०६८

॥ स्कन्द उवाच ॥
अन्यच्च शृणु विप्रेन्द्र वृत्तातं तत्र सम्भवम् ॥
महाश्चर्यप्रजननं महापातकहारि च ॥ १ ॥
इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे ॥
कोलाहलो महानासीत्त्रातत्रातेति सर्वतः ॥ २ ॥
महिषासुरपुत्रोसौ समायाति गजासुरः ॥
प्रमथन्प्रमथान्सर्वान्निजवीर्य मदोद्धतः ॥ ३ ॥
यत्रयत्र धरायां स चरणं प्रमिणोति हि ॥
अचलोल्लोलयाञ्चक्रे तत्रतत्रास्य भारतः ॥ ४ ॥
ऊरुवेगेन तरवः पतन्ति शिखरैः सह ॥
यस्य दोर्दण्डघातेन चूर्णाः स्युश्च शिलोच्चयाः ॥ ५ ॥
यस्य मौलिजसङ्घर्षाद्घ(?)नाव्योम त्यजन्त्यपि॥
नीलिमानं न चाद्यापि जह्युस्तक्लेशसङ्गजम् ॥ ६ ॥
यस्य निःश्वाससम्भारैरुत्तरङ्गा महाब्धयः ॥
नद्योप्यमन्दकल्लोला भवन्ति तिमिभिः सह ॥ ७ ॥
योजनानां सहस्राणि नवयस्य समुच्छ्रयः ॥
तावानेव हि विस्तारस्तनोर्मायाविनोस्य हि ॥ ॥ ८ ॥
यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः ॥
विद्युता नोज्झ्यतेऽद्यापि सोयमायाति सत्वरः ॥ ९ ॥
यांयां दिशं समभ्येति सोयं दुःसह दानवः ॥
सासा समी भवेदस्य साध्वसादिव दिग्ध्रुवम् ॥ 4.2.68.१० ॥
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः ॥
अवध्योहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥ ११ ॥
ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम् ॥
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥ १२ ॥
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥
छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ॥ १३ ॥
॥ गजासुर उवाच ॥ ॥
त्रिशूलपाणे देवेश जाने त्वां स्मरहारिणम् ॥
तव हस्ते मम वधः श्रेयानेव पुरान्तक ॥ १४ ॥
किञ्चिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्॥
सत्यं ब्रवीमि नासत्यं मृत्युञ्जय विचारय ॥१५॥
त्वमेको जगतां वन्द्यो विश्वस्योपरि संस्थितः ॥
अहं त्वदुपरिष्टाच्च स्थितोस्मी ति जितं मया ॥ १६ ॥
धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ॥
कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥ १७ ॥
इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ॥
प्रोवाच प्रहसञ्छम्भुर्घटोद्भव गजासुरम् ॥ १८ ॥
॥ ईश्वर उवाच॥ ॥
गजासुर प्रसन्नोस्मि महापौरुषशेवधे ॥
स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर ॥ १९ ॥
इत्याकर्ण्य स दैत्येन्द्रः प्रत्युवाच महेश्वरम् ॥
॥ गजासुर उवाच ॥ ॥
यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ॥ 4.2.68.२० ॥
इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम् ॥
स्वप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम् ॥ २१ ॥
इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला ॥
सदैव निर्मला चास्तु सदैवास्त्वतिमण्डनम् ॥ २२ ॥
महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो ॥
न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः ॥ २३ ॥
यदि पुण्यवती नैषा ममकृत्तिर्दिगम्बर ॥
तदा त्वदङ्गसङ्गोस्याः कथं जातो रणाङ्गणे ॥ २४ ॥
अन्यं च मे वरं देहि यदि तुष्टोसि शङ्कर ॥
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥ २५ ॥
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शङ्करः ॥
पुनःप्रोवाच तं दैत्यं भक्तिनिर्मलमानसम् ॥ २६ ॥
॥ ईश्वर उवाच ॥ ॥ ॥
शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम् ॥
अविमुक्ते महाक्षेत्रे रण त्यक्त कलेवर ॥२७॥
इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने ॥
मम लिङ्गं भवत्वत्र सर्वेषाम्मुक्तिदायकम् ॥ २८ ॥
कृत्तिवासेश्वरं नाम महापातकनाशनम् ॥
सर्वेषामेव लिङ्गानां शिरोभूतमिदं वरम् ॥२९ ॥
यावन्ति सन्ति लिङ्गानि वाराणस्यां महान्त्यपि ॥
उत्तमं तावतामेतदुत्तमाङ्गवदुत्तमम् ॥ 4.2.68.३० ॥
मानवानां हितायात्र स्थास्येहं सपरिग्रहः ॥
दृष्टेनानेन लिङ्गेन पूजितेन स्तुतेन च॥
कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः ॥ ३१ ॥
रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिन्तकाः ॥
शान्ता दान्ता जितक्रोधा निर्द्वन्द्वा निष्परिग्रहाः ॥ ३२ ॥
अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः ॥
मानापमानयोस्तुल्याः समलोष्टाश्मकाञ्चनाः ॥३३॥
कृत्तिवासेश्वरे लिङ्गे स्थास्येहं तदनुग्रहे ॥
दशकोटिसहस्राणि तीर्थानि प्रतिवासरम् ॥ ॥ ३४ ॥
त्रिकालमागमिष्यन्ति कृत्तिवासे न संशयः ॥
कलिद्वापरसम्भूता नराः कल्मषबुद्धयः ॥ ३५ ॥
सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः ॥
मायया दम्भलोभाभ्यां मोहाहङ्कृतिसंयुताः ॥ ३६ ॥
शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः ॥
सन्ध्यास्नानजपेज्यासु दूरीकृत मनोधियः ॥ ३७ ॥
कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः ॥
सुखेन मोक्षमेष्यन्ति यथा सुकृतिनस्तथा ॥ ३८ ॥
कृत्तिवासेश्वरं लिङ्गं सेव्यं काश्यां ततो नरैः ॥
जन्मान्तरसहस्रेषु मोक्षोन्यत्र सुदुर्लभः ॥ ३९ ॥
कृत्तिवासेश्वरे लिङ्गे लभ्यस्त्वेकेन जन्मना ॥
पृर्वजन्मकृतं पापं तपोदानादिभिः शनैः ॥
नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात् ॥4.2.68.४०॥
कृत्तिवासेश्वरं लिङ्गं येर्चयिष्यन्ति मानवाः ॥
प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः ॥४१॥
अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम्॥
कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनःपुनः ॥ ४२ ॥
सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत् ॥
तत्फलं लभ्यते काश्यां पूजनात्कृत्तिवाससः ॥ ४३ ॥
माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात् ॥
कृत्तिवासेशमभ्यर्च्य यः स यायात्परां गतिम्॥ ४४ ॥
शुक्लायां पञ्चदश्यां यश्चैत्र्यां कर्ता महोत्सवम्॥
कृत्तिवासेश्वरे लिङ्गे न स गर्भं प्रवक्ष्येते ॥ ४५ ॥
कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च ॥
गजासुरस्य महतीं प्रावृणोद्धरिदम्बरः ॥ ४६ ॥
महामहोत्सवो जातस्तस्मिन्नहनि कुम्भज ॥
कृत्तिवासत्वमापेदे यस्मिन्देवो दिगम्बरः ॥ ४७ ॥
यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले ॥
तच्छूलोत्पाटनाज्जातं तत्र कुण्डं महत्तरम् ॥४८॥
तस्मिन्कुण्डे नरः स्नात्वा कृत्वा च पितृतर्पणम् ॥
कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यो नरो भवेत् ॥४९॥
स्कन्द उवाच ॥
तस्मिंस्तीर्थे तु यद्वृत्तं तदगस्ते निशामय ॥
काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ॥ 4.2.68.५० ॥
एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा ॥
अन्नं राशीकृतं तत्र ह्युपहारसमुद्भवम् ॥ ५१ ॥
बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन् ॥
परस्परं तदन्नार्थं युध्यन्तो व्योमवर्त्मनि ॥ ५२ ॥
बलिपुष्टैरपुष्टाङ्गा रटतः करटाः कटु ॥
वलिभिश्चातिपुष्टाङ्गैरबलाश्चञ्चुभिर्हताः ॥ ५३ ॥
ते हन्यमाना न्यपतंस्तस्मिन्कुण्डे नभोङ्गणात् ॥
आयुःशेषेण सन्त्राता हंसीभूतास्तु वायसाः ॥ ५४ ॥
आश्चर्यवन्तस्तत्रत्या यात्रायां मिलिता जनाः ॥
ऊचुरङ्गुलिनिर्देशैरहो पश्यत पश्यत ॥ ५५ ॥
अस्मासु वीक्षमाणेषु काकाः कुण्डेत्र ये पतन् ॥
धार्तराष्ट्रास्तु ते जातास्तीर्थस्यास्य प्रभावतः ॥ ५६ ॥
हंसतीर्थं तदारभ्य कृत्तिवास समीपतः ॥
नाम्ना ख्यातमभूल्लोके तत्कुण्डं कलशोद्भव॥ ॥ ५७ ॥
अतीव मलिनात्मानो महामलिन कर्मभिः ॥
क्षणान्निर्मलतां यान्ति हंसतीर्थकृतोदकाः ॥ ५८ ॥
काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके ॥
द्रष्टव्यः कृत्तिवासेशः प्राप्तव्यं परमं पदम् ॥ ५९ ॥
काश्यां लिङ्गान्यनेकानि मुने सन्ति पदेपदे ॥
कृत्तिवासेश्वरं लिङ्गं सर्वलिङ्गशिरः स्मृतम् ॥ 4.2.68.६० ॥
कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा ॥
सर्वलिङ्गाराधनजं फलं काश्यामवाप्यते ॥ ६१ ॥
जपो दानं तपो होमस्तर्पणं देवतार्चनम् ॥
समीपे कृत्तिवासस्य कृतं सर्वमनन्तकम् ॥ ६२ ॥
तीर्थं त्वनादिसंसिद्धमेतत्कलशसम्भव ॥
पुनर्देवस्य सान्निध्यादाविरासीन्महेशितुः ॥ ६३ ॥
एतानि सिद्धलिङ्गानिच्छन्नानि स्युर्युगेयुगे ॥
अवाप्य शम्भुसान्निध्यं पुनराविर्भवन्ति हि ॥ ६४ ॥
हंसतीर्थस्य परितो लिङ्गानामयुतं मुने ॥
प्रतिष्ठितं मुनिवरैरत्रास्ति द्विशतोत्तरम् ॥६५॥
एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम् ॥
लिङ्गं कात्यायनेशादि च्यवनेशां तमेव हि ॥ ६६ ॥
लोमशेशं महालिङ्गं लोमशेन प्रतिष्ठितम् ॥
कृत्तिवासः प्रतीच्यां तु तद्दृष्ट्वा क्वान्तकाद्भयम् ॥ ६७ ॥
मालतीशं शुभं लिङ्गं कृत्तिवासोत्तरे महत् ॥
सपर्ययित्वा तल्लिङ्गं राजा गजपतिर्भवेत् ॥ ६८ ॥
अन्तकेश्वर सञ्ज्ञं च लिङ्गं तद्रुद्रदिक्स्थितम् ॥
अतिपापोपि निष्पापो जायते तद्विलोकनात् ॥६९॥
जनकेशं महालिङ्गं तत्पार्श्वे ज्ञानदं परम् ॥
तल्लिङ्ग वरिवस्यातो ब्रह्मज्ञानमवाप्यते ॥4.2.68.७० ॥
तदुत्तरे महामूर्तिरसिताङ्गोस्ति भैरवः ॥
तस्य दर्शनतः पुंसां न भवेद्यमदर्शनम् ॥७१॥
शुष्कोदरी च तत्रास्ति देवी विकटलोचना ॥
कृत्तिवासादुदीच्यां तु काशीप्रत्यूह भक्षिणी ॥ ७२ ॥
अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते ॥
ददाति वाञ्छितां सिद्धिं सोर्चितो भौमवासरे ॥ ७३ ॥
वेतालकुण्डं तत्रास्ति सर्वव्याधिविघातकृत् ॥
तत्कुण्डोदकसंस्पर्शाद्व्रणविस्फोटरुग्व्रजेत् ॥ ७४ ॥
वेतालकुण्डे सुस्नातो वेतालं प्रणिपत्य च ॥
लभेत वाञ्छितां सिद्धिं दुर्लभां सर्वदेहिभिः ॥ ७५ ॥
गणोस्ति तत्र द्विभुजश्चतुष्पात्पञ्चशीर्षकः ॥
तस्य संवीक्षणादेव पापं याति सहस्रधा ॥ ७६ ॥
तदुत्तरे मुने रुद्रश्तुःशृङ्गोस्ति भीषणः ॥
त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि ॥।७७ ॥
रोरूयते वृषाकारस्त्रिधा बद्धः स कुम्भज ॥
काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः ॥ ७८ ॥
तेषां च सञ्छिदां कर्तुमहं धृतकुठारकः ॥
ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः ॥ ७९ ॥
सुधाघटकरश्चाहं तद्वंशपरिषेककृत् ॥
तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः ॥ 4.2.68.८० ॥
महामहोपचारैश्च न विघ्नैरभिभूयते ॥
मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि ॥ ८१ ॥
मणिकुण्डं तदग्रे तु विषव्याधिहरं परम् ॥
तस्मिन्कुण्डे कृतस्नानस्तं नागं परिवीक्ष्य च ॥ ८२ ॥
मणिमाणिक्यसम्पूर्ण गजाश्वरथसङ्कुलम् ॥
स्त्रीरत्नपुत्ररत्नैश्च समृद्धं राज्यमाप्नुयात् ॥ ८३ ॥
कृत्तिवासेश्वरं लिङ्गं काश्यां यैर्न विलोकितम् ॥
ते मर्त्यलोके भाराय भुवो भूता न संशयः ॥ ८४ ॥
॥ स्कन्द उवाच ॥ ॥
कृत्तिवासः समुत्पत्तिं ये श्रोष्यन्तीह मानवाः ॥
तल्लिङ्गदर्शनाच्छ्रेयो लप्स्यन्ते नात्र संशयः ॥ ८५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तराधें कृत्तिवासः समुद्भवो नामाष्टषष्टितमोऽप्यायः ॥६८॥