०५९ पञ्चनदाविर्भावः

अगस्त्य उवाच ॥ ॥
सर्वज्ञ हृदयानन्द गौरीचुम्बितमूर्धज ॥
तारकान्तक षड्वक्त्र तारिणे भद्रकारिणे ॥ ॥ १ ॥
सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे ॥
सर्वथा जितमाराय कुमाराय महात्मने ॥२॥
कामारिमर्धनारीशं वीक्ष्य कामकृतं किल ॥
यो जिगाय कुमारोपि मारं तस्मै नमोस्तु ते ॥ ३ ॥
यदुक्तं भवता स्कन्द मायाद्विजवपुर्हरिः ॥
काश्यां पञ्चनदं तीर्थमध्यासातीव पावनम्॥ ४ ॥
भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्॥
तत्रापि हरिणाज्ञायि तीर्थं पञ्चनदं परम् ॥ ५ ॥
कुतः पञ्चनदं नाम तस्य तीर्थस्य षण्मुख ॥
कुतश्च सर्वतीर्थेभ्यस्तदासीत्पावनं परम् ॥ ६ ॥
कथं च भगवान्विष्णुरन्तरात्मा जगत्पतिः ॥
सर्वेषां जगतां पाता कर्ता हर्ता च लीलया ॥ ७ ॥
अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः ॥
निराकारोपि साकारो निष्प्रपञ्चः प्रपञ्चभाक् ॥ ८ ॥
अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्॥
निरालम्बोऽखिलालम्बो निर्गुणोपि गुणास्पदम् ॥ ९ ॥
अहृषीकोहृषीकेशो प्यनङ्घ्रिरपिसर्वगः ॥
उपसंहृत्य रूपं स्वं सर्वव्यापी जनार्दनः ॥ 4.2.59.१० ॥
स्थितः सर्वात्मभावेन तीर्थे पञ्चनदे परे ॥
एतदाख्याहि षड्वक्त्र पञ्चवक्त्राद्यथा श्रुतम् ॥१३॥
स्कन्द उवाच ॥ ॥
कथयामि कथामेतां नमस्कृत्य महेश्वरम् ॥
सर्वाघौघ प्रशमनीं सर्वश्रेयोविधायिनीम् ॥ ३२ ॥
यथा पञ्चनदं तीर्थं काश्यां प्रथितिमागतम् ॥
यन्नामग्रहणादेव पापं याति सहस्रधा ॥ १३ ॥
प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः ॥
पापिनां पापसङ्घातं प्रसह्य निजतेजसा ॥ १४ ॥
हरन्ति सर्वतीर्थानि प्रयागस्य बलेन हि ॥
तानि सर्वाणि तीर्थानि माघे मकरगे रवौ ॥ १५ ॥
प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात् ॥
प्रयागश्चापि तीर्थेन्द्रः सर्वतीर्थार्पितं मलम् ॥ १६ ॥
महाघिनां महाघं च हरेत्पाञ्चनदाद्बलात् ॥
यं सञ्चयति पापौघमावर्षं तीर्थनायकः ॥
तमेकमज्जनादूर्जे त्यजेत्पञ्चनदे ध्रुवम् ॥ १७ ॥
यथा पञ्चनदोत्पत्तिस्तथा च कथयाम्यहम् ॥
निशामय महाभाग मित्रावरुणनन्दन ॥ १८ ॥
पुरा वेदशिरा नाम मुनिरासीन्महातपाः ॥
भृगुवम्श समुत्पन्नो मूर्तो वेद इवापरः ॥ १९ ॥
तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता ॥
शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी ॥ 4.2.59.२० ॥
तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ॥
चस्कन्द स मुनिस्तूर्णं साथ भीता वराप्सराः ॥ २१ ॥
दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत ॥
अतीव वेपमानाङ्गी शुचिस्तच्छापभीतितः ॥ २२ ॥
नापराध्नोम्यहं किञ्चिन्महोग्रतपसान्निधे ॥
क्षन्तव्यं मे क्षमाधार क्षमारूपास्तपस्विनः ॥ २३ ॥
मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु ॥
स्त्रियः कठोरहृदयाः स्वरूपेणैव सत्तम ॥ २४ ॥
इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः ॥
विवेकसेतुना स्तम्भीन्महारोषनदीरयम् ॥ २५ ॥
उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम् ॥
न मेऽल्पोपि हि दोषोत्र न ते दोषोस्ति सुन्दरि ॥ ॥ २६ ॥
वह्निस्वरूपा ललना नवनीत समः पुमान् ॥
अनभिज्ञा वदन्तीति विचारान्महदन्तरम् ॥ २७ ॥
स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै ॥
चित्रं स्त्र्याख्या समादानात्पुमान्स्निह्यति दूरतः ॥ २८ ॥
अतः शुचे न भेतव्यं त्वया शुचि मनोगते ॥
अतर्कितोपस्थितया त्वया च स्खलितं मया ॥ २९ ॥
स्खलनान्न तथा हानिरकामात्तपसो मुनेः ॥
यथा क्षणान्धीकरणाद्धानिः कोपरयादरेः ॥ 4.2.59.३० ॥
कोपात्तपः क्षयं याति सञ्चितं यत्सुकृच्छ्रतः ॥
यथाभ्रपटलं प्राप्य प्रकाशः पुष्पवन्तयोः ॥ ३१ ॥
अनर्थकारिणः क्रोधात्क्वार्थानाम्परिजृभणम् ॥
क्व वा खलजनोत्सेधात्साधूनां परिवर्धनम् ॥ ३२ ॥
अमर्षे कर्षति मनो मनोभू सम्भवः कुतः ॥
विधुन्तुदे तुदत्युच्चैर्विधुं कुत्रास्ति कौमुदी ॥ ३३ ॥
ज्वलतो रोषदावाग्नेः क्व वा शान्तितरोः स्थितिः ॥
दृष्टा केनापि किं क्वापि सिंहात्कलभसुस्थता ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः ॥
चतुर्वर्गस्य देहस्य परिहेयो विपश्चिता ॥ ३५ ॥
इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे ॥
अमोघबीजा हि वयं तद्बीजमुररी कुरु ॥ ३६ ॥
एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात् ॥ त्वया तव भवित्रेकं कन्यारत्नं महाशुचि ॥ ३७ ॥
इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः ॥
महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत् ॥ ३८ ॥
अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ॥
अतीव नयनानन्दि निधानं रूपसम्पदाम् ॥ ३९ ॥
तस्यैव वेदशिरस आश्रमे तां निधाय सा ॥
शुचिरप्सरसां श्रेष्ठा जगाम च यथेप्सितम् ॥4.2.59.४०॥
तां च वेदशिराः कन्यां स्नेहेन समवर्धयत् ॥
क्षीरेण स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम् ॥४१॥
मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत् ॥
यन्नामोच्चारणेनापि कम्पते पातकावली ॥४२॥
सर्वलक्षणशोभाढ्यां सर्वावयव सुन्दरीम् ॥
मुनिस्तत्याज नोत्सङ्गात्क्षणमात्रमपि क्वचित् ॥ ४३ ॥
दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम् ॥
क्षीरनीरधिवद्रम्यां निशि चान्द्रमसीं कलाम् ॥ ४४ ॥
अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः ॥
कस्मै देयेति सञ्चित्य तामेव समपृच्छत ॥ ४५॥
॥ वेदशिरा उवाच ॥ ॥
अयि पुत्रि महाभागे धूतपापे शुभेक्षणे ॥
कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम् ॥ ४६ ॥
अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम् ॥
निशम्य धूतपापा सा प्रोवाच विनतानना ॥ ४७ ॥
॥ धूतपापोवाच॥ ॥
जनेतर्यद्यहं देया सुन्दराय वराय ते ॥
तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते ॥ ४८ ॥
तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ॥
सर्वेभ्योतिपवित्रो यो यः सर्वेषां नमस्कृतः ॥ ४९ .॥
सर्वे यमभिलष्यन्ति यस्मात्सर्वसुखोदयः ॥
कदाचिद्यो न नश्येत यः सदैवानुवर्तते ॥ 4.2.59.५० ॥
इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम् ॥
सर्वे मनोरथा यस्मात्परिपूर्णा भवन्ति हि ॥ ५१ ॥
दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ ॥
नैरन्तर्येण यत्सेवां कुर्वतो न भयं क्वचित् ॥ ५२ ॥
यन्नामग्रहणादेव केपि वाधां न कुर्वते ॥
यदाधारेण तिष्ठन्ति भुवनानि चतुर्दश ॥ ५३ ॥
एवमाद्या गुणा यस्य वरस्य वरचेष्टितम् ॥
तस्मै प्रयच्छ मां तात मम तेपीहशर्मणे ॥ ५४ ॥
एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह ॥
धन्योस्मि धन्या मे पूर्वे येषामैषा सुतान्वये ॥ ५५ ॥
ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः ॥
ईदृग्विधैर्गुणगणैर्गरिम्णा कोत्र वै भवेत् ॥ ५६ ॥
अथवा स कथं लभ्यो विना पुण्यभरोदयम् ॥
इति क्षणं समाधाय मनः स मुनिपुङ्गवः ॥ ५७ ॥
ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम् ॥
धन्यां कन्यां बभाषेथ शृणु वत्से शुभैषिणि ॥ ५८ ॥
॥ पितोवाच ॥ ॥
वरस्य ये त्वया प्रोक्ता गुणा एते विचक्षणे ॥
एषां गुणानामाधारो वरोस्तीति विनिश्चितम् ॥ ५९ ॥
परं स सुखलभ्यो न नितरां सुभगाकृतिः ॥
तपः पणेन स क्रय्यः सुतीर्थविपणौ क्वचित् ॥ 4.2.59.६० ॥
तीर्थभारैः स सुलभो न कौलीन्येन कन्यके ॥
न वेदशास्त्राभ्यसनैर्न चैश्वर्यबलेन वै ॥ ६१ ॥
न सौन्दर्येण वपुषा न बुद्ध्या न पराक्रमैः ॥
एकयैव मनः शुद्ध्या करणानां जयेन च ॥ ६२ ॥
महातपः सहायेन दमदानदयायुजा ॥
लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ॥ ६३ ॥
इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च ॥
अनुज्ञां प्रार्थयामास तपसे कृतनिश्चया ॥ ६४ ॥
॥ स्कन्द उवाच ॥ ॥
कृतानुज्ञा जनेत्रा सा क्षेत्रे परमपावने ॥
तपस्तताप परमं यदसाध्यं तपस्विभिः ॥ ६५ ॥
क्व सा बालातिमृद्वङ्गी क्व च तत्तादृशं तपः ॥
कठोरवर्ष्मसंसाध्यमहो सच्चेतसो धृतिः ॥ ६६ ॥
धारासारा सुवर्षासु महावातवतीष्वलम् ॥
शिलासु सावकाशासु सा बह्वीरनयन्निशाः ॥ ६७ ॥
श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः ॥
आसारसीकरैः क्लिन्ना न चकम्पे मनाक्च सा ॥ ६८ ॥
तडित्स्फुरन्तीत्वसकृत्तमिस्रासु तपोवने ॥
यातायातं करोतीव द्रष्टुं तत्तपसः स्थितिम् ॥६९॥
तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल॥
पञ्चाग्नीन्परिधायात्र तपस्यति तपोवने॥4.2.59.७०॥
जलाभिलाषिणी बाला न मनागपि सा पिबत्॥
कुशाग्रतोयपृषतं पञ्चाग्निपरितापिता॥७१॥
रोमाञ्च कञ्चुकवती वेपमानतनुच्छदा॥
पर्यक्षिपत्क्षपाः क्षामा तपसा हैमनीश्च सा ॥७२॥
निशीथिनीषु शिशिरे श्रयन्ती सारसं रसम् ॥
मेने सा सारसैः केयमुद्यताद्येति पद्मिनी ॥ ७३ ॥
मनस्विनामपि मनोरागतां सृजते मधौ ॥
तदोष्ठपल्लवाद्रागो जह्रे माकन्दपल्लवैः ॥ ७४ ॥
वसन्ते निवसन्ती सा वने बालाचलम्मनः ॥
चक्रे तपस्यपि श्रुत्वा कोकिला काकलीरवम् ॥ ७५ ॥
बन्धुजीवेऽधररुचिं कलहंसे कलागतीः ॥
निक्षेपमिव सा क्षिप्त्वा शरद्यासीत्तपोरता॥ ७६ ॥
अपास्तभोगसम्पर्का भोगिनां वृत्तिमाश्रिता ॥
क्षुदुद्बोधनिरोधाय धूतपापा तपस्विनी ॥ ॥ ७७ ॥
शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम् ॥
तथापि तपसा क्षामा दिदीपे तत्तनुस्तराम् ॥ ७८ ॥
निरीक्ष्य तां तपस्यन्तीं विधिः संशुद्धमानसाम् ॥
उपेत्योवाच सुप्रज्ञे प्रसन्नोस्मि वरं वृणु ॥ ७९ ॥
सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् ॥
प्रणम्य प्राञ्जलिः प्रीता प्रोवाचाथ प्रजापतिम् ॥ 4.2.59.८० ॥
॥ धूतपापोवाच ॥ ॥
पितामह वरो मह्यं यदि देयो वरप्रद ॥
सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम् ॥ ८१ ॥
स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः ॥
प्रत्युवाचाथ तां बालां विमलां विमलेषिणीम् ॥ ८२ ॥
॥ ब्रह्मोवाच ॥ ॥
धूतपापे पवित्राणि यानि सन्त्यत्र सर्वतः ॥
तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम ॥ ८३ ॥
तिस्रः कोट्योऽर्धकोटी च सन्ति तीर्थानि कन्यके ॥
दिवि भुव्यन्तरिक्षे च पावनान्युत्तरोत्तरम् ॥ ८४ ॥
तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥
वसन्तु मम वाक्येन भव सर्वातिपावनी ॥ ८५ ॥
इत्युक्त्वान्तर्दधे वेधाः सापि निर्धूतकल्मषा ॥
धूतपापोटजं प्राप्ताथो वेदशिरसः पितुः ॥ ८६ ॥
कदाचित्तां समालोक्य खेलन्तीमुटजाजिरे ॥
धर्मस्तत्तपसाकृष्टः प्रार्थयामास कन्यकाम् ॥ ८७ ॥
॥धर्म उवाच ॥ ॥
पृथुश्रोणि विशालाक्षि क्षामोदरि शुभानने ॥
क्रीतः स्वरूपसम्पत्त्या त्वयाहं देहि मे रहः ॥ ८८ ॥
नितरां बाधते कामस्त्वत्कृते मां सुलोचने ॥
अज्ञातनाम्ना सा तेन प्रार्थितेत्यसकृद्ग्रहः ॥ ८९ ॥
उवाच सा पिता दाता तं प्रार्थय सुदुर्मते ॥
पितृप्रदेया यत्कन्या श्रुतिरेषा सनातनी ॥ 4.2.59.९० ॥
निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात् ॥
पुनर्निबन्धयाञ्चक्रे ऽपधृतिर्धृतिशालिनीम् ॥ ९१ ॥
॥ धर्म उवाच ॥ ॥
न प्रार्थयेहं सुभगे पितरं तव सुन्दरि ॥
गान्धर्वेण विवाहेन कुरु मे त्वं समीहितम् ॥ ९२ ॥
इति निर्बन्धवद्वाक्यं सा निशम्य कुमारिका ॥
पितुः कन्याफलन्दित्सुः पुनराहेति तं द्विजम् ॥ ९३ ॥
अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः ॥
इत्युक्तोपि कुमार्या स नातिष्ठन्मदनातुरः ॥ ९४ ॥
ततः शशाप तं बाला प्रबला तपसो बलात् ॥
जडोसि नितरां यस्माज्जलाधारो नदो भव ॥ ९५ ॥
इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः ॥
कठोरहृदये त्वं तु शिला भव सुदुर्मते ॥ ९६ ॥
॥ स्कन्द उवाच ॥ ॥
इत्यन्योन्यस्य शापेन मुने धर्मो नदोऽभवत् ॥
अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् ॥ ९७ ॥
साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्॥
ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत् ॥ ९८ ॥
मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम् ॥
तच्छापो नान्यथा भूयाच्चन्द्रकान्तशिला भव ॥ ९९ ॥
चन्द्रोदयमनुप्राप्य द्रवीभूततनुस्ततः ॥
धुनी भव सुते साध्वि धूतपापेति विश्रुता ॥ 4.2.59.१०० ॥
स च धर्मनदः कन्ये तव भर्ता सुशोभनः ॥
तैर्गुणैः परिपूर्णाङ्गो ये गुणाः प्रार्थितास्त्वया ॥ १ ॥
अन्यच्च शृणु सद्बुद्धे ममापि तपसो बलात् ॥
द्वैरूप्यं भवतोर्भावि प्राकृतं च द्रवं च वै ॥ २ ॥
इत्याश्वास्य पिता कन्यां धूतपापां परन्तप ॥
चन्द्रकान्तशिलाभूतामनुजग्राह बुद्धिमान् ॥३॥
तदारभ्य मुने काश्यां ख्यातो धर्मनदो ह्रदः ॥
धर्मो द्रवस्वरूपेण महापातकनाशनः ॥ ४ ॥
धुनी च धूतपापा सा सर्वतीर्थमयी शुभा ॥
हरेन्महाघसङ्घातान्कूलजानिव पादपान् ॥ ॥ ५ ॥
तत्र धर्मनदे तीर्थे धूतपापा समन्विते ॥
यदा न स्वर्धुनी तत्र तदा ब्रध्नस्तपो व्यधात् ॥ ६ ॥
गभस्तिमाली भगवान्गभस्तीश्वर सन्निधौ ॥
शीलयन्मङ्गलां गौरीं तप उग्रं चचार ह ॥ ७ ॥
नाम्ना मयूखादित्यस्य तीर्थे तत्र तपस्यतः ॥
किरणेभ्यः प्रववृते महास्वेदोतिखेदतः ॥ ८ ॥
किरणेभ्यः प्रवृत्ताया महास्वेदस्य सन्ततिः ॥
ततः सा किरणानाम जाता पुण्या तरङ्गिणी॥९॥
महापापान्धतमसं किरणाख्या तरङ्गिणी॥
ध्वंसयेत्स्नानमात्रेण मिलिता धूतपापया ॥4.2.59.११०॥
आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया ॥
यया धूतानि पापानि सर्वतीर्थीकृतात्मना ॥ ११ ॥
ततोपि मिलितागत्य किरणा रविणैधिता ॥
यन्नामस्मरणादेव महामोहोन्धतां व्रजेत्॥१२॥
किरणा धूतपापे च तस्मिन्धर्मनदे शुभे ॥
स्रवन्त्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे ॥ १३ ॥
ततो भागीरथी प्राप्ता तेन दैलीपिना सह ॥
भागीरथी समायाता यमुना च सरस्वती ॥ १४ ॥
किरणा धूतपापा च पुण्यतोया सरस्वती ॥
गङ्गा च यमुना चैव पञ्चनद्योत्र कीर्तिताः ॥ १५ ॥
अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥
तत्राप्लुतो न गृह्णीयाद्देहं ना पाञ्चभौतिकम् ॥ १६ ॥
अस्मिन्पञ्चनदीनां च सम्भेदेघौघभेदिनि ॥
स्नानमात्रात्प्रयात्येव भित्त्वा ब्रह्माण्डमण्डपम् ॥ १७ ॥
तीर्थानि सन्ति भूयांसि काश्यामत्र पदेपदे ॥
न पञ्चनदतीर्थस्य कोट्यंशेन समान्यपि ॥ १८ ॥
प्रयागे माघमासे तु सम्यक्स्नातस्य यत्फलम् ॥
तत्फलं स्याद्दिनैकेन काश्यां पञ्चनदे ध्रुवम् ॥ १९ ॥
स्नात्वा पञ्चनदे तीर्थे कृत्वा च पितृतर्पणम् ॥
बिन्दुमाधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥ 4.2.59.१२० ॥
यावत्सङ्ख्यास्तिलादत्ताः पितृभ्यो जलतर्पणे ॥
पुण्ये पञ्चनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ॥ २१ ॥
श्रद्धया यैः कृतं श्राद्धं तीथें पञ्चनदे शुभे ॥
तेषां पितामहा मुक्ता नानायोनि गता अपि ॥ २२ ॥
यमलोके पितृगणैर्गाथेयं परिगीयते ॥
महिमानं पाञ्चनदं दृष्ट्वा श्राद्धविधानतः ॥२३॥
अस्माकमपि वंश्योत्र कश्चिच्छ्राद्धं करिष्यति ॥
काश्यां पञ्चनदं प्राप्य येन मुच्यामहे वयम्॥ २४ ॥
इयं गाथा प्रतिदिनं श्राद्धदेवस्य सन्निधौ ॥
पितृभिः परिगीयेत काश्यां पञ्चनदं प्रति ॥ २५ ॥
तत्र पञ्चनदे तीर्थे यत्किञ्चिद्दीयते वसु ॥
कल्पक्षयेपि न भवेत्तस्य पुण्यस्य सङ्क्षयः ॥२६॥
वन्ध्यापि वर्षपर्यन्तं स्नात्वा पञ्चनदे ह्रदे ॥
समर्च्य मङ्गलां गौंरीं पुत्रं जनयति ध्रुवम् ॥ २७ ॥
जलैः पाञ्चनदैः पुण्यैर्वाससा पारिशोधितैः ॥
महाफलमवाप्नोति स्नपयित्वेष्टदेवताम् ॥ २८ ॥
पञ्चामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥
तुलितोधिकतां यातो बिन्दुः पञ्चनदाम्भसः ॥२९॥
पञ्चकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पाञ्चनदाम्भसः ॥ 4.2.59.१३० ॥
भवेदवभृथस्नानाद्राजसूयाश्वमेधयोः ॥
यत्फलं तच्छतगुणं स्नानात्पाञ्चनदाम्भसा ॥३१॥
राजसूयाश्वमेधौ च भवेतां स्वर्गसाधनम् ॥
आब्रह्मघटिकाद्वन्द्वं मुक्त्यै पाञ्चनदाप्लुतिः ॥३२॥
स्वर्गराज्याभिषेकोपि न तथा सम्मतः सताम् ॥
अभिषेकः पाञ्चनदो यथानल्पसुखप्रदः ॥३३॥
वरं वाराणसीं प्राप्य भृत्यः पञ्चनदोक्षिणाम् ॥
नान्यत्र सेवकीभूत भूपकोटिर्नरेश्वरः ॥ ३४ ॥
यैर्न पञ्चनदे स्नातं कार्तिके पापहारिणि ॥
तेऽद्यापि गर्भे तिष्ठन्ति पुनस्ते गर्भवासिनः ॥ ३५ ॥
कृते धर्मनदं नाम त्रेतायां धूतपापकम् ॥
द्वापरे बिन्दुतीर्थं च कलौ पञ्चनदं स्मृतम्॥ ३६ ॥
शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥
तत्कार्तिके पञ्चनदे सकृत्स्नानेन लभ्यते ॥ ३७ ॥
इष्टापूर्तेषु धर्मेषु यावजन्मकृतेषु यत् ॥
अन्यत्र स्यात्फलं तत्स्यादूर्जे धर्मनदाप्लवात् ॥ ३८ ॥
न धूतपाप सदृशं तीर्थं क्वापि महीतले ॥
यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ॥ ३९ ॥
बिन्दुतीर्थे नरो दत्त्वा काञ्चनं कृष्णलोन्मितम् ॥
न दरिद्रो भवेत्क्वापि न स्वर्णेन वियुज्यते ॥ 4.2.59.१४० ॥
गोभूतिलहिरण्याश्व वासोन्नस्रग्विभूषणम् ॥
यत्किञ्चिद्बिन्दुतीर्थेत्र दत्त्वाक्षयमवाप्नुयात् ॥ ४१ ॥
एकामप्याहुतिं दत्त्वा समिद्धेग्नौ विधानतः ॥
पुण्ये धर्मनदे तीर्थे कोटिहोमफलं लभेत् ॥ ४२ ॥
न पञ्चनदतीर्थस्य महिमानमनन्तकम् ॥
कोपि वर्णयितुं शक्तश्चतुर्वर्ग शुभौकसः ॥ ४३ ॥
श्रुत्वाख्यानमिदं पुण्यं श्रावयित्वापि भक्तितः ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥ ४४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थें काशीखण्ड उत्तरार्धे पञ्चनदाविर्भावो नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥