैर्विचित्रोल्लोच चामरैः ॥
शुभैरनुपभुक्तैश्च दुकूलैर्गन्धवासितैः ॥ ११॥
मोक्षलक्ष्मी समृद्ध्यर्थं यत्रकुत्र निवासिभिः ॥
अप्यल्पमपि यद्दत्तं विशालाक्ष्यै नरोत्तमैः ॥ १२ ॥
तदानन्त्याय जायन्त मुने लोकद्वयेपि हि ॥
विशालाक्षी महापीठे दत्तं जप्तं हुतं स्तुतम् ॥ १३ ॥
मोक्षस्तस्य परीपाको नात्र कार्या विचाणा ॥
विशालाक्षी समर्चातो रूपसम्पत्तियुक्पतिः ॥१४ ॥
प्राप्यतेत्र कुमारीभिर्गुणशीलाद्यलङ्कृतः ॥
गुर्विणीभिः सुतनयो वन्ध्याभिगर्भसम्भवः ॥ १५ ॥
असौभाग्यवतीभिश्च सौभाग्यं महदाप्यते ॥
विधवाभिर्न वैधव्यं पुनर्जन्मान्तरे क्वचित्॥ ॥ १६ ॥
सीमन्तिनीभिः पुम्भिर्वा परं निर्वाणमिच्छुभिः ॥
श्रुता दृष्टार्चिता काश्यां विशालाक्ष्यभिलाषदा ॥१७॥
ततोन्यल्ललितातीर्थं गङ्गाकेशवसन्निधौ ॥
तत्रास्ति ललिता देवी क्षेत्ररक्षाकरी परा ॥ १८ ॥
सा च पूज्या प्रयत्नेन सर्वसम्पत्समृद्धये ॥
ललितापूजकानां च जातु विघ्नो न जायते ॥ १९ ॥
इषे कृष्णद्वितीयायां ललितां परिपूज्य वै ॥
नारी वा पुरुषो वापि लभते वाञ्छितं पदम् ॥ 4.2.70.२० ॥
स्नात्वा च ललिता तीर्थे ललितां प्रणिपत्य वै ॥
लभेत्सर्वत्र लालित्यं यद्वा तद्वाऽनुलप्य च ॥ २१ ॥
मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता ॥
संहरन्ती महाविघ्नं क्षेत्रभक्तिजुषां सदा ॥ २२ ॥
शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः ॥
देव्या विश्वभुजाया वै सर्वकामसमृद्धये ॥२३॥
यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः ॥
कुतो महोपसर्गेभ्यस्तस्य शान्तिर्दुरात्मनः ॥ २४ ॥
यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता ॥
न हि तान्विघ्नसङ्घातो बाधते सुकृतात्मनः ॥ २५ ॥
अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ ॥
तां प्रणम्य नरो भक्त्या विपदब्धौ न मज्जति ॥ २६ ॥
शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी ॥
आनन्दवनरक्षार्थमुद्यच्छूलारितर्जनी ॥ २७ ॥
वज्रहस्ता तथा चैन्द्री गजराज रथास्थिता ॥
इन्द्रेशाद्दक्षिणेभागेऽर्चिता सम्पत्करी सदा ॥ २८ ॥
स्कन्देश्वर समीपे तु कौमारी बर्हियानगा ॥
प्रेक्षणीया प्रयत्नेन महाफलसमृद्धये ॥ २९ ॥
महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः ॥
वृषयानवती पूज्या महावृषसमृद्धिदा ॥ 4.2.70.३० ॥
निर्वाणनरसिंहस्य समीपे मोक्षकाङ्क्षिभिः ॥
नारसिंही समर्च्या च समुद्यच्चक्र रम्यदोः ॥ ३१ ॥
हंसयानवती ब्राह्मी ब्रह्मेशात्पश्चिमे स्थिता ॥
गलत्कमण्डलुजल चुलका ताडिता हिता ॥ ३२ ॥
ब्रह्मविद्या प्रबोधार्थं काश्यां पूज्या दिनेदिने ॥
ब्राह्मणैर्यतिभिर्नित्यं निजतत्त्वावबोधिभिः ॥ ३३ ॥
शार्ङ्गचापविनिर्मुक्त महेषुभिरितस्ततः ॥
उत्सादयन्तीं प्रत्यूहान्काश्यां नारायणीं श्रयेत् ॥ ३४ ॥
प्रतीच्याङ्गोपिगोविन्दाद्भ्राम्यच्चक्रोच्च तर्जनीम्॥
नारायणीं यः प्रणमेत्तस्य काश्यां महोदयः॥३५॥
ततो गौरीं विरूपाक्ष देवयान्या उदग्दिशि ॥
पूजयित्वा नरो भक्त्या वाञ्छितां लभते श्रियम् ॥ ३६ ॥
शैलेश्वरी समभ्यर्च्या शैलेश्वर समीपगा ॥
तर्जयन्ती च तर्जन्या संसर्गमुपसर्गजम् ॥ ३७ ॥
चित्रकूपे नरः स्नात्वा विचित्रफलदे नृणाम् ॥
चित्रगुप्तेश्वरं वीक्ष्य चित्रघण्टां प्रपूज्य च ॥ ३८ ॥
बहुपातकयुक्तोपि त्यक्तधर्मपथोपि वा ॥
न चित्रगुप्तलेख्यः स्याच्चित्रघण्टार्चको नरः ॥ ३९ ॥
योषिद्वा पुरुषो वापि चित्रघण्टां न योर्चयेत् ॥
काश्यां विघ्नसहस्राणि तं सेवन्ते पदेपदे ॥4.2.70.४०॥
चैत्रशुक्लतृतीयायां कार्या यात्रा प्रयत्नतः ॥
महामहोत्सवः कार्यो निशि जागरणं तथा ॥ ४१ ॥
महापूजोपकरणैश्चित्रघण्टां समर्च्य च ॥
शृणोति नान्तकस्येह घण्टां महिषकण्ठगाम् ॥ ४२ ॥
चित्राङ्गदेश्वरप्राच्यां चित्रग्रीवां प्रणम्य च ॥
न जातु जन्तुर्वीक्षेत विचित्रां यमयातनाम् ॥ ४३ ॥
भद्रकालीं नरो दृष्ट्वा नाभद्रं पश्यति क्वचित्॥
भद्रनागस्य पुरतो भद्रवाप्यां कृतोदकः ॥ ४४ ॥
हरसिद्धिं प्रयत्नेन पूजयित्वा नरोत्तमः ॥
महासिद्धिमवाप्नोति प्राच्यां सिद्धिविनायकात् ॥ ४५ ॥
विधिं सम्पूज्य विधिवद्विविधैरुपहारकैः ॥
विविधां लभते सिद्धिं विधीश्वरसमीपगाम् ॥ ४६ ॥
प्रयागतीर्थे सुस्नातो जनो निगडभञ्जनीम् ॥
सभाजयित्वा नो जातु निगडैः परिबाध्यते ॥ ४७ ॥
भौमवारे सदा पूज्या देवीनिगडभञ्जनी ॥
कृत्वैकभुक्तं भक्त्यात्र बन्दीमोक्षणकाम्यया ॥ ४८ ॥
संसारबन्धविच्छित्तिमपि यच्छति सार्चिता ॥
गणना शृङ्खलादीनां का च तस्याः समर्चनात् ॥४९॥
दूरस्थोपि हि यो बन्धुः सोपि क्षिप्रं समेष्यति ॥
बन्दी पदजुषां पुंसां श्रद्धया नात्र संशयः ॥ 4.2.70.५० ॥
किञ्चिन्नियममालम्ब्य यदि सा परिषेविता ॥
कामान्पूरयति क्षिप्रं काशी सन्देहहारिणी ॥ ५१ ॥
घनटङ्ककरा देवी भक्तबन्धनभेदिनी ॥
कं कं न पूरयेत्कामं तीर्थराजसमीपगा ॥ ५२ ॥
देवी पशुऽपतेः पश्चादमृतेश्वर सन्निधौ ॥
स्नात्वा चैवामृते कूपे नमनीया प्रयत्नतः ॥ ५३ ॥
पूजयित्वा नरो भक्त्या देवताममृतेश्वरीम् ॥
अमृतत्वं भजेदेव तत्पादाम्बुज सेवनात् ॥ ५४ ॥
धारयन्तीं महामायाममृतस्य कमण्डलुम् ॥
दक्षिणेऽभयदां वामे ध्यात्वा को नाऽमृतत्वभाक् ॥५५॥
सिद्धलक्ष्मी जगद्धात्री प्रतीच्याममृतेश्वरात् ॥
प्रपितामह लिङ्गस्य पुरतः सिद्धिदार्चिता ॥५६॥
प्रासादं सिद्धलक्ष्म्याश्च विलोक्य कमलाकृतिम् ॥
लक्ष्मीविलाससञ्ज्ञं च को न लक्ष्मीं समाप्नुयात् ॥५७॥
ततः कुब्जा जगन्माता नलकूवरलिङ्गतः ॥
पूजनीया पुरोभागे प्रपितामहपश्चिमे ॥ ५८ ॥
उपसर्गा न शेषांश्च कुब्जा हरति पूजिता ॥
तस्मात्कुब्जा प्रयत्नेन पूज्या काश्यां शुभार्थिभिः ॥ ५९ ॥
कुब्जाम्बरेश्वरं लिङ्गं नलकूबर पश्चिमे ॥
त्रिलोकसुन्दरी गौरी तत्रार्च्याभीष्टदायिनी ॥ 4.2.70.६० ॥
त्रिलोकसुन्दरी सिद्धिं दद्यात्त्रैलोक्यसुन्दरीम् ॥
वैधव्यं नाप्यते क्वापि तस्या देव्याः समर्चनात् ॥ ६१ ॥
दीप्ता नाम महाशक्तिः साम्बादित्यसमीपगा ॥
देदीप्यमान लक्ष्मीका जायन्ते तत्समर्चनात् ॥ ६२ ॥
श्रीकण्ठ सन्निधौ देवी महालक्ष्मीर्जगज्जनिः ॥
स्नात्वा श्रीकुण्ड तीर्थे तु समर्च्या जगदम्बिका ॥ ६३ ॥
पितॄन्सन्तर्प्य विधिवत्तीर्थे श्रीकुण्डसञ्ज्ञिते ॥
दत्त्वा दानानि विधिवन्न लक्ष्म्या परिमुच्यते ॥ ६४ ॥
लक्ष्मीक्षेत्रं महापीठं साधकस्यैव सिद्धिदम् ॥
साधकस्तत्र मन्त्रांश्च नरः सिद्धिमवाप्नुयात् ॥ ६५ ॥
सन्ति पीठन्यनेकानि काश्यां सिद्धिकराण्यपि ॥
महालक्ष्मीपीठसमं नान्यल्लक्ष्मीकरं परम् ॥ ६६ ॥
महालक्ष्म्यष्टमीं प्राप्य तत्र यात्रा कृतां नृणाम् ॥
सम्पूजितेह विधिवत्पद्मा सद्म न मुञ्चति ॥ ६७ ॥
उत्तरे तु महालक्ष्म्या हयकण्ठीकुठारधृक् ॥
काशीविघ्रमहावृक्षांश्छिनत्ति प्रतिवासरम् ॥ ६८ ॥
कौर्मी शक्तिर्महालक्ष्मी दक्षिणे पाशपाणिका ॥
बध्नाति विघ्नसङ्घातं क्षेत्रस्यास्य प्रतिक्षणम्॥ ६९ ॥
सा पूजितास्तुता मर्त्यैः क्षेत्रसिद्धिं प्रयच्छति॥
वायव्यां च शिखी चण्डी क्षेत्ररक्षाकरी परा ॥ 4.2.70.७० ॥
खादन्ती विघ्नसङ्घातं शिखी शब्दं करोति च ॥
तस्याः सन्दर्शनात्पुंसां नश्यन्ति व्याधयोखिलाः॥ ७१ ॥
भीमचण्ड्युत्तरद्वारं सदा रक्षेदतन्द्रिता ॥
भीमेश्वरस्य पुरतः पाशमुद्गरधारिणीम् ॥ ७२ ॥
भीमचण्डीं नरो दृष्ट्वा भीमकुण्डे कृतोदकः ॥
भीमाकृतीन्न वै पश्येद्याम्यान्दूतान्क्वचित्कृती ॥७३॥
छागवक्त्रेश्वरी देवी दक्षिणे वृषभध्वजात् ॥
अहर्निशं भक्षयति विघ्नौघतरुपल्लवान्॥ ॥ ७४ ॥
तस्या देव्याः प्रसादेन काशीवासः प्रलभ्यते ॥
अतश्छागेश्वरीं देवीं महाष्टम्यां प्रपूजयेत् ॥७५॥
तालजङ्घेश्वरी देवी तालवृक्षकृतायुधा ॥
उत्सादयति विघ्नौघानानन्दवन मध्यगान् ॥ ७६ ॥
सङ्गमेश्वर लिङ्गस्य दक्षिणे विकटाननाम् ॥
तालजङ्घेश्वरीं नत्वा न विघ्नैरभिभूयते ॥७७॥
उद्दालकेश्वराल्लिङ्गात्तीर्थं उद्दालकाभिधे ॥
याम्यां च यमदंष्ट्राख्या चर्वयेद्विघ्नसंहतिम् ॥ ७८ ॥
प्रणता यमदंष्ट्रायैस्तीर्थेचोद्दालकाभिधे ॥
कृत्वापि पापसङ्घातं न यमाद्बिभ्यतीहते ॥ ॥ ७९ ॥
दारुकेश्वर तीर्थे तु दारुकेशसमीपतः ॥
पातालतालुवदनामाकाशोष्ठीं धराधराम् ॥ 4.2.70.८० ॥
कपालकर्त्रीं हस्तां च ब्रह्माण्डकवलप्रियाम् ॥
शुष्कोदरीं स्नायुबद्धां चर्ममुण्डेति विश्रुताम् ॥ ८१ ॥
क्षेत्रस्य पूर्वदिग्भागं रक्षन्ती विघ्नसङ्घतः ॥
लसत्सहस्रदोर्दण्डां ज्वलत्केकरवीक्षणाम् ॥ ८२ ॥
पारावारप्रसृमर हस्त न्यस्तारि मोदकाम् ॥
द्वीपि कृत्तिपरीधानां कटुकाट्टाट्टहासिनीम् ॥ ८३ ॥
मृणालनालवत्तीव्रं चर्वन्तीमस्थि पापिनः ॥
शूलाग्रप्रोत दुर्वृत्त क्षेत्रद्रोहिकलेवराम् ॥ ८४ ॥
कपालमालाभरणां महाभीषणरूपिणीम् ॥
चर्ममुण्डां नरो नत्वा क्षेत्रविघ्नैर्न बाध्यते ॥ ८५ ॥
यथैव चर्ममुण्डैषा महारुण्डापि तादृशी॥
एतावानेव भेदोस्या रुण्डस्रग्भूषणात्वियम् ॥ ८६ ॥
क्षेत्ररक्षां प्रकुरुत उभेदेव्यौ महाबले ॥
हसन्त्यौ करतालीभिरन्योन्यं दोः प्रसारणात् ॥८७॥
हयग्रीवेश्वरे तीर्थे लोलार्कादुत्तरे सदा ॥
महारुण्डा प्रचण्डास्या तिष्ठते भक्तविघ्नहृत् ॥८८॥
चर्ममुण्डा महारुण्डा कथिते ये तु देवते ॥
तयोरन्तरतस्तिष्ठेच्चामुण्डा मुण्डरूपिणी ॥ ८९ ॥
एतास्तिस्रः प्रयत्नेन पूज्याः क्षेत्रनिवासिभिः ॥
धनधान्यप्रदाश्चैताः पुत्रपौत्रप्रदा इमाः ॥ 4.2.70.९० ॥
उपसर्गानमूर्घ्नन्ति दद्युर्नैःश्रेयसीं श्रियम् ॥
स्मृता दृष्टा न ताः स्पृष्टाः पूजिताः श्रद्धया नरैः ॥ ९१ ॥
महारुण्डा प्रतीच्यां च देवी स्वप्नेश्वरी शुभा ॥
भविष्यं कथयेत्स्वप्ने भक्तस्याग्रे शुभाशुभम् ॥ ९२ ॥
तत्र स्वप्नेश्वरं लिङ्गं देवीं स्वप्नेश्वरीं तथा॥
स्नात्वासिसङ्गमे पुण्ये यस्मिन्कस्मिंस्तिथावपि ॥ ९३ ॥
उपोषणपरो धीमान्नारीवा पुरुषोपि वा ॥
सम्पूज्य स्थण्डिलशयः स्वप्ने भावि विलोकयेत् ॥९४॥
अद्यापि प्रत्ययस्तत्र कार्य एष विजानता ॥
भूतं भावि भवत्सर्वं वदेत्स्वप्नेश्वरी निशि॥९५॥
अष्टम्यां च चतुर्दश्यां नवम्यां निशि वा दिवा॥
प्रयत्नतः समर्च्या सा काश्यां ज्ञानार्थिभिर्नरैः ॥ ९६ ॥
स्वप्नेश्वर्याश्च वारुण्यां दुर्गादेवी व्यवस्थिता ॥
क्षेत्रस्य दक्षिणं भागं सा सदैवाभिरक्षति ॥ ९७ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे देवताधिष्ठानन्नाम सप्ततितमोऽध्यायः ॥ ७० ॥