स्कन्द उवाच ॥
उक्ता पञ्चनदोत्पत्तिर्मित्रावरुणनन्दन ॥
इदानीं कथयिष्यामि माधवाविष्कृतिं पराम् ॥ १ ॥
यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात् ॥
न च श्रिया वियुज्येत संयुज्येत वृषेण च ॥ २ ॥
आगत्य मन्दरादद्रेरुपेन्द्रश्चन्द्रशेखरम् ॥
आपृच्छ्य तार्क्ष्यरथगः क्षणाद्वाराणसीं पुरीम्॥ ३ ॥
दिवो दासं महीपालं समुच्चाट्य स्वमायया ॥
स्थित्वा पादोदके तीर्थे केशवाख्य स्वरूपतः ॥ ४ ॥
महिमानं परं काश्यां विचार्य सुविचार्य च ॥
दृष्ट्वा पञ्चनदं तीर्थं परां मुदमवाप ह ॥ ५ ॥
उवाच च प्रसन्नात्मा पुण्डरीकविलोचनः ॥
अगण्या अपि वैकुण्ठ गुणा विगणिता मया ॥ ६ ॥
क्व क्षीरनीरधौ सन्ति तावन्तो निर्मला गुणाः ॥
यावन्तो विजयं तेत्र काश्यां पञ्चनदे ह्रदे ॥ ७ ॥
श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी ॥
ईदृशी यादृशी काश्यां धूतपापेस्ति पावनी ॥ ८ ॥
मुदे कौमोदकी स्पर्शस्तथा न मम जायते ॥ धूतपापाम्बु सम्पर्को यथा भवति सर्वथा ॥ ९ ॥
न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया ॥
तथा भवेद्यथात्र स्यात्स्पृष्टया धूतपापया ॥ 4.2.60.१० ॥
इत्थं पञ्चनदे तीर्थे क्षीरनीरधिजाधवः ॥
सम्प्रेष्य तार्क्ष्यं त्र्यक्षाग्रे वृत्तान्तविनिवेदितुम् ॥ ११ ॥
आनन्दकाननभवं दिवोदास क्षमापतेः ॥
संवर्णयन्गुणग्रामं पुण्यं पाञ्चनदोद्भवम् ॥ १२ ॥
सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः ॥
दृष्टवांस्तपसा जुष्टमपुष्टाङ्गं तपोधनम् ॥ १३ ॥
स ऋषिस्तं समभ्येत्य पुण्डरीकाक्षमच्युतम् ॥
उपोपविष्टकमलं वनमालाविराजितम् ॥ १४ ॥
शङ्खपद्मगदाचक्र चञ्चत्करचतुष्टयम् ॥
कौस्तुभोद्भासितोरस्कं पीतकौशेयवाससम् ॥ १५ ॥
सुनीलेन्दीवररुचिं सुस्निग्ध मधुराकृतिम् ॥
नाभीह्रदलसत्पद्म सुपाटलरदच्छदम् ॥ १६ ॥
दाडिमीबीजदशनं किरीटद्योतिताम्बरम् ॥
देवेन्द्रवन्दितपदं सनकादिपरिष्टुतम् ॥ १७ ॥
दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम् ॥
प्रह्लादाद्यैर्भागवतैः परिनन्दितमानसम् ॥ १८ ॥
धृतशार्ङ्गधनुर्दण्डं दण्डिताखिलदानवम्॥
मधुकैटभहन्तारं कंसविध्वंससूचकम्॥ १९ ॥
कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् ॥
तं पुं मूर्त्या परिणतं भक्तानां भक्तिहेतुतः ॥4.2.60.२०॥
वेदाविदुर्यदाकारं नैवोपनिषदोदितम्॥
ब्रह्माद्या न च गीर्वाणाश्चक्रे नेत्रातिथिं सतम् ॥२१॥
प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः ॥
स ऋषिस्तं हृषीकेशमग्निबिन्दुर्महातपाः ॥ २२ ॥
तुष्टाव परया भक्त्या मौलिबद्धकराञ्जलिः ॥
अध्यस्तविस्तीर्णशिलं बलिध्वंसिनमच्युतम् ॥ २३ ॥
तत्र पञ्चनदाभ्याशे मार्कण्डेयादि सेविते ॥
गोविन्दमग्निबिन्दुः स स्तुतवांस्तुष्टमानसः ॥ २४ ॥
॥ अग्निबिन्दुरुवाच ॥ ॥
ओं नमः पुण्डरीकाक्ष बाह्यान्तः शौचदायिने ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २५ ॥
नमामि ते पदद्वन्द्वं सर्वद्वन्द्वनिवारकम् ॥
निर्द्वन्द्वया धिया विष्णो जिष्ण्वादि सुरवन्दित ॥ २६ ॥
यं स्तोतुं नाधिगच्छन्ति वाचो वाचस्पतेरपि ॥
तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ॥ २७ ॥
अपि यो भगवानीशो मनःप्राचामगोचरः ॥
समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ॥ २८ ॥
यं वाचो न विशन्तीशं मनतीह मनो न यम् ॥
मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥ २९ ॥
यस्य निःश्वसितं वेदाः स षडङ्गपदक्रमाः ॥
तस्य देवस्य महिमा महान्कैरवगम्यते ॥ 4.2.60.३० ॥
अतन्द्रितमनोबुद्धीन्द्रिया यं सनकादयः ॥
ध्यायन्तोपि हृदाकाशे न विन्दन्ति यथार्थतः ॥ ३१ ॥
नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः ॥
गीयमानचरित्रोपि न सम्यग्योधिगम्यते ॥ ३२ ॥
तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनन्तशक्तिम् ॥
नित्यं निरामयममूर्तमचिन्त्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ॥ ३३ ॥
एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् ॥
दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुन्दमधुसूदनमाधवेति ॥ ३४ ॥
नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति ॥
विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्तभीतिः ॥ ३५ ॥
ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी रुचिर रोचिषमम्बुजाक्षम् ॥
सौदामनीविलसितांशुकवीतमूर्ते तेपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ ३६ ॥
श्रीवत्सलाञ्छनहरेच्युतकैटभारे गोविन्दतार्क्ष्य रथकेशवचक्रपाणे ॥
लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयङ्क्वचिदस्ति पुंसि ॥३७॥
यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगन्धैः ॥
तानर्चयन्ति दिवि देवगणाःसमस्ता मन्दारदामभिरलं विमलस्वभावान् ॥ ३८ ॥
यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि ॥
यच्चित्तभित्तिलिखितं भवतोस्ति रूपं नीरूपभूपपदवी नहि तैर्दुरापा ॥ ३९ ॥
ये त्वां भजन्ति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतीन्द्र कुबेरमुख्याः ॥
वृन्दारका दिवि सदैव सभाजयन्ति स्वर्गापवर्गसुखसन्ततिदानदक्ष ॥ 4.2.60.४० ॥
ये त्वां स्तुवन्ति सततं दिवितान्स्तुवन्ति सिद्धाप्सरोमरगणा लसदब्जपाणे ॥
विश्राणयत्यखिलसिद्धिदकोविना त्वां निर्वाणचारुकमलां कमलायताक्ष ॥ ४१ ॥
त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिञ्चिनताङ्घ्रियुग्म॥
विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोस्मि नित्यम् ॥ ४२ ॥
स्तोता त्वमेव दनुजेन्द्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः ॥
त्वत्तो न किञ्चिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजाम्भवारे ॥ ४३ ॥
इति स्तुत्वा हृषीकेशमग्निबिन्दुर्महातपाः ॥
तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ॥ ४४
॥ श्रीविष्णुरुवाच ॥
अग्निबिन्दो महाप्राज्ञ महता तपसान्निधे ॥
वरं वरय सुप्रीतस्तवादेयं न किञ्चन ॥४५॥
अग्निबिन्दुरुवाच ॥ ॥
यदि प्रीतोसि भगवन्वैकुण्ठेश जगत्पते ॥
कमलाकान्त तद्देहि यदिह प्रार्थयाम्यहम्॥ ॥ ४६ ॥
कृतानुज्ञोथ हरिणा भ्रूभङ्गेन स तापसः ॥
कृतप्रणामो हृष्टात्मा वरयामास केशवम् ॥ ४७ ॥
भगवन्सर्वगोपीह तिष्ठ पञ्चनदे ह्रदे ॥
हिताय सर्व जन्तूनां मुमुक्षूणां विशेषतः ॥ ४८ ॥
लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः ॥
नान्यं वरं समीहेहं भक्तिं च त्वपदाम्बुजे ॥ ४९ ॥
इति श्रुत्वा वरं तस्याग्निबिन्दोर्मधुसूदनः ॥
प्रीतः परोपकारार्थं तथेत्याहाब्धिजापतिः ॥ 4.2.60.५० ॥
॥ श्रीविष्णुरुवाच ॥ ॥
अग्निबिन्दो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ॥
काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन् ॥ ५१ ॥
मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते ॥
अतीव मम भक्तोसि भक्तिस्तेस्तु दृढा मयि ॥ ५२ ॥
आदावेव हि तिष्ठासुरहमत्र तपोनिधे ॥
ततस्त्वया समभ्यर्थि स्थास्याम्यत्र सदैव हि ॥ ५३ ॥
प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि ॥
अनर्घ्यं प्राप्य माणिक्यं हित्वा काचं क ईहते ॥ ५४ ॥
अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः ॥
अवश्यं गत्वरस्याशु यथामुक्तिस्तथा क्व हि ॥ ५५ ॥
विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै ॥
प्राज्ञाः किमु न गृह्णीयुरमृतं नैर्जरं वपुः ॥ ५६ ॥
न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ॥
अन्यत्र लभ्यते मोक्षो यथा काश्यां तनु व्ययात् ॥ ५७ ॥
अपि योगं हि युञ्जाना योगिनो यतमानसाः ॥
नैकेनजन्मना मुक्ताः काश्यां मुक्ता वपुर्व्ययात् ॥ ५८ ॥
इदमेव महादानमिदमेव महत्तपः ॥
इदमेव व्रतं श्रेष्ठं यत्काश्यां म्रियते तनुः ॥ ५९ ॥
स एव विद्वाञ्जगति स एव विजितेन्द्रियः ॥
स एव पुण्यवान्धन्यो लब्ध्वा काशीं न यस्त्यजेत् ॥ 4.2.60.६० ॥
तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह ॥
प्रलयेपि न नाशोस्याः शिवशूलाग्र सुस्थितेः ॥ ६१ ॥
इत्याकर्ण्य गिरं विष्णोरग्निबिन्दुर्महामुनिः ॥
प्रहृष्टरोमा प्रोवाच पुनरन्यं वरं वृणे ॥ ६२ ॥
मापते मम नाम्नात्र तीर्थे पञ्चनदे शुभे ॥
अभक्तेभ्योपि भक्तेभ्यः स्थितो मुक्तिं सदादिश ॥ ६३ ॥
येत्र पञ्चनदे स्नात्वा गत्वा देशान्तरेष्वपि ॥
नरा पञ्चत्वमापन्ना मुक्तिं तेभ्योपि वै दिश ॥ ६४ ॥
येतु पञ्चनदे स्नात्वा त्वां भजिष्यन्ति मानवाः ॥
चलाचलापि द्वैरूपा मा त्याक्षीच्छ्रीश्च तान्नरान् ॥ ६५ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
एवमस्त्वग्निबिन्दोत्र भवता यद्वृतम्मुने॥
त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति ॥६६॥
बिन्दुमाधव इत्याख्या मम त्रैलोक्यविश्रुता ॥
काश्यां भविष्यति मुने महापापौघ घातिनी ॥ ६७ ॥
ये मामत्र नराः पुण्याः पुण्ये पञ्चनदे ह्रदे ॥
सदा सपर्ययिष्यन्ति तेषां संसारभीः कुतः ॥ ६८ ॥
वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसञ्ज्ञिका ॥
तत्पार्श्वगा सदा येषां हृदि पञ्चनदे ह्यहम् ॥ ६९ ॥
यैर्न पञ्चनदं प्राप्य वसुभिः प्रीणिता द्विजाः ॥
आशुलभ्यविपत्तीनां तेषां तद्वसुरोदिति ॥ 4.2.60.७० ॥
त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि ॥
प्राप्य यैर्मम सान्निध्यं वसवो मम सात्कृताः ॥७१ ॥
बिन्दुतीर्थमिदं नाम तव नाम्ना भविष्यति ॥
अग्निबिन्दो मुनिश्रेष्ठ सर्वपातकनाशनम् ॥ ७२ ॥
कार्तिके बिन्दुतीर्थे यो ब्रह्मचर्यपरायणः ॥
स्नास्यत्यनुदिते भानौ भानुजात्तस्य भीः कुतः॥७३॥
अपि पापसहस्राणि कृत्वा मोहेन मानवः ॥
ऊर्जे धर्मनदे स्नातो निष्पापो जायते क्षणात् ॥ ‘७४ ॥
यावत्स्वस्थोस्ति देहोयं यावन्नेन्द्रियविक्लवः ॥
तावद्व्रतानि कुर्वीत यतो देहफलं व्रतम् ॥ ७५ ॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन देहोयं संशोध्यो शुचिभाजनम् ॥ ७६ ॥
कृच्छ्रचान्द्रायणादीनि कर्तव्यानि प्रयत्नतः ॥
अशुचिः शुचितामेति कायो यद्व्रतधारणात् ॥ ७७ ॥
व्रतैः संशोधिते देहे धर्मो वसति निश्चलः ॥
अर्थकामौ सनिर्वाणौ तत्र यत्र वृष स्थितिः ॥ ७८ ॥
तस्माद्व्रतानि सततं चरितव्यानि मानवैः ॥
धर्मसान्निध्य कर्तृणि चतुर्वर्गफलेप्सुभिः ॥ ७९ ॥
सदा कर्तुं न शक्नोति व्रतानि यदि मानवः ॥
चातुर्मास्यमनुप्राप्य तदा कुर्यात्प्रयत्नतः ॥ 4.2.60.८० ॥
भूशय्या ब्रह्मचर्यं च किञ्चिद्भक्ष्यनिषेधनम् ॥
एकभक्तादि नियमो नित्यदानं स्वशक्तितः ॥ ८१ ॥
पुराणश्रवणं चैव तदर्थाचरणं पुनः ॥
अखण्डदीपोद्बोधश्च महापूजेष्टदैवते ॥ ८२ ॥
प्रभूताङ्कुरबीजाढ्ये देशे चापि गतागतम् ॥
यत्नेन वर्जयेद्धीमान्महाधर्मविवृद्धये ॥ ८३ ॥
असम्भाष्या न सम्भाष्याश्चातुर्मास्य व्रतस्थितैः ॥
मौनं चापि सदा कार्यं तथ्यं वक्तव्यमेव वा ॥८४॥
निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती ॥
सदा शुचिभिरास्थेयं स्प्रष्टव्यो नाव्रती जनः ॥ ८५ ॥
दन्तकेशाम्बरादीनि नित्यं शोध्यानि यत्नतः ॥
अनिष्टचिन्ता नो कार्या व्रतिना हृद्यपि क्वचित् ॥ ८६ ॥
द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत् ॥
चातुर्मास्यव्रतभृतां तत्फलं स्यादखण्डितम् ॥ ८७ ॥
चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि ॥
तदोर्जे व्रतिना भाव्यमप्यब्दफलमिच्छता ॥ ८८ ॥
अव्रतः कार्तिको येषां गतो मूढधियामिह ॥
तेषां पुण्यस्य लेशोपि न भवेत्सूकरात्मनाम् ॥ ८९ ॥
कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा ॥
सम्प्राप्ते कार्तिके मासि कुर्याच्छक्त्याति पुण्यवान् ॥ 4.2.60.९० ॥
एकान्तरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा ॥
पञ्चरात्रं सप्तरात्रं सम्प्राप्ते कार्तिके व्रती ॥ ९१ ॥
पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा ॥
नोर्जो वन्ध्यो विधातव्यो व्रतिना केनचित्क्वचित् ॥ ९२॥
शाकाहारं पयोहारं फलाहारमथापि वा ॥
चरेद्यवान्नाहारं वा सम्प्राप्ते कार्तिके व्रती ॥९३॥
नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः ॥
ब्रह्मचर्यं चरेदूर्जे महाव्रतफलार्थवान् ॥ ९४ ॥
बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः ॥
समस्तं हायनं तेन ब्रह्मचर्यकृतं भवेत् ॥९५॥
यस्तु कार्तिकिकं मासमुपवासैः समापयेत् ॥
अप्यब्दमपि तेनेह भवेत्सम्यगुपोषितम् ॥ ९६ ।
शाकाहारपयोहारैरूर्जों यैरतिवाहितः ॥
अखण्डिता शरत्तेन तदाहारेण यापिता ॥ ९७ ॥
पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः ॥
यो व्रती कांस्यभोजी स्यान्न तद्व्रतफलं लभेत् ॥९८॥
कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम् ॥
ऊर्जे न भक्षयेत्क्षौद्रमतिक्षुद्रगतिप्रदम् ॥ ९९ ॥
मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् ॥
अभ्यङ्गेऽभ्यवहारे च तैलमूर्जे विवर्जयेत् ॥4.2.60.१००॥
भूयात्स नारकी देही तत्राभ्यङ्गाद्यतोनघ ॥
तैलत्यागे तिलान्दद्याद्द्रोणमात्रान्स काञ्चनान् ॥ १ ॥
कार्तिके मत्स्यभोजी यः स तैमीं योनिमृच्छति ॥
बाहुले मांसभोजी यः स कृमिःपूयशोणिते ॥ २ ॥
मांसाशिनोपि ये भूपास्त्यजेयुस्तेपि कार्तिके ॥
मत्स्यमांसानि सन्त्यज्य कार्त्तिके व्रततत्परः ॥ ३ ॥
मत्स्यमांसादनाद्दोषाद्बहिर्भवति निश्चितम् ॥
नियमे मत्स्यमांसानां दद्यात्कार्तिकिके व्रती ॥
कूश्माण्डानि समाषाणि दशस्वर्णयुतान्यपि ॥ ४ ॥
कार्तिके मीनभोजी यः सोश्नात्यमृतमेवहि ॥
सुघण्टां सतिलां मौनी सहिरण्यां प्रदापयेत् ॥ ५ ॥
कार्तिके लवणं त्यक्तं येन व्रतभृता सता ॥
त्यक्ताः सर्वे रसास्तेन तत्त्यागी गां प्रदापयेत् ॥ ६ ॥
भूशय्यां कार्तिके कुर्वन्न भुवं संस्पृशेद्व्रती ॥
पर्यङ्कं भूशयो दद्यात्सतूलं सोपधानकम् ॥ ७ ॥
दीपं यः कार्तिके दद्यादखण्डं घृतवर्तिकम् ॥
मोहान्ध तमसं प्राप्य स न गच्छति दुर्गतिम् ॥८॥
यः कुर्यात्कार्तिके मासे रजन्यां दीपकौमुदीम् ॥
तामिस्रं चान्धतामिस्रं न स पश्येत्कदाचन ॥९॥
पापान्धकारसङ्क्रुद्धः कार्तिके दीपदानतः ॥
क्रोधान्धकारितमुखं भास्करिं स न वीक्षते ॥ 4.2.60.११० ॥
स उद्द्योतमयं पश्येत्त्रैलोक्यं सचराचरम् ॥
प्रबोधयेन्ममाग्रे यो दीपं सोज्वलवर्तिकम् ॥ ११ ॥
पञ्चामृतानां कलशैरूर्जे मां स्नापयेन्नरः ॥
क्षीराब्धितटमासाद्य वसेत्कल्पं स पुण्यवान् ॥ १२ ॥
प्रतिक्षपं कार्तिकिके कुर्वञ्ज्योत्स्नां प्रदीपजाम् ॥
ममाग्रे भक्तिसंयुक्तो गर्भध्वान्तं न संविशेत् ॥ १३ ॥
आज्यवर्तिकमूर्जे यो दीपं मेग्रे प्रबोधयेत् ॥
बुद्धिभ्रंशं न चाप्नोति महामृत्युभये सति ॥ १४ ॥
कार्तिके मासि मे यात्रा यैः कृता भक्तितत्परैः ॥
बिन्दुतीर्थे कृतस्नानैस्तेषां मुक्तिर्न दूरतः ॥ १५ ॥
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ॥
दामोदरगृहाणार्घ्यं दनुजेन्द्रनिषूदन ॥ १६ ॥
स्नाने नैमित्तिके कृष्ण कार्तिके पापशोषणे ॥
गृह्णात्वर्घ्यं मया दत्तं राधया सहितो भवान् ॥ १७ ॥
इमौ मन्त्रौ समुच्चार्य योर्घ्यं मह्यं प्रयच्छति ॥
सुवर्णरत्न पुष्पाम्बु युजा शङ्खेन पुण्यवान् ॥ १८ ॥
सुवर्णपूर्णपृथिवी सङ्कल्पोदकपूर्वकम् ॥
तेन दत्ता भवेत्सम्यक्सुपात्राय सुपर्वणि ॥ १९ ॥
एकादशीं समासाद्य प्रबोधकरणीं मम ॥
बिन्दुतीर्थकृतस्नानो रात्रौ जागरणान्वितः ॥ 4.2.60.१२० ॥
दीपान्प्रोबोध्य बहुशो ममालङ्कृत्य शक्तितः ॥
तौर्यत्रिकविनोदेन पुराणश्रवणादिभिः ॥ २१ ॥
महामहोत्सवं कृत्वा यावत्पूर्णा तिथिर्भवेत् ॥
तत्रान्नदानं बहुशः कृत्वामत्प्रीतये नरः ॥ २२ ॥
महापातकयुक्तोपि न विशेत्प्रमदोदरम् ॥
बिन्दुमाधवनामानं यो मामत्र समर्चयेत् ॥ २३ ॥
बिन्दुतीर्थकृतस्नानो निर्वाणं स हि विन्दति ॥
आदिमाधवनामाहं पूज्यः सत्ययुगे मुने ॥ २४ ॥
अनन्तमाधवो ज्ञेयस्त्रेतायां सर्वसिद्धिदः ॥
श्रीदमाधवसञ्ज्ञोहं द्वापरे परमार्थकृत्॥२५॥
कलौ कलिमलध्वंसी ज्ञेयोहं बिन्दुमाधवः ॥
कलौ कल्मषसम्पन्ना न मां विन्दन्ति मानवाः ॥२६॥
ममैव मायया मूढा भेदवादपरायणाः॥
मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषन्ति वै ॥ २७ ॥
विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ॥
पैशाचीं योनिमाप्यापि कालभैरवशासनात् ॥ २८ ॥
त्रिंशद्वर्ष सहस्राणि उषित्वा दुःखसागरे ॥
विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः ॥ २९ ॥
तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि ॥
विश्वेश द्वेषिणां पुंसां प्रायश्चित्तं यतो नहि ॥ 4.2.60.१३० ॥
मनसापि हि विश्वेशं विद्विषन्तीह येऽधमाः ॥
अध्यासतेन्धतामिस्रं मृतास्तेन्यत्र सन्ततम् ॥३१॥
शिवनिन्दापरा ये च ये पाशुपतनिन्दकाः॥
विद्विषो मम ते ज्ञेया पततो नरकेऽशुचौ ॥ ३२ ॥
अष्टाविंशति कोटीषु नरकेषु क्रमेण हि ॥
कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिन्दकाः ॥ ३३ ॥
विश्वेशानुग्रहं प्राप्य मुनेहमपि मुक्तिदः ॥
मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम्॥ ३४ ॥
इयं वाराणसी ज्ञेया मुने पाशुपतस्थली ॥
तस्मात्पशुपतिः सेव्यः काश्यां निश्रेयसार्थिभिः ॥ ३५ ॥
अत्र पञ्चनदे तीर्थे स्नाति विश्वेश्वरः स्वयम् ॥
ऊर्जे सदैव सगणः सस्कन्दः सपरिच्छदः ॥ ३६ ॥
ब्रह्मा सवेदः समखो ब्रह्माण्याद्याश्च मातरः ॥
सप्ताब्धयः ससरितः स्नान्त्यूर्जे धूतपापके ॥३७॥
सचेतना हि यावन्तस्त्रैलोक्ये देहधारिणः ॥
तावन्तः स्नातुमायान्ति कार्तिके धूतपापके ॥३८ ॥
यैर्न पञ्चनदे स्नातं प्राप्य कार्तिकिकं शुभम्॥
जलबुदुदवत्तेषां वृथाजन्म शरीरिणाम्॥३९॥
आनन्दकाननं पुण्यं पुण्यं पाञ्चनदं ततः ॥
ततोपि मम सान्निध्यमग्निबिन्दो महामुने ॥ 4.2.60.१४० ॥
अनेनैवानुमानेन विद्धि पञ्चनदस्य वै ॥
महिमानं महाप्राज्ञ सर्वतीर्थोत्तमोत्तमम् ॥ ४१ ॥
श्रुत्वापि यं महाप्राज्ञो महापापैः प्रमुच्यते ॥
विष्णोर्मुखादिति श्रुत्वा सोग्निबिन्दुर्महामुनिः ॥ ४२ ॥
पुनः प्रणम्य पप्रच्छ बिन्दुमाधवमच्युतम् ॥४३॥
अग्निबिन्दुरुवाच ॥
भगवञ्छ्रोतुमिच्छामि बिन्दुमाधव तद्वद ॥
कतिधा तव रूपाणि काश्यां सन्ति जनार्दन ॥ ४४ ॥
भविष्याण्यपि कानीह तानि मे कथयाच्युत ॥
यानि सम्पूज्यते भक्ताः प्राप्स्यन्ति कृतकृत्यताम् ॥ १४५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे बिन्दुमाधवाविर्भावोनाम षष्टितमोऽध्यायः ॥ ६० ॥