०६३ ज्येष्ठेशाख्यानम्

अगस्त्य उवाच ॥ ॥
दृष्ट्वा काशीं दृगानन्दां तारकारे पुरारिणा ॥
किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः ॥
मृगाङ्कलक्ष्मणोत्कण्ठं काशी नेत्रातिथीकृता ॥ २ ॥
अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा ॥
जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः ॥ ३ ॥
यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ ॥
अद्रीन्द्र सुतया सार्धं रुद्रेणोक्षेन्द्रगामिना ॥ ४ ॥
तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् ॥
जैगीषव्यो महामेधाः कुम्भयोने महाकृती ॥५॥
विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः ॥
तदाम्बुविप्रुषमपि भक्षयिष्यामि चेत्यहो ॥६॥
कुतश्चिद्धारणायोगादथवा शम्भ्वनुग्रहात ॥
अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने ॥ ७ ॥
तं शम्भुरेव जानाति नान्यो जानाति कश्चन ॥
अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः ॥ ८ ॥
ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ॥
तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः ॥ ९ ॥
ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् ॥
तत्र लिङ्गं समभवत्स्वयं ज्येष्ठेश्वराभिधम् ॥ 4.2.63.१० ॥
तल्लिङ्गदर्शनात्पुंसां पापं जन्मशतार्जितम् ॥
तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति ॥११॥
ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् ॥
ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि ॥ १२ ॥
आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः ॥
सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समन्ततः ॥ १३ ॥
ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः ॥
रात्रौ जागरणं कार्यं सर्वसम्पत्समृद्धये ॥ १४ ॥
ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता ॥
सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि॥ १५ ॥
निवासं कृतवाञ्शम्भुस्तस्मिन्स्थाने यतः स्वयम् ॥
निवासेश इति ख्यातं लिङ्गं तत्र परं ततः ॥ ॥ १६ ॥
निवासेश्वरलिङ्गस्य सेवनात्सर्वसम्पदः ॥
निवसन्ति गृहे नित्यं नित्यं प्रतिपदं पुनः ॥ १७ ॥
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः ॥
ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा ॥ १८ ॥
ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः ॥
ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति ॥ १९ ॥
ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः ॥
ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः ॥ 4.2.63.२० ॥
अथ नन्दिनमाहूय धूर्जटिः स कृपानिधिः ॥
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥ २१ ॥
॥ ईश्वर उवाच ॥ ॥
शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा ॥
तदन्तरेस्ति मे भक्तो जैगीषव्यस्तपोधनः ॥ २२ ॥
महानियमवान्नन्दिस्त्वगस्थिस्नायु शेषितः ॥
तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम् ॥ २३ ॥
यदाप्रभृत्यगां काश्या मन्दरं सर्वसुन्दरम् ॥
महानियमवानेष तदारभ्योज्झिताशनः ॥ २४ ॥
गृहाण लीलाकमलमिदं पीयूषपोषणम् ॥
अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा ॥ २५ ॥
ततो नन्दी समादाय तल्लीलाकमलं विभोः ॥
प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम् ॥२६॥
नन्दी दृष्ट्वाथ तं तत्र धारणादृढमानसम् ॥
तपोग्नि परिशुष्काङ्गं कमलेन समस्पृशत् ॥ २७ ॥
तपान्ते वृष्टिसंयोगाच्छालूर इव कोटरे ॥
उल्ललास स योगीन्द्रः स्पर्शमात्रात्तदब्जजात् ॥ २८ ॥
अथ नन्दी समादाय सत्वरं मुनिपुङ्गवम् ॥
देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत् ॥ २९ ॥
जैगीषव्योथ सम्भ्रान्तः पुरतो वीक्ष्य शङ्करम् ॥
वामाङ्गसन्निविष्टाद्रितनयं प्रणनाम ह ॥ 4.2.63.३० ॥
प्रणम्य दण्डवद्भूमौ परिलुठ्य समन्ततः ॥
तुष्टाव परया भक्त्या स मुनिश्चन्द्रशेखरम् ॥३१॥
॥ जैगीषव्य उवाच ॥ ॥
नमः शिवाय शान्ताय सर्वज्ञाय शुभात्मने॥
जगदानन्दकन्दाय परमानन्दहेतवे ॥ ३२ ॥
अरूपाय सरूपाय नानारूपधराय च ॥
विरूपाक्षाय विधये विधिविष्णुस्तुताय च ॥३३॥
स्थावराय नमस्तुभ्यं जङ्गमाय नमोस्तुते ॥
सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने ॥ ३४ ॥
नमस्त्रैलोक्यकाम्याय कामाङ्गदहनाय च ॥
नमो शेषविशेषाय नमः शेषाङ्गदाय ते ॥ ॥ ३५ ॥
श्रीकण्ठाय नमस्तुभ्यं विषकण्ठाय ते नमः ॥
वैकुण्ठवन्द्यपादाय नमोऽकुण्ठितशक्तये ॥३६॥
नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने ॥
सकृत्प्रणाममात्रेण देहिदेहनिवारिणे॥ ३७ ॥
कालाय कालकालाय कालकूट विषादिने ॥
व्यालयज्ञोपवीताय व्यालभूषणधारिणे ॥ ३८ ॥
नमस्ते खण्डपरशो नमः खण्डें दुधारिणे ॥
खण्डिताशेष दुःखाय खड्गखेटकधारिणे ॥ ३९ ॥
गीर्वाणगीतनाथाय गङ्गाकल्लोलमालिने ॥
गौरीशाय गिरीशाय गिरिशाय गुहारणे ॥ ॥ 4.2.63.४० ॥
चन्द्रार्धशुद्धभूषाय चन्द्रसूर्याग्निचक्षुषे ॥
नमस्ते चर्मवसन नमो दिग्वसनायते ॥ ४१ ॥
जगदीशाय जीर्णाय जराजन्महराय ते ॥
जीवायते नमस्तुभ्यं जञ्जपूकादिहारिणे ॥ ४२ ॥
नमो डमरुहस्ताय धनुर्हस्ताय ते नमः ॥
त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः ॥ ४३ ॥
त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर ॥
त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च ॥ ४४ ॥
त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च ॥
दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः ॥ ४५ ॥
दारिताशेषपापाय नमस्ते दीर्घदर्शिने ॥
दूराय दुरवाप्याय दोषनिर्दलनाय च ॥ ४६ ॥
दोषाकर कलाधार त्यक्तदोषागमाय च ॥
नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय ॥४७॥
नमो धीराय धर्माय धर्मपालाय ते नमः ॥
नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित ॥ ४८ ॥
नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक ॥
नमः प्रमथनाथाय पिनाकोद्यतपाणये ॥ ॥ ४९ ॥
पशुपाशविमोक्षाय पशूनां पतये नमः ॥
नामोच्चारणमात्रेण महापातकहारिणे ॥ 4.2.63.५० ॥
परात्पराय पाराय परापरपराय च ॥
नमोऽपारचरित्राय सुपवित्रकथाय च ॥ ५१ ॥
वामदेवाय वामार्धधारिणे वृषगामिने ॥
नमो भर्गाय भीमाय नतभीतिहराय च ॥ ५२ ॥
भवाय भवनाशाय भूतानाम्पतये नमः ॥
महादेव नमस्तुभ्यं महेश महसाम्पते ॥ ५३ ॥
नमो मृडानीपतये नमो मृत्युञ्जयाय ते ॥
यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च ॥ ५४॥
यायजूकाय यज्ञाय यज्ञानां फलदायिने ॥
रुद्राय रुद्रपतये कद्रुद्राय रमाय च ॥ ५५ ॥
शूलिने शाश्वतेशाय श्मशानावनिचारिणे ॥
शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते ॥ ५६ ॥
हराय क्षान्तिरूपाय क्षेत्रज्ञाय क्षमाकर ॥
क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः ॥ ५७ ॥
अन्धकारे नमस्तुभ्यमाद्यन्तरहिताय च ॥
इडाधाराय ईशाय उपेद्रेन्द्रस्तुताय च ॥ ५८ ॥
उमाकान्ताय उग्राय नमस्ते ऊर्ध्वरेतसे ॥
एकरूपाय चैकाय महदैश्वर्यरूपिणे ॥ ५९ ॥
अनन्तकारिणे तुभ्यमम्बिकापतये नमः ॥
त्वमोङ्कारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि ॥4.2.63.६०॥
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव ॥
स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि ॥ ॥ ६१ ॥
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते ॥
नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर ॥ ६२ ॥
नान्यं नमामि गौरीश नान्याख्यामाददे शिव ॥
मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ ॥६३॥
पङ्गुरन्याभिगमनेऽस्म्यन्धोऽन्यपरिवीक्षणे॥
एक एव भवानीश एककर्ता त्वमेव हि॥ ६४ ॥
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना ॥
अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः ॥६५॥
संसारसागरे मग्नं मामुद्धर महेश्वर ॥
इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः ॥ ६६ ॥
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ॥
इति स्तुतिं समाकर्ण्य मुनेश्चन्द्रविभूषणः ॥
उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम् ॥ ६७ ॥
॥ जैगीषव्य उवाच ॥ ॥
यदि प्रसन्नो देवेश ततस्तव पदाम्बुजात् ॥
मा भवानि भवानीश दूरं दूरपदप्रद ॥६८॥
अपरश्च वरो नाथ देयोयमविचारतः ॥
यन्मया स्थापितं लिङ्गं तत्र सान्निध्यमस्तु ते ॥६९॥
॥ ईश्वर उवाच ॥ ॥
जैगीषव्य महाभाग यदुक्तं भवतानघ ॥
तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च ॥ 4.2.63.७० ॥
योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् ॥
सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान् ॥ ७१ ॥
रहस्यं योगविद्याया यथावत्त्वं तपोधन ॥
संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि ॥ ७२ ॥
यथा नदी यथा भृङ्गी सोमनन्दी यथा तथा ॥
त्वं भविष्यसि भक्तो मे जरामरणवर्जितः ॥ ७३ ॥
सन्ति व्रतानि भूयांसि नियमाः सन्त्यनेकधा ॥
तपांसि नाना सन्त्यत्र सन्ति दानान्यनेकशः ॥ ७४ ॥
श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा ॥
परं हि परमश्चैष नियमो यस्त्वया कृतः ॥ ७५॥
परो हि नियमश्चैष मां विलोक्य यदश्यते ॥
मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम् ॥ ७६ ॥
असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि ॥
रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम् ॥ ७७ ॥
महतो नियमस्यास्य भवतानुष्ठितस्य वै ॥
नार्हन्ति षोडशी मात्रामप्यन्ये नियमा यमाः ॥ ७८ ॥
अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा ॥
अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम् ॥ ७९ ॥
जैगीषव्येश्वरं नाम लिङ्गं काश्यां सुदुर्लभम् ॥
त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः ॥ 4.2.63.८० ॥
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः ॥
षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात् ॥ ८१ ॥
तव लिङ्गमिदं भक्तैः पूजनीयं प्रयत्नतः ॥
विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः ॥ ८२ ॥
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिङ्गं सर्वसिद्धिदम् ॥
नाशयेदघसङ्घानि दृष्टं स्पृष्टं समर्चितम् ॥ ८३ ॥
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे सम्भोज्य शिवयोगिनः ॥
कोटिभोज्यफलं सम्यगेकैकपरिसङ्ख्यया॥८४ ॥
जैगीषव्येश्वरं लिङ्गं गोपनीयं प्रयत्नतः ॥
कलौ कलुषबुद्धीनां पुरतश्च विशेषतः ॥ ८५ ॥
करिष्याम्यत्र सान्निध्यमस्मिल्ँलिङ्गे तपोधन॥
योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि ॥८६॥
ददे शृणु महाभाग जैगीषव्यापरं वरम् ॥
त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम् ॥ ८७ ॥
महापापौघशमनं महापुण्यप्रवर्धनम् ॥
महाभीतिप्रशमनं महाभक्तिविवर्धनम् ॥ ८८ ॥
एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किञ्चन ॥
तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४॥ ८९ ॥
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः ॥
ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः ॥ 4.2.63.९० ॥
॥ स्कन्द उवाच ॥ ॥
निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः ॥
निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते ॥९१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे ज्येष्ठेशाख्यानं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥