॥ अगस्त्य उवाच ॥ ॥
षडास्य माधवाख्यानं श्रुतं मे पापनाशनम् ॥
महिमापि श्रुतः श्रेयान्सम्यक्पञ्चनदस्य वै ॥ १ ॥
यदग्निबिन्दुना पृच्छि माधवो दैत्यसूदनः ॥
तस्योत्तरं समाख्याहि यथाख्यातं मधुद्विषा ॥ २ ॥
॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्य महर्षे त्वं कथ्यमानं मयाधुना॥
माधवेन यथाचक्षि मुनये चाग्निबिन्दवे ॥३॥
॥ बिन्दुमाधव उवाच ॥
आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ॥
अग्निबिन्दो महाप्राज्ञ भक्तानां मुक्तिदायकम् ॥ ४ ॥
अविमुक्तेऽमृते क्षेत्रे येर्चयन्त्यादिकेशवम् ॥
तेऽमृतत्वं भजन्त्येव सर्वदुःखविवर्जिताः ॥ ५ ॥
सङ्गमेशं महालिङ्गं प्रतिष्ठाप्यादिकेशवः ॥
दर्शनादघहं नृणां भुक्तिं मुक्तिं दिशेत्सदा ॥ ६ ॥
याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम् ॥
तत्राहं ज्ञानदो नृणां ज्ञानकेशवसञ्ज्ञकः ॥ ७ ॥
श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ ॥
न ज्ञानाद्भ्रश्यते क्वापि ज्ञानकेशवपूजनात् ॥ ८ ॥
तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः ॥
पूजनीयः सदा भक्त्या तार्क्ष्य वत्ते प्रिया मम ॥ ९ ॥
तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः ॥
ब्रह्मविद्योपदेष्टा च तत्तीर्थाप्लुत वर्ष्मणाम् ॥4.2.61.१०॥
प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः ॥
भक्तैः समर्चनीयोहं महाभक्ति समृद्धये ॥ ११ ॥
तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः ॥
पातकध्वान्तनिचयं ध्वंसयामीक्षणादपि ॥ १२ ॥
दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः ॥
हरामि तत्र भक्तानां संसारगदसञ्चयम् ॥ १३ ॥
तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः ॥
काशीनिवासिनः पुंसो बिभर्मि च मनोरथैः ॥ १४ ॥
वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे ॥
पूज्योहं शुभमिच्छद्भिर्नाम्ना वामनकेशवः ॥ १५ ॥
नरनारायणे तीर्थे नरनारायणात्मकम् ॥
भक्ताः समर्च्य मां स्युर्वै नरनारायणात्मकाः ॥ १६ ॥
तीर्थे यज्ञवराहाख्ये यज्ञवाराहसञ्ज्ञकः ॥
नरैः समर्चनीयोहं सर्वयज्ञफलेप्सुभिः ॥१७॥
विदारनरसिंहोहं काशीविघ्नविदारणः ॥
तन्नाम्नि तीर्थे संसेव्यस्तीर्थोपद्रवशान्तये ॥ १८ ॥
गोपीगोविन्दतीर्थे तु गोपीगोविन्दसञ्ज्ञकम् ॥
समर्च्य मां नरो भक्त्या मम मायां न संस्पृशेत्॥ १९ ॥
मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने ॥
दिशामि भक्तियुक्तेभ्यः सदानैः श्रेयसीं श्रियम् ॥ 4.2.61.२० ॥
शेषमाधवनामाहं शेषतीर्थेऽघहारिणि ॥
विश्राणयाम्यशेषाश्च विशेषान्भक्तचिन्तितान् ॥ २१ ॥
शङ्खमाधवतीर्थे च स्नात्वा मां शङ्खमाधवम् ॥
शङ्खोदकेन संस्नाप्य भवेच्छङ्खनिधेः पतिः ॥२२॥
हयग्रीवे महातीर्थे मां हयग्रीवकेशवम् ॥
प्रणम्य प्राप्नुयान्नूनं तद्विष्णोः परमम्पदम् ॥ २३ ॥
भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे ॥
उपसर्गान्हरे भीष्मान्सेवितो भक्तियुक्तितः ॥ २४ ॥
निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः ॥
लोलार्कादुत्तरेभागे लोलत्वं चेतसो हरे ॥ २५ ॥
वन्द्यस्त्रिलोकसुन्दर्या याम्यां यो मां समर्चयेत् ॥
काश्यां ख्यातं त्रिभुवनकेशवं न स गर्भभाक् ॥ २६ ॥
ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम् ॥
तत्र मां भक्तितोभ्यर्च्य ज्ञानं प्राप्नोति शाश्वतम् ॥ २७ ॥
श्वेतमाधवसञ्ज्ञोहं विशालाक्ष्याः समीपतः ॥
श्वेतद्वीपेश्वरं रूपं कुर्यां भक्त्या समर्चितः ॥ २८ ॥
उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम् ॥
प्रयागतीर्थे सुस्नातो दृष्ट्वा पापैः प्रमुच्यते ॥ २९ ॥
प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् ॥
तत्फलं स्याद्दशगुणमत्र स्नात्वा ममाग्रतः ॥ 4.2.61.३० ॥
गङ्गायमुनयोः सङ्गे यत्पुण्यं स्नानकारिणाम् ॥
काश्यां मत्सन्निधावत्र तत्पुण्यं स्याद्दशोत्तरम् ॥ ३१ ॥
दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत् ॥
कुरुक्षेत्रे हि तत्काश्यामत्रैव स्याद्दशाधिकम् ॥ ३२ ॥
गङ्गोत्तरवहा यत्र यमुना पूर्ववाहिनी ॥
तत्सम्भेदं नरः प्राप्य मुच्यते ब्रह्महत्यया ॥ ३३ ॥
वपनं तत्र कर्तव्यं पिण्डदानं च भावतः ॥
देयानि तत्र दानानि महाफलमभीप्सुना ॥ ३४ ॥
गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः ॥
अविमुक्ते महाक्षेत्रेऽसङ्ख्याताश्च भवन्ति हि ॥ ३५ ॥
प्रयागेशं महालिङ्गं तत्र तिष्ठति कामदम् ॥
तत्सान्निध्याच्च तत्तीर्थं कामदं परिकीर्तितम् ॥ ३६ ॥
काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः ॥
अरुणोदयमासाद्य तेषां निःश्रेयसं कुतः ॥ ३७ ॥
काश्युद्भवे प्रयागे ये तपसि स्नान्ति संयताः ॥
दशाश्वमेधजनितं फलं तेषां भवेद्ध्रुवम् ॥३८॥
प्रयागमाधवं भक्त्या प्रयागेशं च कामदम् ॥
प्रयागे तपसि स्नात्वा येर्चयन्त्यन्वहं सदा॥३९॥
धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् ॥
भुक्त्वेह परमानन्दं परं मोक्षमवाप्नुयुः ॥ 4.2.61.४० ॥
माघे सर्वाणि तीर्थानि प्रयागमवियान्ति हि ॥
प्राच्युदीची प्रतीचीतो दक्षिणाधस्तथोर्ध्वतः ॥ ॥ ४१ ॥
काशीस्थितानि तीर्थानि मुने यान्ति न कुत्रचित् ॥
यदि यान्ति तदा यान्ति तीर्थत्रयमनुत्तमम् ॥ ४२ ॥
आयान्त्यूर्जे पञ्चनदे प्रातःप्रातर्ममान्तिकम् ॥
महाघौघप्रशमने महाश्रेयोविधायिनि ॥ ४३ ॥
प्राप्य माघमघारिं च प्रयागेश समीपतः ॥
प्रातःप्रयागे संस्नान्ति सर्वतीर्थानि मामनु ॥ ४४ ॥
समासाद्य च मध्याह्नमभियान्ति च नित्यशः ॥
संस्नातुं सर्वतीर्थानि मुक्तिदां मणिकर्णिकाम् ॥ ४५ ॥
काश्यां रहस्यं परममेतत्ते कथितं मुने ॥
यथा तीर्थत्रयीश्रेष्ठा स्वस्वकाले विशेषतः ॥ ४६ ॥
अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित् ॥
अभक्तेषु सदा गोप्यं न गोप्यं भक्तिमज्जने ॥ ४७ ॥
काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम् ॥
महैनांसि प्रहन्त्येव प्रसह्य निज तेजसा ॥ ४८ ॥
एतदेव रहस्यं ते वाराणस्या उदीर्यते॥
उत्क्षिप्यैकाङ्गुलिं तथ्यं श्रेष्ठैका मणिकर्णिका ॥४९॥
गर्जन्ति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो ॥
केवलं बलमासाद्य सुमहन्माणिकर्णिकम् ॥ 4.2.61.५० ॥
पापानि पापिनां हत्वा महान्त्यपि बहून्यपि ॥
काशीतीर्थानि मध्याह्ने प्रायश्चित्तचिकीर्षया ॥ ५१ ॥
पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो ॥
निर्मलानि भवन्त्येव विगाह्य मणिकर्णिकाम् ॥ ५२ ॥
विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम् ॥
मध्यन्दिनं समासाद्य संस्नाति प्रतिवासरम् ॥ ५३ ॥
वैकुण्ठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम् ॥
विगाहे पद्मया सार्धं मुदा परमया मुने ॥ ५४ ॥
सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम् ॥
हरिनामसमापन्नस्तद्बलान्माणिकर्णिकात् ॥ ५५ ॥
सत्यलोकात्प्रतिदिनं हं सयानः पितामहः ॥
माध्याह्निक विधानाय समायान्मणिकर्णिकाम् ॥५६॥
इन्द्राद्या लोकपालाश्च मरीच्याद्या महर्षयः ॥
माध्याह्निकीं क्रियां कर्तुं समीयुर्मणिकर्णिकाम् ॥ ५७ ॥
शेषवासुकिमुख्याश्च नागा वै नागलोकतः ॥
समायान्तीह मध्याह्ने संस्नातुं मणिकर्णिकाम् ॥ ५८ ॥
चराचरेषु सर्वेषु यावन्तश्च सचेतनाः ॥
तावन्तः स्नान्ति मध्याह्ने मणिकर्णी जलेमले ॥ ५९ ॥
के माणिकर्णिकेयानां गुणानां सुगरीयसाम् ॥
शक्ता वर्णयितुं विप्राऽसङ्ख्येयानां मदादिभिः ॥ 4.2.61.६० ॥
चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः ॥
यैरियं हि समासादि मुक्तिभूर्मणिकर्णिका ॥ ६१ ॥
विश्राणितमहादानास्त एव नरपुङ्गवाः ॥
चरमे वयसि प्राप्ता यैरेषा मणिकर्णिका ॥ ६२ ॥
चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम् ॥
यैः स्वतल्पीकृता माणिकर्णिकेयी स्थली मृदुः ॥६३॥
त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः ॥
त्यक्त्वा पुण्यार्जितां लक्ष्मीमैक्षियैर्मणिकर्णिका ॥६४॥
कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः॥
वार्धकं समनुप्राप्य प्रापि यैर्मणिकर्णिका ॥ ६५ ॥
रत्नानि सदुकूलानि काञ्चनं गजवाजिनः ॥
देयाः प्राज्ञेन यत्नेन सदोपमणिकर्णिकम् ॥ ६६ ॥
पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः ॥
दत्तं तदक्षयं नित्यं मुनेधिमणिकणिङ्कम् ॥ ६७ ॥
कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः ॥
यस्तेन विहितो नूनं षडङ्गो योग उत्तमः ॥ ६८ ॥
जप्त्वैकामपि गायत्रीं सम्प्राप्य मणिकर्णिकाम् ॥
लभेदयुतगायत्रीजपनस्य फलं स्फुटम् ॥ ६९ ॥
एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम्॥
यावज्जीवाग्निहोत्रस्य लभेदविकलं फलम् ॥ 4.2.61.७० ॥
इति श्रुत्वा हरेर्वाक्यमग्निबिन्दुर्महातपाः ॥
प्रणिपत्य महाभक्त्या पुनः पप्रच्छ माधवम्॥ ॥ ७१ ॥
॥ अग्निबिन्दुरुवाच ॥
विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका ॥
ब्रूहि मे पुङ्ङरीकाक्ष नत्वत्तस्तत्त्ववित्परः ॥ ७२ ॥
॥ श्रीविष्णुरुवाच ॥
आगङ्गा केशवादा च हरिश्चन्द्रस्य मण्डपात् ॥
आमध्याद्देवसरितः स्वर्द्वारान्मणिकर्णिका ॥ ७३ ॥
स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते ॥
हरिश्चन्द्रस्य तीर्थाग्रे हरिश्चन्द्रविनायकः ॥ ७४ ॥
सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे ॥
सीमाविनायकं भक्त्या पूजयित्वा नरोत्तमः ॥७५ ॥
मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम्॥
हरिश्चन्द्रे महातीर्थे तर्पयेयुः पितामहान्॥७६॥
शतं समाःसु तृप्ताः स्युः प्रयच्छन्ति च वाञ्च्छितम्॥
हरिश्चन्द्रे महातीर्थे स्नात्वा श्रद्धान्वितो नरः ॥ ७७ ॥
हरिश्चन्द्रेश्वरं नत्वा न सत्यात्परिहीयते ॥
ततः पर्वततीर्थं च पर्वतेश्वर सन्निधौ ॥ ७८ ॥
अधिष्ठानं महामेरोर्महापातकनाशनम् ॥
तत्र स्नात्वार्चयित्वेशं किञ्चिद्दत्त्वा स्वशक्तितः ॥ ७९ ॥
अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते ॥
कम्बलाश्वतरं तीर्थं पर्वतेश्वर दक्षिणे ॥4.2.61.८०॥
कम्बलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम् ॥
तस्मिंस्तीर्थे कृतस्नानस्तल्लिङ्गं यः समर्चयेत् ॥ ८१ ॥
अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः ॥
चक्रपुष्करिणी तत्र योनिचक्र निवारिणी॥। ८२ ॥
संसारचक्रे गहने यत्र स्नातो विशेन्नना ॥
चक्रपुष्करिणी तीर्थ ममाधिष्ठानमुत्तमम् ॥ ८३ ॥
समाः परार्धसङ्ख्यातास्तत्र तप्तं महातपः ॥
तत्र प्रत्यक्षतां यातो मम विश्वेश्वरः परः ॥ ८४॥
तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम् ॥
चक्रपुष्करिणी चैव ख्याताभून्मणिकर्णिका ॥ ८५ ॥
द्रवरूपं परित्यज्य ललनारूपधारिणी ॥
प्रत्यक्षरूपिणी तत्र मयैक्षि मणिकर्णिका ॥ ८६ ॥
तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम् ॥
यद्रूपध्यानतः पुम्भिराषण्मासं त्रिसन्ध्यतः ॥ ८७ ॥
प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका ॥
चतुर्भुजा विशालाक्षी स्फुरद्भालविलोचना ॥ ८८ ॥
पश्चिमाभिमुखी नित्यं प्रबद्धकरसम्पुटा ॥
इन्दीवरवतीं मालां दधती दक्षिणे करे ॥ ८९ ॥
वरोद्यते करे सव्ये मातुलुङ्ग फलं शुभम् ॥
कुमारीरूपिणी नित्यं नित्यं द्वादशवार्षिकी ॥ 4.2.61.९० ॥
शुद्धस्फटिककान्तिश्च सुनील स्निग्धमूर्द्धजा ॥
जितप्रवालमाणिक्य रमणीय रदच्छदा ॥ ९१ ॥
प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका ॥
सर्वाङ्ग मुक्ताभरणा चन्द्रकान्त्यंशुकावृता ॥ ॥ ९२ ॥
पुण्डरीकमयीं मालां सश्रीकां बिभ्रती हृदि ॥
ध्यातव्यानेन रूपेण मुमुक्षुभिरहर्निशम् ॥ ९३ ॥
निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका ॥
मन्त्रं तस्याश्च वक्ष्यामि भक्तकल्पद्रुमाभिधम्॥
यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम् ॥ ९४ ॥
वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम् ॥
भान्त्यं बिन्दूपेतं मणिपदमथ कर्णिके सहृत्प्रणवपुटः ॥ ९५ ॥
मन्त्रःसुरद्रुमसमः समस्तसुखसन्ततिप्रदो जप्यः ॥
तिथिभिः परिमितवर्णः परमपदं दिशति निशितधियाम् ॥ ९६ ॥
तारस्तारतृतीयो बिन्द्वन्तोमणिपदं ततः कर्णिके ॥
प्रणवात्मिपदं केन म इति मनुसङ्ख्यवर्णमनुः ॥ ९७ ॥
अयं मन्त्रोऽनिशं जप्यः पुम्भिर्मुक्तिमभीप्सुभिः ॥
होमो दशांशकः कार्यः श्रद्धाबद्धादरैर्नृभिः ॥ ९८ ॥
परिप्लुतैः पुण्डरीकैर्गव्येन हविषास्फुटैः ॥
सशर्करेण मेधावी सक्षौद्रेण सदाशुचिः ॥ ९९ ॥
त्रिलक्षमन्त्र जप्येन मृतो देशान्तरेष्वपि ॥
अवश्यं मुक्तिमाप्नोति मन्त्रस्यास्य प्रभावतः ॥ 4.2.61.१०० ॥
सौवर्णीं प्रतिमा कार्या नवरत्नसमन्विता॥
पूर्वोक्तरूपसम्पन्ना सम्पूज्या सा प्रयत्नतः ॥ १ ॥
सम्पूज्यावा सदा गेहे नरैर्मोक्षैककाङ्क्षिभिः ॥
मणिकर्ण्यामथाक्षेप्या समभ्यर्च्य प्रयत्नतः ॥ २ ॥
संसारभीरुभिः पुम्भिः श्रद्धाबद्धादरैरिह ॥
उपायः समनुष्ठेयो ह्यपि दूरनिवासिभिः ॥ ३ ॥
मणिकर्ण्यां कृतस्नानो मणिकर्णीश वीक्षणात् ॥
जननी जठरावासे वसतिं न लभेन्नरः ॥४॥
मणिकर्णीश्वरं लिङ्गम्ं पुरासंस्थापितं मया ॥
प्राग्द्वारेन्तर्गृहस्यात्र समर्च्यो मोक्षकाङ्क्षिभिः ॥५॥
ततः पाशुपतं तीर्थमवाच्यां मणिकर्णितः ॥
कृतोदकक्रियस्तत्र पश्येत्पशुपतीश्वरम् ॥ ६ ॥
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ॥
ममापि विधिमुख्यानां सुराणां पशुपाशहृत् ॥ ॥ ७ ॥
अतः पशुपतिर्यत्र लिङ्गरूपधरः स्वयम्॥
पशुपाशविमोक्षाय नित्यं काश्यां प्रकाशते॥ ८ ॥
तत्र चैत्र चतुर्दश्यां शुक्लायां शुचिमानसैः ॥
कार्या यात्रा प्रयत्नेन रात्रौ जागरणं तथा ॥ ९ ॥
पूजयित्वा पशुपतिमुपोषणपरायणाः ॥
पशुपाशैर्न बध्यन्ते दर्शे विहितपारणाः ॥ 4.2.61.११० ॥
रुद्रावासस्ततस्तीर्थं तीर्थात्पाशुपतात्पुरः ॥
तत्र स्नात्वा नरैरर्च्यो रुद्रावासेश्वरो हरः ॥ ११ ॥
मणिकर्णीश्वराद्याम्यां रुद्रावासेश्वरं नरः ॥
समाराध्य वसेल्लोके रुद्रावासे न संशयः ॥ १२ ॥
विश्वतीर्थं ततो याम्यां विश्वैस्तीर्थैरधिष्ठितम् ॥
तत्र स्नात्वा नरो भक्त्या विश्वनाथं विलोकयेत् ॥ १३ ॥
विश्वां गौरीं च तदनु पूजयित्वाति भक्तितः ॥
विश्वस्य पूज्यो भवति ततो विश्वमयो भवेत् ॥ १४ ॥
मुक्तितीर्थं च तदनु तत्रापि कृतमज्जनः ॥
मोक्षेश्वरं ततोभ्यर्च्य मोक्षमाप्नोत्यसंशयम् ॥ १५ ॥
अविमुक्तेश्वरात्पश्चान्मोक्षेशं वीक्ष्य मानवः ॥
न पुनर्मानवेलोके यातायातं करोत्यहो ॥ १६ ॥
अविमुक्तेश्वरं तीर्थं मुक्तितीर्थान्मनाक्परे ॥
तत्राप्लुत्याविमुक्तेशमर्चयित्वा विमुच्यते ॥ १७ ॥
तत्परे तारकं तीर्थं यत्र विश्वेश्वरः स्वयम् ॥
आचष्टे तारकं ब्रह्ममृतकर्णेमृतात्मकम् ॥ १८ ॥
सुस्नातस्तारके तीर्थे तारकेश्वर दर्शनात् ॥
संसारसागरं तीर्त्वा तारयेत्स्वपितॄनपि ॥ १९ ॥
तत्राभ्याशे स्कन्दतीर्थं तत्राप्लुत्य नरोत्तमः ॥
दृष्ट्वा षडाननं चैव जह्यात्षाट्कौशिकीं तनुम् ॥ 4.2.61.१२० ॥
तारकेश्वर पूर्वेण दृष्ट्वा देवं षडाननम् ॥
वसेत्षडानने लोके कौमारं वपुरुद्वहन् ॥ २१ ॥
ढुण्ढितीर्थं ततः पुण्यं नरस्तत्र कृतोदकः ॥
ढुण्ढिं गणपतिं स्तुत्वा न विघ्नैरभिभूयते ॥ २२ ॥
भवानीतीर्थमतुलं ढुण्ढितीर्थस्य दक्षिणे ॥
तत्र स्नात्वा विधानेन भवानीं परिपूज्य च ॥ २३॥
दुकूले रत्ननेपथ्यैर्नैवेद्यैर्बहुविस्तरैः ॥
पुष्पैर्धूपैः प्रदीपैश्च भवानी शो प्रपूज्य च ॥ ५४ ॥
समस्तमर्चितं तेन त्रैलोक्यं सचराचरम् ॥
भवानीशङ्करौ काश्यामर्चितौ श्रद्धया तु यैः ॥ २५ ॥
चैत्राष्टम्यां महायात्रां भवान्याः कारयेत्सुधीः ॥
अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः ॥ २६ ॥
प्रदक्ष्रिणीकृतातेन सप्तद्वीपवती मही ॥
सशैला ससमुद्रा च साश्रमा च सकानना ॥ २७ ॥
अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परैः ॥
नमनीयौ प्रयत्नेन भवानीशङ्करौ सदा ॥ २८ ॥
भक्तानां कामदा नित्यं भवानी वाससां प्रदा ॥
अतो भवानी सम्पूज्या काश्यां तीर्थनिवासिभिः ॥ २९ ॥
योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् ॥
तस्माद्भवानी संसेव्या सततं काशिवासिभिः ॥ 4.2.61.१३० ॥
भिक्षणीया सदा भिक्षा भिक्षुणा मोक्षकाङ्क्षिणा ॥
यतो भिक्षाप्रदा काश्यां विश्वेशस्य कुटुम्बिनी ॥ ३१ ॥
गृहमध्येत्र विश्वेशो भवानी तत्कुटुम्बिनी ॥
सर्वेभ्यः काशिसंस्थेभ्यो मोक्षभिक्षां प्रयच्छति ॥ ३२ ॥
दुष्प्रापमपि यत्किञ्चित्काशीक्षेत्रनिवासिनाम् ॥
तत्सुप्राप्यं करोत्येव भवानी पूजिता नृभिः ॥ ३३ ॥
कुर्याज्जागरणं रात्रौ महाष्टम्यां व्रती नरः ॥
प्रातर्भवानीमभ्यर्च्य प्राप्नुयाद्वाञ्छितं फलम् ॥ ३४ ॥
शुक्रेशात्पश्चिमाशायां भवानीं योऽभिवीक्षते ॥
सर्वे मनोरथास्तस्य सिद्ध्यन्तीह न सं शयः ॥ ३५ ॥
काश्यां सदैव वस्तव्यं स्नातव्योत्तरवाहिनी ॥
भवानीशङ्करौ सेव्यौ प्राप्तव्ये भुक्तिमुक्तिके ॥ ३६ ॥
मातर्भवानि तव पादरजोभवानि मातर्भवानि तवदासतरो भवानि ॥
मातर्भवानि नभवानि यथाभवेस्मिंस्त्वद्भाग्भवान्यनुदिनं न पुनर्भवानि ॥ ३७ ॥
तिष्ठता गच्छता वापि स्वपता जाग्रतापि वा ॥
अयमत्र सदा जप्यः सुखाप्त्यै काशिवासिना ॥ ३८ ॥
ईशानतीर्थं तत्रैव भवानीतीर्थसन्निधौ ॥
तत्र स्नातो य ईशानमर्चयेन्न स जन्मभाक् ॥ ३९ ॥
ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् ॥
कृताभिषेकस्तत्तीर्थे दृष्ट्वा ज्ञानेश्वरं शिवम् ॥ 4.2.61.१४० ॥
ज्ञानवापीसमीपस्थो ज्ञानेशो यैः समर्चितः ॥
ज्ञानभ्रंशो न तेषां स्यादपि पञ्चत्वमृच्छताम्॥ ४१ ॥
शैलादितीर्थं तत्रैव परमर्द्धि प्रकाशकम् ॥
तत्र श्राद्धादिकं कृत्वा दत्त्वा दानं स्वशक्तितः ॥ ४२ ॥
शैलादीश्वरमालोक्य ज्ञानवाप्या उदग्दिशि ॥
लभेद्गणत्वपदवीं नात्र कार्या विचारणा ॥ ४३ ॥
नन्दितीर्थादवाच्यां तु विष्णुतीर्थं परं मम ॥
तत्र पिण्डान्विनिर्वाप्य पितॄणामनृणो भवेत् ॥ ४४ ॥
विष्णुतीर्थे कृतस्नानो यो मां विष्णुं विलोकयेत् ॥
विश्वेशाद्दक्षिणेपार्श्वे विष्णुलोकं स गच्छति ॥ ४५ ॥
यः प्रत्येकादशीं प्राप्य शयनीं बोधिनीं तथा ॥
कुर्याज्जागरणं रात्रौ मम मूर्तिसमीपतः ॥ ४६ ॥
प्रातः समर्च्य मां भक्त्या भोजयित्वा द्विजानपि ॥
दत्त्वा गाः काञ्चनं भूमिं न भूयो भूमिभाग्भवेत् ॥४७॥
कृत्वा तत्र व्रतोत्सर्गं वित्तशाठ्यविवर्जितः ॥
सम्यग्व्रतफलं धीमान्प्राप्नोत्येव ममाज्ञया ॥४८॥
मम तीर्थादवाच्यां तु ती र्थं पैतामहं शुभम् ॥
तत्र श्राद्धविधानेन तर्पयित्वा पितामहान्॥४९॥
पितामहेश्वरं लिङ्गं ब्रह्मनालोपरिस्थितम्॥
पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ॥ ॥ 4.2.61.१५० ॥
ब्रह्मस्रोतः समीपे तु कृतं कर्म शुभाशुभम् ॥
परामक्षयतामेति शुभमेव ततश्चरेत् ॥ ५१ ॥
अत्यल्पमपि यत्कर्म कृतमत्र शुभाशुभम् ॥
प्रलयेपि न तस्यास्ति प्रलयो मुनिसत्तम ॥ ५२ ॥
नाभितीर्थमिदं प्रोक्तं नाभिभूतं यतः क्षितेः ॥
अपि ब्रह्माण्डगोलस्य नाभिरेषा शुभोदया ॥५३॥
सा माणिकर्णिकेयीयं नाभिर्गाम्भीर्यभूमिका ॥
ब्रह्माण्डगोलकं सर्वं यस्यामेति लयोदयम् ॥ ५४ ॥
ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥
तत्सङ्गमे नरः स्नात्वा कोटिजन्म मलं हरेत् ॥ ५५ ॥
ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥
ब्रह्माण्डमण्डपान्तस्ते न विशन्ति कदाचन ॥ ५६ ॥
ततो भागीरथेस्तीर्थं ब्रह्मनालाच्च दक्षिणे ॥
तत्र स्नात्वा नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥ ५७ ॥
भागीरथीश्वरं लिङ्गं स्वर्गद्वारस्य सन्निधौ ॥
दर्शनाद्ब्रह्महत्यायाः पुरश्चरणमुच्यते ॥ ५८ ॥
अशुभां गतिमापन्ना यस्य पूर्वे पितामहाः ॥
तेन भागीरथी तीर्थे तर्पणीयाः प्रयत्नतः ॥ ५९ ॥
तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः ॥
ब्राह्मणान्भोजयित्वा तु ब्रह्मलोके नयेत्पितॄन् ॥ 4.2.61.१६० ॥
तद्दक्षिणे महातीर्थं खुरकर्तरि सञ्ज्ञितम् ॥
गोलोकादागताभिश्च गोभिर्यत्खुरकोटिभिः ॥ ६१ ॥
स्थपुटीकृतभूभागं ततस्तत्खुर कर्तरि ॥
तस्मिंस्तीर्थे कृतस्नानः कृतपिण्डोदकक्रियः ॥ ६२ ॥
खुरकर्तरीशं लिङ्गं दृष्ट्वा गोलोकमाप्नुयात् ॥
गोधनैर्न विमुच्येत तल्लिङ्गस्य समर्चनात् ॥६३॥
दक्षिणे खुरकर्तर्या मार्कण्डं तीर्थमुत्तमम्॥
कृतश्राद्धविधानश्च तस्मिंस्तीर्थेऽघहारिणि ॥ ६४ ॥
मार्कण्डेयेश्वरं लिङ्गं दृष्ट्वायुर्दीर्घमाप्नुयात् ॥
ब्रह्मतेजोभिवृद्धिं च कीर्तिं च परमां भुवि ॥ ६५ ॥
वसिष्ठतीर्थं परमं महापातकनाशनम् ॥
तर्पयित्वा पितॄंस्तत्र वसिष्ठेशं विलोक्य च ॥ ६६ ॥
नरो न लिप्यते पापैर्जन्मत्रयसमर्जितैः ॥
वसिष्ठलोके वसति ब्रह्मतेज समन्वितः ॥ ६७ ॥
तत्रैवारुधन्ती तीर्थं स्त्रीणां सौभाग्यवधर्नम् ॥
पतिव्रताभिस्तत्तीर्थं गाहनीयं विशेषतः ॥ ६८ ॥
पौंश्चल्यजनितो दोषस्तत्तीर्थपरिमज्जनात्॥
क्षणाद्विनाश मागच्छेदरुन्धत्याः प्रभावतः ॥ ६९ ॥
मार्कण्डेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् ॥
निष्पापो जायते मर्त्यो महत्पुण्यमवाप्नुयात् ॥ 4.2.61.१७० ॥
मूर्ती वसिष्ठारुन्धत्योस्तत्र पूज्ये प्रयत्नतः॥
न स्त्री वैधव्यमाप्नोति न पुमान्स्त्री वियोगिताम् ॥७१॥
वसिष्ठतीर्थतो याम्यां नर्मदातीर्थमुत्तमम् ॥
विधाय श्राद्धं मेधावी नर्मदेशंविलोक्य च ॥ ७२ ॥
तत्र दत्त्वा महादानं पद्मयानविमुच्यते ॥
ततस्त्रिसन्ध्यं वै तीर्थं त्रिसन्ध्येश्वर पूर्वतः ॥ ७३ ॥
तत्र तीर्थे नरः स्नात्वा कृत्वा सन्ध्यां विधानतः ॥
सन्ध्याकाल विलोपोत्थपातकैर्नाभिभूयते ॥ ७४ ॥
त्रिसन्ध्येश्वरमालोक्य कृतसन्ध्यस्त्त्रिकालतः ॥
त्रिवेदावर्तजं पुण्यं प्राप्नुयाच्छ्रद्धया द्विजः ॥ ७५ ॥
ततोऽनुयोगिनीतीर्थं नरस्तत्र कृताप्लवः ॥
दृष्ट्वा तु योगिनीपीठं योगसिद्धिमवाप्नुयात् ॥ ७६ ॥
अगस्ति तीर्थे तत्रास्ति महाघौघ विघातकृत् ॥
तत्र स्नात्वा प्रयत्नेन दृष्ट्वागस्तीचश्वरं विभुम् ॥ ७७ ॥
अगस्तिकुण्डे च ततः सन्तर्प्य च पितामहान् ॥
अगस्तिना समेतां च लोपामुद्रां प्रणम्य च ॥ ७८ ॥।
सर्वपापविनिर्मुक्तः सर्वक्लेशविवर्जितः ॥
गच्छेत्स पूर्वजैः सार्धं शिवलोकं नरोत्तमः ॥७९॥
दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम्॥
गङ्गाकेशवसञ्ज्ञं च सर्वपातकनाशनम् ॥ ॥4.2.61.१८०॥
तत्र मे शुभदां मूर्तिं मुने तत्तीर्थसञ्ज्ञिकाम् ॥
सम्पूज्य श्रद्धया धीमान्मम लोके महीयते ॥८१॥
तत्र पिण्डान्विनिर्वाप्य दत्त्वा दानं स्वशक्तितः ॥
शतसांवत्सरीं तृप्तिं पितॄणां स समर्पयेत् ॥ ८२ ॥
मणिकर्णी परीमाणमेतत्ते कीर्तितं महत् ॥
सीमाविनायकाद्याम्यां सर्वविघ्नविघातनात् ॥ ८३ ॥
वैरोचनेश्वरात्प्राच्यामहं वैकुण्ठमाधवः ॥
तत्र मां भक्तितोभ्यर्च्य वैकुण्ठार्चामवाप्नुयात् ॥ ८४ ॥
वीरमाधवसञ्ज्ञोहं वीरेशात्पश्चिमे मुने ॥
तत्र व्रती समभ्यर्च्य न यामीं यातनां लभेत् ॥ ८५ ॥
कालमाधवनामाहं कालभैरव सन्निधौ ॥
कलिः कालो न कलयेन्मद्भक्तमिति निश्चितम् ॥८६॥
मार्गशीर्षस्य शुक्लायामेकादश्यामुपोषितः ॥
तत्र जागरणं कृत्वा यमं नालोकयेत्क्वचित् ॥ ८७ ॥
निर्वाणनरसिंहोहं पुलस्तीश्वरदक्षिणे ॥
भक्तो निर्वाणमाप्नोति तन्मृर्तिनमनादपि ॥८८॥
महाबलनृसिंहोहमोङ्कारात्पूर्वतो मुने ॥
दूतान्महाबलान्याम्यान्न पश्येत्तु तदर्चकः ॥६९॥
प्रचण्डनरसिंहोहं चण्डभैरवपूर्वतः ।
प्रचण्डमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ॥ 4.2.61.१९० ॥
अहं गिरिनृसिंहोस्मि तद्देहलिविनायकात् ॥
प्राच्यां प्रबलपापौ घगजानां प्रविदारणः ॥ ९१ ॥
महाभयहरश्चाहं नरसिंहो महामुने ॥
पितामहेश्वरात्पश्चाद्भक्त साध्वससाध्वसः ॥ ९२ ॥
अत्युग्रनरसिंहोहं कलशेश्वरपश्चिमे ॥
अत्युग्रमपि पापौघं हरामि श्रद्धयार्चितः ॥ ९३ ॥
ज्वालामालीनृसिंहोऽहं ज्वालामुख्याः समीपतः ॥
सञ्ज्वालयामि पापौघ तृणानि परिपूजितः ॥ ॥ ९४ ॥
कोलाहलनृसिंहोस्मि दैत्यदानवमर्दनः ॥
ममनामसमुच्चारादघकोलाहलो यतः ॥ ९५ ॥
कङ्कालभैरवो यत्र काशीरक्षणदक्षधीः ॥
तत्र मां भक्तितोभ्यर्च्य नोपसर्गैर्निरुध्यते ॥ ९६ ॥
विटङ्कनरसिंहोस्मि नीलकण्ठेश्वरादनु ॥
तत्र मां श्रद्धया पूज्य नरो भवति निर्भयः ॥९७॥
अनन्तवामनश्चाहमनं तेश्वरसन्निधौ ॥
अनन्तान्यपि भक्तस्य कलुषाणि हरेऽर्चितः ॥ ९८॥
दधिवामनसञ्ज्ञोहं भक्तानां दधिभक्तदः ॥
यन्नामस्मरणादेव न दरिद्रो नरो भवेत् ॥ ९९ ॥
त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् ॥
ददामि पूजितो लक्ष्मीं हरामि वृजिनान्यपि ॥4.2.61.२००॥
बलिवामननामाहं बलिना परिपूजितः ॥
बलिभद्रेश्वरात्प्राच्यां भक्तानां बलवर्धनः ॥ ११ ॥
दक्षिणे भवतीर्थाच्च ताम्रद्वीपादिहागतः ॥
नाम्ना ताम्रवराहोस्मि भक्तानां चिन्तितार्थदः ॥ २ ॥
मुने धरणिवाराहः प्रयागेश्वरसन्निधौ ॥
स्नात्वा वाराहतीर्थेत्र दृष्ट्वा मां किटि रूपिणम् ॥३॥
सम्पूज्य बहुभावेन न विशेद्योनिसङ्कटम् ॥
तत्राल्पमपि दत्त्वान्नं धरादानफलं लभेत्॥ ॥ ४ ॥
महाकलुषगम्भीर सागरे निपतञ्जनः ॥
मम भक्त्युडुपं प्राप्य प्रलयेपि न मज्जति ॥ ५ ॥
अहं कोकावराहोस्मि किटीश्वरसमीपतः ॥
तत्र मां पूजयन्मर्त्यो लभते चिन्तितफलम् ॥ ६ ॥
नारायणाः शतं पञ्च शतं च जलशायिनः ॥
त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः ॥ ७ ॥
गोपालाश्च शतं साष्टं बुद्धाः सन्ति सहस्रशः ॥
त्रिंशतरामाश्च रामा एकोत्तरंशतम् ॥ ८ ॥
विष्णुरूपोस्म्यहं चैको मुक्तिमण्डपमध्यतः ॥
मुनेकृतप्रसादेन विश्वेशेन श्रितः स्वयम् ॥ ९ ॥
नारायणस्वरूपेण गणाश्चक्रगदोद्यताः ॥
कुर्वन्ति रक्षां क्षेत्रस्य परितो नियुतानि षट् ॥ 4.2.61.२१० ॥
सोग्निबिन्दुरिति श्रुत्वा सम्प्रहृष्टतनूरुहः ॥
पुनः पप्रच्छ मेधावी मूर्तिभेदान्वद प्रभो ॥ ११ ॥
हिताय निजभक्तानां मम सन्देहशान्तये ॥
कति ते मूर्तयोनन्त कथं ज्ञेयास्तथा वद ॥ १२ ॥
इत्याकर्ण्य वचस्तस्याग्निबिन्दोस्तपसां निधेः ॥
उवाच भगवान्विष्णुर्मूर्तिभेदाननुक्रमात ॥ १३ ॥
याञ्श्रुत्वापि हि नो मर्त्यो यमगोचरतां व्रजेत् ॥
केशवादींश्चतुर्विंशद्भेदानाह प्रजापतिः ॥ १४ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
अग्निबिन्दो महाप्राज्ञ शृणु ते कथयाम्यहम् ॥
आद्यदक्षिणहस्ताच्च विद्धि सृष्टिक्रमान्मुने ॥ १५ ॥
शङ्खचक्रगदापद्मैर्मूर्तिं जानीहि कैशवीम् ॥
पूजिता या नृणां कुर्याच्चिन्तितार्थमसंशयम्॥ ॥ १६ ॥
मधुहा परिचेतव्यः शङ्खपद्मगदासिभिः ॥
वैरिणो नाशमायान्ति तन्मूर्तिपरिसेवनात् ॥ १७ ॥
सङ्कर्षणः समर्च्योत्र शङ्खाब्जारिगदायुधः ॥
तन्मूर्तिपूजनाज्जातु जन्तुर्न स्यात्पुनर्भवी ॥ १८ ॥
शङ्खकौमोदकीचक्रपद्मैर्दामोदरोर्च्यते ॥
ददाति वित्तं पुत्रांश्च गोधनं धान्यमेव हि ॥ १९ ॥
वामनः शङ्खचक्राब्जगदाभिरुपलक्षितः ॥
लक्ष्मीवन्तं जनं कुर्याद्गृहेपि परिधारितः ॥ 4.2.61.२२० ॥
पाञ्चजन्यं गदाम्पद्मं चित्रमूर्ति सुदर्शनम् ॥
प्रद्युम्नः पूज्यते मर्त्यैर्बहुद्युम्नं प्रयच्छति ॥ २१ ॥
ऊर्ध्ववामकरात्सृष्ट्या विष्ण्वाद्यं षट्कमुच्यते ॥
यस्य स्मरणमात्रेण विलीयन्तेघराशयः ॥ २२ ॥
शङ्खारिभ्यां गदाब्जाभ्यां पूज्यो विष्णुः श्रिये नरैः ॥
शङ्खपद्मगदाचक्रैर्माधवः परमर्द्धिदः ॥ २३ ॥
ध्येयोऽनिरुद्धः संसिद्ध्यै शङ्खाब्जारिगदोद्यतः ॥
शङ्खेन गदया चक्राम्बुजाभ्यां पुरुषोत्तमः ॥ ॥ २४ ॥
अधोक्षजो जनिहरः शङ्खार्यब्जगदो मुने ॥
शङ्खकौमोदकीपद्मचक्रैर्ध्येयो जनार्दनः ॥ २५ ॥
अधोवामकरात्सृष्ट्या षडगोंविदादि मूर्तयः ॥
शङ्खं चक्रं गदां पद्मं गोविन्दो बिभृयात्सदा ॥ २६ ॥
शङ्खपद्मगदाचक्रैरर्च्यो लक्ष्म्यै त्रिविक्रमः ॥
शङ्खाब्जचक्रं बिभ्राणो गदावाञ्श्रीधरः श्रिये ॥ २७ ॥
हृषीकेशश्च शङ्खेन गदाचक्राम्बुजैर्मतः ॥
नृसिंहः शङ्खचक्राभ्यां पद्मेन गदयोह्यते ॥२८॥
अच्युत शङ्खभृन्नित्यं गदापद्मरथाङ्गवान् ॥
दक्षिणाधः करादूह्या वासुदेवादयश्च षट् ॥२९॥
वासुदेवश्च शङ्खारि गदाजलजभृत्सदा॥
शङ्खाम्बुज गदाचक्री ध्येयो नारायणो नृभिः ॥4.2.61.२३०॥