०६५ पराशरेश्वरादिलिङ्गसम्भवः

॥ स्कन्द उवाच ॥ ॥
ज्येष्ठेश्वरस्य परितो यानि लिङ्गानि कुम्भज॥
तानि पञ्चसहस्राणि मुनीनां सिद्धिदान्यलम् ॥ १ ॥
पराशरेश्वरं लिङ्गं ज्येष्ठेशादुत्तरे महत्॥
तस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्यते ॥ २ ॥
तत्रैव सिद्धिदं लिङ्गं माण्डव्येश्वरसञ्ज्ञितम् ॥
न तस्य दर्शनाज्जातु दुर्बुद्धिं प्राप्नुयान्नरः ॥ ३ ॥
लिङ्गं च शङ्करेशाख्यं तत्रैव शुभदं सदा ॥
भृगुनारायणस्तत्र भक्तानां सर्वसिद्धिदः ॥ ४ ॥
जाबालीश्वर सञ्ज्ञं च लिङ्गं तत्रातिसिद्धिदम् ॥
तस्य सन्दर्शनाज्जातु न जन्तुर्दुर्गतिं व्रजेत् ॥ ५ ॥
सुमन्तु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः ॥
तस्य सन्दर्शनादेव कुष्ठव्याधिः प्रशाम्यति ॥ ६ ॥
भैरेवी भीषणा नाम तत्र भीषणरूपिणी ॥
क्षेत्रस्य भीषणं सर्वं नाशयेद्भावतोर्चिता ॥ ७ ॥
तत्रोपजङ्घने लिङ्गं कर्मबन्धविमोक्षणम् ॥
नृभिः संसेवितं भक्त्या षण्मासात्सिद्धिदं परम्॥८॥
भारद्वाजेश्वरं लिङ्गं लिङ्गं माद्रीश्वरं वरम् ॥
एकत्र संस्थिते द्वे तु द्रष्टव्ये सुकृतात्मना ॥९॥
अरुणि स्थापितं लिङ्गं तत्रैव कलशोद्भव ॥
तस्य लिङ्गस्य सेवातः सर्वामृद्धिमवाप्नुयात्॥4.2.65.१०॥
लिङ्गं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम् ॥
तस्य सन्दर्शनात्पुंसां वाजपेयफलं भवेत्॥११॥
कण्वेश्वरं शुभं लिङ्गं लिङ्गं कात्यायनेश्वरम् ॥
वामदेवेश्वरं लिङ्गमौतथ्येश्वरमेव च ॥ १२ ॥
हारीतेश्वरसञ्ज्ञं च लिङ्गं वै गालवेश्वरम् ॥
कुम्भेर्लिङ्गं महापुण्यं तथा वै कौसुमेश्वरम् ॥ १३ ॥
अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च ॥
वत्सेश्वरं महालिङ्गं पर्णादेश्वरमेव च ॥ १४ ॥
सक्तुप्रस्थेश्वरं लिङ्गं कणादेशं तथैव च ॥
अन्यत्तत्र महालिङ्गं माण्डूकाय निरूपितम् ॥ १५ ॥
वाभ्रवेयेश्वरं लिङ्गं शिलावृत्तीश्वरं तथा ॥
च्यवनेश्वर लिङ्गं च शालङ्कायनकेश्वरम् ॥ १६ ॥
कलिन्दमेश्वरं लिङ्गं लिङ्गमक्रोधनेश्वरम् ॥
लिङ्गं कपोतवृत्तीशं कङ्केशं कुन्तलेश्वरम ॥ १७ ॥
कण्ठेश्वरं कहोलेशं लिङ्गं तुम्बुरुपूजितम् ॥
मतगेशं मरुत्तेशं मगधेयेश्वरं तथा ॥ १८ ॥
जातूकर्णेश्वरं लिङ्गं जम्बूकेश्वरमेव च ॥
जारुधीशं जलेशं च जाल्मेशं जालकेश्वरम् ॥ १९ ॥
एवमादीनि लिङ्गानि अयुतार्धानि कुम्भज ॥
स्मरणाद्दर्शनात्स्पर्शादर्चनान्नमनात्स्तुतेः ॥ 4.2.65.२० ॥
न जातु जायते जन्तोः कलुषस्य समुद्भवः ॥
एतेषां शुभलिङ्गानां ज्येष्ठस्थानेति पावने ॥ २१ ॥
॥ स्कन्द उवाच ॥ ॥
एकदा तत्र यद्वृत्तं ज्येष्ठस्थाने महामुने ॥
तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम् ॥ २२ ॥
स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः ॥
कौतुकेनैव चिक्रीड शिवा कन्दुकलीलया ॥ २३ ॥
उदञ्च न्न्यञ्चदङ्गानां लाघवं परितन्वती ॥
निःश्वासामोदमुदित भ्रमराकुलितेक्षणा ॥ २४ ॥
भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका ॥
स्विद्यत्कपोलपत्राली स्रवदम्बुकणोज्ज्वला ॥ २५ ॥
स्फुटच्चोलांशुकपथनिर्यदङ्गप्रभावृता ॥
उल्लसत्कन्दुकास्फालातिशोणितकराम्बुजा ॥ २६ ॥
कन्दुकानुग सदृष्टि नर्तित भ्रूचलताञ्चला ॥
मृडानी किल खेलन्ती ददृशे जगदम्बिका ॥ २७ ॥
अन्तरिक्षचराभ्यां च दितिजाभ्यां मनोहरा ॥
कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना ॥ २८ ॥
विदलोत्पल सञ्ज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥ २९ ॥
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥
दिवोवतेरतुः क्षिप्रं मायां स्वीकृत्य शाम्बरीम् ॥ 4.2.65.३० ॥
धृत्वा पारषदीं मूर्तिमायातावम्बिकान्तिकम् ॥
तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसा ॥ ३१ ॥
सर्वज्ञेन परिज्ञातौ चाञ्चल्याल्लोचनोद्भवात् ॥
कटाक्षिताथ देवेन दुर्गादुर्गारिघातिनी ॥ ३२॥।
विज्ञाय नेत्रसञ्ज्ञां तु सर्वज्ञार्ध शरीरिणी ॥
तेनैव कन्दुकेनाथ युगपन्निजघान तौ ॥ ३३॥
महाबलौ महादेव्या कन्दुकेन समाहतौ॥
परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ ३४ ॥
वृन्तादिव फले पक्वे तालादनिललोलिते ॥
दम्भोलिना परिहते शृङ्गेइव महागिरेः ॥ ३५ ॥
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥
ततः परिणतिं यातो लिङ्गरूपेण कन्दुकः ॥३६॥
कन्दुकेश्वरसञ्ज्ञं च तल्लिङ्गमभवत्तदा ॥
ज्येष्ठेश्वर समीपे तु सर्वदुष्टनिवारणम् ॥३७॥
कन्दुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः ॥
पूजयिष्यति यो भक्तस्तस्य दुःखभयं कुतः ॥ ३८ ॥
कन्दुकेश्वर भक्तानां मानवानां निरेनसाम् ॥
योगक्षेमं सदा कुर्याद्भवानी भयनाशिनी ॥ ३९ ॥
मृडानी तस्य लिङ्गस्य पूजां कुर्यात्सदैव हि ॥
तत्रैव देव्या सान्निध्यं पार्वत्या भक्तसिद्धिदम् ॥ 4.2.65.४० ॥
कन्दुकेशं महालिङ्गं काश्यां यैर्न समर्चितम् ॥
कथं तेषां भवनीशौ स्यातां सर्वेप्सितप्रदौ ॥ ४१ ॥
द्रष्टव्यं च प्रयत्नेन तल्लिङ्गं कन्दुकेश्वरम् ॥
सर्वोपसर्गसङ्घातविघातकरणं परम् ॥ ४२ ॥
कन्दुकेश्वर नामापि श्रुत्वा वृजिनसन्ततिः ॥
क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा ॥ ४३ ॥
॥ स्कन्द उवाच ॥ ॥
संशृणुष्व महाभाग ज्येष्ठेश्वर समीपतः ॥
यद्वृत्तान्तमभूद्विप्र परमाश्चर्यकृद्ध्रुवम् ॥ ४४ ॥
दण्डखाते महातीर्थे देवर्षिपितृतृप्तिदे ॥
तप्यमानेषु विप्रेषु निष्कामं परमं तपः ॥ ४५ ॥
दैत्यो दुन्दुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥
देवाः कथं सुजेयाः स्युरित्युपायमचिन्तयत् ॥ ४६ ॥
किं बलाश्च किमाहाराः किमाधारा हि देवताः ॥
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ॥ ४७ ॥
अवश्यमग्रजन्मानो हेतवोत्र विचारतः ॥
ब्राह्मणान्हन्तुमसकृत्कृतवानुद्यमं ततः ॥ ४८ ॥
यतः क्रतुभुजो देवाः क्रतवो वेदसम्भवाः ॥
ते वेदा ब्राह्मणाधीनास्ततो देवबलं द्विजाः ॥ ४९ ॥
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ॥
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥ 4.2.65.५० ॥
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् ॥
आम्नायेषु प्रणष्टेषु विनष्टाः शततन्तवः ॥ ५१ ॥
यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः ॥
निर्बलाः सुखजेयाः स्युर्जितेषु त्रिदशेष्वथ ॥ ५२ ॥
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥
आहरिष्यामि देवानामक्षयाः सर्वसम्पदः ॥ ५३ ॥
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकण्टके ॥
इति निश्चित्य दुर्बुद्धिः पुनश्चिन्तितवान्मुने ॥ ५४ ॥
द्विजाः क्व सन्ति भूयांसो ब्रह्मतेजोतिबृंहिताः ॥
श्रुत्यध्ययन सम्पन्नास्तपोबल समन्विताः ॥ ५५ ॥
भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत् ॥
तानादावुपसंहृत्य यामि तीर्थान्तरं ततः ॥ ५६ ॥
यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च ॥
सन्ति सर्वेऽग्रजन्मानस्ते मयाद्याः समन्ततः ॥ ५७ ॥
इति दुन्दुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ॥ ५८ ॥
समित्कुशान्समादातुं यत्र यान्ति द्धिजोत्तमाः ॥
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥ ९॥
यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः ॥
वने वनेचरो भूत्वा यादोरूपी जलाशये ॥ 4.2.65.६० ॥
अदृश्यरूपी मायावी देवानामप्यगोचरः ॥
दिवाध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥ ६१ ॥
प्रवेशमुटजानां च निर्गमं च विलोकयन् ॥
यामिन्यां व्याघ्ररूपेण ब्राह्मणान्भक्षयेद्बहून् ॥ ६२ ॥
निःशब्दमेव नयति नत्यजेदपि कीकसम् ॥
इत्थं निपातिता विप्रास्तेन दुष्टेन भूरिशः ॥ ६३ ॥
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोभवत् ॥ ६४ ॥
स च दुन्दुभिनिर्ह्राद दैत्येन्द्रो बलदर्पितः ॥
व्याघ्र रूपं समास्थाय तमादातुं मतिं दधे ॥६५॥
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे॥
कृतास्त्रमन्त्रविन्यासं तं क्रान्तुमशकन्न सः ॥ ६६ ॥
अथ सर्वगतः शम्भुर्ज्ञात्वा तस्याशयं हरः ॥
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥ ६७ ॥
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥
जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षण दक्षधीः ॥ ६८ ॥
रुद्रमायान्तमालोक्य तद्भक्तार्चित लिङ्गतः ॥
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥ ६९ ॥
सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः ॥
तावदायान्तमादाय कक्षायन्त्रे न्यपीडयत् ॥ 4.2.65.७० ॥
पञ्चास्यस्त्वथ पञ्चास्यं मुष्ट्या मूर्धन्यताडयत् ॥
स च तेनैव रूपेण कक्षानिष्पेषणेन च ॥७१ ॥
अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन् ॥
तेन नादेन सहसा सं प्रवेपितमानसाः ॥७२॥
तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ॥
तत्रेश्वरं समालोक्य कक्षीकृत मृगेश्वरम्॥७३॥
तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः ॥
परित्राता जगत्त्रातः प्रत्यूहाद्दारुणादितः ॥७४ ॥
अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो ॥
अनेनैव हि रूपेण व्याघ्रेश इति नामतः ॥ ७५ ॥
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥
अन्येभ्योप्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ॥ ७६ ॥
इति श्रुत्वा वचस्तेषां देवश्चन्द्रविभूषणः ॥
तथेत्युक्त्वा पुनः प्राह शृणुध्वं द्विजपुङ्गवाः ॥ ७७ ॥
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥
तस्योपसर्गसङ्घातं घातयिष्याम्यसंशयम् ॥ ७८ ॥
एतल्लिङ्गं समभ्यर्च्य यो याति पथि मानवः ॥
चौरव्याघ्रादिसम्भूत भयं तस्य कुतो भवेत् ॥ ७९ ॥
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिङ्गमिदं हृदि ॥
सङ्ग्रामे प्रविशन्मर्त्यो जयमाप्नोति नान्यथा ॥4.2.65.८०॥
इत्युक्त्वा देवदेवशस्तस्मिल्ँलिङ्गे लयं ययौ ॥
सविस्मयास्ततो विप्राः प्रातर्याता यथागतम् ॥ ८१ ॥
॥ स्कन्द उवाच ॥ ॥
तदा प्रभृति कुम्भोत्थ लिङ्गं व्याघ्रेश्वराभिधम् ॥
ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम् ॥ ८२ ॥
व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किङ्कराः ॥
यामा अपि महाक्रूरा जयजीवेति वादिनः॥ ८३ ॥
पराशरेश्वरादीनां लिङ्गानामिह सम्भवम् ॥
श्रुत्वा नरो न लिप्येत महापातककर्दमैः॥ ८४ ॥
कन्दुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा॥
समाकर्ण्य नरो जातु नोपसर्गैः प्रदूयते ॥ ८५ ॥
उटजेश्वर लिङ्गं तु व्याघ्रेशात्पश्चिमे स्थितम् ॥
भक्तरक्षार्थमुद्भूतं स्यात्समभ्यर्च्य निर्भयः ॥ ८६ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे पराशरेश्वरादिलिङ्गसम्भवोनाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥