०५८ दिवोदासनिर्वाणप्राप्तिः

॥ अगस्त्य उवाच ॥
किं चकार हरः स्कन्द मन्दराद्रिगतस्तदा ॥
विलम्बमालम्बयति तस्मिन्नपि गजानने ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्य कथां पुण्यां कथ्यमानां मयाधुना॥
वाराणस्येकविषयामशेषाघौघनाशिनीम् ॥२ ॥
करीन्द्रवदने तत्र क्षेत्रवर्येऽविमुक्तके॥
विलम्बभाजित्र्यक्षेण प्रैक्षिक्षिप्रमधोक्षजः ॥ ३ ॥
प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम् ॥
तथा त्वमपि माकार्षीर्यथा प्राक्प्रस्थितैः कृतम् ॥ ४ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
उद्यमः प्राणिभिः कार्यो यथाबुद्धि बलाबलम् ॥
परं फलन्ति कर्माणि त्वदधीनानि शङ्कर ॥ ५ ॥
अचेतनानि कर्माणि स्वतन्त्राः प्राणिनोपि न ॥
त्वं च तत्कर्मणां साक्षी त्वं च प्राणिप्रवर्तकः ॥ ६ ॥
किन्तु त्वत्पादभक्तानां तादृशी जायते मतिः ॥
यया त्वमेव कथयेः साध्वनेनत्वनुष्ठितम् ॥ ७ ॥
यत्किञ्चिदिह वै कर्मस्तोकं वाऽस्तोकमेव वा ॥
तत्सिद्ध्यत्येव गिरिश त्वत्पादस्मृत्यनुष्ठितम् ॥ ८ ॥
सुसिद्धमपि वै कार्यं सुबुद्ध्यापि स्वनुष्ठितम् ॥
अत्वत्पदस्मृतिकृतं विनश्यत्येव तत्क्षणात् ॥ ९ ॥
शम्भुना प्रेषितेनाद्य सूद्यमः क्रियते मया ॥
त्वद्भक्तिसम्पत्तिमतां सम्पन्नप्राय एव नः ॥ 4.2.58.१० ॥
अतीव यदसाध्यं स्यात्स्वबुद्धिबलपौरुषैः ॥
तत्कार्यं हि सुसिद्धं स्यात्त्वदनुध्यानतः शिव ॥ ११ ॥
यान्ति प्रदक्षिणीकृत्य ये भवन्तं भवं विभो ॥
भवन्ति तेषां कार्याणि पुरोभूतानि ते भयात् ॥ १२ ॥
जातं विद्धि महादेव कार्यमेतत्सुनिश्चितम् ॥
काशीप्रावेशिकश्चिन्त्य शुभलग्नोदयः परम् ॥ १३ ॥
अथवा काशिसम्प्राप्तौ न चिन्त्यं हि शुभाशुभम् ॥
तदैव हि शुभः कालो यदैवाप्येत काशिका ॥ १४ ॥
शम्भुं प्रदक्षिणीकृत्य प्रणम्य च पुनःपुनः ॥
प्रतस्थेऽथ सलक्ष्मीको मन्दराद्गरुडध्वजः ॥ १५ ॥
दृशोरतिथितां नीत्वा विष्णुर्वाराणसीं ततः ॥
पुण्डरीकाक्ष इत्याख्यां सफलीकृतवान्मुदा ॥ १६ ॥
गङ्गावरणयोर्विष्णुः सम्भेदे स्वच्छमानसः ॥
प्रक्षाल्य पाणिचरणं सचैलः स्नातवानथ ॥१७॥
तदाप्रभृति तत्तीर्थं पादोदकमितीरितम् ॥
पादौ यदादौ शुभदौ क्षालितौ पीतवाससा ॥ १८ ॥
तत्र पादोदके तीर्थे ये स्नास्यन्तीह मानवाः ॥
तेषां विनश्यति क्षिप्रं पापं सप्तभवार्जितम् ॥ १९ ॥
तत्र श्राद्धं नरः कृत्वा दत्त्वा चैव तिलोदकम्॥
सप्तसप्त तथा सप्त स्ववंश्यांस्तारयिष्यति ॥ 4.2.58.२० ॥
गयायां यादृशी तृप्तिर्लभ्यते प्रपितामहैः ॥
तीर्थे पादोदके काश्यां तादृशी लभ्यते ध्रुवम् ॥ २१ ॥
कृतपादोदक स्नानं पीतपादोदकोदकम् ॥
दत्तपादोदपानीयं नरं न निरयः स्पृशेत् ॥ २२ ॥
विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत् ॥
जातुचिज्जननीस्तन्यं न पिबेदिति निश्चितम् ॥ २३ ॥
सचक्र शालग्रामस्य शङ्खेन स्नापितस्य च ॥
अद्भिः पादोदकस्याम्बु पिबन्नमृततां व्रजेत् ॥ २४ ॥
विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत् ॥
यदि तत्सुधया किं नु बहुकालीनयातया ॥ २५ ॥
काश्यां पादोदके तीर्थे यैः कृता नोदकक्रियाः ॥
जन्मैव विफलं तेषां जलबुद्बुद सश्रियाम् ॥२६॥
कृतनित्यक्रियो विष्णुः सलक्ष्मीकः सकाश्यपिः ॥
उपसंहृत्य तां मूर्तिं त्रैलोक्यव्यापिनीं तथा ॥ २७ ॥
विधाय दार्षदीं मूर्तिं स्वहस्तेनादिकेशवः ॥
स्वयं सम्पूजयामास सर्वसिद्धिसमृद्धिदाम् ॥ २८ ॥
आदिकेशवनाम्नीं तां श्रीमूर्तिं पारमेश्वरीम् ॥
सम्पूज्य मर्त्यो वैकुण्ठं मन्यते स्वगृहाङ्गणम् ॥ २९ ॥
श्वेतद्वीप इति ख्यातं तत्स्थानं काशिसीमनि ॥
श्वेतद्वीपे वसन्त्येव नरास्तन्मूर्तिसेवकाः ॥ 4.2.58.३० ॥
क्षीराब्धिसञ्ज्ञं तत्रान्यत्तीर्थं केशवतोग्रतः ॥
कृतोदकक्रियस्तत्र वसेत्क्षीराब्धिरोधसि ॥ ३१ ॥
तत्र श्राद्धं नरः कृत्वा गां दत्त्वा च पयस्विनीम् ॥
यथोक्तसर्वाभरणां क्षीरोदे वासयेत्पितॄन् ॥ ३२ ॥
एकोत्तरशतं वंश्यान्नवेत्पायस कर्दमम् ॥
क्षीरोदरोधः पुण्यात्मा भक्त्या तत्रैकधेनुदः ॥३३॥
बह्वीश्च नैचिकीर्दत्त्वा श्रद्धयात्र सदक्षिणाः ॥
शय्योत्तरांश्च प्रत्येकं पितॄंस्तत्र सुवासयेत्॥३४॥
क्षीरोदाद्दक्षिणे तत्र शङ्खतीर्थमनुत्तमम् ॥
तत्रापि सन्तर्प्यपितॄन्विष्णुलोकेमहीयते ॥ ३५ ॥
तद्याम्यां चक्रतीर्थं च पितॄणामपि दुर्लभम् ॥
तत्रापि विहितश्राद्धो मुच्यते पैतृकादृणात् ॥३६॥
तत्सन्न्निधौ गदातीर्थं विष्वगाधिनिबर्हणम् ॥
तारणं च पितॄणां वै कारणं चैनसां क्षये ॥ ३७ ॥
पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः ॥
पितॄन्सन्तर्प्य विधिना पद्मयानेव हीयते ॥ ३८ ॥
तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम् ॥
स्वयं यत्र महालक्ष्मीः स्नाता त्रैलोक्यहर्षदा ॥३९॥
तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि काञ्चनम् ॥
पट्टाम्बराणि विप्रेभ्यो न लक्ष्म्या परिहीयते ॥4.2.58.४०॥
यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान् ॥
पितरोपि हि सुश्रीकास्तस्य स्युस्तीर्थगौरवात् ॥४१॥
तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवन्दिता ॥
तां प्रणम्य नरो भक्त्या न रोगी जायते क्वचित् ॥ ४२ ॥
नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि॥
समभ्यर्च्य महालक्ष्मीं व्रती व्रतफलं लभेत् ॥ ४३ ॥
तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ॥
तत्र स्नात्वा नरो भक्त्या संसाराहिं न पश्यति ॥ ४४ ॥
तदग्रे नारदं तीर्थं महापातकनाशनम् ॥
ब्रह्मविद्योपदेशं च प्राप्तवान्यत्र नारदः ॥४५॥
तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात् ॥
केशवात्तेन तत्रोक्तः काश्यां नारदकेशवः ॥४६ ॥
अर्चयित्वा नरो भक्त्या देवं नारदकेशवम् ॥
जनन्या जठरं पीठमध्यास्ते न कदाचन ॥ ४७ ॥
प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः ॥
तत्र श्राद्धादिकं कृत्वा विप्णुलोके महीयते ॥ ४८ ॥
आम्बरीषमहातीर्थमघघ्नं तस्य सन्निधौ ॥
तत्रौदकीं क्रियां कुर्वन्निष्कालुष्यं लभेन्नरः ॥४९॥
आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ॥
तस्य सन्दर्शनादेव मुच्यते चोच्चपातकैः ॥ ॥ 4.2.58.५० ॥
दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः ॥
पितॄन्सन्तर्प्य तत्रैव ज्ञानयोगमवाप्नुयात् ॥५१ ॥
भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम् ॥
तत्र स्नातो नरः प्राज्ञो भवेद्भार्गववत्सुधीः ॥ ५२ ॥
तत्र वामनतीर्थं च प्राच्यां वामनकेशवात् ॥
पूजयित्वा च तं विष्णुं वसेद्वामनसन्निधौ ॥ ५३ ॥
नरनारायणं तीर्थं नरनारायणात्पुरः ॥
तत्र तीर्थे कृतस्नानो नरो नारायणो भवेत् ॥ ५४ ॥
यज्ञवाराह तीर्थं च तदग्रे पापनाशनम् ॥
प्रतिमज्जनतस्तत्र राजसूय क्रतोः फलम् ॥ ५५ ॥
विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम् ॥
स्नातो विदारयेत्तत्र पापं जन्मशतार्जितम् ॥ ५६ ॥
गोपिगोविन्द तीर्थं च गोपिगोविन्दपूर्वतः ॥
स्नात्वा तत्र समभ्यर्च्य विष्णुं विष्णुप्रियो भवेत् ॥ ५७ ॥
तीर्थं लक्ष्मीनृसिंहाख्यं गोपिगोविन्द दक्षिणे ॥
न लक्ष्म्या त्यज्यते क्वापि तत्तीर्थं परिमज्जनात् ॥ ५८ ॥
तदग्रे शेषतीर्थं च शेषमाधवसन्निधौ ॥
तर्पितानां पितॄणां च यत्र तृप्तिर्न शिष्यते ॥ ५९ ॥
शङ्खमाधवतीर्थं च तदवाच्यां सुनिर्मलम् ॥
कृतोदको नरस्तत्र भवेत्पापोपि निर्मलः ॥ 4.2.58.६० ॥
तदग्रे च हयग्रीवं तीर्थं परमपावनम् ॥
तत्र स्नात्वा हयग्रीवं केशवं परिपूज्य च ॥ ६१ ॥
पिण्डं च तत्र निर्वाप्य हयग्रीवस्य सन्निधौ ॥ ॥
हायग्रीवीं श्रियं प्राप्य समुच्येत सपूर्वजः ॥ ६२ ॥
॥ स्कन्द उवाच ॥ ॥
प्रसङ्गतो मयैतानि तीर्थानि कथितानि ते ॥
भूमौ तिलान्तरायां यत्तत्र तीर्थान्यनेशः ॥ ६३ ॥
उद्दिष्टानां तु तीर्थानामेतेषां कलशोद्भव ॥
नाममात्रमपि श्रुत्वा निष्पापो जायते नरः ॥
इदानीं प्रस्तुतं विप्र शृणु वक्ष्यामि तेग्रतः ॥
वैकुण्ठनाथो यच्चक्रे शङ्खचक्रगदाधरः ॥ ६५ ॥
तस्यां मूर्तौ समावेश्य कैशव्यामथ केशवः ॥
शम्भोः कार्ये कृतमना अंशांशांशेन निर्गतः ॥ ६६ ॥
॥ अगस्त्य उवाच ॥ ॥
अंशांशांशेन निश्चक्रे कुतो भोश्चक्रपाणिना ॥
क्व निर्गतं च हरिणा प्राप्य काशीं षडानन ॥ ६७ ॥
॥ स्कन्द उवाच ॥ ॥
सामस्त्येन यदर्थं न निर्गतं विष्णुना मुने ॥
ब्रुवे तत्कारणमिति क्षणमात्रं निशामय ॥ ६८ ॥
सम्प्राप्य पुण्यसम्भारैः प्राज्ञो वाराणसीं पुरीम् ॥
न त्यजेत्सर्वभावेन महालाभैरपीरितः ॥ ६९ ॥
अतः प्रतिकृतिः स्वीया तत्र काश्यां मुरारिणा ॥
प्रतितस्थे कलशजस्तोकांशेन च निर्गतम् ॥ 4.2.58.७० ॥
किञ्चित्काश्या उदीच्यां च गत्वा देवेन चक्रिणा ॥
स्वस्थित्यै कल्पितं स्थानं धर्मक्षेत्रमितीरितम् ॥ ७१ ॥
ततस्तु सौगतं रूपं शिश्राय श्रीपतिः स्वयम् ॥
अतीव सुन्दरतरं त्रैलोक्यस्यापिमोहनम् ॥ ७२ ॥
श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः ॥
यामालोक्य जगत्सर्वं चित्रन्यस्तमिवास्थितम् ॥ ७३ ॥
विश्वयोनिं जगद्धात्रीं न्यस्तहस्ताग्रपुस्तकाम् ॥
गरुत्मानपि तच्छिष्यो जातो लोकोत्तराकृतिः ॥ ७४ ॥
अत्यद्भुत महाप्राज्ञो निःस्पृहः सर्ववस्तुषु ॥
गुरुशुश्रूषणपरो न्यस्तहस्ताग्रपुस्तकः ॥ ७५ ॥
अपृच्छत्परमं धर्मं संसारविनिमोचकम् ॥
आचार्यवर्यं सौम्यास्यं प्रसन्नात्मानमुत्तमम् ॥ ७६ ॥
धर्मार्थशास्त्रकुशलं ज्ञानविज्ञानशालिनम् ॥
सुस्वरं सुपदव्यक्ति सुस्निग्धमृदुभाषिणम् ॥ ७७ ॥
स्तम्भनोच्चाटनाकृष्टि वशीकर्मादिकोविदम् ॥
व्याख्यानसमयाकृष्ट पक्षिरोमाञ्चकारिणम् ॥ ७८ ॥
पीततद्गीतपीयूष मृगपूगैरुपासितम् ॥
महामोदभराक्रान्त वातचाञ्चल्यहारिणम्॥ ७९ ॥
वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् ॥
ततःप्रोवाच पुण्यात्मा पुण्यकीर्तिः स सौगतः ॥ 4.2.58.८० ॥
शिष्यं विनयकीर्तिं तं महाविनयभूषणम्॥८१॥
॥ पुण्यकीर्तिरुवाच ॥ ॥
त्वया विनयकीर्ते यो धर्मः पृष्टः सनातनः ॥
वक्ष्याम्यहमशेषेण शृणुष्व त्वं महामते ॥ ५२ ॥
अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ॥
स्वयं प्रादुर्भवेदेष स्वयमेव विलीयते ॥ ८३ ॥
ब्रह्मादिस्तम्बपर्यन्तं यावद्देहनिबन्धनम् ॥
आत्मैवैकेश्वरस्तत्र न द्वितीयस्तदीशिता ॥८४ ॥
यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः ॥
आख्या यथास्मदादीनां पुण्यकीर्त्यादिरुच्यते॥।८५॥
देहो यथा स्मदादीनां स्वकालेन विलीयते ॥
ब्रह्मादि मशकान्तानां स्वकालाल्लीयते तथा ॥८६ ॥
विचार्यमाणे देहेस्मिन्नकिञ्चिदधिकं क्वचित् ॥
आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम्॥ ८७ ॥
निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत् ॥
सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ८८ ॥
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम् ॥
तृषितास्तु तथान्येपि न विशेषोल्पकोधिकः ॥८९॥
सन्तु नार्यः सहस्राणि रूपलावण्यभूमयः ॥
परं निधुवने काले ह्येकैवेहोपयुज्यते ॥ 4.2.58.९० ॥
अश्वाः परः शताः सन्तु सन्त्वनेकेप्यनेकषाः ॥
अधिरोहे तथाप्येको न द्वितीयस्तथात्मनः ॥ ९१ ॥
पर्यङ्कशायिनां स्वापे सुखं यदुपपद्यते ॥
तदेव सौख्यं निद्रायामिह भूशायिनामपि ॥ ९२ ॥
यथैव मरणाद्भीतिरस्मदादि वपुष्मताम् ॥
ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ ९३ ॥
सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते ॥
इदं निश्चित्य केनापि नो हिंस्यः कोपि कुत्रचित् ॥ ९४ ॥
धर्मो जीवदया तुल्यो न क्वापि जगतीतले ॥
तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ ९५ ॥
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् ॥
घातिते घातितं तद्वत्तस्माद्रक्षेन्न घातयेत् ॥ ९६ ॥
अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः ॥
तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ॥ ९७ ॥
न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे ॥
हिंसको नरकं गच्छेत्स्वर्गं गच्छेदहिंसकः ॥ ९८ ॥
सन्ति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः ॥
अभीति दानसदृशं परमेकमपीह न ॥९९॥
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ॥
विचार्य नानाशास्त्राणि शर्मणेत्र परत्र च ॥4.2.58.१००॥
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ॥
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥ १ ॥
अविचिन्त्य प्रभावं हि मणिमन्त्रौषधीबलम् ॥
तदभ्यस्यं प्रयत्नेन नानार्थोपार्जनाय वै ॥ २ ॥
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ॥
परितः परिपूज्यानि किमन्यैरिह पूजितैः ॥ ३ ॥
पञ्चकर्मेन्द्रियाण्येव पञ्चबुद्धीन्द्रियाणि च ॥
मनोबुद्धिरिह प्रोक्तं द्वादशायतनं शुभम् ॥ ४ ॥
इहैव स्वर्गनरकौ प्राणिनां नान्यतः क्वचित् ॥
सुखं स्वर्गः समाख्यातो दुःखं नरक एव हि ॥ ५ ॥
सुखेषु भुज्यमानेषु यत्स्याद्देह विसजर्नम् ॥
अयमेव परो मोक्षो न मोक्षोऽन्यः क्वचित्पुनः ॥ ६ ॥
वासनासहितक्लेश समुच्छेदे सति ध्रुवम् ॥
विज्ञानो परमो मोक्षो विज्ञेयस्तत्त्वचिन्तकैः ॥ ७ ॥
प्रामाणिकी श्रुतिरियं प्रोच्यते वेदवादिभिः ॥
न हिंस्यात्सर्वभूतानि नान्या हिंसाप्रवर्तिका ॥ ८ ॥
अग्नीषोमीयमिति या भ्रामिका साऽसतामिह॥
न सा प्रमाणं ज्ञातॄणां पश्वालम्भनकारिका ॥ ९ ॥
वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम ॥
दग्ध्वा वह्नौ तिलाज्यादि चित्रं स्वर्गोऽभिलप्यते ॥ 4.2.58.११० ॥
इत्येवं धर्मजिज्ञासां पुण्यकीर्तौ प्रकुर्वति ॥
पारम्पर्येण तच्छ्रुत्वा पौरा यात्रां प्रचक्रिरे ॥११॥
परिव्राजिक याप्येवं समाकृष्टाः पुराङ्गनाः ॥
तया विजानकौमुद्या सर्वविद्याविदग्धया ॥ १२ ॥
ततस्तासां पुरस्तात्सा बौद्धधर्मानवीवदत् ॥
दृष्टार्थप्रत्ययकरान्देहसौख्यैकसाधनान ॥ १३ ॥ ॥
विज्ञानकौमुद्युवाच ॥ ॥
आनन्दं ब्रह्मणो रूपं श्रुत्यैवं यन्निगद्यते ॥
तत्तथैवेह मन्तव्यं मिथ्या नानात्वकल्पना ॥१४॥
यावत्स्वस्थमिदं वर्ष्म यावन्नेन्द्रियविक्लवः ॥
यावज्जरा च दूरेस्ति तावत्सौख्यं प्रसाधयेत् ॥ १५॥
अस्वास्थ्येन्द्रियवैकल्ये वार्धके तु कुतः सुखम् ॥
शरीरमपि दातव्यमर्थिभ्योतः सुखेप्सुभिः॥ १६ ॥
याचमानमनोवृत्ति प्रीणनेयस्य नो जनिः ॥
तेन भूर्भारवत्येषा समुद्रागद्रुमैर्नहि॥ १७ ॥
सत्वरो गत्वरो देहः सञ्चयाः सपरिक्षयाः ॥
इति विज्ञाय विज्ञाता देहे सौख्यं प्रसाधयेत् ॥ १८ ॥
श्व वायस कृमीणां च प्रतिभोज्यमिदं वपुः ॥
भस्मान्तं तच्छरीरं च वेदे सत्यं प्रपद्यते ॥ १९ ॥
मुधा जातिविकल्पोयं लोकेषु परिकल्प्यते ॥
मानुष्ये सति सामान्ये कोधमः कोथ चोत्तमः ॥ 4.2.58.१२० ॥
ब्रह्मादि सृष्टिरेषेति प्रोच्यते वृद्धपूरुषैः ॥
तस्य स्रष्टुः सुतौ दक्ष मरीची चेति विश्रुतौ ॥ २१ ॥
मारीचिना कश्यपेन दक्षकन्याः सुलोचनाः ॥
धर्म्येण किल मार्गेण परिणीतास्त्रयोदश ॥ २२ ॥
अपीदानीन्तनैर्मर्त्यैरल्पबुद्धिपराक्रमैः॥
अयं गम्यस्त्वगम्योयं विचारः क्रियते मुधा ॥ २३ ॥
मुखबाहूरुपज्जातं चातुर्वर्ण्यमिहोदितम् ॥
कल्पनेयं कृता पूर्वैर्न घटेत विचारतः ॥ २४ ॥
एकस्यां च तनौ जाता एकस्माद्यदि वा क्वचित् ॥
चत्वारस्तनयास्तत्किं भिन्नवर्णत्वमाप्नुयुः ॥ २५ ॥
वर्णावर्णविवेकोयं तस्मान्न प्रतिभासते॥
अतो भेदो न मन्तव्यो मानुष्ये केनचित्क्वचित् ॥ ॥ २६ ॥
विज्ञानकौमुदीवाणीमित्याकर्ण्य पुराङ्गनाः ॥
भर्त्तृशुश्रूषणवतीं विजहुर्मतिमुत्तमाम् ॥ २७ ॥
अभ्यस्याकर्षणीं विद्यां वशीकृतिमतीमपि ॥
पुरुषाः सफलीचक्रुः परदारेषु मोहिताः ॥ २८ ॥
अन्तःपुरचरा नार्यस्तथा राजकुमारकाः ॥
पौराः पुराङ्गनाश्चापि सर्वे ताभ्यां विमोहिताः ॥ २९ ॥
वन्ध्यानां चापि वन्ध्यात्वं सा परिव्राजिकाहरत् ॥
तैस्तैश्च कार्मणोपायैरसौ भाग्यवतीः स्त्रियः ॥ 4.2.58.१३० ॥
सौभाग्यभाग्यसम्पन्ना व्यधाद्विज्ञानकौमुदी ॥
कस्यैचिदञ्जनं दत्तं कस्यैचित्तिलकौषधम् ॥ ३१ ॥
वशीकरणमन्त्रैश्च तथा बह्व्योपि दीक्षिताः ॥
मन्त्राञ्जपेयुः काश्चिच्च यन्त्राण्यन्या लिखन्ति च ॥३२॥
काश्चिज्जुह्वति कुण्डाग्नौ नानाद्रव्याणि निश्चलाः ॥
एवं सर्वेषु पौरेषु निजधर्मेषु सर्वथा ॥
पराङ्मुखेषु जातेषु प्रोल्ललास वृषेतरः ॥ ३३ ॥
सिद्धयोकृष्टपच्याद्या नष्टा एनः प्रवेशनात् ॥
आसीत्कुण्ठितसामर्थ्यो नृपोपि स मनाङ्मनाक् ॥ ३४ ॥
दूरस्थितोपि विघ्नेशो नृपं निर्विण्णमानसम् ॥
चकार राज्यकरणे ढुण्ढिराजो रिपुञ्जयम् ॥ ३५ ॥
अजीगणद्दिवोदासोप्यष्टादश दिनावधिम् ॥
कदा गन्ता स वै विप्रो यो मां समुपदेक्ष्यति ॥ ३६ ॥
इत्थमष्टादशे प्राप्ते दिवसे दिवसेश्वरे ॥
प्राप्ते मध्यं नभोभागं द्वारं प्राप्तो द्विजोत्तमः ॥ ३७ ॥
स एव पुण्यकीर्त्याख्यो धर्मक्षेत्रादधोक्षजः ॥
द्विजवेषं समालम्ब्य समायातो नृपान्तिकम् ॥ ३८ ॥
द्वित्रैः पवित्रैर्बहुधा जयजीवेति वादिभिः ॥
समेतः स इतो विप्रो मूर्तिमानिव पावकः ॥ ३९ ॥
विलोक्य तं समायातं दूरादुत्कण्ठितो नृपः ॥
मेने भवेद्गुरुरयं युक्तो मदुपदेशने ॥ 4.2.58.१४० ॥
अभिगम्य च तं राजा प्रणम्य च पुनःपुनः ॥
गृहीत स्वस्तिवचनो निनायान्तःपुरं द्विजम् ॥ ४१ ॥
मधुपर्केण विधिना तं सम्पूज्य जनाधिपः ॥
व्यपेताध्वश्रमं स्वस्थं प्रोल्लसन्मुखपङ्कजम् ॥ ४२ ॥
निवेद्य खाद्यवस्तूनि कृतकृत्य क्रियाविधिम् ॥
परितृप्तं सुखासीनं पप्रच्छ ब्राह्मणं नृपः ॥ ४३ ॥
॥ राजोवाच ॥ ॥
खिन्नोस्मि विप्रवर्याहं राज्यभारं समुद्वहन् ॥
खेदो नास्त्येव हि परं वैराग्यमिव जायते ॥ ४४ ॥
किं करोमि क्व गच्छामि कथं मे निर्वृतिर्भवेत् ॥
पक्षद्वय्येव यातेति मम चिन्तयतो द्विज ॥४५॥
असीमं सुखसन्तानं भुक्तं राज्यं मया द्विज ॥
परिक्षीणविपक्षं च त्र्यक्षैश्वर्यमिव स्फुटम् ॥ ४६ ॥
स्वसामर्थ्यादहं जातः पर्जन्याग्न्यनिलात्मकः ॥
प्रजाश्च पालिताः सम्यक्पुत्रा इव निजौरसाः ॥ ४७॥
तर्पिताश्चापि भूदेवा वसुभिश्च दिनेदिने॥
एकमेवापराद्धं च मया राज्यं प्रशासता ॥ ४८ ॥
देवास्तृणीकृताः सर्वे स्वतपोबलदर्पतः ॥
तच्च प्रजोपकारार्थं न स्वार्थं भवता शपे ॥ ४९ ॥
अधुना गुरुरेधित्वं मम भाग्योदयागतः ॥
राज्यं तु प्रकरोम्येवं न्यक्कृतान्तकसाध्वसम् ॥ 4.2.58.१५० ॥
अकालकालकलनं मम राज्ये न कुत्रचित् ॥
जराव्याधिदरिद्रेभ्यो ममराज्येपि नो भयम् ॥ ५१ ॥
कोपि धर्मेतरां वृत्तिं न श्रयेन्मयि शासति ॥
धर्मोदयाजनाः सर्वे सर्वे सन्ति सुखोदयाः ॥ ५२ ॥
सद्विद्याव्यसनाः सर्वे सर्वेसन्मार्ग चञ्चुराः ॥
अथवा यदि कल्पान्तं तिष्ठेदायुस्ततोपि किम् ॥ ५३ ॥
सर्वे भोग्यास्तथा भान्ति यथा चर्वित चर्वणम् ॥
किं पिष्टपेषणेनात्र राज्येन द्विजपुङ्गव ॥ ५४ ॥
किमप्युपदिश प्राज्ञ गर्भवासोपशान्तये ॥
अथवा त्वां प्रपन्नस्य मम किं चिन्तनैरिमः ॥ ५५ ॥
यदेव कथयस्यद्य तत्करिष्याम्यसंशयम् ॥
त्वद्विलोकनमात्रेण सर्व एव मनोरथाः ॥ ५६ ॥
अन्येषामपि जायन्ते जातप्राया ममैव तु ॥
जाने देवविरोधेन के के न प्रलयं गताः ॥ ५७ ॥
अवन्तोपि प्रजाः स्वीया निजधर्ममनुव्रताः ॥
पुरा ते त्रिपुराः शूराः शिवभक्तिपरा अपि ॥ ५८ ॥
धरामयं रथं कृत्वा धनुः कृत्वा हिमाचलम् ॥
वेदांश्च वाजिनः कृत्वा गुणं कृत्वा च वासुकिम् ॥ ५९ ॥
विरिञ्चिं सारथिं कृत्वा कृत्वा विष्णुं च पत्त्रिणम्॥
रथचक्रे पुष्पवन्तौ प्रतोदं प्रणवात्मकम् ॥ 4.2.58.१६० ॥
ताराग्रहमयान्कीलान्वरूथं गगनात्मकम् ॥
ध्वजदण्डसुमेरुं च प्रांशुकल्पतरुं ध्वजम् ॥ ६१ ॥
योक्त्राणि चक्षुःश्रवसश्छन्दास्यङ्गानि रक्षकान् ॥
भल्लं कालाग्निरुद्राख्यं पुङ्खीकृत्य प्रभञ्जनम् ॥ ६२ ॥
हरेणैकेषुपातेन लीलया भस्मसात्कृताः ॥
बलिर्यज्ञकृतां श्रेष्ठः कृत्वा कपटखर्वताम् ॥ ६३ ॥
पातालं गमितः पूर्वं हरिणा विक्रमैस्त्रिभिः ॥
वृत्तवानपि वै वृत्रः सुत्राम्णा विनिसूदितः ॥६४॥
दधीचिरपि विप्रेन्द्रो देवैरस्थिकृते हतः ॥
पूर्ववैरमनुस्मृत्य जयार्थं युध्यतो हरेः ॥
कुशास्त्रैर्विजितस्याजौ तेनैव च दधीचिना ॥ ६५ ॥
शिवभक्तस्य बाणस्य दोःसहस्रं पुरा हरिः ॥
चिच्छेद सङ्ख्ये किं तेनापराद्धं साधुवर्तिना ॥ ६६ ॥
तस्माद्विरोधो भद्राय न भवेद्देवतैः सह ॥
देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक् ॥ ६७ ॥
यज्ञैर्देवत्वमापन्ना गीर्वाणा वासवादयः ॥
यज्ञैर्दानैस्तपोभिश्च तेभ्योप्याधिक्यमस्ति मे ॥ ६८ ॥
अस्तु न्यूनत्वमाधिक्यं किमनेनाधुना मम ॥
इन्द्रियोपरमः प्राप्तः सुखदस्तवदर्शनात् ॥ ६९ ॥
इदानीं दिश मे तात कर्मनिर्मूलनक्षमम् ॥
उपायं त्वमुपायज्ञ येन निर्वृतिमाप्नुयाम् ॥ 4.2.58.१७० ॥
॥ स्कन्द उवाच ॥ ॥
गणेशावेशवशतो राज्ञेति यदुदीरितम् ॥
तदाकर्ण्य हृषीकेशः प्राह ब्राह्मणवेषभृत् ॥ ७१ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
साधुसाधु महाप्राज्ञ नृपचूडामणेऽनघ ॥
मया यदुपदेष्टव्यं तत्त्वयैव निरूपितम् ॥ ७२ ॥
त्वमादावेव निर्वृत्तः परं मे मानदो ह्यसि ॥
क्षालितेन्द्रियपङ्कश्च सुतपः स्वच्छवारिभिः ॥ ७३ ॥
यदुक्तं भवता भूप तत्सर्वं तथ्यमेव हि ॥
तव शक्तिं च जानामि विरक्तिं च महामते ॥ ७४ ॥
न भवत्सदृशो राजा भुवि भूतो भविष्यति ॥
राज्यं भोक्तुं त्वयाज्ञायि युक्तं यत्तु मुमुक्षसि ॥ ७५ ॥
विरोधेपि हि देवानां त्वया नापकृतं क्वचित् ॥
धर्मेतरप्रवेशश्च तव राष्ट्रेपि नोभवत् ॥ ७६ ॥
प्रवर्तिताभिर्भवता प्रजाभिर्यदनुष्ठितम् ॥
धर्मे धर्मं स्वधर्मज्ञ तेन तृप्ता दिवौकसः ॥ ७७ ॥
एक एव हि ते दोषो हृदि मे प्रतिभासते ॥
काश्या विश्वेश्वरो दूरं यत्कृतो भवता किल ॥ ७८ ॥
महान्तमपराधं ते जाने भूजानि सत्तम ॥
इमं तत्पापशान्त्यै च वच्म्युपायं महत्तरम् ॥ ७९ ॥
सङ्ख्यास्ति यावती देहे देहिनो रोमसम्भवा ॥
तावतोप्यपराधा वै यान्ति लिङ्ग प्रतिष्ठया ॥ 4.2.58.१८० ॥
एकं प्रतिष्ठितं येन लिङ्गमत्रेशभक्तितः ॥
तेनात्मना समं विश्वं जगदेतत्प्रतिष्ठितम् ॥ ८१ ॥
रत्नाकरे रत्नसङ्ख्या सङ्ख्याविद्भिरपीष्यते ॥
लिङ्गप्रतिष्ठा पुण्यस्य न तु सङ्ख्येति लिख्यते ॥ ८२ ॥
तस्मात्सर्वप्रयत्नेन कुरु लिङ्गं प्रतिष्ठितम् ॥
तया लिङ्ग प्रतिष्ठित्या कृतकृत्यो भविष्यसि ॥८३॥
इत्युक्त्वा ब्राह्मणो दध्यौ क्षणं निश्चलमानसः ॥
उवाच च प्रहृष्टास्यो राजानं पाणिना स्पृशन् ॥ ८४ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
अन्यच्च किञ्चित्पश्यामि भूपाल ज्ञानचक्षुषा ॥
शृणुष्वावहितो भूत्वा तदपि प्राज्ञसत्तम ॥ ८५ ॥
धन्योसि कृतकृत्योसि मान्योसि महतामपि ॥
जप्यं च तव नामेह प्रातः शुभफलेप्सुना ॥ ॥ ८६ ॥
दिवोदास त्वदभ्याशादपि धन्यतरा वयम् ॥
तेपि धन्यतरा मर्त्ये ये त्वदाख्यां प्रचक्षते ॥८७॥
स्मायं स्मायं जगौ विप्रो मौलिमान्दोलयन्मुहुः ॥
हृद्येव बहुशो हृष्टः सम्प्रहृष्टतनूरुहः ॥ ८८ ॥
अहो भाग्योदयश्चास्य अहो नैर्मल्यमस्य वै ॥
यदेनमनिशं ध्यायेद्ध्येयो विश्वेश्वरोऽखिलैः ॥ ८९ ॥
अहो उदर्क एतस्य न कैश्चित्प्रतिपद्यते ॥
अस्माकमपि यद्दूरमदवीयस्तदस्य यत् ॥ 4.2.58.१९० ॥
हृद्यालोच्येति विप्रोथ वर्णयित्वा क्षितीश्वरम् ॥
आविश्चकार तत्सर्वं यत्समाधावलोकयत् ॥ ९१ ॥
॥ ब्राह्मण उवाच ॥ ॥
राजंस्तवाद्य फलितो मनोरथ महाद्रुमः ॥
अनेनैव शरीरेण त्वं गतासि परं पदम् ॥ ९२ ॥
यथा विश्वेश्वरो नित्यं त्वामेव हृदि शीलयेत् ॥
तथास्मदादीनपि न द्विजांस्तत्पादलोचनान् ॥ ९३ ॥
कृतलिङ्गप्रतिष्ठं त्वां सप्तमे ह्यद्य वासरात् ॥
दिव्यविमानमागत्य नेतुमेष्यति शाम्भवम् ॥ ९४ ॥
राजंस्त्वं वेत्सि कस्यायं विपाकः सुकृतस्य ते ॥
वाराणस्याः पुरः सम्यक्सेवनादित्यवैम्यहम् ॥ ९५ ॥
एकमप्यत्र यः पायाद्वाराणस्यां स्थितं जनम् ॥
तस्याप्येवं विपाकोस्ति देहान्ते राजसत्तम ॥ ९६ ॥
इति श्रुत्वा स राजर्षिर्दिवोदासः प्रतापवान् ॥
ब्राह्मणाय सशिष्याय प्रादात्प्रीतोभिवाञ्छितम् ॥९७॥
अथ सम्प्रीणितं विप्रं प्रणम्य च मुहर्मुहुः ॥
प्रोवाच राजा संहृष्टस्तारितोस्मि भवार्णवात् ॥९८॥
ब्राह्मणोपि प्रहृष्टात्मा परिपूर्णमनोरथः ॥
समापृच्छ्य महीनाथं स्वेष्टं देशं जगाम ह॥९९॥
विलोक्य काशीं परितो मायाद्विजवपुर्हरिः॥
भूयोभूयो विचार्यापि किमत्रातीव पावनम्॥4.2.58.२००॥
स्थानं यच्चाहमध्यास्य निजभक्तानशेषतः ॥
नेष्यामि परमं धाम विश्वेशानुग्रहात्परात्॥१॥
सम्प्रधार्येति भगवान्दृष्ट्वा पाञ्चनदं ह्रदम्॥
तत्र कृत्वा विधिस्नानं ततस्तत्रैव संस्थितः॥२॥
प्रतीक्षमाणो लक्ष्मीशो मङ्क्षुत्र्यक्षसमागमम् ॥
तार्क्ष्यं प्रस्थापयाञ्चक्रे राजवृत्तान्तवेदिनम् ॥ ३ ॥
दिवोदासोपि राजेन्द्रो विप्रेन्द्रं परिवर्णयन् ॥
आहूय प्रकृतीः सर्वाः सामात्यान्मण्डलेश्वरान् ॥ ४ ॥
अध्यक्षानपि सर्वांश्च कोशाश्वेभादिदेशितान् ॥
पुत्रान्पञ्चशतं प्राग्र्यं सुतं च समरञ्जयम् ॥ ५ ॥
पुरोहितं प्रतीहारमृत्विजोगणकान्द्विजान् ॥
सामन्तान्राजपुत्रांश्च सूपकारांश्चिकित्सकान् ॥ ६ ॥
वैदेशिकानपि बहून्नानाकार्यसमागतान् ॥ सान्तपुरां च महिषीं वृद्धगोपालबालकान् ॥ ७ ॥
सर्वान्प्रोवाच हृष्टात्मा प्रबद्धकरसम्पुटः ॥
यथा स ब्राह्मणः प्राह दिनसप्तावधि स्थितिम् ॥ ८ ॥
आश्चर्यं तेषु शृण्वत्सु विषण्णवदनेषु च ॥
स्वयं राजगृहं नीत्वा कुमारं समरञ्जयम् ॥ ९ ॥
अभिषिच्य महाबुद्धिः पौराञ्जानपदानपि ॥
प्रसादीकृत्य पुण्यात्मा पुनः काशीमगान्नृपः ॥ 4.2.58.२१० ॥
आगत्य काशीं मेधावी स भूपालो रिपुञ्जयः ॥
प्रासादं कारयामास स्वर्धुन्याः पश्चिमे तटे ॥ ११ ॥
रिपून्प्रमथ्य समरे यावती श्रीरुपार्जिता ॥
तावत्या स हि भूपालः शिवालयमचीक्लृपत् ॥ १२ ॥
भूपाललक्ष्मीरखिला यत्तत्र विनियोजिता ॥
भूपालश्रीरिति ख्याता ततः साभूरभूच्छुभा ॥ ॥ १३ ॥
दिवोदासेश्वरं लिङ्गं प्रतिष्ठाप्य रिपुञ्जयः ॥
कृतकृत्यमिवात्मानममन्यत नरेश्वरः ॥ १४ ॥
अथैकस्मिन्दिने राजा तल्लिङ्गं विधिपूर्वकम् ॥
समभ्यर्च्य नमस्कृत्य यावत्तुष्टाव तुष्टिदम् ॥ १५ ॥
तावन्नभोङ्गणादाशु दिव्यं यानमवातरत् ॥
पार्षदैः परितः कीर्णं शूलखट्वाङ्गपाणिभिः ॥ १६ ॥
अत्यादित्याग्नितेजोभिर्भालनेत्रैः कपर्दिभिः ॥
शुद्धस्फटिकसङ्काशैरङ्गैर्दीप्तनभोङ्गणैः ॥ १७ ॥
विभूषाहि फणारत्न ज्योतिः पूजित विग्रहैः ॥
नित्यप्रकाशसन्त्रस्त तमःश्रित शिरोधरैः ॥ १८ ॥
चामरव्यग्रहस्ताग्र रुद्रकन्याशतावृतम् ॥
अथ पारिषदै राजा दिव्यस्रगनुलेपनैः ॥१९॥
दिव्यैर्दुकूलनेपथ्यैरलञ्चक्रे मुदान्वितैः ॥
त्रिनेत्रीकृतसद्भाल श्यामीकृतशिरोधरम् ॥ 4.2.58.२२० ॥
सुगौरीकृतसर्वाङ्गं कपर्दीकृत मौलिजम् ॥
चतुर्भुजीकृततनुं भूषणीकृतपन्नगम् ॥ २१ ॥
चन्द्रार्धीकृतमूर्धानं निन्युस्तं पार्षदा दिवम्॥ २२ ॥
तदा प्रभृति तत्तीर्थं भूपालश्रीरिति श्रुतम् ॥
तत्र श्राद्धादिकं कृत्वा दानं दत्त्वा स्वशक्तितः ॥ २३ ॥
दिवोदासेश्वरं दृष्ट्वा समभ्यर्च्य च भक्तितः ॥
राज्ञश्चाख्यायिकां श्रुत्वा न नरो गर्भमाविशेत् ॥ २४ ॥
आख्यानमेतन्नृपतेर्दिवोदासस्य पावनम् ॥
पठित्वा पाठयित्वापि नरः पापैः प्रमुच्यते ॥ २५ ॥
दिवोदासशुभाख्यानं श्रुत्वा यः समरं विशेत् ॥
न जातु जायते तस्य भयं वैरिकृतं क्वचित् ॥ २६ ॥
दिवोदास कथा पुण्या महोत्पात निकृन्तनी ॥
पठनीया प्रयत्नेन सर्वविघ्नोपशान्तये ॥ २७ ॥
नावृष्टिर्जायते तत्र नाकालमरणाद्भयम् ॥
दैवोदासी कथा यत्र सर्वपातकनाशिनी ॥ २८ ॥
अस्याख्यानस्य पठनाद्विष्णोरिव मनोरथाः ॥
सम्पूर्णतां गमिष्यन्ति शम्भोश्चिन्तितकारिणः ॥२२९॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे दिवोदासनिर्वाणप्राप्तिर्नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥