॥ अगस्त्य उवाच ॥
श्रुत्वा स्कन्द न तृप्तोस्मि तव वक्त्रेरितां कथाम् ॥
अत्याश्चर्यकरं प्रोक्तमाख्यानं बैन्दुमाधवम् ॥ १ ॥
इदानीं श्रोतुमिच्छामि देवदेवसमागमम् ॥
तार्क्ष्यात्त्र्यक्षः समाकर्ण्य दिवोदासस्य चेष्टितम् ॥२ ॥
विष्णुमायाप्रपञ्चं च किमाह गरुडध्वजम् ॥
के के च शम्भुना सार्धं समीयुर्मन्दराद्गिरेः ॥३॥
ब्रह्मणेशः कथं दृष्टस्त्रपाकुलित चक्षुषा ॥
किमाह देव ब्रह्माणं किमुक्तं भास्वतापि च ॥ ४ ॥
योगिनीभिः किमाख्यायि गणाह्रीणाः किमब्रुवन् ॥
एतदाख्याहि मे स्कन्द महत्कौतूहलं मयि ॥५॥
इमं प्रश्नं निशम्यैशिर्मुनेः कलशजन्मनः ॥
प्रत्युवाच नमस्कृत्य शिवौ प्रणतसिद्धिदौ॥६॥
॥ स्कन्द उवाच ॥ ॥
मुने शृणु कथामेतां सर्वपातकनाशिनीम्॥
अशेषविघ्नशमनीं महाश्रेयोभिवर्धिनीम्॥ ७ ॥
अथ देवोऽसुररिपुः श्रुत्वा शम्भुसमागमम् ॥
द्विजराजाय स मुदा समदात्पारितोषिकम् ॥ ८ ॥
आयानं शंसते शम्भोरुपवाराणसिप्रियम् ॥
ब्रह्माणमग्रतः कृत्वा ततश्चाभ्युद्ययौ हरिः ॥ ९ ॥
विवस्वता समेतश्च तैर्गणैः परितो वृतः ॥
योगिनीभिरनूद्यातो गणेशमुपसंस्थितः ॥ 4.2.62.१० ॥
अथनेत्रातिथीकृत्य देवदेवं वृषध्वजम् ॥
मङ्क्षु तार्क्ष्यादवारुह्य प्रणनाम श्रियः पतिः ॥ ११ ॥
पितामहोपि स्थविरो भृशं नम्रशिरोधरः ॥
प्रणतेन मृडेनैव प्रणमन्विनिवारितः ॥ १२ ॥
स्वस्त्यभ्युदितपाणिश्च रुद्रसूक्तैरमन्त्रयत् ॥
अक्षतान्यथ सार्द्राणि दर्शयन्सफलान्यजः ॥ १३॥
मौलिं पादाब्जयोः कृत्वा गणेशः सत्वरो नतः ॥
मूर्ध्न्युपाजिघ्रयाञ्चक्रे हरो हर्षाद्गजाननम् ॥ १४ ॥
अभ्युपावेशयच्चापि परिष्वज्य निजासने ॥
सोमनन्दि प्रभृतयः प्रणेमुर्दण्डवद्गणाः ॥ १५ ॥
योगिन्योपि प्रणम्येशं चक्रुर्मङ्गलगायनम् ॥
तरणिः प्रणनामाथ प्रमथाधिपतिं हरम् ॥ १६ ॥
खण्डेन्दुशेखरश्चाथ उपसिंहासनं हरिम् ॥
समुपावेशयद्वामपार्श्वे मानपुरःसरम् ॥ १७ ॥
ब्रह्माणं दक्षिणे भागे परिविश्राणितासनम् ॥
दृष्ट्वा सम्भाविताः सर्वे शर्वेण प्रणता गणाः ॥ १८॥
मौलिचालनमात्रेण योगिन्योपि प्रसादिताः ॥
सन्तोषितो रविश्चापि विशेति करसञ्ज्ञया ॥ १९ ॥
अथ शम्भुं शतधृतिः प्रबद्धकरसम्पुटः ॥
परिविज्ञापयाञ्चक्रे प्रसन्नवदनाम्बुजम् ॥ 4.2.62.२० ॥
॥ ब्रह्मोवाच ॥ ॥
भगवन्देवदेवेश क्षन्तव्यं गिरिजापते ॥
वाराणसीं समासाद्य यदहं नागतः पुनः ॥ २१ ॥
प्रसङ्गतोपि कः काशीं प्राप्य चन्द्रविभूषण ॥
किञ्चिद्विधातुं शक्तोपि त्यजेत्स्थविरतां दधत्॥ २२ ॥
स्वरूपतो ब्राह्मणत्वादपाकर्तुं न शक्यते ॥
अथ शक्तो व्यपाकर्तुं कः पुण्ये सञ्चिकीर्षति ॥ २३॥
विभोरपि समाज्ञेयं धर्मवर्त्मानुसारिणि ॥
न किञ्चिदपकर्तव्यं जानता केनचित्क्वचित ॥ २४॥
कस्तादृशि महीजानौ पुण्यवर्त्मन्यतन्द्रिते ॥
काशीपाले दिवोदासे मनागपि विरुद्धधीः ॥२५॥
निशम्येति वचस्तुष्टः श्रीकण्ठोति विशुद्धधीः ॥
हसन्प्रोवाच धातारं ब्रह्मन्सर्वमवैम्यहम् ॥२६॥
॥ देवदेव उवाच ॥ ॥
आदौ तावददोषं हि ब्रह्मत्वं ब्राह्मणस्य ते ॥
वाजिमेधाध्वराणां च ततोपि दशकं कृतम् ॥ २७ ॥
ततोपि विहितं ब्रह्मन्भवता परमं हितम् ॥
अपराधसहस्राणि यल्लिङ्गं स्थापितं मम ॥२८॥
येनैकमपि मे लिङ्गं स्थापितं यत्र कुत्रचित् ॥
तस्यापराधलेशोपि नास्ति सर्वापराधिनः ॥ २९॥
अपराधसहस्रेपि ब्राह्मणं योपराध्नुयात् ॥
दिनैः कतिपयैरेव तस्यैश्वर्यं विनश्यति ॥ 4.2.62.३० ॥
इति ब्रुवति देवेशेप्यन्तरुच्छ्वसितं गणैः ॥
समातृभिः समन्ताच्च विलोक्यास्यं परस्परम् ॥ ३१ ॥
अर्कोप्यवसरं ज्ञात्वा नत्वा शम्भुं व्यजिज्ञपत् ॥
प्रसन्नास्यमुमाकान्तं दृष्ट्वा दृष्टचराचरः ॥ ३२ ॥
॥ अर्क उवाच ॥ ॥
नाथ काशीमितो गत्वा यथाशक्ति कृतोपधिः ॥
अकिञ्चित्करतां प्राप्तः सहस्रकरवानपि ॥ ३३ ॥
स्वधर्मपालके तस्मिन्दिवोदासे धरापतौ ॥
निश्चितागमनं ज्ञात्वा देवस्याहमिह स्थितः ॥३४॥
प्रतीक्षमाणो देवेश त्वदामनमुत्तमम्॥
विभज्य बहुधात्मानं त्वदाराधनतत्परः ॥ ३५ ॥
मनोरथद्रुमश्चाद्य फलितः श्रीमदीक्षशात् ॥
किञ्चिद्भक्तिलवाम्भोभिः सिक्तो ध्यानेन पुष्पितः ॥ ३६ ॥
इत्युदीरितमाकर्ण्य रवेर्वैरविलोचनः ॥
प्रोवाच देवदेवेशो नापराध्यसि भास्कर ॥३७॥
ममैव कार्यं विह्तिं त्वं यदत्र व्यवस्थितः ॥
यस्यां सुरप्रवेशो न तस्मिन्राजनि शासति ॥ ३८ ॥
इति सूरं समाश्वास्य देवदेव कृपानिधिः ॥
गणानाश्वासयामास व्रीडा नम्रशिरोधरान् ॥३९॥
योगिन्योपि सुदृष्ट्वाथ शम्भुना सम्प्रसादिताः ॥
त्रपाभरसमाक्रान्त कन्धरा इव सं गताः ॥ 4.2.62.४० ॥
ततो व्यापारयाञ्चक्रे त्र्यक्षो नेत्राणि चक्रिणि ॥
हरिर्न किञ्चिदप्यूचे सर्वज्ञाग्रे महामनाः ॥ ४१ ॥
ईशोपि श्रुतवृत्तान्तस्तार्क्ष्याद्गणप शार्ङ्गिणोः ॥
मनसैव प्रसन्नोभून्न किञ्चित्पर्यभाषत ॥ ४२ ॥
एतस्मिन्नन्तरे प्राप्ता गोलोकात्पञ्च धेनवः ॥
सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा ॥ ॥ ४३ ॥
पञ्चमी कपिला चापि सर्वाघौघविघट्टिनी ॥
वात्सल्यदृष्ट्या भर्गस्य तासामूधांसि सुस्रुवुः॥४४॥
ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ॥
धारासारैरविच्छिन्नैस्तावद्यावद्ध्रदोऽभवत् ॥४५॥
पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्षदैः ॥
देवेश समधिष्ठानात्तत्तीर्थमभवत्परम् ॥४६॥
कपिला ह्रद इत्याख्यां चक्रे तस्य महेश्वरः ॥
ततो देवाज्ञया सर्वे स्नातास्तत्र दिवौकसः ॥ ४७ ॥
आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः ॥
तान्दृष्ट्वा ते सुराः सर्वे तर्पयाञ्चक्रिरे मुदा ॥ ४८ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥
इत्याद्या दिव्यपितरस्तृप्ताः शम्भुं व्यजिज्ञपन् ॥४९॥
देवदेव जगन्नाथ भक्तानामभयप्रद ॥
अस्मिंस्तीर्थे त्वदभ्याशाज्जाता नस्तृप्तिरक्षया ॥ 4.2.62.५० ॥
तस्माच्छम्भो वरं देहि प्रसन्नेनान्तरात्मना ॥
इति दिव्यपितॄणां स श्रुत्वा वाक्यं वृषध्वजः ॥ ५१ ॥
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥
शर्वः सर्वपितॄणां वै परतृप्तिकरं परम् ॥ ५२ ॥
॥ श्रीदेवदेव उवाच ॥ ॥
शृणु विष्णो महाबाहो शृणु त्वं च पि तामह ॥
एतस्मिन्कापिले तीर्थे कापिलेय पयोभृते ॥ ५३ ॥
ये पिण्डान्निर्वपिष्यन्ति श्रद्धया श्राद्धदानतः ॥
तेषां पितॄणां सन्तृप्तिर्भविष्यति ममाज्ञया ॥५४॥
अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ॥
कुहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्॥५५॥
संवर्तकाले सम्प्राप्ते जलराशिर्जलान्यपि ॥
क्षीयन्ते न क्षयत्यत्र श्राद्धं सोमकुहू कृतम् ॥ ५६॥
अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ॥
तीर्थे कापिलधारेस्मिन्गयया पुष्करेण किम् ॥ ५७ ॥
गदाधरभवान्यत्र यत्र त्वं च पितामह ॥
वृषध्वजोस्म्यहं यत्र फल्गुस्तत्र न संशयः ॥ ५८ ॥
दिव्यान्तरिक्षभौमानि यानि तीर्थानि सर्वतः ॥
तान्यत्र निवसिष्यन्ति दर्शे सोमदिनान्विते ॥ ९९ ॥
कुरुक्षेत्रे नैमिषे च गङ्गासागरसङ्गमे ॥
ग्रहणे श्राद्धतो यत्स्यात्तत्तीर्थे वार्षभध्वजे ॥ 4.2.62.६० ॥
अस्य तीर्थस्य नामानि यानि दिव्य पितामहाः ॥
तान्यहं कथयिष्यामि भवतां तृप्तिदान्यलम् ॥६१॥
मधुस्रवेति प्रथममेषा पुष्करिणी स्मृता ॥
कृतकृत्या ततो ज्ञेया ततोऽसौ क्षीरनीरधिः ॥ ६२ ॥
वृषभध्वजतीर्थं च तीर्थं पैतामहं ततः ॥
ततो गदाधराख्यं च पितृतीर्थं ततः परम् ॥ ॥ ६३ ॥
ततः कापिलधारं वै सुधाखनिरियं पुनः ॥
ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम् ॥६४॥
एतानि दश नामानि तीर्थस्यास्य पितामहाः ॥
भवतां तृप्तिकारीणि विनापि श्राद्धतर्पणैः ॥ ६५ ॥
सूर्येन्दु सङ्गमे येत्र पितॄणां तृप्तिकामुकाः ॥
ब्राह्मणान्भोजयिष्यन्ति तेषां श्राद्धमनन्तकम् ॥ ६६ ॥
श्राद्धे पितॄणां सन्तृप्त्यै दास्यन्ति कपिलां शुभाम् ॥
येत्र तेषां पितृगणो वसेत्क्षीरोदरोधसि ॥ ६७ ॥
वृषोत्सर्गः कृतो यैस्तु तीर्थेस्मिन्वार्षभध्वजे ॥
अश्वमेधपुरोडाशैः पितरस्तेन तर्पिताः ॥ ६८ ॥
गयातोष्टगुणं पुण्यमस्मिंस्तीर्थे पितामहाः ॥
अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके ॥ ६९ ॥
येषां गर्भेऽभवत्स्रावो येऽ दन्तजननामृताः ॥
तेषां तृप्तिर्भवेन्नूनं तीर्थे कापिलधारिके॥ 4.2.62.७० ॥
अदत्तमौञ्जीदाना ये ये चादारपरिग्रहाः ॥
तेभ्यो निर्वापितं पिण्डमिह ह्यक्षयतां व्रजेत् ॥ ॥ ७१ ॥
अग्निदाहमृता ये वै नाग्निदाहश्च येषु वै ॥
ते सर्वे तृप्तिमायान्ति तीर्थे कापिलधारिके ॥ ७२ ॥
और्द्ध्वदैहिकहीना ये षोडश श्राद्धवर्जिताः ॥
ते तृप्तिमधिगच्छन्ति घृतकुल्यां निवापतः ॥ ७३ ॥
अपुत्राश्च मृता ये वै येषां नास्त्युकप्रदः ॥
तेपि तृप्तिं परां यान्ति मधुस्रवसि तर्पिताः ॥ ७४ ॥
अपमृत्युमृता ये वै चोरविद्युज्जलादिभिः ॥
तेषामिह कृतं श्राद्धं जायते सुगतिप्रदम् ॥ ७५ ॥
आत्मघातेन निधनं यैषामिहविकमर्णाम् ॥
तेपि तृप्तिं लभन्तेत्र पिण्डैः शिवगयाकृतैः॥ ॥ ७६ ॥
पितृगोत्रे मृता ये वै मातृपक्षे च ये मृताः ॥
तेषामत्र कृतः पिण्डो भवेदक्षयतृप्तिदः ॥ ७७ ॥
पत्नीवर्गे मृता ये वै मित्रवर्गे च ये मृताः ॥
ते सर्वे तृप्तिमायान्ति तर्पिता वार्षभध्वजे ॥ ७८ ॥
ब्रह्मक्षत्रविशां वंशे शूद्रवंशेंऽत्यजेषु च ॥
येषां नामगृहीत्वात्र दीयते ते समुद्धृताः ॥ ९ ॥
तिर्यग्योनि मृता ये वै ये पिशाचत्वमागताः ॥
तेप्यूर्ध्वगतिमायान्ति तृप्ताः कापिलधारिके ॥ 4.2.62.८० ॥
ये तु मानुषलोकेस्मिन्पितरो मर्त्ययोनयः ॥
ते दिव्ययोनयः स्युर्वै मधुस्रवसि तर्पिताः ॥ ॥ ८१ ॥
ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः ॥
ते ब्रह्मलोके गच्छन्ति तृप्तास्तीर्थे वृषध्वजे ॥ ८२॥
कृते क्षीरमयं तीर्थं त्रेतायां मधुमत्पुनः ॥
द्वापरे सर्पिषा पूर्णं कलौ जलमयं भवेत्॥ ८३ ॥
सीमाबहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् ॥
मध्ये वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः ॥ ८४ ॥
काशीस्थितैर्यतो दर्शि ध्वजो मेषवृषलाञ्छनः ॥
वृषध्वजेन नाम्नातः स्थास्याम्यत्र पितामहाः॥ ८५ ॥
पितामहेन सहितो गदाधरसमन्वितः ॥
रविणा पार्षदैः सार्धं तुष्टये वः पितामहाः ॥ ८६ ॥
इति यावद्वरं दत्ते पितृभ्यो वृषभध्वजः ॥
तावन्नदी समागत्य प्रणम्येशं व्यजिज्ञपत् ॥८७॥
॥ नन्दिकेश्वर उवाच ॥ ॥
विहितः स्यदनः सज्जस्ततोस्तु विजयोदयः ॥
अष्टौ कण्ठीरवा यत्र यत्रोक्ष्णामष्टकं शुभम् ॥ ८८ ॥
यत्रेभाः परिभान्त्यष्टौ यत्राष्टौ जविनो हयाः ॥
मनः संयमनं यत्र कशापाणि व्यवस्थितम् ॥ ८९ ॥
गङ्गायमुनयोरीषे चक्रे पवनदेवता ॥
सायम्प्रातर्मये चक्रे छत्रं द्यौर्मण्डलं शुचि ॥4.2.62.९०॥
तारावलीमयाः कीला आहेया उपनायकाः ॥
श्रुतयो मार्गदर्शिन्यः स्मृतयो रथगुप्तयः ॥ ९१ ॥
दक्षिणाधूर्दृढा यत्र मखा यत्राभिरक्षकाः ॥
आसनं प्रणवो यत्र गायत्रीपादपीठभूः ॥ ९२ ॥
साङ्गा व्याहृतयो यत्र शुभा सोपानवीथिकाः ॥
सूर्याचन्द्रमसौ यत्र सततं द्वाररक्षकौ ॥९३॥
अग्निर्मकरतुण्डश्च रथभूः कौमुदीमयी ॥
ध्वजदण्डो महामेरुः पताका हस्करप्रभा ॥ ९४ ॥
स्वयं वाग्देवता यत्र चञ्चच्चामरधारिणी ॥
॥ स्कन्द उवाच ॥ ॥
शैलादिनेति विज्ञप्तो देवदेव उमापतिः ॥ ९५ ॥
कृतनीराजनविधिरष्टभिर्देवमातृभिः ॥
पिनाकपाणिरुत्तस्थौ दत्तहस्तोथ शार्ङ्गिणा ॥ ९६ ॥
निनादो दिव्यवाद्यानां रोदसी पर्यपूरयत् ॥
गीतमङ्गलगीर्भिश्च चारणैरनुवर्धितः ॥ ९७ ॥
तेन दिव्यनिनादेन बधिरीकृतदिङ्मुखाः ॥
आहूता इव आजग्मुर्विष्वग्भुवनवासिनः ॥ ९८ ॥
देवाकोट्यस्त्रयस्त्रिंशद्गणाः कोट्ययुतद्वयम् ॥
नवकोट्यस्तु चामुण्डा भैरव्यः कोटिसम्मिताः ॥ ९९ ॥
षडाननाः कुमाराश्च मयूरवरवाहनाः ॥
ममानुगाः समायाताः कोटयोष्टौ महाबलाः ॥ 4.2.62.१०० ॥
आययुः कोटयः सप्त स्फुरत्परशुपाणयः ॥
पिचण्डिला महावेगा विघ्नविघ्ना गजाननाः ॥ १ ॥
षडशीतिसहस्राणि मुनयो ब्रह्मवादिनः ॥
तावतोपि समाजग्मुस्तत्रत्ये गृहमेधिनः ॥ २ ॥
नागानां कोटयस्तिस्रः पातालतलवासिनाम् ॥
दानवानां च दैत्यानां द्वे द्वे कोटी शिवात्मनाम् ॥ ३ ॥
गन्धर्वा नियुतान्यष्टौ कोट्यर्धं यक्षरक्षसाम् ॥
विद्याधराणामयुतं नियुतद्वयसंयुतम् ॥ ४ ॥
तथा षष्टिसहस्राणि दिव्याश्चाप्सरसः शुभाः ॥
गोमातरोऽष्टौ लक्षाणि सुपर्णान्ययुतानि षट् ॥ ५ ॥
सागराः सप्त सम्प्राप्ता नानारत्नोपदप्रदाः ॥
सरितां च सहस्राणि त्रीणि पञ्चायुतानि च ॥ ६ ॥
गिरयोऽष्टौ सहस्राणि वनस्पतिशतत्रयम्॥
आजग्मुर्दिग्गजा अष्टौ यत्र देवः पिनाकधृक् ॥७॥
एतैः समेतः सन्तुष्टः परिष्टुत इतस्ततः ॥
श्रीकण्ठो रथमारुह्य काशीं प्राविशदुत्तमाम् ॥।७॥।
स गिरीन्द्रसुतस्त्र्यक्षो मुदां धाम मुदां खनिः ॥
काशीं प्रैक्षिष्ट संहृष्टस्त्रिविष्टप समुत्कटाम् ॥९॥
॥ स्कन्द उवाच ॥ ॥
श्रुत्वाख्यानमिदं पुण्यं कोटिजन्माघनाशनम् ॥
पठित्वा पाठयित्वा च शिवसायुज्यमाप्नुयात् ॥ 4.2.62.११० ॥
श्राद्धकाले विशेषेण पठनीयं प्रयत्नतः ॥
अक्षयं तद्भवेच्छ्राद्धं पितृतुष्टिकरं परम् ॥ ११ ॥
वृषभध्वज माहात्म्यं पठित्वा शिवसन्निधौ ॥
प्रत्यहं वर्षमात्रं तु ह्यपुत्रः पुत्रवान्भवेत् ॥ १२ ॥
विश्वेशितुः सम्प्रवेशो यः काश्यां समुदाहृतः ॥
परमानन्दकन्दस्य बीजमेतत्सुनिश्चितम् ॥ १३ ॥
पठित्वैतन्मुदाख्यानं प्रविशेद्यो नवं गृहम् ॥
स सर्वसौख्यनिलयो भवेदेव न संशयः ॥१४॥
त्रैलोक्यानन्दजनकमेतदाख्यानमुत्तमम् ॥
अस्य श्रवणमात्रेण विश्वेशः सम्प्रसीदति ॥ १५ ॥
अलभ्यलाभो देवस्य जातोत्र हि यतः परः ॥
ततः काशी प्रवेशाख्यं जप्यमाख्यानमुत्तमम् ॥ ११६ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वृषभध्वजप्रादुर्भावोनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ ॥