०६७ रत्नेश्वरप्रशंसनम्

॥ अगस्त्य उवाच ॥ ॥
रत्नेश्वरसमुत्पतिं कथयस्व षडानन ॥
रत्नभूतं महालिङ्गं यत्काश्यां परिवर्ण्यते ॥ १ ॥
कोस्य लिङ्गस्य महिमा केनैतच्च प्रतिष्ठितम् ॥
एतं विस्तरतो ब्रूहि गौरीहृदयनन्दन ॥ २ ॥
॥ स्कन्द उवाच ॥
रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने॥
यथा च रत्नलिङ्गस्य प्रादुर्भावोऽभवद्भुवि ॥ ३ ॥
श्रुतं नामापि लिङ्गस्य यस्य जन्मत्रयार्जितम्॥
वृजिनं नाशयेत्तस्य प्रादुर्भावं ब्रुवे मुने ॥ ४॥
शैलराजेन रत्नानि यानि पुञ्जीकृतान्यहो॥
उत्तरे कालराजस्य तानि तस्य गिरेर्वृषात्॥ ५ ॥
सर्वरत्नमयं लिङ्गं जातं तत्सुकृतात्मनः ॥
शक्रचापसमच्छायं सर्वरत्नद्युतिप्रभम् ॥ ६ ॥
तल्लिङ्गदर्शनादेव ज्ञानरत्नमवाप्यते ॥
शैलेश्वरं समालोक्य शिवौ तत्र समागतौ ॥ ७॥
यत्र रत्नमयं लिङ्गमाविर्भूतं स्वयं मुने ॥
तस्य स्फुरत्प्रभाजालैस्ततमम्बरमण्डलम् ॥ ८ ॥
तत्र दृष्ट्वा शुभं लिङ्गं सर्वरत्नसमुद्भवम् ॥
भवान्यदृष्टपूर्वा हि परिपप्रच्छ शङ्करम् ॥ ९ ॥
देवदेव जगन्नाथ सर्वभक्ताभयप्रद ॥
कुतस्त्यमेतल्लिङ्गं द्विसप्तपातालमूलवत् ॥ 4.2.67.१० ॥
ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम् ॥
किमाख्यं किं स्वरूपं च किं प्रभावं भवान्तक ॥ ११ ॥
यस्य संवीक्षणादेव मनोमेतीव हृष्टवत् ॥
इहैव रमते नाथ कथयैतत्प्रसादतः ॥ १२ ॥
॥ देवदेव उवाच ॥ ॥
शृण्वपर्णे समाख्यामि यत्त्वया पृच्छि पार्वति ॥
स्वरूपमेतल्लिङ्गस्य सर्वतेजोनिधेः परम् ॥ १३ ॥
तव पित्रा हिमवता गिरिराजेन भामिनि ॥
त्वामुद्दिश्य महारत्नसम्भारोत्राप्यनायि हि ॥ १४ ॥
अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा ॥
सुकृतोपार्जितान्येव ययौ स्वसदनं पुनः ॥ १५ ॥
तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते ॥
काश्यां तस्य परीपाको भवेदीदृग्विधोऽनघे ॥ १६ ॥
लिङ्गं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम् ॥
अस्य प्रभावो हि महान्वाराणस्यामुमे ध्रुवम् ॥ १७ ॥
सर्वेषामिह लिङ्गानां रत्नभूतमिदं परम् ॥
अतो रत्नेश्वरं नाम परं निर्वाणरत्नदम् ॥ १८ ॥
अनेनैव सुवर्णेन पित्रा राशीकृतेन च ॥
प्रासादमस्य लिङ्गस्य विधापय महेश्वरि ॥१९॥
लिङ्गप्रासादकरणात्खण्डस्फुटित संस्कृतेः ॥
लिङ्गस्थापनजं पुण्यं हेलयैवेह लभ्यते ॥ 4.2.67.२०॥
तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ ॥
सोमनन्दि प्रभृतयो ऽसङ्ख्या व्यापारिता मुने ॥ २१ ॥
गणैश्च काञ्चनमयो नानाकौतुकचित्रितः ॥
निर्ममे याममात्रेण प्रासादो मेरुशृङ्गवत् ॥२२॥
देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम् ॥
गणेभ्यो व्यतरद्भूरि समानं पारितोषिकम् ॥ २३ ॥
पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् ॥
महिमानं महादेवं लिङ्गस्यास्य महामुने ॥२४॥
॥ देवदेव उवाच ॥ ॥
लिङ्गं त्वनादिसंसिद्धमेतद्देवि शुभप्रदम् ॥
आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात् ॥ २५ ॥
गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिन्तितप्रदम् ॥
कलौ कलुषबुद्धीनां गोपनीयं प्रयत्नतः ॥ २६ ॥
यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः ॥
अविमुक्ते तथा लिङ्गं रत्नभूतं गृहे मम ॥ २७ ॥
यानि ब्रह्माण्डमध्येत्र सन्ति लिङ्गानि पार्वति ॥
तैरर्चितानि सर्वाणि रत्नेशो यैः समर्चितः॥२८॥
प्रमादेनापि यैर्गौरि लिङ्गं रत्नेशमर्चितम् ॥
ते भवन्त्येव नियतं सप्तद्वीपेश्वरा नृपाः ॥ २९ ॥
त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु ॥
रत्नेश्वरं समभ्यर्च्य सकृत्प्राप्नोति मानवः ॥ 4.2.67.३० ॥
पूजयिष्यन्ति ये लिङ्गं रत्नेशं कामवर्जिताः ॥
ते सर्वे मद्गणा भूत्वा प्रान्ते द्रक्ष्यन्ति मामिह ॥ ३१ ॥
रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम् ॥
तत्फलं लभ्यते देवि रत्नेशस्य समर्चनात् ॥ ३२ ॥
लिङ्गे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते ॥
इतिहासं महाश्चर्यं सर्वपापनिकृन्तनम् ॥ ३३ ॥
पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा ॥
सैकदा फाल्गुने मासि शिवरात्र्यां कलावती ॥३४॥
ननर्त जागरं प्राप्य जगौ गीतं च पेशलम् ॥
स्वयं च वादयामास नानावाद्यानि वाद्यवित् ॥३५॥
तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी॥
रत्नेश्वरं महालिङ्गं देशमिष्टं जगाम ह ॥ ३६ ॥
कालधर्मवशंयाता तत्र सा वरनर्तकी ॥
सुता गन्धर्वराजस्य वसुभूतेर्बभूव ह ॥ ३७ ॥
सङ्गीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः ॥
तत्रेशाग्रे कृतस्येह जागरे शिवरात्रिजे ॥ ३८ ॥
रम्या रत्नावली नाम रूपलावण्यशालिनी ॥
कलाकलापकुशला मधुरालापवादिनी ॥ ३९ ॥
पितुरानन्दकृन्नित्यं वसुभूतेर्घटोद्भव ॥
सर्वगान्धर्वकुशला गुणरत्नमहाखनिः ॥ 4.2.67.४० ॥
मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम् ॥
शशिलेखानङ्गलेखा चित्रलेखेति नामतः ॥ ४१ ॥
तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता ॥
ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती ॥ ४२ ॥
प्राप्य रत्नावली गौरि सा जन्मान्तरवासनाम् ॥
रत्नेश्वरस्य लिङ्गस्य जग्राह नियमं शुभम् ॥ ४३॥
रत्नभूतस्य लिङ्गस्य काश्यां रत्नेश्वरस्य वै ॥
नित्यं सन्दर्शनं प्राप्य वक्ष्याम्यपि वचो मुखे ॥ ४४ ॥
इत्थं नियमवत्यासीत्सा गन्धर्वसुतोत्तमा ॥
ताभिः सखीभिः सहिता नित्यं लिङ्गं च पश्यति ॥ ४५॥
एकदाराध्य रत्नेशं ममैतल्लिङ्गमुत्तमम् ॥
समानर्च च सा बाला रम्यया गीतमालया ॥ ४६ ॥
सख्यः प्रदक्षिणीकर्तुं लिङ्गं तिस्रोऽप्युमे गताः ॥
तस्या गीतेन तुष्टोहं लिङ्गस्थो वरदोभवम् ॥ ४७ ॥
यस्त्वया रंस्यते रात्रावद्य गन्धर्वकन्यके ॥
तवनामसमानाख्यः स ते भर्ता भविष्यति ॥ ४८ ॥
इति लिङ्गाम्बुधेर्जातां परिपीय वचःसुधाम् ॥
बभूवानन्दसन्दोह मन्थरातीव ह्रीमती ॥ ४९ ॥
गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् ॥
कथयन्ती निजोदन्तं तमालीनां पुरो मुदा ॥ 4.2.67.५० ॥
ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनन्दिता ॥
अद्य ते वाञ्छितं भावि रत्नेशस्य समर्चनात् ॥ ५१ ॥
यद्यायाति स ते रात्रावद्य कौमारहारकः ॥
चोरो बाहुलतापाशैः पाशितव्योतियत्नतः ॥ ५२ ॥
गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः ॥
प्रातरेव तव प्रेयान्रत्नेशादिष्ट इष्टकृत् ॥५३ ॥
यातास्वस्मासु हृष्टासु भवती शयगौरवात् ॥
अहो रत्नेश्वरं लिङ्गं प्रत्यक्षीकृतवत्यसि ॥ ५४ ॥
अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः ॥
एकस्यैव भवेत्सिद्धिर्यदेकत्रापि तिष्ठताम् ॥ ५५ ॥
सत्यं वदन्ति नासत्यं दैवप्राधान्यवादिनः ॥
दैवमेव फलेदेकं नोद्यमो नापरं बलम् ॥ ५६ ॥
भवत्या अपि चास्माकमेक एव हि चोद्यमः ॥
परं दैवं फलत्येकं यथा तव न नः पुरः ॥ ५७ ॥
लोकानां व्यवहारोयमालिप्रोक्तप्रसङ्गतः ॥
परं मनोरथावाप्तिस्तव या सैव नः स्फुटम् ॥५८॥
इति संव्याहरन्तीनामनन्तोध्वाऽतितुच्छवत् ॥
क्षणात्तासां व्यतिक्रान्तः प्राप्ताश्च स्वंस्वमालयम् ॥ ५९ ॥
अथ प्रातः समुत्थाय पुनरेकत्र सङ्गताः ॥
सा च मौनवती ताभिः परिभुक्तेव लक्षिता ॥ ॥ 4.2.67.६० ॥
तूष्णीं प्राप्याथ काशीं सा स्नात्वा मन्दाकिनीजले ॥
सखीभिः सहितापश्यल्लिङ्गं रत्नेश्वरं मम ॥ ६१ ॥
निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा ॥
निर्बन्धेन वयस्याभिः परिपृष्टा जगाद ह ॥ ६२ ॥
॥ रत्नावल्युवाच ॥ ॥
अथ रत्नेश यात्रायाः प्रयातासु स्वमन्दिरम् ॥
भवतीषु स्मरन्त्येव तद्रत्नेशवचोऽमृतम्॥ ६३ ॥
सविशेषाङ्गसंस्काराऽविशं संवेशमन्दिरम् ॥
निद्रादरिद्रनयना तद्विलोकनलालसा ॥६४॥
बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात् ॥
आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः ॥ ६५ ॥
तन्द्री तदङ्गसंस्पर्शौ मम बोधापहारकौ ॥
तन्द्र्या परवशा चासं ततस्तत्स्पर्शनेन च ॥ ६६ ॥
न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः ॥
तं निर्जिगमिषुं सख्यो यावद्धर्तुं प्रसारितः ॥६७॥
दोः कङ्कणेन रिपुणा क्वणितं तावदुत्कटम् ॥
महता सिञ्जितेनाहं तेनाल्पपरिबोधिता ॥ ६८ ॥
सुखसन्तानपीयूष ह्रदे परिनिमज्य वै ॥
क्षणेन तद्वियोगाग्निकीलासु पतिता बलात् ॥६९॥
किङ्कुलीयः स नो वेद्मि किन्देशीयः किमाख्यकः ॥
दुनोति नितरां सख्यस्तद्विश्लेषानलो महान् ॥ 4.2.67.७० ॥
अनल्पोत्कलितं चेतः पुनस्तत्सङ्गमाशया ॥
प्राणानां मे यियासूनामेकमेव महौषधम् ॥ ७१ ॥
वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम् ॥
भवतीनामधीनं च तत्पुनर्दर्शनं मम ॥७२॥
काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने ॥
तद्दर्शनेन स्थास्यन्ति प्राणा यास्यन्ति चान्यथा ॥ ७३ ॥
दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम् ॥
इति तस्या गिरः श्रुत्वा दूनाया नितरां च ताः ॥ ७४ ॥
प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम् ॥ ७५ ॥
॥ सख्य ऊचुः ॥ ॥
यस्य ग्रामो न नो नाम नान्वयो नापि बुध्यते ॥
स कथं प्राप्यते भद्रे क उपायो विधीयताम् ॥ ७६ ॥
इति रत्नावली श्रुत्वा ससन्देहां च तद्गिरम् ॥
वयस्यास्तदवाप्तौ मे यूयं कुण्ठि मुमूर्छ ह ॥ ७७ ॥
इत्यर्धोक्तेन सा बाला यूयं कुण्ठितशक्तयः ॥
यद्वक्तव्यं त्विति तया यूयं कुण्ठीति भाषितम् ॥ ७८ ॥
ततस्तास्त्वरिताः सख्यः परितापोपहारकान् ॥
बहुशः शीतलोपायान्व्यधुर्मोहप्रशान्तये ॥ ७९ ॥
व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः ॥
तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम् ॥ 4.2.67.८० ॥
तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह ॥
सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च ॥ ८१ ॥
॥ स्कदं उवाच ॥
श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि ॥
नोपायान्तरमस्त्येव विनेश चरणोदकम् ॥ ८२॥
ये व्याधयोपि दुःसाध्या बहिरन्तः शरीरगाः ॥
श्रद्धयेशोदकस्पर्शात्ते नश्यन्त्येव नान्यथा ॥ ८३ ॥
सेवितं येन सततं भगवच्चरणोदकम्॥
तं बाह्याभ्यन्तरशुचिं नोपसर्पति दुर्गतिः ॥ ८४ ॥
आधिभौतिकतापं च तापं वाप्याधिदैविकम् ॥
आध्यात्मिकं तथा तापं हरेच्छ्रीचरणोदकम् ॥ ८५ ॥
व्यपेतसञ्ज्वरा चाथ गन्धर्वतनया मुने ॥
उचितज्ञेति होवाच ताः सखीः स्रिग्धधो(धी?)रधीः ॥ ८६ ॥
॥ रत्नावल्युवाच ॥ ॥
शशिलेखेनङ्गलेखे चित्रलेखे मदीहितं ॥
यूयं कुण्ठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा ॥८७॥
मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः ॥
रत्नेश्वरानुग्रहतोऽनुतिष्ठत हि तं हिताः ॥ ८८ ॥
शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख ॥
संलिखानङ्गलेखे त्वं यूनः सर्वावनीचरान् ॥ ८९ ॥
चित्रगे चित्रलेखे त्वं पातालतलशायिनः ॥
किञ्चिदाविर्भवच्चारु तारुण्यालङ्कृतील्ँलिख ॥ 4.2.67.९० ॥
अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च ॥
लिलिखुः क्रमशः सख्यो यूनो यौवन शेवधीन् ॥ ९१ ॥
निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान् ॥
प्रातःसन्ध्येव गन्धर्वी नृपाद्यांस्तानवैक्षत ॥ ९२ ॥
सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा ॥
न चाञ्चल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु ॥ ९३ ॥
ततो मध्यमलोकस्थान्मुनिराजकुमारकान् ॥
विलोक्यापि न सा प्रीतिं क्वाप्याप प्रेमनिर्भरा ॥ ९४ ॥
अथ रत्नावली बाला कर्णाभ्यर्णविलोचना ॥
दृशौ व्यापारयामास बलिसद्मयुवस्वपि ॥ ९५ ॥
दितिजान्दनुजान्वीक्ष्य सा गन्धर्वी कुमारकान् ॥
रतिं बबन्ध न क्वापि तापिता मान्मथैः शरैः ॥ ९६ ॥
सुधाकर करस्पृष्टाप्यतिदूनाङ्गयष्टिका ॥
पश्यन्ती नागयूनः सा किञ्चिदुच्छ्वसिताऽभवत् ॥ ९७ ॥
भोगिनस्तान्विलोक्यापि चित्रञ्चित्रगतानथ ॥
मनात्सम्भुक्तभोगेव क्षणमासीत्कुमारिका ॥ ९८ ॥
यूनः प्रत्येकमद्राक्षीदशेषाञ्छेष वंशजान् ॥
तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान् ॥ ९९ ॥
पुलीकानन्त कर्कोट भद्रसन्तानगानपि ॥
दृष्ट्वा नागकुमारांस्ताञ्छङ्खचूडमथैक्षत ॥ 4.2.67.१०० ॥
शङ्खचूडेक्षणादेव परां लज्जां बभार सा ॥
उद्भिन्नपुलकाप्यासीदङ्गप्रत्यङ्ग सन्धिषु ॥ १ ॥
तत्त्रपाभरतोऽज्ञायि तत्कौमारहरो वरः ॥
तया वैदग्ध्यवरया क्षणतश्चित्रलेखया ॥ २ ॥
अथ चित्रपटी चित्रलेखा चित्रपटाञ्चलम् ॥
परिक्षिप्यावृणोत्तूर्णं परिहासैकपेशला ॥ ३ ॥
रत्नावली चित्रलेखां ह्रिया मौनावलम्बिनी ॥
दृशा कुटिलयाद्राक्षीत्प्रस्फुरद्दशनाम्बरा ॥ ४ ॥
कटाक्षितानङ्गलेखा तयाथ शशिलेखया ॥
चित्रलेखापरिक्षिप्त पटाञ्चलमपाकरोत् ॥ ५ ॥
वसुभूतिसुता साथ कन्या रत्नावली शुभा ॥
शङ्खचूडान्ववाये तं रत्नचूडमवैक्षत ॥ ६ ॥
तदीक्षणक्षणाद्दृष्टिरानन्दाश्रुभिरावृता ॥
कपोलभित्तिरभवत्स्वेदोदकणिकाञ्चिता ॥ ७ ॥
चकम्पे गात्रलतिका धृतरोमाञ्चकञ्चुका ॥
चित्रन्यस्तेव तस्तम्भ क्षणं मुकुलितानना॥ ८ ॥
ततः सा चित्रलेखा तामेत्याश्वासयदातुराम्॥
मौत्सुक्यं व्रज गन्धर्वि सिद्धस्तेद्य मनोरथः ॥९॥
एतस्यावगतं सर्वं देशनामान्वयादिकम्॥
मा विषीदालिसुलभस्त्वेष रत्नेश्वरार्पितः ॥4.2.67.११०॥
अहो सदृग्वरावाप्त्या रत्नेशेनासि तोषिता ॥
उत्तिष्ठ यामः सदनं रत्नेशः सर्वदोहिनः ॥ ११ ॥
अथ देववशाद्यान्त्यस्ता दृष्टा गगनाध्वगाः ॥
सुबाहुना दानवेन पातालतलवासिना ॥ १२ ॥
गृहीत्वा ताश्चतस्रोपि निरगाद्दानवो गृहम्॥
हरिर्विकटदंष्ट्रास्यः प्रान्तरे हरिणीरिव ॥ १३ ॥
तास्तं विलोक्य गन्धर्व्यो दंष्ट्राविकटिताननम् ॥
रुधिरारुणनेत्रं च जाता वेपथुभूमयः ॥ १४ ॥
हा मातर्हा पितस्त्राहि हा विधे मा विधेहि तत् ॥
यदेतत्कर्तुमारब्धमनाथास्वतिनिष्ठुरम् ॥ १५ ॥
हा दैव मन्दभाग्याभिः किमस्माभिरनुष्ठितम् ॥
सुकृतेतरवार्तापि नो चित्ते व्याहृता क्वचित् ॥ १६ ॥
शिशुक्रीडनकं हित्वा हित्वा रत्नेश्वरार्चनम् ॥
पित्रोः स्वाधीन सच्चेष्टा इष्टं विद्मो न किञ्चन ॥१७॥
अधोभुवनगा दीना हीनानाथेन कोत्र नः ॥
त्राति त्राणार्थिनीर्बालाः शम्भो रत्नेश सर्वग ॥ १८ ॥
इत्थं गन्धर्वतनया विलपन्तीः कृपातुरम् ॥
शुश्राव नागराजोसौ रत्नचूडो महामनाः ॥ १९ ॥
कोसौ मत्स्वामिनो नाम रत्नेशस्य महेशितुः ॥
लिङ्गराजस्य गृह्णाति कर्मबन्धनभेदिनः ॥ 4.2.67.१२० ॥
पुनरप्यार्तरावं स श्रुत्वा बालामुखेरितम् ॥
रत्नेश रक्षरक्षेति गृहीतास्त्रो विनिर्ययौ ॥२१ ॥
तं वसारसपानेन महामांसनिषेवणात् ॥
अत्यन्तोन्मत्त दुश्चेष्टं रत्नचूडो निरैक्षत॥ २२ ॥
अध्याक्षिपच्च रे दुष्ट शिष्टकन्यापहारक ॥
मद्दृष्टिगोचरं यातः क्व यास्यस्यद्य रेऽधम ॥ २३ ॥
मम बाणहतप्राणः प्रयाणं कुरु दुर्मते ॥
आर्तत्राणोद्यतमते वैवस्वतपुरं प्रति ॥ २४ ॥
रत्नेश्वरस्य यैर्नाम प्रलयापद्यपि स्फुटम् ॥
गृहीतं न भवादृग्भ्यस्तेषु भीतिर्भयात्मसु ॥ २५ ॥
रत्नेश्वरमहानाम कृतत्राणास्तु ये नराः ॥
तेषां जन्मजराव्याधि कलिकालभयं कुतः ॥२६॥
इत्युक्त्वा ता भयत्रस्तास्तन्मुखप्रहितेक्षणाः ॥
व्याघ्रघ्राता इव मृगीर्माभैषिष्टेत्युवाच सः ॥ २७ ॥
इत्याश्वास्याथ गन्धर्वीः स वै भुजगराजजः ॥
आकर्णपूर्णमाकृष्य कोदण्डं प्राहिणोच्छरम् ॥ २८ ॥
सोपि क्रुद्धो दनुजराट्पदास्पृष्टभुजङ्गवत् ॥
आविद्ध्य कालदण्डाभं परिघं व्यसृजन्महत् ॥२९॥
हृदि रत्नेश्वरं लिङ्गं यस्य सम्यग्विजृम्भते ॥
अलातदण्डवत्तस्मिन्कालदण्डोपि जायते ॥ ॥ 4.2.67.१३० ॥
अन्तरेव स चिच्छेद परिघं स्वमहेषुभिः ॥
दुर्वृतस्य यथेहायुर्विच्छिद्येतान्तरैव हि ॥ ३१ ॥
ततोस्य बाणं चिक्षेप कालानलसमप्रभम् ॥
स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्य च ॥ ३२ ॥
प्राणानस्य विनिर्यात्य स्वयं तूणमगात्पुनः ॥
हृदिस्थं तस्य दौरात्म्यं सर्वं विज्ञाय तत्त्वतः ॥ ३३ ॥
दिगङ्गनापुरः ख्यातुमिव नागाशुगो गतः ॥ ३४ ॥
अन्यायोपार्जितैर्द्रव्यैर्यः सुखं भोक्तुमिच्छति ॥
तानि द्रव्याणि यान्त्येव स प्राणानि कुतः सुखम ॥ ३५ ॥
इति तं दानवं हत्वा नागराजो महाबली ॥
प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः ॥ ३६ ॥
दुरात्मना कुतोनेन सङ्गता दनुजन्मना ॥
क्व वा रत्नेश्वरं लिङ्गं भवतीभिर्विलोकितम् ॥ ३७ ॥
यस्य नामाक्षरोच्चाराद्व्यपेत परमापदः ॥
यृयमाशु तदाख्यात येन जानामि तत्त्वतः ॥२८॥
इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः॥
परस्परं मुखं वीक्ष्य कोसौ स्याद्दृष्टपूर्ववत् ॥ ३९ ॥
अकारण सखा कोसौ प्रान्तरे समुपस्थितः ॥
निजप्राणान्पणीकृत्य येन त्राता स्म बालिकाः ॥ 4.2.67.१४० ॥
अस्य सन्दर्शनादेव स्वभाव चपलान्यपि ॥
मन्थराणीन्द्रियाणिस्तु परिपीय सुधामिव ॥ ४१ ॥
यातुमन्यत्र नो नेत्रे प्रोत्सहेते यथा तथा ॥
अन्यद्वस्त्वन्तरं प्रेक्ष्य रमणीयतरन्त्वपि ॥ ४२॥
वचःपीयूषमाधुर्य नितरां प्राप्य नः श्रुती ॥
शब्दान्तरग्रहापेक्षां न कुर्वाते स्वजन्मनः ॥ ४३ ॥
आप्नुतः पङ्गुतामेतौ पादौ नश्चञ्चलावपि ॥
अमुं युवानमालोक्य चोरं नः सन्मनोमणेः ॥ ४४ ॥
इति ब्रुवन्त्यस्ता बालाः परस्परमनुल्बणम् ॥
दृष्ट्वापि चित्रमध्यस्थं विविदुस्तन्न बालिकाः ॥ ४५ ॥
अतीव भीषणाकार दनुजस्यातिसाध्वसात् ॥
अन्धीभूतेक्षणास्तं नाज्ञासिषुर्हरिणीक्षणाः ॥ ४६ ॥
ऊचुश्च तं युवानं ता निजजीवितरक्षिणम्॥
यदङ्ग भवता पृष्टं स्नेहनिर्भरचेतसा ॥ ४७ ॥
तदाचक्षामहे सर्वमवधेहि क्षणं मनः ॥
इयं गन्धर्वराजस्य वसुभूतेस्तनूद्भवा ॥ ॥ ४८ ॥
कन्या रत्नावली नाम गुणरत्नमहाखनिः ॥
वयं वयस्या एतस्याश्छायेवानुगताः सदा ॥ ४९ ॥
आरभ्य बाल्यमप्येषा लिङ्गं रत्नेश्वराभिधम् ॥
यान्ति पित्राप्यनुज्ञाता काश्यामर्चयितुं सदा ॥ 4.2.67.१५० ॥
वरोपि दत्तस्तेनास्यै प्रसन्नेनाथ शम्भुना ॥
हरिष्यतीति यः स्वप्ने कौमारं ते कुमारिके ॥ ५१ ॥
तव नामसमानाख्यः स ते भर्ता भविष्यति ॥
युवानं स्वप्नभोक्तारं प्राप्याप्येषा सुदुःखिता ॥५२॥
पुनस्तद्विरहोत्थेन वह्निनातीव तापिता॥
कलाकौशल्यतोऽस्माभिः सोपि चित्रे प्रदर्शितः ॥ ५३ ॥
यस्य न ग्राम नामापि नान्वयोप्यवबुध्यते ॥
तं दृष्ट्वा चित्रलिखितमप्येषा जीविता पुनः ॥ ५४ ॥
ततो रत्नेश्वरं नत्वा स्वगृहायोत्सुकाभवत् ॥
यान्तीस्ततोऽनया सार्धं प्रान्तरे गगना ध्वनि ॥ ५५॥
अतर्किता यमश्चास्मान्धृत्वा पातालमाविशत् ॥
अनन्तरं भवानेव तं वेत्ति दनुजाधमम् ॥ ॥५६॥
अङ्ग इत्येव वृत्तान्तो निजोऽस्माभिरुदीरितः ॥
प्रसादं कुरु चास्माकं पुरः कोसि कृपानिधे ॥५७॥
यदा प्रभृति चास्माभिः स दृष्टो दुष्टदानवः ॥
तदाप्रभृति नो नेत्रे विद्युतेव हतप्रभे ॥ ५८ ॥
कान्दिशीका भयत्रातर्न विद्मः किञ्चिदेव हि ॥
क्व वयं का वयं कस्त्वं किं जातं किं भविष्यति ॥ ५९ ॥
निशम्येति स पुण्यात्मा नागराजकुमारकः ॥
आश्वास्य ता भयत्रस्ताः प्रोवाचेदं च पुण्यधीः ॥ 4.2.67.१६० ॥
मया सह समायात रत्नेशं दर्थयामि वः ॥
इत्याहूय स ता निन्ये क्रीडावापीं सुखोदकाम् ॥६१॥
वित्रित्रमणिसोपानां हंसकोककृतारवाम्॥
कवीनां वासितव्याजात्स्वागतं कुर्वतीमिव ॥६२॥
तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्य ताः ॥
सचैलपुष्पाभरणाः प्रोन्ममज्जुस्ततः पुनः ॥ ६३ ॥
बहिर्निर्गत्य गन्धर्व्यः पश्यन्त्यः स्थगिता इव ॥
रत्नेशालयमालोक्य कालराजसमीपतः ॥ ६४॥
परस्परं ततः प्रोचुर्गन्धर्व्यो विस्मिता इव ॥
स्वप्नोयं किं नु वा सत्यं खेलो रत्नेश्वरस्य वा ॥ ६५ ॥
वयमेव हि वा भ्रान्ता गन्धर्व्यो न वयं किमु ॥
किमेतन्नैव जानीम ऐन्द्रजालिक खेलवत्॥ ६६॥
एषोत्तरवहा गङ्गा स्फुटमेव भवेदिह॥
शङ्खचूडस्य वाप्येषा शङ्खचूडालयस्त्वसौ ॥ ६७ ॥
एतत्पञ्चनदं तीर्थमेष वागीश्वरालयः ॥
यस्य सन्दर्शनादेव वाग्विभूतिर्विजृम्भते ॥ ६८ ॥
शङ्खचूडेश्वरश्चैष शङ्खचूडप्रतिष्ठितः ॥
यस्य सन्दर्शनात्पुंसां न भयं कालसर्पजम् ॥ ६९ ॥
एषा मन्दाकिनी नाम दीर्घिका पुण्यतोयभूः ॥
यस्यां कृतोदका मर्त्या मर्त्यलोके विशन्ति न ॥ 4.2.67.१७० ॥ ।
असावाशापुरी देवी या स्तुता त्रिपुरारिणा ॥
त्रिपुरं जेतुकामेन मन्दाकिन्यास्तटे शुभे ॥ ७१ ॥
याद्यापि पूजिता मर्त्यैराशां पूरयतेर्थिनाम्॥
मन्दाकिन्याः प्रतीच्यां तु एष सिद्ध्यष्टकेश्वरः ॥ ७२ ॥
भवेद्यस्य सपर्यातो गृहे सिद्ध्यष्टकं स्फुटम् ॥
कुण्डसिद्ध्यष्टकाख्यं च तत्रैव विरजोदकम् ॥ ७३ ॥
यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेत् ॥
मूर्त्यस्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः ॥ ७४ ॥
सर्वसिद्धिप्रदश्चासौ महाराजविनायकः ॥
विनायकाः प्रणश्यन्ति यस्मै प्रणमतां नृणाम् ॥ ७५ ॥
असौ सिद्धेश्वरस्योच्चैः प्रासादः काञ्चनोज्ज्वलः ॥
रत्नध्वजपताकाश्च सिद्धिः स्याद्यद्विलोकनात् ॥ ७६ ॥
क्षेत्रस्य मध्यमे ॥ भागे मध्यमेश्वर एष वै ॥
मध्याधोलोकयोर्मध्ये न वसेद्यस्य वीक्षणात् ॥ ७७ ॥
मध्यमेशं समभ्यर्च्य नरो मध्यमविष्टपे ॥
आसमुद्रक्षितीन्द्रः स्यात्ततो मोक्षं च विन्दति ॥ ७८ ॥
ऐरावतेश्वरं लिङ्गं तत्प्राच्यामिष्टसिद्धिकृत् ॥
दृश्यते यत्पताकायां रम्य ऐरावतो गजः ॥७९ ॥
वृद्धकालेश्वरस्यैष प्रासादो रत्ननिर्मितः ॥ ।
प्रतिदर्शं वसेद्यत्र रात्रौ चन्द्रः सतारकः ॥ 4.2.67.१८० ॥
यस्य सन्दर्शनान्नृणां न कालः प्रभवेद्भवे ॥
न कलिः प्रभवेत्सत्यं न च कल्मषराशयः ॥ ८१ ॥
इति यावत्कथां चक्रुः सम्भ्रान्ता इव बालिकाः॥
तावद्वसुविभूतिः स गन्धर्वस्त्वरया ययौ ॥८२॥
नारदाच्छ्रुतवृत्तान्तः सुबाहुदनुजन्मनः ॥
रत्नावली सुता प्रीता ससखीका यथाहृता ॥ ८३ ॥
रत्नेश्वरात्समायान्ती शून्ये गगनवर्त्मनि ॥
यथानयच्च पातालं यथा युद्धमभूत्पुनः ॥ ८४ ॥
यथा रत्नेश भक्तेन रत्नचूडेन घातितः ॥
स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा ॥ ८५ ॥
यथा च पृष्टवृत्तान्तो वापीमार्गेण चानयत् ॥
शङ्खचूडस्य वापीं तां पातालेषु प्रवर्तिनीम् ॥ ८६ ॥
यथा च प्राप्य निर्याताः काशीं दृष्ट्वापि बालिकाः ॥
भृशं सम्भ्रान्तिमापन्नाः पश्यन्त्योपि समुत्सुकाः ॥ ८७ ॥
दृष्ट्वा गन्धर्वराजस्तां पुनर्जातामिवात्मजाम् ॥
सवयस्यामनाम्लानमुखपङ्कजसुश्रियम्॥ ८८ ॥
परिष्वज्य समाघ्राय ललाटफलकं मुहुः ॥
अङ्कमारोप्य पप्रच्छ सर्वं वृत्तान्तमादरात्॥८९॥
अथ सा कथयामास दनुजापहृतेः कथाम्॥ ॥
रत्नेश्वरं वरावाप्तिं स्वप्नावस्थां विहाय च॥4.2.67.१९०॥
रत्नावलीमनोवृत्तिं विज्ञायाथ मुखेङ्गितैः ॥ शशिलेखा समाचष्ट स्पष्टवर्णैः सविस्तरम्॥ ९१ ॥
तुतोष नितरां सोथ गन्धर्वाधिपतिः कृती ॥
प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च ॥ ९२
॥ स्कन्द उवाच ॥ ॥
आकर्णय मुनिश्रेष्ठ विन्ध्यवृद्धि विवर्धन ॥
प्रत्यहं रत्नचूडोपि वापीमार्गेण संयमी ॥९३॥
नागलोकात्समागत्य स्नात्वा मन्दाकिनी जले ॥
रत्नेश्वरं समभ्यर्च्य रत्नाञ्जल्यष्टकेन वै ॥ ९४ ॥
सुवर्णपङ्कजान्यष्टौ समर्पयति हृष्टवत् ॥
एकदा स्वप्नसमये रत्नेशो लिङ्गरूपधृक् ॥ ९५ ॥
रत्नचूडमुवाचेदं निजभक्तं दृढव्रतम् ॥
दानवेन हृतां कन्यां मोचयिष्यति यां भवान् ॥ ९६ ॥
तं दानवं रणे जित्वा सा ते पत्नी भविष्यति ॥
इति स्मरन्वरं सोथ नागराजो महामनाः ॥९७॥
तां कन्यां दानवं हत्वा विमोच्य निज वीर्यतः ॥
वापीमार्गेण पातालादानिनाय पुनर्महीम् ॥९८॥
स्वयं च साधयाञ्चक्रे प्रत्यहं नियमं सुधीः॥
लिङ्गं समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम् ॥ ९९ ॥
यावद्बहिः समागच्छेद्रम्याद्रत्नेशमण्डपात ॥
तावद्गन्धर्वराजाय ताभिः स वसुभूतये ॥ 4.2.67.२०० ॥
सोयं सोयं युवा धन्यस्तर्जन्यग्रेण दर्शितः ॥
गन्धर्वराजस्तं दृष्ट्वा नागराजकुमारकम्॥ १ ॥
अतीवस्मेरनयनः सम्प्रहृष्टतनूरुहः ॥
मनस्येनं च संवर्ण्य तद्रूपं सवयोन्वयम्॥ २ ॥
धन्योस्म्यनुगृहीतोस्मि रत्नेशेन वरार्पणात् ॥
कन्या धन्यतरा चेयमनुरूपोस्ति यत्पतिः ॥ ३ ॥
सम्प्रधार्येति हृद्येनं समाकार्य च सुन्दरम् ॥
पृष्ट्वा तन्नामगोत्रं च गणयित्वा बलाबलम् ॥ ४ ॥
रत्नेश्वरस्य पुरतस्तस्मै कन्यां ददौ मुदा ॥
नीत्वा गन्धर्वलोकं च कृतकौतुकमङ्गलम् ॥ ५ ॥
मधुपर्केण सम्पूज्य पाणिमग्राहयत्ततः ॥
वैवाहिकेन विधिना ददौ रत्नान्यनेकशः ॥ ६ ॥
शशिलेखानङ्गलेखा चित्रलेखापि कुम्भज ॥
विज्ञाप्य स्वजनेतारं वरयामास तं पतिम् ॥७ ॥
उपयम्य चतस्रोपि स गन्धर्वसुताः शुभाः ॥
रत्नचूडो जगामाथ ताभिः स्वपितृमन्दिरम् ॥ ८ ॥
यथा चतसृभिः सार्धं श्रुतिभिः प्रणवः शिवम् ॥
स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराट् ॥९॥
विनिवेदितवृत्तान्तो रत्नेशानुग्रहस्य च ॥
उवास ताभिः ससुखं पितृभ्यामभिनन्दितः ॥4.2.67.२१०॥
॥ ईश्वर उवाच ॥ ॥
रत्नेश्वरस्य लिङ्गस्य मम स्थावररूपिणः ॥
सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः ॥ ११ ॥
अस्मिल्ँलिङ्गे परां सिद्धि प्राप्ताः सिद्धाः सहस्रशः ॥
गुप्तमासीदिदं लिङ्गमद्य यावत्सुमध्यमे ॥ ॥ १२ ॥
तव पित्रा हिमवता मम भक्तेन सर्वथा ॥
पुण्यार्जितैर्महारत्नै रत्नेशः प्रकटीकृतः ॥ १३ ॥
अस्मिल्ँलिङ्गे मम प्रीतिर्नितरामद्रिराजजे ॥
वाराणस्यामिदं लिङ्गं पूजनीयं प्रयत्नतः ॥ १४ ॥
नाना रत्नानि लभ्यन्ते रत्नेशानुग्रहादुमे ॥
स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये ॥ १५ ॥
योऽत्र रत्नेश्वरं नत्वा मृतो देशान्तरेष्वपि ॥
न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि ॥१६॥
असितायां चतुर्दश्यामुपोष्य निशि जागरात्॥
रत्नेशसन्निधौ देवि मम सान्निध्यमाप्नुयात् ॥ ॥ १७ ॥
अस्य लिङ्गस्य पूर्वेण त्वया जन्मान्तरे प्रिये ॥
दाक्षायणीश्वरं लिगं मद्भक्त्यात्र प्रतिष्ठितम् ॥ १८ ॥
तस्य सन्दर्शनादेव न नरो याति दुर्गतिम् ॥
अम्बिका नाम गौरी त्वं तत्राहं चाम्बिकेश्वरः ॥ १९ ॥
मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ॥
एतत्त्रयं नरो दृष्ट्वा न गर्भं प्रविशेदुमे ॥ 4.2.67.२२० ॥
रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् ॥
गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम् ॥ २१ ॥
इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा ॥
सपुत्रपौत्रपशुभिर्न वियुज्येत कर्हिचित् ॥ २२ ॥
श्रुत्वा रत्नेश्वरोत्पतिं सेतिहासां नरोत्तमः ॥
अनूढो लभते सत्यं कन्यारत्नं कुलोचितम् ॥ २३ ॥
कन्यापीमं समाकर्ण्य त्वितिहासं मनोरमम् ॥
श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता ॥ २४ ॥
इतिहासमिमं श्रुत्वा नारी वा पुरुषोपिवा ॥
न जात्विष्टवियोगाग्नि तापेन परितप्यते ॥२२५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे रत्नेश्वरप्रशंसनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥