०६४ क्षेत्ररहस्यकथनम्

॥ अगस्त्य उवाच ॥
दृष्ट्वा भूदेवताः शम्भुं किमाचख्युः षडानन ॥
कानिकानि च लिङ्गानि तत्र तान्यपिचक्ष्व मे ॥ १ ॥
ज्येष्ठस्थाने महापुण्ये देवदेवस्य वल्लभे ॥
आश्चर्यं किमभूत्तत्र तदाचक्ष्व षडानन ॥२ ॥
॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्य यथा पृच्छि भवता तद्ब्रवीम्यहम् ॥
मन्दराद्रिं यदा देवो गतवान्ब्रह्मगौरवात् ॥ ३ ॥
तदा निराश्रया विप्राः क्षेत्रसन्न्यासिनोनघाः ॥
उपाकृताश्चाविरतं महाक्षेत्रप्रतिग्रहात् ॥ ४ ॥
खातङ्खातं च दण्डाग्रैर्भूमिं कन्दादिवृत्तयः ॥
चक्रुः पुष्करिणीं रम्यां दण्डखाताभिधां मुने ॥ ५ ॥
तत्तीर्थं परितः स्थाप्य महालिङ्गान्यनेकशः ॥
महेशाराधनपरास्तपश्चक्रुः प्रयत्नतः ॥ ६ ॥
विभूतिधारिणो नित्यं नित्यरुद्राक्षधारिणः ॥
लिङ्गपूजारता नित्यं शतरुद्रियजापिनः ॥ ७ ॥
ते श्रुत्वा देवदेवस्य पुनरागमनं मुने ॥
तपःकृशा अतितरामासुरानन्द मेदुराः ॥ ८ ॥
द्विजाः पञ्चसहस्राणि चरतो विपुलं तपः ॥
दण्डखातान्महातीर्थादाजग्मुर्देवदर्शने ॥ ९ ॥
तीर्थान्मन्दाकिनी नाम्नो द्विजाः पाशुपतव्रताः ॥
शिवैकाराधनपराः समेता अयुतोन्मिताः ॥ 4.2.64.१० ॥
हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम् ॥
शतदुर्वाससस्तीर्थादेकादश शताधिकम् ॥ ११ ॥
मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि ॥
कपालमोचनात्सप्त शतान्यभ्यागता द्विजाः ॥ १२॥
ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम् ॥
वैतरण्या अपि मुने द्विजानामयुतार्धकम् ॥१३॥
ततः पृथूदकात्कुण्डात्पृथुना परिखानितात् ॥
अयासिषुर्द्विजानां च शतान्येव त्रयोदश ॥१४॥
तथैवाप्सरसः कुण्डान्मेनकाख्याच्छतद्वयम् ॥
उर्वशीकुण्डतः प्राप्ताः सहस्रं द्विशताधिकम् ॥ १५ ॥
तथैरावतकुण्डाच्च ब्राह्मणास्त्रिशतानि च ॥
गन्धर्वाप्सरसः सप्त शतानि द्विशतानि च ॥ १६ ॥
वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया ॥
यक्षिणीकुण्डतः प्राप्ताः सहस्रं त्रिशतोत्तरम् ॥ १७ ॥
लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च ॥
पिशाचमोचनात्सप्त सहस्राणि द्विजोत्तमाः ॥ १८ ॥
पितृकुण्डाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट् ॥
मानसाख्याच्च सरसो द्विशती सशतत्रया ॥ १९ ॥
ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु ॥
तथैवाष्टशतं द्रष्टुं जानकीकुण्डतो द्विजाः ॥ 4.2.64.२० ॥
काशीनाथमनुप्राप्ताः परमानन्ददायिनम् ॥
तथा गौतमकुण्डाच्च शतानिनव चागताः ॥२१॥
तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे ॥
एकादशशतान्येव द्रष्टुं देवमुमापतिम् ॥ २२ ॥
असीसम्भेदमारभ्य गङ्गातीरस्थिता द्विजाः ॥
आसङ्गमेश्वरात्तत्र परिप्राप्ता घटोद्भव ॥ २३ ॥
अष्टादशसहस्राणि तथा पञ्चशतान्यपि ॥
ब्राह्मणाः पञ्चपञ्चाशद्गङ्गातीरात्समागताः ॥ २४ ॥
सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः ॥
सुगन्धमाल्यहस्तैश्च ब्राह्मणैर्जयवादिभिः ॥ २५ ॥
स्तुतो मङ्गलसूक्तैश्च प्रणतश्च पुनःपुनः ॥
तेभ्यो दत्ताभयः शम्भुः पप्रच्छ कुशलं मुदा ॥ २६ ॥
ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसम्पुटाः ॥
क्षेत्रे निवसतां नाथ सदानः कुशलोदयः ॥ २७ ॥
विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः॥
त्वं यत्स्वरूपं श्रुतयो न विदुः परमार्थतः ॥ २८ ॥
सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः ॥
चतुर्दशापि वै लोकास्तेषां नित्यं पराङ्मुखाः ॥ २९ ॥
येषां हृदि सदैवास्ते काशीत्वाशीविषां गद ॥
संसाराशीविषविषं न तेषां प्रभवेत्क्वचित् ॥ 4.2.64.३० ॥
गर्भरक्षामणिर्मन्त्रः काशीवर्णद्वयात्मकः ॥
यस्य कण्ठे सदा तिष्ठेत्तस्याकुशलता कुतः ॥ ३१ ॥
सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम् ॥
स नैर्जरीं दशां हित्वा सुधैव परिजायते ॥ ३२ ॥
श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम् ॥
न समाकणर्यत्येव स पुनर्गर्भजां कथाम्॥ ३३ ॥
काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम् ॥
चन्द्रशेखरतन्मूर्धा भवेच्चन्द्रकलाङ्कितः ॥ ३४ ॥
प्रसङ्गतोपि यन्नेत्रपथमानन्दकाननम् ॥
यातं तेत्र न जायन्ते नेक्षेरन्पितृकान(व?)नम् ॥३५॥
गच्छता तिष्ठता वापि स्वपता जाग्रताथवा ॥
काशीत्येष महामन्त्रो येन जप्तः सनिर्भयः ॥ ३६ ॥
येन बीजाक्षरयुगं काशीति हृदि धारितम् ॥
अबीजानि भवन्त्येव कर्मबीजानि तस्य वै ॥ ३७ ॥
काशी काशीति काशीति जपतो यस्य संस्थितिः ॥
अन्यत्रापि सतस्तस्य पुरो मुक्तिः प्रकाशते ॥ ३८ ॥
क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव ॥
क्षेममूर्तिस्त्रिपथगा नान्यत्क्षेमत्रयं क्वचित् ॥ ३९ ॥
ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् ॥
निशम्य गिरिजाकान्तस्तुतोष नितरां हरः ॥ 4.2.64.४० ॥
प्रोवाच च प्रसन्नात्मा धन्या यूयं द्विजर्षभाः ॥
येषामिहेदृशी भक्तिर्मम क्षेत्रेतिपावने ॥ ४१ ॥
जाने सत्त्वमया जाताः क्षेत्रस्यास्य निषेवणात् ॥
नीरजस्का वितमसः संसारार्णवपारगाः ॥ ४२ ॥
वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम्॥
जीवन्मुक्ता हि ते नूनं मोक्षलक्ष्म्या कटाक्षिताः ॥ ४३ ॥
यैश्च काशीस्थितो जन्तुरल्पकोपि विरोधितः ॥
तैर्वै विश्वम्भरा सर्वा मया सह विरोधिता ॥ ॥ ४४ ॥
वाराणस्याः स्तुतिमपि यो निशम्यानुमोदते ॥
अपि ब्रह्माण्डमखिलं ध्रुवं तेनानुमोदितम् ॥४५॥
निवसन्ति हि ये मर्त्या अस्मिन्नानन्दकानने ॥
ममान्तःकरणे ते वै निवसेयुरकल्मषाः ॥ ४६ ॥
निवसन्ति मम क्षेत्रे मम भक्तिं प्रकुर्वते ॥
मम लिङ्गधरा ये तु तानेवोपदिशाम्यहम् ॥ ४७ ॥
निवसन्ति मम क्षेत्रे मम भक्तिं न कुर्वते ॥
मम लिङ्गधरा ये नो न तानुपदिशाम्यहम् ॥४८॥
काशी निर्वाणनगरी येषां चित्ते प्रकाशते ॥
ते मत्पुरः प्रकाशन्ते नैःश्रेयस्या श्रिया वृताः ॥ ४९ ॥
मोक्षलक्ष्मीरियं काशी न येभ्यः परिरोचते ॥
स्वर्लक्ष्मीं काङ्क्षमाणेभ्यः पतितास्ते न संशयः ॥ 4.2.64.५० ॥
काथीं सङ्काक्षमाणानां पुरुषार्थचतुष्टयम् ॥
पुरः किङ्करवत्तिष्ठेन्ममानुग्रहतो द्विजाः ॥ ५१ ॥
आनन्दकानने ह्यत्र ज्वलद्दावानलोस्म्यहम् ॥
कर्मबीजानि जन्तूनां ज्वालये न प्ररोहये ॥ ५२ ॥
वस्तव्यं सततं काश्यां यष्टव्योहं प्रयत्नतः ॥
जेतव्यौ कलिकालौ च रन्तव्या मुक्तिरङ्गना ।५३॥
प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिसेवते॥
तस्य हस्तगताप्याशु कैवल्यश्रीः प्रणश्यति ॥ ५४ ॥
धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः ॥
यूयं यच्चेतसो वृत्तेर्न दूरेहं न काशिका ॥ ५५ ॥
दातव्यो वो वरः कोत्र व्रियतां मे यथारुचि ॥
प्रेयांसो मे यतो यूयं क्षेत्रसन्न्यासकारिणः ॥ ५६ ॥
इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम् ॥
परितृप्ता द्विजाः सर्वे वव्रुर्वरमनुत्तमम् ॥ ५७ ॥
ब्राह्मणा ऊचुः ॥ ॥
उमापते महेशान सर्वज्ञ वर एष नः ॥
काशी कदापि न त्याज्या भवता भवतापहृत् ॥ ५८ ॥
वचनाद्ब्राह्मणानां तु शापो मा प्रभवत्विह ॥
कदाचिदपि केषाञ्चित्काश्यां मोक्षान्तरायकः ॥ ५९ ॥
तव पादाबुञ्जद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु नः ॥
आ कलेवरपातं च काशीवासोस्तु नोनिशम् ॥4.2.64.६०॥
किमन्येन वरेणेश देय एष वरो हि नः ॥
अवधेह्यन्धकध्वंसिन्वरमन्यं वृणीमहे ॥ ६१ ॥
तव प्रतिनिधी कृत्यास्माभिस्त्वद्भक्तिभावितैः ॥
प्रतिष्ठितेषु लिङ्गेषु सान्निध्यं भवतोऽस्त्विह॥६२॥
श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना ॥
प्रोचेऽन्योपि वरो दत्तो ज्ञानं वश्च भविष्यति ॥६३॥
पुनः प्रोवाच देवेशो निशामयत भो द्विजाः ॥
हितं वः कथयाम्यत्र तदनुष्ठीयतां ध्रुवम् ॥ ६४ ॥
सेव्योत्तरवहा नित्यं लिङ्गमर्च्यं प्रयत्नतः ॥
दमो दानं दया नित्यं कर्तव्यं मुक्तिकाङ्क्षिभिः ॥ ६५ ॥
इदमेव रहस्यं च कथितं क्षेत्रवासिनाम् ॥
मतिः परहिता कार्या वाच्यं नोद्वेगकृद्वचः ॥६६॥
मनसापि न कर्तव्यमेनोत्र विजिगीषुणा॥
अत्रत्यमक्षयं यस्मात्सुकृतं सुकृतेतरम् ॥ ६७ ॥
अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति ॥
वाराणस्यां कृतं पापमन्तर्गेहे प्रणश्यति ॥ ६८ ॥
अन्तर्गेहे कृतं पापं पैशाच्यनरकावहम् ॥
पिशाचनरकप्राप्तिर्गच्छत्येव बहिर्यदि ॥ ६९ ॥
न कल्पकोटिभिः काश्यां कृतं कर्म प्रमृज्यते ॥
किन्तु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम्.॥ 4.2.64.७०. ॥
वाराणस्यां स्थितो यो वै पातकेषु रतः सदा ॥
योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम् ॥ ७१ ॥
पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम् ॥
तेन ज्ञानेथ सम्प्राप्ते(?) मोक्षमाप्स्यत्यनुत्तमम् ॥ ७२ ॥ (सम्प्रान्ते)
दुष्कृतानि विधायेह बहिः पञ्चत्वमागताः ॥
तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः ॥ ७३ ॥
यामाख्या मे गणाः सन्ति घोरा विकृतमूर्त्तयः ॥
मूषायां ते धमन्त्यादौ क्षेत्रदुष्कृतकारिणः ॥ ७४ ॥
नयन्त्यनूपप्रायां च ततः प्राचीं दुरासदाम् ॥
वर्षाकाले दुराचारान्पातयन्ति महाजले ॥ ७५ ॥
जलौकाभिः सपक्षाभिर्दन्दशूकैर्जलोद्भवैः ॥
दुर्निवारैश्च मशकैर्दश्यन्ते ते दिवानिशम् ॥ ७६ ॥
ततो यामैर्हिमर्तौ ते नीयन्तेऽद्रौ हिमालये ॥
अशनावरणैर्हीनाः क्लेश्यन्ते ते दिवानिशम् ॥ ७७ ॥
मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते ॥
दिवाकरकरैस्तीव्रैस्ताप्यन्ते ते पिपासिताः ॥ ७८ ॥
क्लेशितास्ते गणैरुग्रैर्यातनाभिः समन्ततः ॥
इत्थं कालमसङ्ख्यातमानीयन्ते ततस्त्विह ॥ ७९ ॥
निवेदयन्ति ते यामाः कालराजान्तिके ततः ॥
कालराजोपि तान्द्रष्ट्वा कर्मसंस्मार्य दुष्कृतम् ॥ 4.2.64.८० ॥
विवस्त्रान्क्षुत्तृषार्तांश्च लग्नपृष्ठोदरत्वचः ॥
अन्यै रुद्रपिशाचैश्च सहसंयोजयत्यपि ॥ ८१ ॥
ततो रुद्रपिशाचास्ते भैरवानुचराः सदा ॥
सहन्ते क्लममत्यर्थं क्षुत्तृष्णोग्रत्वसम्भवम् ॥ ८२ ॥
आहारं रुधिरोन्मिश्रं ते लभन्ते कदाचन ॥
एवं त्र्ययुतसङ्ख्याकं कालं तत्रातिदुःखिताः ॥ ८३ ॥
श्मशानस्तम्भमभितो नीयन्ते कण्ठपाशिताः ॥
पिपासिता अपि न तेंऽबुस्पर्शमपि चाप्नुयुः ॥ ८४ ॥
अथ सङ्क्षीणपापास्ते कालभैरवदर्शनात् ॥
इहैव देहिनो भूत्वा मुच्यन्ते ते ममाज्ञया ॥ ८५ ॥
तस्मान्न कामयेतात्र वाङ्मनःकर्मणाप्यघह(?)म् ॥
शुचौ पथि सदा स्थेयं महालाभमभीप्सुभिः ॥ ८६ ॥
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥
ममानुग्रहमासाद्य गच्छत्येव परां गतिम् ॥ ८७ ॥
अनाशनं यः कुरुते मद्भक्त इह सुव्रतः ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ८८ ॥
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम् ॥
अविमुक्तं सदा सेव्यं संसारभयमोचकम् ॥ ८९ ॥
नान्यत्पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम् ॥
सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे ॥ 4.2.64.९० ॥
जन्मान्तरसहस्रेषु यत्पापं समुपार्जितम् ॥
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ९१ ॥
जन्मान्तरसहस्रेषु युञ्जन्योगी यदाप्नुयात् ॥
तदिहैव परो मोक्षो मरणादधि गम्यते ॥ ९२ ॥
तिर्यग्योनिगताः सत्त्वा ये विमुक्तकृतालयाः ॥
कालेन निधनं प्राप्तास्तेपि यान्ति परां गतिम् ॥ ९३ ॥
अविमुक्तं न सेवन्ते ये मूढास्तमसावृताः ॥
विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ ९४ ॥
अविमुक्तं समासाद्य यो लिङ्गं स्थापयेत्सुधीः ॥
कल्पकोटिशतैर्वापि नास्ति तस्य पुनर्भवः ॥ ९५ ॥
ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ॥
अविमुक्ते मृतानां तु पतनं नैव विद्यते॥ ९६ ॥
ब्रह्महत्यां नरः कृत्वा पश्चात्संयतमानसः ॥
प्राणांस्त्यजति यः काश्यां स मुक्तो नात्र संशयः ॥ ९७ ॥
स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः ॥
अविमुक्ते मृता विप्रा यान्ति ताः परमां गतिम् ॥ ९८ ॥
अत्रोत्क्रमणकालेहं स्वयमेव द्विजोत्तमाः ॥
दिशामि तारकं ब्रह्म देही स्याद्येन तन्मयः ॥ ९९ ॥
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ॥
यथा मोक्षमिहाप्नोति न तथान्यत्रकुत्रचित् ॥ 4.2.64.१०० ॥
मरणं निश्चितं ज्ञात्वा गतिं चासुखरूपिणीम् ॥
चलमागन्तुकं सर्वं ततः काशीं समाश्रयेत् ॥ १ ॥
काशी समाश्रिता यैस्तु मनोवाक्कायकर्मभिः ॥
तानत्र निर्मलधियो निवार्णश्रीः समाश्रयेत् ॥ २ ॥
काशीस्थितैकमपि यः प्रीणयेन्न्यायजैर्धनैः ॥
तेन त्रैलोक्यमखिलं प्रीणितं तु मया सह ॥ ३ ॥
यः प्रीणयति पुण्यात्मा निर्वाणनगरी नरम् ॥
पुमर्थेन स्थितेर्नित्यं ब्राह्मणाः प्रीणयामि तम् ॥ ४ ॥
दिवोदासोपि राजर्षिः काशीं धर्मेण पालयन् ॥
सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः ॥ ५॥
अत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥
अतो विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम् ॥ ६ ॥
मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ॥
अश्मना चरणौ हत्वा कालमत्र प्रतीक्षयेत् ॥ ७ ॥
अविमुक्तं परित्यज्य यदा यास्यन्ति दुर्धियः ॥
हसिष्यन्ति तदा भूतान्यन्योन्यकरताडनैः ॥ ८ ॥
प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ॥
परिनिष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत् ॥ ९ ॥
महादानेन चान्यत्र यत्फलं लभ्यते नरैः ॥
अविमुक्ते तु काकिण्यां दत्तायां तदवाप्यते ॥ 4.2.64.११० ॥
एकं समर्चयेल्लिङ्गं तपस्तप्येत चापरः ॥
तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं पूजयेदिह ॥ ११ ॥
तीर्थान्तरे गवां कोटिं विधिवद्यः प्रयच्छति॥
एकाहं यो वसेत्काश्यां काशीवासी तयोर्वरः॥ ॥ १२ ॥
अन्यत्र ब्राह्मणानां तु कोटिं सम्भोज्य यत्फलम्॥
वाराणस्यां तु चैकेन भोजितेन तदाप्यते॥ १३ ॥
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ॥
तुलापुरुषदानेन काशीभिक्षा समा भवेत्॥ १४ ॥
ममेह परमं ज्योतिरापातालाद्व्यवस्थितम् ॥
अतीत्य सप्तलोकादीननन्तं लिङ्गरूपधृक् ॥ १५ ॥
पृथिव्यन्तेपि ये लिङ्गमविमुक्तं स्मरन्ति मे ॥
कलुषैस्ते विमुच्यन्ते महद्भिरिति निश्चितम् ॥ १६ ॥
अस्मिन्क्षेत्रे तु ये नाहं दृष्टः स्पृष्टः समर्चितः ॥
सम्प्राप्य तारकं ज्ञानं न स भूयोभिजायते ॥ १७ ॥
यो मामिह समभ्यर्च्य म्रियतेन्यत्रकुत्रचित् ॥
जन्मान्तरेपि मां प्राप्य स विमुक्तो भविष्यति ॥१८॥
इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो हरः ॥
पश्यतामेव तेषां तु तत्रैवान्तर्हितोभवत् ॥ १९ ॥
तेपि साक्षाद्विरूपाक्षं प्रत्यक्षीकृत्य वाडवाः ॥
प्रहृष्टमनसोऽत्यन्तं प्रययुः स्वस्वमाश्रयम् ॥ 4.2.64.१२० ॥
शम्भोर्वाक्यं विनिश्चित्य सर्वज्ञस्य कृपानिधेः ॥
त्यक्त्वा कार्यान्तरं विप्रा लिङ्गान्येव समर्चिषुः ॥ २१ ॥
॥ स्कन्द उवाच ॥ ॥
पठित्वा पाठयित्वा च रहस्याख्यानमुत्तमम् ॥
श्रद्धालुः पातकैर्मुक्तः शिवलोके महीयते ॥ १२२ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्द्धे क्षेत्ररहस्यकथनन्नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥