॥ स्कन्द उवाच ॥ ॥
विश्वेशो विश्वया सार्धं मया च मुनिसत्तम ॥
महाशाखविशाखाभ्यां नन्दिभृङ्गिपुरोगमः ॥ १ ॥
नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः ॥
देवर्षिभिः समायुक्तः सनकाद्यैरभिष्टुतः ॥ २ ॥
समस्तायतनाधीशैर्दिक्पालैरभिनन्दितः ॥
तीर्थैर्दर्शित तीर्थश्च गन्धर्वैर्गीतमङ्गलः ॥ ३ ॥
कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः ॥
वियत्यनाहतैर्वाद्यैः समन्तादनुमोदितः ॥ ४॥
ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः॥
कृतस्तुतिश्चारणौघैर्विमानैरभितोवृतः ॥ ५ ॥
त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः ॥
अभिवृष्टो महादेवः सम्प्रहृष्टतनूरुहः ॥ ६ ॥
दत्तमाल्योपहारश्च बहुविद्याधरी गणैः ॥
यक्षगुह्यकसिद्धैश्च खेचरैरभिनन्दितः ॥ ७ ॥
कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः ॥
किन्नरीभिः प्रहष्टास्यैः किन्नरैरुपवर्णितः ॥ ८ ॥
विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा ॥
नन्दिनाथ गणेशेन आविष्कृतमहोत्सवः ॥ ९ ॥
नागाङ्गनाभिः परितः कृतनीराजनाविधिः ॥
प्रविवेश महादेवः पुरीं वाराणसीं शुभाम् ॥ 4.2.57.१० ॥
पश्यतां सर्वदेवानामवरुह्य वृषेन्द्रतः ॥
परिष्वज्य गणाधीशं प्रोवाच वृषभध्वजः ॥ ११ ॥
यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम् ॥
मयाप्यतीव दुष्प्राप्यां स प्रसादो स्य वै शिशोः ॥ १२ ॥
यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले ॥
तत्सूनुना सुसाध्यं स्यादत्र दृष्टान्तता मयि ॥ १३ ॥
अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह ॥
काशीप्राप्तिर्यथा मे स्यात्तथा किञ्चिदनुष्ठितम् ॥ १४ ॥
पुत्रवानहमेवास्मि यच्च मे चिरचिन्तितम् ॥
स्वपौरुषेण कृतवानभिलाषं करस्थितम् ॥ १५ ॥
इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः ॥
परितुष्टावसंहृष्टः स्पष्टगीर्भिर्गजाननम् ॥ १६ ॥
॥ श्रीकण्ठ उवाच ॥ ॥
जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ॥
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ॥ १७ ॥
जय सर्वगणाधीश जय सर्व गणाग्रणीः ॥
गणप्रणतपादाब्ज गणनातीतसद्गुण ॥ १८ ॥
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ॥
सर्वमायाप्रपञ्चज्ञ सर्वकर्माग्रपूजित ॥ १९ ॥
सर्वमङ्गलमाङ्गल्य जय त्वं सर्वमङ्गल ॥
अमङ्गलोपशमन महामङ्गलहेतुक ॥ 4.2.57.२० ॥
जय सृष्टिकृतां वन्द्य जय स्थितिकृतानत ॥
जय संहृतिकृत्स्तुत्य जयसत्कर्मसिद्धिद ॥ २१ ॥
सिद्धवन्द्यपदाम्भोज जयसिद्धिविधायक ॥
सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ॥२२॥
अशेषगुणनिर्माण गुणातीत गुणाग्रणी ॥
परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ॥ २३ ॥
जय सर्वबलाधीश बलाराति बलप्रद ॥
बलाकोज्ज्वल दन्ताग्र बालाबालपराकम ॥ २४ ॥
अनन्तमहिमाधार धराधर विदारण॥
दन्ताग्रप्रोतां दङ्नाग जयनागविभूषण॥ २५॥
ये त्वान्नमन्ति करुणामय दिव्य मूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः॥
तेषां सदैव हरसीहमहोपसर्गान्स्वर्गापवर्गमपि सम्प्रददासि तेभ्यः ॥ २६ ॥
ये विघ्नराज भवता करुणाकटाक्षैः सम्प्रेक्षिताः क्षितितले क्षणमात्रमत्र ॥
तेषां क्षयन्ति सकलान्यपिकिल्विषाणि लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि ॥ २७ ॥
ये त्वां स्तुवन्ति नतविघ्नविघातदक्ष दाक्षायणीहृदयपङ्कजतिग्मरश्मे ॥
श्रूयन्त एव त इह प्रथिता न चित्रं चित्रं तदत्र गणपा यदहो त एव ॥ २८ ॥
ये शीलयन्ति सततं भवतोङ्घ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ॥
संशीलिताङ्घ्रिकमला बहुभृत्यवर्गैर्भूपालभोग्यकमलां विमलां लभन्ते ॥ २९ ॥
त्वं कारणं परमकारणकारणानां वेद्योसि वेदविदुषां सततं त्वमेकः ॥
त्वं मार्गणीयमसि किञ्चन मूलवाचां वाचामगोचरचराचरदिव्यमूर्ते ॥ 4.2.57.३० ॥
वेदा विदन्ति न यथार्थतया भवन्तं ब्रह्मादयोपि न चराचर सूत्रधार ॥
त्वं हंसि पासि विदधासि समस्तमेकः कस्तेस्तुतिव्यतिकरो मनसाप्यगम्य ॥ ३१ ॥
त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरान्धकजलन्धरमुख्यकांश्च॥
कस्यास्ति शक्तिरिह यस्त्वदृतेपि तुच्छं वाञ्छेद्विधातु मिह सिद्धिदकार्यजातम् ॥ ३२ ॥
अन्वेषणे ढुण्ढिरयं प्रथितोस्तिधातुः सर्वार्थढुण्ढिततया तव ढुण्ढि नाम ॥
काशीप्रवेशमपि को लभतेत्र देही तोषं विना तव विनायकढुण्ढिराज ॥ ३३ ॥
ढुण्ढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी ॥
तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥ ३४ ॥
स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलिताङ्घ्रियुगलस्तु सचैलमाशु ॥
देवर्षिमानवपितॄनपि तर्पयित्वा ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ॥ ३५ ॥
सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगन्धबहुलैरनुलेपनैश्च ॥
सम्प्रीण्यकाशिनगरीफलदानदक्षं प्रोक्त्वाथ मां क इह सिध्यति नैव ढुण्ढे ॥ ३६ ॥
तीर्थान्तराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः ॥
दूरीकृतस्वहितघात्युपसर्गवर्गो ढुण्ढे लभेदविकलं फलमत्र काश्याम्॥ ३७ ॥
यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः ॥
नो तस्य जातु जगतीतलवर्ति वस्तु दुष्प्रापमत्र च परत्र च किञ्चनापि ॥ ३८ ॥
यो नाम ते जपति ढुण्ढिविनायकस्य तं वै जपन्त्यनुदिनं हृदि सिद्धयोष्टौ ॥
भोगान्विभुज्य विविधान्विबुधोपभोग्यान्निर्वाणया कमलया व्रियते स चान्ते ॥ ३९ ॥
दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुण्ढिराज ॥
काशीस्थिते रविकलं सफलं लभेत नैवान्यथा न वितथा मम वाक्कदाचित् ॥ 4.2.57.४० ॥
जाने विघ्नानसङ्ख्यातान्विनिहन्तुमनेकधा ॥
क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ॥ ४१ ॥
यानि यानि च रूपाणि यत्रयत्र च तेनघ ॥
तानि तत्र प्रवक्ष्यामि शृण्वन्त्वेते दिवौकसः ॥ ४२ ॥
प्रथमं ढुण्ढिराजोसि मम दक्षिणतो मनाक् ॥
-आढुण्ढ्य सर्वभक्तेभ्यः सर्वार्थान्सम्प्रयच्छसि ॥ ४३ ॥
अङ्गारवासरवतीमिह यैश्चतुर्थीं सम्प्राप्य मोदकभरैः परिमोदवद्भिः ॥
पूजा व्यधायि विविधा तव गन्धमाल्यैस्तानत्र पुत्रविदधामि गणान्गणेश ॥ ४४ ॥
ये त्वामिह प्रति चतुर्थि समर्चयन्ति ढुण्ढे विगाढमतयः कृतिनस्त एव ॥
सर्वापदां शिरसि वामपदं निधाय सम्यग्गजानन गजाननतां लभन्ते ॥ ४५ ॥
माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः ॥
ये त्वां ढुण्ढेर्चयिष्यन्ति तेऽर्च्याः स्युरसुरद्रुहाम् ॥४६॥
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ॥
शुक्लां शुक्लतिलैर्बद्ध्वा प्राश्नीयाल्लड्डुकान्व्रती ॥ ४७ ॥
कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ॥
तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे सर्वोपसर्गहृत् ॥ ४८ ॥
तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः ॥
उपसर्गसहस्रैस्तु स हन्तव्यो ममाज्ञया ॥ ४९ ॥
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ॥
तस्यां चतुर्थ्यां मन्त्रज्ञस्तस्य मन्त्रः प्रसेत्स्यति ॥ 4.2.57.५० ॥
वैदिकोऽवैदिको वापि यो मन्त्रस्ते गजानन ॥
जप्तस्त्वत्सन्निधौ ढुण्ढे सिद्धिं दास्यति वाञ्छिताम् ॥ ५१ ॥
॥ ईश्वर उवाच ॥
इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः ॥
न जातु तं तु विघ्नौघाः पीडयिष्यन्ति निश्चितम् ॥ ५२ ॥
ढौण्ढीं स्तुतिमिमां पुण्यां यः पठेड्ढुण्ढि सन्निधौ ॥
सान्निध्यं तस्य सततं भजेयुः सर्वसिद्धयः ॥ ५३ ॥
इमां स्तुतिं नरो जप्त्वा परं नियतमानसः ॥
मानसैरपि पापैस्तैर्नाभिभूयेत कर्हिचित्॥५४॥
पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमन्दिरम्॥
प्राप्नुयाच्च धनं धान्यं ढुण्ढिस्तोत्रं जपन्नरः ॥ ५५ ॥
सर्वसम्पत्करं नाम स्तोत्रमेतन्मयेरितम् ॥
प्रजप्तव्यं प्रयत्नेन मुक्तिकामेन सर्वदा ॥५६॥
जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः ॥
पुंसः पुरः समेष्यन्ति नियतं सर्वसिद्धयः ॥५७॥
अन्यच्च कथयाम्यत्र शृण्वन्त्वेते दिवौकसः ॥
ढुण्ढिना क्षेत्ररक्षार्थं यत्रयत्र स्थितिः कृता ॥ ५८ ॥
काश्यां गङ्गासि सम्भेदे नामतोर्कविनायकः ॥
दृष्टोर्कवासरे पुम्भिः सर्वतापप्रशान्तये ॥ ५९ ॥
दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः ॥
क्षेत्रस्य दक्षिणे भागे पूजनीयः प्रयत्नतः ॥ 4.2.57.६० ॥
भीमचण्डी समीपे तु भीमचण्डविनायकः ॥
क्षेत्रनैर्ऋतदेशस्थो दृष्टो हन्ति महाभयम् ॥ ६१ ॥
क्षेत्रस्य पश्चिमे भागे स देहलिविनायकः ॥
सर्वान्निवारयेद्विघ्नान्भक्तानां नात्र संशयः ॥ ६२ ॥
क्षेत्रवायव्यदिग्भागे उद्दण्डाख्यो गजाननः ॥
उद्दण्डानपि विघ्नौघान्भक्तानां दण्डयेत्सदा ॥ ६३ ॥
काश्याः सदोत्तराशायां पाशपाणिर्विनायकः ॥
विनायकान्पाशयति भक्त्या काशीनिवासिनाम् ॥ ६४ ॥
गङ्गावरणयोः सङ्गे रम्यः खर्वविनायकः ॥
अखर्वानपि विघ्नौघान्भक्तानां खर्वयेत्सताम् ॥ ६५ ॥
प्राच्यां तु क्षेत्ररक्षार्थं सिद्धः सिद्धिविनायकः ॥
पश्चिमे यमतीर्थस्य साधकक्षिप्रसिद्धिदः ॥ ६६ ॥
बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः ॥
उच्चाटयत्यभक्तांश्च भक्तानां सर्वसिद्धिदाः ॥ ६७ ॥
द्वितीयावरणे चैव ये रक्षन्ति विनायकाः ॥
अविमुक्तमिदं क्षेत्रं तानहं कथयाम्यतः ॥ ६८ ॥
स्वर्धुन्याः पश्चिमे कूले उत्तरेर्कविनायकात् ॥
लम्बोदरो गणाध्यक्षः क्षालयेद्विघ्नकर्दमम् ॥६९॥
तत्पश्चिमेकूटदन्त उदग्दुर्गविनायकात् ॥
दुर्गोपसर्गसंहर्ता रक्षेत्क्षेत्रमिदं सदा ॥ ॥ 4.2.57.७० ॥
भीमचण्ड गणाध्यक्षात्किञ्चिदीशानदिग्गतः ॥
क्षेत्ररक्षोगणाध्यक्षः पूज्यः शालकटङ्कटः ॥ ७१ ॥
प्राच्या देहलिविघ्नेशात्कूश्माण्डाख्यो विनायकः ॥
पूजनीयः सदा भक्तेर्महोत्पात प्रशान्तये ॥ ७२ ॥
उद्दण्डाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः ॥
महाप्रसिद्धः सम्पूज्यो भक्तैर्मुण्डविनायकः ॥ ७३ ॥
पाताले तस्य देहोस्ति मुण्डं काश्यां व्यवस्थितम ॥
अतः स गीयते काश्यां देवो मुण्डविनायकः ॥ ७४ ॥
पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम् ॥
पूजयित्वा गणपतिं गाणपत्यपदं लभेत् ॥ ७५ ॥
खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः ॥
भ्रष्टराज्यं च राजानं राजानं कुरुतेऽर्चितः ॥ ७६ ॥
गङ्गायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः ॥
अवाच्यां राजपुत्राच्च प्रणतः प्रणयेद्दिवम् ॥ ७७ ॥
द्वितीयावरणे काश्यामष्टावेते विनायकाः ॥
उत्सादयेयुर्विघ्नौघान्काशी स्थितिनिवासिनाम् ॥ ७८ ॥
क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा ॥
ये विघ्नराजाः सन्तीह ते वक्तव्या मयाधुना ॥ ७९ ॥
उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् ॥
लम्बोदरादुदीच्यां तु वक्रतुण्डोघसङ्घहृत् ॥ 4.2.57.८० ॥
कूटदन्ताद्गणपतेरुदीच्यामेकदन्तकः ॥
सदोपसर्गसंसर्गात्पायादानन्दकाननम् ॥ ८१ ॥
काशीभयहरो नित्यमैश्यां शालकटङ्कटात् ॥
त्रिमुखो नाम विघ्नेशः कपिसिंहद्विपाननः ॥८२॥
कूश्माण्डात्पूर्वदिग्भागे पञ्चास्यो नाम विघ्नराद् ॥
पञ्चास्यस्यन्दनवरः पाति वाराणसीं पुरीम् ॥ ८३ ॥
हेरम्बाख्यः सदाग्नेय्यां पूज्यो मुण्डविनायकात् ॥
अम्बावत्पूरयेत्कामान्सर्वेषां काशिवासिनाम् ॥ ८४ ॥
अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदन्ततः ॥
विघ्नराजं गणपतिं सर्वविघ्नविनाशनम् ॥ ८५ ॥
विनायकाद्राजपुत्रात्किञ्चिद्रक्षोदिशिस्थितः ॥
वरदाख्यो गणाध्यक्षः पूज्यो भक्तवरप्रदः ॥ ८६ ॥
याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः ॥
पूज्यः पिशङ्गिला तीर्थे देवनद्यास्तटे शुभे ॥ ८७ ॥
चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः ॥
द्रष्टव्या हृष्टचेतोभिः स्पष्टमष्टौ विनायकाः ॥ ८८ ॥
वक्रतुण्डादुदग्दिक्स्थः स्वःसिन्धो रोधसिस्थितः ॥
विनायकोस्त्यभयदः सर्वेषां भयनाशनः ॥ ८९ ॥
कौबेर्यामेकदशनात्सिंहतुण्डो विनायकः ॥
उपसर्गगजान्हन्ति वाराणसि निवासिनाम् ॥ 4.2.57.९० ॥
कूणिताक्षो गणाध्यक्षस्त्रितुण्डादीश दिक्स्थितः ॥
महाश्मशानं सततं पायाद्दुष्टकुदृष्टितः ॥ ९१ ॥
प्राच्यां पञ्चास्यतः पायात्पुरीं क्षिप्रप्रसादनः ॥
क्षिप्रप्रसादनार्चातः क्षिप्रं सिध्यन्ति सिद्धयः ॥ ९२ ॥
हेरम्बाद्वह्निदिग्भागे चिन्तामणि विनायकः ॥
भक्तचिन्तामणिः साक्षाच्चिन्तितार्थ समर्पकः ॥ ९३ ॥
विघ्नराजादवाच्यां तु दन्तहस्तो गणेश्वरः ॥
लिखेद्विघ्नसहस्राणि नृणां वाराणसीद्रुहाम् ॥ ॥ ९४ ॥
वरदाद्यातुधान्यां च यातुधानगणावृतः ॥
देवः पिचिण्डिलो नाम पुरीं रक्षेदहर्निशम् ॥ ९५ ॥
दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात् ॥
उद्दण्ड मुण्डो हेरम्बो भक्तेभ्यः किं न यच्छति ॥ ९६ ॥
प्राकारे पञ्चमे काश्यां द्विचतुष्क विनायकाः ॥
कुर्वन्ति रक्षां क्षेत्रस्य ये तानत्र ब्रवीम्यहम् ॥ ९७ ॥
तीरे स्वर्गतरङ्गिण्या उत्तरे चाभयप्रदात् ॥
स्थूलदन्तो गणेशानः स्थूलाः सिद्धीर्दिशेत्सताम् ॥ ९८ ॥
सिंहतुडादुदग्भागे कलिप्रिय विनायकः ॥
कलहं कारयेन्नित्यमन्योन्यं तैर्थिकद्रुहाम् ॥ ९९ ॥
कूणिताक्षात्तथैशान्यां चतुर्दन्तो विनायकः ॥
तस्य दर्शनमात्रेण विघ्नसङ्घः क्षयेत्स्वयम् ॥ 4.2.57.१०० ॥
क्षिप्रप्रसादनादैन्द्र्यां द्वितुण्डो गणनायकः ॥
अग्रतः पृष्ठतश्चापि बिभर्ति सदृशीं श्रियम् ॥ १ ॥
तस्य सन्दर्शनात्पुसां भवेच्छ्रीः सर्वतोमुखी ॥
ज्येष्ठो नाम गणाध्यक्षो ज्येष्ठो मे पुत्रसम्पदि ॥ २ ॥
ज्येष्ठशुक्लचतुर्दश्यां सम्पूज्यो ज्येष्ठताप्तये ॥
स्थितो वह्निदिशो भागे चिन्तामणि विनायकात् ॥ ३ ॥
दन्तहस्ताद्यमाशायां पूज्यो गजविनायकः ॥
तस्य सम्पूजनाद्भक्त्या गजान्ता श्रीरवाप्यते ॥ ४ ॥
पिचिण्डिलाद्गणपतेर्याम्यां कालविनायकः ॥
भयं न कालकलितं तस्य संसेवनान्नृणाम्॥ ५ ॥
उद्दण्डमुण्डाद्गणपात्की नाशदिशि संस्थितम् ॥
नागेशं गणपं दृष्ट्वा नागलोके महीयते ॥ ६ ॥
अथ षष्ठावरणगाः प्रोच्यन्ते विघ्ननायकाः ॥
तेषां नामश्रवादेव पुंसां सिद्धिः प्रजायते ॥ ७ ॥
मणिकर्णो गणपतिः प्राच्यां विघ्नविघातकृत् ॥
आशाविनायको वह्न्यां भक्ताशां पूरयन्स्थितः ॥ ८ ॥
याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ॥
नैर्ऋत्यां यक्षविघ्नेशः सर्वविघ्नहरः परः ॥ ९ [
प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः ॥
चित्रघण्टो गणपतिर्वायव्यां पालयेत्पुरीम् ॥ 4.2.57.११० ॥
स्थूलजङ्घउदीच्यां च शमयेच्छमिनामघम् ॥
ऐश्यामैशीपुरीं पायात्समङ्गलविनायकः ॥ ११ ॥
यमतीर्थादुदीच्यां च पूज्यो मित्रविनायकः ॥
सप्तमावरणे ये च तांश्च वक्ष्ये विनायकान् ॥ १२ ॥
मोदाद्याः पञ्चविघ्नेशाः षष्ठो ज्ञानविनायकः ॥
सप्तमो द्वारविघ्नेशो महाद्वारपुरश्चरः ॥ १३ ॥
अष्टमः सर्वकष्टौघानविमुक्तविनायकः ॥
अविमुक्ते मम क्षेत्रे हरेत्प्रणतचेतसाम् ॥१४॥
षट्पञ्चाशद्गजमुखानेतान्यः संस्मरिष्यति॥
दूरदेशान्तरस्थोपि स मृतो ज्ञानमाप्नुयात् ॥ १५ ॥
ढुण्ढिस्तुतिं महापुण्यां षट्पञ्चाशद्गजाननाम् ॥
यः पठिष्यति पुण्यात्मा तस्य सिद्धिः पदेपदे ॥ १६ ॥
इमे गणेश्वराः सर्वे स्मर्तव्या यत्र कुत्रचित् ॥
महाविपत्समुद्रान्तः पतन्तं पान्ति मानवम् ॥१७॥
इति स्तुतिं महापुण्यां श्रुत्वा चैतान्विनायकान् ॥
जातुविघ्नैर्नबाध्येत पापेभ्योपि प्रहीयते ॥ १८ ॥
इत्युक्त्वा देवदेवोपि महोत्सवितमानसः ॥
कृताभिषेको ब्रह्माद्यैस्तेभ्यो दत्त्वाभिवाञ्छितम्॥ १९ ॥
सम्प्रसाद्य यथायोगं सर्वानुचित चञ्चुरः ॥
अविशद्राजसदनं विश्वकर्मविनिर्मितम् ॥ 4.2.57.१२०
॥ स्कन्द उवाच ॥
एवं स्तुतो भगवता देवदेवेन विघ्नजित् ॥
इत्थं च बहुधात्मानं स चकार विनायकः ॥ २१ ॥
एतानि तस्य नामानि ढुण्ढिराजस्य कुम्भज ॥
जपित्वा यानि मनुजो लप्स्यते निजवाञ्छितम्॥ २२ ॥
अन्येपि तत्र वै भेदास्तस्य ढुण्ढेर्गणेशितुः ॥
भक्तैः समर्चिता भक्त्या ह्यसङ्ख्याताः सहस्रशः ॥ २३ ॥
भगीरथगणाध्यक्षो हरिश्चन्द्रविनायकः ॥
कपर्दाख्यो गणपतिस्तथा बिन्दुविनायकः ॥ २४ ॥
इत्याद्यास्तत्र विघ्नेशाः प्रतिभक्तप्रतिष्ठिताः ॥
तेषामप्यर्चनात्पुंसां जायन्ते सर्वसम्पदः ॥ २५ ॥
श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः ॥
सर्वविघ्नान्समुत्सृज्य लभते वाञ्छितं पदम् ॥ १२६ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे ढुण्ढिविनायकप्रादुर्भावो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७