॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्य तपोराशे काश्यां लिङ्गानि यानि वै ॥
सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम् ॥ १ ॥
कृत्तिप्रावरणं यत्र कृतं देवेन लीलया ॥
रुद्रावास इति ख्यातं तत्स्थानं सर्वसिद्धिदम् ॥ २ ॥
स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि ॥
आगत्य नन्दी विज्ञप्तिं चक्रे प्रणतिपूर्वकम् ॥ ३ ॥
देवदेवेश विश्वेश प्रासादाः सुमनोहराः ॥
सर्वरत्नमया रम्याः साष्टाषष्टिरभूदिह ॥ ४ ॥
भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि ॥
मुक्तिदान्यपि तानीह मयानीतानि सर्वतः ॥ ५ ॥
यतो यच्च समानीतं यत्र यच्च कृतास्पदम् ॥
कथयिष्याम्यहं नाथ क्षणं तदवधार्यताम् ॥ ६ ॥
स्थाणुर्नाम महालिङ्गं देवदेवस्य मोक्षदम् ॥
कुरुक्षेत्रादिहोद्भूतं कलाशेषोस्ति तत्र वै ॥ ७ ॥
तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा ॥
लोलार्क पश्चिमे भागे कुरुक्षेत्रस्थली तु सा ॥ ८ ॥
तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः ॥
कुरुक्षेत्राद्भवेत्सत्यं कोटिकोटिगुणाधिकम् ॥ ९ ॥
नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः ॥
तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो ॥ 4.2.69.१० ॥
ढुण्ढिराजोत्तरेभागे सिद्धिदं साधकस्य वै ॥
लिङ्गं वै देवदेवाख्यं तदग्रे कूप उत्तमः ॥ ११ ॥
ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम् ॥
तत्कूपाद्भिः कृतस्नानो देवदेवं समर्च्य च ॥ १२ ॥
तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम् ॥
गोकर्णायतनादत्र स्वयमाविरभून्महत् ॥ १३ ॥
लिङ्गं महाबलं नाम साम्बादित्यसमीपतः ॥
दर्शनात्स्पर्शनाद्यस्य क्षणादेनो महाबलम् ॥ १४ ॥
वाताहतस्तूलराशिरिव विद्राति दूरतः ॥
कपालमोचनपुरो दृष्ट्वा लिङ्गं महाबलम् ॥ १५ ॥
महाबलमवाप्नोति निवार्णनगरं व्रजेत् ॥
ऋणमोचनतः प्राच्यां प्रभासात्क्षेत्रसत्तमात् ॥ १६ ॥
शशिभूषणसञ्ज्ञं तु लिङ्गमत्र प्रतिष्ठितम् ॥
तल्लिङ्गसेवनान्मर्त्यः शाशिभूषणतां व्रजेत् ॥ १७ ॥
प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् ॥
उज्जयिन्या महाकालः स्वयमत्रागतो विभुः ॥ १८ ॥
यन्नामस्मरणादेव न भयं कलिकालतः ॥
प्रणवाख्यान्महालिङ्गात्प्राच्यां कल्मषनाशनम् ॥ १९ ॥
महाकालाभिधं लिङ्गं दर्शनान्मोक्षदं परम् ॥
अयोगन्धेश्वरं लिङ्गं पुष्करात्तीर्थसत्तमात् ॥ 4.2.69.२० ॥
आविरासीदिह महत्पुष्करेण सहैव तु ॥
मत्स्योदर्युत्तरेभागे दृष्ट्वा ऽयोगन्धमीश्वरम् ॥ २१ ॥
स्नात्वाऽयोगन्धकुण्डे तु भवात्तारयते पितॄन् ॥
महानादेश्वरं लिङ्गमट्टहासादिहागतम् ॥ २२ ॥
त्रिलोचनादुदीच्यां तु तद्दृष्टमुक्तये मतम् ॥
महोत्कटेश्वरं लिङ्गं मरुत्कोटादिहागतम् ॥
कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम् ॥ २३ ॥
विश्वस्थानादिहायातं लिङ्गं वै विमलेश्वरम् ॥
स्वर्लीनात्पश्चिमे भागे दृष्टं विमलसिद्धिदम् ॥ २४ ॥
महाव्रतं महालिङ्गं महेन्द्रादिह संस्थितम् ॥
स्कन्देश्वर समीपे तु महाव्रतफलप्रदम् ॥ २५ ॥
वृन्दारकर्षिवृन्दानां स्तुवतां प्रथमे युगे ॥
उत्पन्नं यन्महालिङ्गं भूमिं भित्त्वा सुदुर्भिदाम् ॥ २६ ॥
महादेवेति तैरुक्तं यन्मनोरथपूरणात ॥
वाराणस्यां महादेवस्तदारभ्याभवच्च यत् ॥ २७ ॥
मुक्तिक्षेत्रं कृतं येन महालिङ्गेन काशिका ॥
अविमुक्ते महादेवं यो द्रक्ष्यत्यत्रमानवः ॥ २८ ॥
शम्भुलोके गमस्तस्य यत्रतत्र मृतस्य हि ॥
अविमुक्ते प्रयत्नेन तत्संसेव्यं मुमुक्षुभिः ॥ २९ ॥
कल्पान्तरेपि न त्यक्तं कदाप्यानन्दकाननम् ॥
येन लिङ्गस्वरूपेण महादेवेन सर्वथा ॥ 4.2.69.३० ॥
तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः ॥
हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षकम् ॥ ३१ ॥
वाराणस्यामधिष्ठात्री देवता साभिलाषदा ॥
महादेवेति सञ्ज्ञा वै सर्वलिङ्गस्वरूपिणी ॥ ३२ ॥
वाराणस्यां महादेवो दृष्टो यैर्लिङ्गरूपधृक् ॥
तेन त्रैलोक्यलिङ्गानि दृष्टानीह न संशयः ॥ ३३ ॥
वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः ॥
आभूतसम्प्लवं यावच्छिवलोके वसेन्मुदा ॥३४॥
पवित्रपर्वणि सदा श्रावणे मासि यत्नतः ॥
लिङ्गे पवित्रमारोप्य महादेवे न गर्भभाक् ॥३५॥
पितामहेश्वरं लिङ्गं गयातीर्थादिहागतम् ॥
फल्ग्रुप्रभृतिभिस्तीर्थैः सार्धकोट्यष्टसम्मितैः ॥३६॥
धर्मेण यत्र वै तप्तं युगानामयुतं शतम् ॥
साक्षीकृत्य महालिङ्गं श्रीमद्धर्मेश्वराभिधम् ॥ ३७ ॥
पितामहेश्वरं लिङ्गं तत्राभ्यर्च्य नरो मुदा ॥
त्रिःसप्तकुलसंयुक्तो मुच्यते नात्र संशयः ॥३८॥
प्रयागात्तीर्थराजाच्च शूलटङ्को महेश्वरः ॥
तीर्थराजेन सहितः स्थित आगत्य वै स्वयम्॥ ३९ ॥
निर्वाणमण्डपाद्रम्यादवाच्यामतिनिर्मलः ॥
प्रासादो मेरुणा यस्य स्पर्धते काञ्चनोज्वलः ॥ 4.2.69.४० ॥
देवेनैव वरो दत्तो यत्र पूर्वं युगान्तरे ॥
पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः ॥ ४१ ॥
यः प्रयाग इह स्नातो नमस्यति महेश्वरम् ॥
समभ्यर्च्य विधानेन महासम्भारविस्तरैः ॥ ४२ ॥
प्रयागस्नानजात्पुण्याच्छूलटङ्क विलोकनात् ॥
स प्राप्नुयान्न सन्देहः पुण्यं कोटिगुणोत्तरम् ॥ ४३ ॥
शङ्कुकर्णान्महाक्षेत्रान्महातेज इतीरितम् ॥
लिङ्गमाविरभूदत्र महातेजोविवृद्धिदम् ॥ ४४ ॥
महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः ॥
ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः ॥ ४५ ॥
तल्लिङ्गदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात् ॥
प्राप्यते तत्परं धाम यत्र गत्वा न शोचते ॥ ४६ ॥
विनायकेश्वरात्पूर्वं महातेजः समर्चनात् ॥
तेजोमयेन यानेन याति माहेश्वरं पदम् ॥ ४७ ॥
रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात् ॥
महायोगीश्वरं लिङ्गमाविश्चक्रे स्वयं परम् ॥ ४८ ॥
पार्वतीश्वर लिङ्गस्य समीपे सर्वसिद्धिकृत् ॥
तल्लिङ्गदर्शनात्पुंसां कोटिलिङ्ग फलं भवेत् ॥ ४९ ॥
तत्प्रासादस्य परितो रुद्राणां कोटिसम्मिताः ॥
प्रासादारम्यसंस्थाना निर्मिता रुद्रमूर्तिभिः ॥ 4.2.69.५० ॥
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः॥
रुद्रस्थल्यां मृता ये वै कृमिकीटपतङ्गकाः ॥ ॥ ५१ ॥
पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः ॥
तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न ॥ ५२ ॥
जन्मान्तरसहस्रेषु यत्पापं समुपार्जितम् ॥
रुद्रस्थलीं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ५३ ॥
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥
रुद्रस्थल्यां त्यजन्प्राणान्परं निर्वाणमाप्नुयात् ॥ ५४ ॥
स्वयमेकाम्बरात्क्षेत्रात्कृत्तिवासा इहागतः ॥
कृत्तिवाससि लिङ्गेत्र स्वयमेव व्यवस्थितः ॥ ५५ ॥
अस्मिन्स्थाने स्वभक्तानां साम्बः सर्षिगणो विभुः ॥
स्वयं चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीडितम् ॥ ५६ ॥
क्षेत्रेत्र सिद्धिदे प्राप्तश्चण्डीशो मरुजाङ्गलात् ॥
प्रचण्डपापसङ्घातं खण्डयेच्छतधेक्षणात् ॥ ५७ ॥
पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति ॥
चण्डीश्वरं महालिङ्गं स याति परमां गतिम् ॥ ५८ ॥
कालञ्जरान्नीलकण्ठस्तिष्ठेदत्र स्वयं विभुः ॥
गणेशाद्दन्तकूटाख्यात्समीपे भवनाशनः ॥ ५९ ॥
नीलकण्ठेश्वरं लिङ्गं काश्यां यैः परिपूजितम् ॥
नीलकण्ठास्त एव स्युस्तएव शशिभूषणाः ॥ 4.2.69.६० ॥
काश्मीरादिह सम्प्राप्तं लिङ्गं विजयसञ्ज्ञितम् ॥
सदा विजयदं पुंसां प्राच्यां शालकटङ्कटात् ॥ ६१ ॥
रणे राजकुले द्यूते विवादे सर्वदैव हि ॥
विजयो जायते पुंसां विजयेश समर्चनात् ॥ ॥ ६२ ॥
ऊर्ध्वरेतास्त्रिदण्डायाः सम्प्राप्तोत्र स्वयं विभुः ॥
कूश्माण्डकं गणाध्यक्षं पुरस्कृत्य व्यवस्थितः ॥ ६३ ॥
ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः ॥
ऊर्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः ॥ ६४ ॥
मण्डलेश्वरतः क्षेत्राल्लिङ्गं श्रीकण्ठसञ्ज्ञितम् ॥
विनायकान्मण्डसञ्ज्ञादुत्तरस्यां व्यवस्थितम् ॥ ६५ ॥
श्रीकण्ठस्य च ये भक्ताः श्रीकण्ठा एव ते नराः ॥
नेह श्रिया वियुज्यन्ते न परत्र कदाचन ॥ ६६ ॥
छागलाण्डान्महातीर्थात्कपर्दीश्ववरसञ्ज्ञितः ॥
पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः ॥ ६७ ॥
कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत् ॥
न पिशाचत्वमाप्नोति कृत्वात्राप्यघमुत्तमम् ॥ ६८ ॥
आम्रातकेश्वरात्क्षेत्राल्लिङ्गं सूक्ष्मेश सञ्ज्ञितम् ॥
स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसाम्पदे ॥ ६९ ॥
विकट द्विजसञ्ज्ञस्य गणेशस्य समीपतः ॥
दृष्ट्वा सूक्ष्मेश्वरं लिङ्गं गतिं सूक्ष्मामवाप्नुयात्॥4.2.69.७०॥ ।
सम्प्राप्तमिह देवेशं जयन्तं मधुकेश्वरात् ॥
लम्बोदराद्गणपतेः पुरस्तात्तदवस्थितम् ॥ ७१ ॥
जयन्तेश्वरमालोक्य स्नात्वा गङ्गाजले शुभे ॥
प्राप्नुयाद्वाञ्छितां सिद्धिं सर्वत्र विजयी भवेत् ॥ ७२ ॥
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरान्तकः ॥
श्रीशैलशिखरं दृष्ट्वा यत्फलं समुदीरितम् ॥ ७३ ॥
त्रिपुरान्तकमालोक्य तत्फलं हेलयाप्यते ॥
विश्वेरात्पश्चिमे भागे त्रिपुरान्तकमीश्वरम् ॥ ७४ ॥
सम्पूज्य परया भक्त्या न नरो गर्भमाविशेत् ॥
सौम्यस्थानादिहायातो भगवान्कुक्कुटेश्वरः ॥ ॥ ७९ ॥
वक्रतुण्ड गणाध्यक्ष समीपे सोपतिष्ठते ॥
तद्दर्शनादर्चनाच्च करस्थाः सर्वसिद्धयः ॥७६॥
जालेश्वरात्त्रिशूली च स्वयमीशः समागतः ॥
कूटदन्ताद्गणपतेः पुरस्तात्सर्वसिद्धिदः ॥ ७७ ॥
रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः ॥
एकदन्तोत्तरे भागे सोर्चितः सर्वकामदः ॥ ७८ ॥
त्रिसन्ध्यात्क्षेत्रतो देवस्त्र्यम्बकोस्ति समागतः ॥
त्रिमुखात्पूर्वदिग्भागे पूजितस्त्र्यम्बकत्वकृत् ॥ ७९ ॥
हरेश्वरो हरिश्चन्द्रात्क्षेत्रादत्र समागतः ॥
हरिश्चन्द्रेश्वरपुरः पूजितो जयदः सदा ॥ 4.2.69.८० ॥
इह शर्वः समायातः स्थानान्मध्यमकेश्वरात् ॥
चतुर्वेदेश्वरं लिङ्गं पुरोधाय व्यवस्थितम् ॥ ८१ ॥
शर्वं लिङ्गं समभ्यर्च्य काश्यां परमसिद्धिकृत् ॥
न जातु जन्तुपदवीं प्राप्नुयात्क्वापि मानवः ॥ ८२ ॥
स्थलेश्वरान्महालिङ्गं प्रादुर्भूतं परन्त्विह ॥
यत्र यज्ञेश्वरं लिङ्गं सर्वलिङ्गफलप्रदम् ॥ ८३ ॥
महालिङ्गं समभ्यर्च्य महाश्रद्धासमन्वितः ॥
महतीं श्रियमाप्नोति लोकेत्र च परत्र च ॥ ८४ ॥
इह लिङ्गं सहस्राक्षं सुवर्णाख्यात्समागतम् ॥
यस्य सन्दर्शनात्पुंसां ज्ञानचक्षुः प्रजायते ॥ ८५॥
शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम् ॥
दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् ॥ ८६ ॥
हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम् ॥
लिङ्गंहर्षप्रदं पुंसां दर्शनात्स्पर्शनादपि ॥ ८७ ॥
मन्त्रेश्वर समीपे तु प्रासादो हर्षितेशितुः ॥
तद्विलोकनतः पुंसां नित्यं हर्ष परम्परा ॥ ८८ ॥
इह स्वयं समायातो रुद्रो रुद्रमहालयात् ॥
यस्य दर्शनतो यान्ति रुद्रलोके नराः स्फुटम् ॥ ८९ ॥
यैस्तु रुद्रेश्वरं लिङ्गं काश्यामत्र समर्चितम् ॥
ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः ॥ 4.2.69.९० ॥
त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम् ॥
रुद्रास्त इव विज्ञेया जीवन्तोपि मृता अपि ॥९१॥
आगादिह महादेवो वृषेशो वृषभध्वजात् ॥
बाणेश्वरस्य लिङ्गस्य समीपे वृषदः सदा ॥९२॥
इहागतं तु केदारादीशानेश्वर सञ्ज्ञितम् ॥
तद्द्रष्टव्यं प्रतीच्यां च लिङ्गं प्रह्लादकेशवात्॥ ९३ ॥
ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहाम्भसि ॥
वसेदीशाननगरे ईशानसदृशप्रभः ॥ ९४ ॥
भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा ॥
संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः ॥ ९५ ॥
पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात् ॥
संहारभैरवः काश्यां संहरेदघसन्ततिम् ॥ ९६ ॥
उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः ॥
तद्विलोकनतो नृणामुग्रं पापं प्रणश्यति ॥ ९७ ॥
उग्रं लिङ्गं सदा सेव्यं प्राच्यामर्कविनायकात् ॥
अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्चनात् ॥ ९८ ॥
वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः ॥
भीमचण्डी समीपे तु प्रादुरासीदिह प्रभो ॥ ९९ ॥
भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः ॥
प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह ॥ 4.2.69.१०० ॥
देवदारुवनाद्दण्डी दण्डयन्पातकावलीः ॥
वाराणस्यां समागत्य स्थितो लिङ्गाकृतिर्विभुः ॥१॥
प्राच्यां दण्डीश्वरः पूज्यः स देहलिविनायकात् ॥
तस्यार्चनेन मर्त्त्यानां न पुनर्भव ईक्ष्यते ॥ २ ॥
भद्रकर्णह्रदादत्र भद्रकर्णह्रदान्वितः॥
शिवः साक्षादिहायातः सर्वेषां शिवदोर्चितः ॥ ३ ॥
उद्दण्डाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम् ॥
भद्रकर्णह्रदे स्नात्वाभ्यर्च्य लिङ्गं शिवाह्वयम् ॥ ४ ॥
सर्वत्र शिवमाप्नोति भद्रकर्णेश पूजनात् ॥
शृणुयात्सर्वभूतानां भद्रं पश्यति चाक्षिभिः॥ ५ ॥
शङ्करश्च हरिश्चन्द्रात्त्वत्पुरः प्रतिभासते ॥
तत्पूजनाज्जनानां न जननीजठरे जनिः ॥ ६ ॥
यमलिङ्गान्महातीर्थात्काललिङ्गमिह स्थितम् ॥
कलशेश इति ख्यातं चन्द्रेशात्पश्चिमेन च ॥ ७ ॥
यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ॥
काललिङ्गं समालोक्य कलिकाल भयं कुतः ॥ ८ ॥
तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति ॥
अपि पातक युक्तः स यमयात्रां न यास्यति ॥ ९ ॥
नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह ॥
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ॥ 4.2.69.११० ॥
भवता देवदेवेन ब्रह्मादिभ्यो विमुक्तये ॥
तस्य सन्दर्शनादेव पशुपाशैर्वियुज्यते ॥ ११ ॥
करवीरकतीर्थाच्च कपालीश इहागतः ॥
कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः ॥ १२ ॥
तद्विलोकनमात्रेण ब्रह्महत्या विलीयते॥
उमापतिर्देविकाया इहागत्य व्यवस्थितः ॥ १३ ॥
दृष्टः पशुपतिः प्राच्यां हरेत्पापं चिरार्जितम् ॥
लिङ्गं महेश्वरक्षेत्रादिह दीप्तेश सञ्ज्ञितम् ॥ १४ ॥
उपोमापति तिष्ठेत दीप्त्यै चेह परत्र च ॥
भुक्तिमुक्ति प्र दं लिङ्गं दीप्तेशं काशिमध्गम् ॥१५॥
कायारोहणतः क्षेत्रादाचार्यो नकुलीश्वरः ॥
शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः ॥ १६ ॥
दक्षिणे हि महादेवादृष्टो ज्ञानं प्रयच्छति ॥
अज्ञानं नाशयेत्क्षिप्रं गर्भसंसृतिहेतुकम् ॥ १७ ॥
गङ्गासागरतश्चायादमरेश इतीरितम् ॥
लिङ्गं यद्दर्शनादेव नामरत्वं हि दुर्लभम् ॥१८॥
सप्तगोदावरीतीर्थाद्देवो भीमेश्वरः प्रभुः ॥
प्रकाशते लिङ्गरूपी भुक्त्यै मुक्त्यै नृणामिह ॥ १९ ॥
नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम्॥
महाभीमानि पापानि प्रणश्यन्ति हि तत्क्षणात् ॥ 4.2.69.१२० ॥
भूतेश्वराद्भस्मगात्रं प्रादुरासीदिह स्वयम् ॥
भीमेशाद्दक्षिणे भागे तदभ्यर्च्य प्रयत्नतः ॥ २१ ॥
सम्यक्पाशुपताद्यो गादभ्यस्ताच्च समाः शतम् ॥
यत्प्राप्यते फलं तत्स्याद्भस्मगात्रविलोकनात् ॥ २२ ॥
नकुलीश्वरतो देवः स्वयम्भूरिति विश्रुतः ॥
आत्मनाप्रकटीभूतः काश्यां लिङ्गाकृतिर्हरः ॥ २३ ॥
स्वयम्भु लिङ्गं सम्पूज्य स्नात्वा सिद्धिह्रदे नरः ॥
महालक्ष्मीश्वर पुरो न भूयो जन्मभाग्भवेत् ॥ २४ ॥
प्रयागतीर्थनिकषा प्रासादो विद्रुमप्रभः ॥
वाराहस्य महानेष धरणीनाम्न एव हि ॥ २५ ॥
विन्ध्यपर्वततः प्राप्तो देवं श्रुत्वा समागतम्॥
सगणं सर्षिदेवं च मन्दरादत्र कन्दरात्॥२६॥
काश्यां धरणिवाराहो द्रष्टव्यः स प्रयत्नतः॥
आपत्समुद्रसम्मग्नमुद्धरेच्छरणागतम्॥ २७ ॥
कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक्॥
समर्च्योयं गदाहस्त उपसर्गसहस्रहृत् ॥२८॥
तस्माद्धरणिवाराहात्प्रतीच्यां दिशि संस्थितम् ॥
पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत् ॥ २९ ॥
हेमकूटाद्विरूपाक्षं लिङ्गमत्राविरास ह ॥
महेश्वरादवाच्यां च दृष्टं संसारतारकम् ॥ 4.2.69.१३० ॥
गङ्गाद्वाराद्धिमस्थेशं लिङ्गं हिमसमप्रभम् ॥
ब्रह्मनालात्प्रतीच्यां च द्रष्टव्यमिह सिद्धिदम् ॥ ३१ ॥
गणाधिपश्च कैलासाद्गणा अन्ये महाबलाः ॥
कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ॥ ३२ ॥
दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥
सद्वाराणि सयन्त्राणि कपाटविकटानि च ॥३३॥
कोटिकोटिभटाढ्यानि सर्वर्द्धिसहितान्यपि ॥
सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः ॥ ३४ ॥
अयस्कान्तेन कान्तानि दृढान्यभ्रंलिहान्यपि ॥
ततः शैलं महादुर्गं तैः काशीपरितः कृतम्॥ ३५ ॥
परिखापि कृता निम्ना मत्स्योदर्याजलाविला ॥
मत्स्योदरी द्विधा जाता बहिरन्तश्चरा पुनः ॥ ३६ ॥
तच्च तीर्थं महत्ख्यातं मिलितं गाङ्गवारिभिः ॥
यदा संहारमार्गेण गङ्गाभः प्रसरेदिह ॥ ३७ ॥
तदा मत्स्योदरी तीर्थं लभ्यते पुण्यगौरवात् ॥
सूर्याचन्द्रमसोः पर्वतदाकोटिगुणं शतम् ॥ ३८ ॥
सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै ॥
तत्रैव सर्वलिङ्गानि गङ्गामत्स्योदरीयतः ॥ ३९ ॥
मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः ॥
कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः ॥ 4.2.69.१४० ॥
अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ॥
परितः स्वर्धुनीवारि संसारि परिवीक्ष्यते ॥ ४१ ॥
मत्स्योदर्यां कृतस्नाना ये नरास्ते नरोत्तमाः ॥
कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ॥४२॥
किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ॥
यदि मत्स्योदरी स्नाता कुतो गर्भभयं ततः॥ ॥ ४३॥
यत्रयत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि ॥
तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ॥४४॥
सन्ति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ॥
न समानि परं तानि कोट्यंशेनापि निश्चितम्॥४५॥
इत्थं तीर्थं कृतं तेन विभो कैलासवासिना॥
गणाधिपेन सुमहत्सुमहोदारकर्मणा॥४६ ॥
भूर्भुवःसञ्ज्ञकं लिङ्गं पर्वताद्गन्धमादनात्॥
स्वयमाविरभूदत्र तस्मात्प्राच्यां गणाधिपात्॥ ४७ ॥
विलोक्य भूर्भुवं लिङ्गं भूर्भुवःस्वर्महः परे ॥
निवसन्ति जनाः पुण्याः सुचिरं दिव्यभोगिनः ॥ ४८ ॥
हाटकेशं महालिङ्गं भोगवत्या समायुतम् ॥
सप्तपातालतलत इहायातं स्वयं विभो ॥ ४९ ॥
शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह ॥
मणिमाणिक्यरत्नौघैर्निरमायि प्रयत्नतः ॥ 4.2.69.१५० ॥
तल्लिङ्गं हाटकमयं रत्नमालाभिरर्चितम् ॥
ईशानेश्वरतः प्राच्यां पूजनीय प्रयत्नतः ॥ ॥ ५१ ॥
भक्तितोऽभ्यर्च्य तल्लिङ्गं नरः सर्वसमृद्धिमान् ॥
भुक्त्वा भोगानसङ्ख्यातानन्ते निवार्णमृच्छति॥५२॥
आकाशात्तारकाल्लिगं ज्योतीरूपमिहागतम्॥
ज्ञानवाप्याः पुरोभागे तल्लिङ्गं तारकेश्वरम् ॥ ॥ ५३॥
तारकं ज्ञानमाप्येत तल्लिङ्गस्य समर्चनात् ॥
ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च ॥ ५४ ॥
कृतसन्ध्यादि नियमः परितर्प्य पितामहान्॥
धृतमौनव्रतो धीमान्यावल्लिङ्ग विलोकनम् ॥ ५५ ॥
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति शाश्वतम् ॥
प्रान्ते च तारकं ज्ञानं यस्माज्ज्ञानाद्विमुच्यते ॥ ५६ ॥
किराताच्च किरातेश इहचाविर्बभूव ह ॥
किरातरूपो भगवान्यत्र देवोऽभवत्पुरा ॥ ५७ ॥
तत्किरातेश्वरं लिङ्गं भारभूतेश्वरादनु ॥
नमस्कृत्य नरो जातु न मातुरुदरेशयः ॥ ५८॥
लङ्कापुर्याः समागच्छन्मरुकेश्वरसञ्ज्ञकम् ॥
लिङ्गं यदर्चनात्पुंसां न भयं रक्षसां भवेत् ॥ ५९ ॥
नैर्कत्यां दिशि तल्लिङ्गं निर्ऋतेश्वरसञ्ज्ञकम् ॥
पौलस्त्यराघवात्पश्चात्पूजितं सर्वदुष्टहृत् ॥ 4.2.69.१६० ॥
पुण्यजलप्रियं लिङ्गं जललिङ्गस्थलादपि ॥
आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्॥ ६१ ॥
तत्प्रासादोऽद्भुततरो मध्ये गङ्गं निरीक्ष्यते ॥
सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः ॥ ६२ ॥
अद्यापि दृश्यते कैश्चित्पुण्यसम्भारगौरवात् ॥
श्रेष्ठं लिङ्गमिहायातं तीर्थात्कोटीश्वरादपि ॥ ६३ ॥
कोटिलिङ्गे क्षणे पुण्यं तल्लिङ्गस्य निरीक्षणात् ॥
श्रेष्ठं ज्येष्ठेश्वरात्पश्चाच्छ्रेष्ठ सिद्धिप्रदायकम्॥ ६४ ॥
वडवास्यात्समुद्भूतं लिङ्गमत्रानलेश्वरम् ॥
नलेश्वर पुरोभागे पूजितं सर्वसिद्धिदम्॥ ६५ ॥
आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ॥
लिङ्गे त्वनादिसंसिद्धे ह्यवतस्थे त्रिविष्टपे ॥ ६६ ॥
पुण्ये पिलिपिला तीर्थे सर्वेषां तारकप्रदे ॥
आविश्चक्रे स्वयदेव ओङ्कारोमरकण्टकात् ॥ ६७ ॥
तदाद्यं तारकक्षेत्रं यदा गङ्गा न चागता ॥
यदैवाविरभूत्काशी त्रैलोक्योद्धणाय वै ॥६८॥
तदाकृतिमहल्लिङ्गं स्वयमाविरभूत्ततः॥
महिमानं न तस्यान्यः परिवेत्ति विभोर्ऋते ॥ ६९ ॥
एतान्यायतनानीश आनिनाय महान्ति च ॥
शेषयित्वांशमात्रं च तस्मिन्क्षेत्रे निजे निजे ॥ 4.2.69.१७० ॥
इहायातानि पुण्यानि सर्वभावेन नान्यथा॥
प्रासादाः सर्वतश्चैषां रम्या अभ्रंलिहा विभो ॥७१॥
बहुधातुमयाश्चित्राः सर्वरत्नसमु्ज्ज्वलाः ॥
येषां कलशमात्रस्य दर्शनान्मुक्तिराप्यते॥७२॥
श्रुत्वापि नाम चैतेषां लिङ्गानां सुरसत्तम ॥
अपि जन्मसहस्रोत्थाः क्षीयन्ते पापराशयः ॥ ७३ ॥
इदानीं को निदेशोत्र मयानुष्ठेय ईशितः ॥
प्रसादी क्रियतांसो पि सिद्धो मन्तव्य एव हि ॥ ७४ ॥
॥ स्कन्द उवाच ॥ ॥
श्रुत्वेति नन्दिनो वाक्यं देवदेवेश्वरो हरः ॥
श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुम्भज ॥ ७५ ॥
॥ श्रीदेवदेव उवाच ॥ ॥
साधूकृतं त्वया नन्दिन्सदानन्द विधायक ॥
विधेहि मे निदेशं च चण्डीर्व्यापारयाधुना ॥७६॥
नवकोट्यस्तु चामुण्डायायत्र निवसन्ति हि ॥
स्वदेवताभिः सहिता भूतवेताल भैरवैः ॥ ७७ ॥
ताः पुरी रक्षणार्थाय सवाहनबलायुधाः ॥
प्रतिदुर्गं दुर्गरूपाः परितः परिवासय ॥ ७८ ॥
॥ स्कन्द उवाच ॥
नन्दिनं सन्निदेश्येति मृडान्या सहितो मृडः ॥
ययौ त्रैविष्टपं क्षेत्रं मुक्तिबीजप्ररोहणम् ॥ ७९ ॥
शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च ॥
आहूय सर्वतो दुर्गाः प्रतिदुर्गं न्यवेशयत् ॥ 4.2.69.१८० ॥
निशम्याध्यायमेतं च पुण्यायतन गर्भिणम्॥
नरः स्वर्गापवर्गौ च प्राप्नुयाच्छ्रद्धया क्रमात् ॥ ८१ ॥
श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम् ॥
न जातु प्रविशेन्मर्त्यो जनन्या जाठरीं दरीम् ॥ १८२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धेऽष्टषष्ट्यायतनसमागमो नामैकोनसप्ततितमोध्यायः ॥ ६९ ॥ ॥