०५६ प्रपञ्चः

॥स्कन्द उवाच॥ ॥
अथेशाज्ञां समादाय गजवक्त्रः प्रतस्थिवान् ॥
शम्भोः काश्यागमोपायं चिन्तयन्मन्दराद्रितः ॥ १ ॥
प्राप्य वाराणसीं तूर्णमाशु स्यन्दनगो विभुः ॥
वाडवीं मूर्तिमालम्ब्य प्राविशच्छकुनैः स्तुतः ॥ २ ॥
नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः ॥
चचार मध्ये नगरं पौराणां प्रीतिमावहन् ॥३॥
स्वयमेव निशाभागे स्वप्नं सन्दर्शयन्नृणाम् ॥
प्रातस्तेषां गृहान्गत्वा तेषां वक्ति बलाबलम् ॥ ४ ॥
भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम् ॥
भवत्कौतूहलोत्पत्त्यै तदेव कथयाम्यहम् ॥ ५ ॥
स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः ॥
अदर्शि तत्र च भवान्मज्जन्मज्जंस्तटङ्गतः ॥ ६ ॥
तदम्बुपिच्छिले पङ्के मग्नोन्मग्नोसि भूरिशः ॥
दुःस्वप्नस्यास्य च महान्विपाकोति भयप्रदः ॥ ७ ॥
काषायवसनो मुण्डः प्रैक्ष्यहो भवतापि यः ॥
परितापं महानेष जनयिष्यति दारुणम् ॥ ८ ॥
रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम् ॥
ऐन्द्रधनुर्द्वयं रात्रौ यदलोकि न तच्छुभम् ॥ ९ ॥
प्रतीच्यां रविरागत्य प्रोद्यन्तं व्योम्नि शीतगुम् ॥
पातयामास भूपृष्ठे तद्राज्यभयसूचकम् ॥ 4.2.56.१० ॥
युगपत्केतुयुगलं युध्यमानं परस्परम् ॥
यददर्शि न तद्भद्रं राष्ट्रभङ्गाय केवलम् ॥ ११ ॥
विशीर्यत्केशदशनं नीयमानं च दक्षिणे ॥
आत्मानं यत्समद्राक्षीः कुटुम्बस्यापि भीषणम् ॥ १२ ॥
प्रासादध्वजभङ्गोयस्त्वयैक्षत निशाक्षये ॥
राज्यक्षयकरं विद्धि महोत्पाताय निश्चितम् ॥ १३ ॥
नगरी प्लाविता स्वप्ने तरङ्गैः क्षीरनीरधेः ॥
पक्षैस्त्रिचतुरैः शङ्के महाशङ्कां पुरौकसाम् ॥ १४ ॥
स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम् ॥
अतस्तद्वञ्चनोपायः पुरत्यागो महामते ॥ १५ ॥
रुदती या त्वया दृष्टा महिलैका निशात्यये ॥
मुक्तकेशी विवसना सा नारी श्रीरिवोद्गता ॥ १६ ॥
देवालयस्य कलशो यत्त्वया वीक्षितः पतन् ॥
दिनैः कतिपयैरेव राज्यभङ्गो भविष्यति ॥ १७ ॥
पुरी परिवृता स्वप्ने मृगयूथैः समन्ततः ॥
रोरूयमाणैरत्यर्थं मासेनैवोद्वसी भवेत् ॥ १८ ॥
आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः ॥
सूच्यतेत्याहितं किञ्चिद्ध्रुवमत्र निवासिनाम् ॥१९॥
स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः ॥
बहूनुच्चाटयाञ्चक्रे स विघ्नेशः पुरौकसः ॥ 4.2.56.२० ॥
केषाञ्चित्पुरतो वादीद्ग्रहचारं प्रदर्शयन् ॥
एकराशिस्थिताः सौरि सितभौमा न शोभनाः ॥ २१ ॥
सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमण्डलम् ॥
प्रयातः पश्चिमामाशां स नाशाय विशाम्पतेः ॥ २२ ॥
अतिचारगतो मन्दः पुनर्वक्राध्व संस्थितः ॥
पापग्रहसमायुक्तो न युक्तोयमिहेष्यते ॥ २३ ॥
व्यतीते वासरे योयं भूकम्पः समपद्यत ॥
कम्पं जनयतेऽतीव हृदो मेपि पुरौकसः ॥ २४ ॥
उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता ॥
विलीना च वियत्येव स निर्घातं न सा शुभा ॥ २५ ॥
उन्मूलितो महामूलो महानिलरयेण यः ॥
चत्वरे चैत्यवृक्षोयं महोत्पातं प्रशंसति ॥ २६ ॥
सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि ॥
करटो रारटीत्येष कटूत्कट भयप्रदः ॥ २७ ॥
मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ ॥
मृगौ मृगयतां यातौ पौराणां पुरतोऽहितौ ॥२८॥
रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः ॥
महाकालभयं मन्येप्यकालेपि पुरौकसाम् ॥ २९ ॥
साध्वसञ्जनयित्वेति केचिदुच्चाटिताः पुरः ॥
तेन विघ्नकृतापौराः कपटद्विजरूपिणा॥ 4.2.56.३० ॥
अथ मध्येवरोधं स प्रविश्य निजमायया ॥
दृष्टार्थमेव कथयन्स्त्रीणां विस्रम्भभूरभूत् ॥३१॥
तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे ॥
तेष्वेकस्तुरगारूढो बाह्याल्यां पतितो मृतः ॥ ३२ ॥
अन्तर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम् ॥
एषा हि दुर्भगा पूर्वं साम्प्रतं सुभगाऽभवत् ॥ ३३ ॥
असौ हि राज्ञो राज्ञीनामत्यन्तमिहवल्लभा॥
मुक्तालङ्कृतिरेतस्यै राज्ञा दत्ता निजोरसः ॥ ३४ ॥
पञ्चसप्तदिनान्येव जातानीतीह तर्क्यते ॥
अस्यै राज्ञा प्रसादेन ग्रामौ दातुमुदीरितौ ॥ ३५॥
इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः ॥
वर्णयन्ति च ता राज्ञः परोक्षेपि गुणान्बहून् ॥ ३६ ॥
अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः ॥
सुशीलश्च सुरूपश्च सत्यवाङ्मितभाषणः ॥ ३७ ॥
अलोलुप उदारश्च सदाचारो जितेन्द्रियः ॥
अपि स्वल्पेन सन्तुष्टः प्रतिग्रहपराङ्मुखः ॥ ३८ ॥
जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवञ्चकः ॥
कृतज्ञः प्रीतिसुमुखः परिवादपराङ्मुखः ॥३९॥
पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ॥
शुचिः शुचिचरित्रश्च श्रुतिस्मृतिविशारदः ॥ ॥ 4.2.56.४० ॥
धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसम्मतः ॥
कलाकलापकुशलो ज्योतिःशास्त्रविदुत्तमः ॥ ४१ ॥
क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः ॥
इत्यादि गुणसम्पन्नः कोपि क्वापि न दृग्गतः ॥ ४२ ॥
इत्थं तास्तद्गुणग्रामं वर्णयन्त्यः पदेपदे ॥
कालं विनोदयन्ति स्म अन्तःपुरचराः स्त्रियः ॥ ४३॥
एकदावसरं प्राप्य दिवोदासस्य भूभुजः ॥
राज्ञी लीलावती नाम राज्ञे तं विन्यवेदयत् ॥ ४४ ॥
राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः ॥
एकोस्ति स तु द्रष्टव्यो मूर्तो ब्रह्मनिधिः परः ॥ ४५ ॥
राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम् ॥
आनिनाय च तं विप्रं ब्राह्मं तेज इवाङ्गवत् ॥ ४६ ॥
राजापि दूरादायान्तं त विलोक्यमहीसुरम् ॥
यत्राकृतिर्गुणास्तत्र जहर्षेति वदन्हृदि ॥ ४७ ॥
पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः ॥
चतुर्निगमजाभिः स तमाशीर्भिरनन्दयत् ॥ ४८ ॥
कृतप्रणामो राज्ञा स सादरं दत्तमासनम् ॥
भेजेथ कुशलं पृष्टः स राज्ञा तेन भूपतिः ॥ ४९ ॥
परस्परं कुशलिनौ कुशलौ च कथागमे ॥
प्रश्नोत्तराभ्यां सन्तुष्टौ द्विजवर्य क्षमाभृतौ ॥ 4.2.56.५० ॥
कथावसाने राज्ञाथ गेहं विससृजे द्विजः ॥
लब्धमानमहापूजः स स्वमाश्रममाविशत् ॥ ५१ ॥
गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः ॥
लीलावत्याः पुरो विप्रं वर्णयामास भूरिशः ॥ ५२ ॥
महादेवि महाप्राज्ञे लीलावति गुणप्रिये ॥
यथाशंसि तथा विप्रस्ततोपि गुणवत्तरः ॥ ५३ ॥
अतीतं वेत्ति सकलं वर्तमानमवैति च ॥
प्रष्टव्यः प्रातराहूय भविष्यं किञ्चिदेष वै ॥ ५४ ॥
महाविभव सम्भारैर्महाभोगैरनेकधा ॥
व्युष्टायां स नृपो रात्र्यां प्रातराहूतवान्द्विजम् ॥ ५५ ॥
सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः ॥
एकान्ते तं द्विजं राजा पप्रच्छ निजहृत्स्थितम् ॥५६॥
॥राजोवाच ॥ ॥
द्विजवर्यो भवानेकः प्रतिभातीति निश्चितम् ॥
यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः ॥५७॥
दृष्ट्वा त्वां तु महाप्राज्ञं शान्तं दान्तं तपोनिधिम् ॥
किञ्चित्प्रष्टुमना विप्र तदाख्याहि यथार्थवत् ॥ ५८ ॥
शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः ॥
यावद्भूति मया भुक्ता दिव्या भोगा अनेकधा ॥५९॥
निजौरसेभ्योप्यधिकं रात्रिन्दिवमतन्द्रितम् ॥
विनिर्जित्य हठाद्दुष्टान्प्रजेयं परिपालिता ॥4.2.56.६०॥
द्विजपादार्चनात्किञ्चित्सुकृतं वेद्मि नापरम् ॥
अनेनापरिकथ्येन कथितेनेह किं मम ॥ ६१ ॥
निर्विस्ममिव मे चेतः साम्प्रतं सर्वकर्मसु ॥
विचार्यार्य शुभोदर्कमत आख्याहि सत्तम ॥६२॥
॥ द्विज उवाच ॥ ॥
अपि स्वल्पतरं कृत्यं यद्भवेद्भूभुजामिह ॥
एकान्ते तत्तु पृष्टेन वक्तव्यं सुधिया सदा ॥ ६३ ॥
अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः ॥
महापमानभीतेन स्तोकमप्यत्र किञ्चन ॥ ६४ ॥
पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम् ॥
तत्कृते तव गन्ता वै मनो निर्वेदकारणम् ॥६५॥
शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम् ॥
विक्रान्तोस्यतिशूरोसि भाग्यवानसि सर्वदा ॥ ६६ ॥
पुण्येन यशसा बुद्ध्या सम्पन्नोस्ति भवान्यथा ॥
मन्ये तथामरावत्यां त्रिदशेशोपि नैव हि ॥ ६७ ॥
सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम् ॥
तेजसास्ति भवानर्कः प्रतापेनाशुशुक्षणिः ॥६८॥
प्रभञ्जनो बलेनासि श्रीदोसि श्रीसमर्पणैः ॥
शासनेन भवान्रुद्रो निर्ऋतिस्त्वं रणाङ्गणे ॥६९ ॥
दुष्टपाशयिता पाशी यमो नियमनेऽसताम् ॥
इन्दनात्त्वं महेन्द्रोसि क्षमया त्वमसि क्षमा ॥ 4.2.56.७० ॥
मर्यादया भवानब्धिर्महत्त्वे हिमवानसि ॥
भार्गवो राजनीत्यासि राज्येन मनुना समः ॥ ७१ ॥
सन्तापहर्ताम्बुदवत्पवित्रो गाङ्गनामवत् ॥
सर्वेषामेव जन्तूनां काशीव सुगतिप्रदः ॥७२॥
रुद्रः संहाररूपेण पालनेन चतुर्भुजः ॥
विधिवत्त्वं विधातासि भारती ते मुखाम्बुजे ॥ ७३ ॥
त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः ॥
अमृतं तव वागेव त्वद्भुजावश्विनीसुतौ ॥ ७४ ॥
तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि ॥
तस्मात्तव शुभोदर्को मया ज्ञातोस्ति तत्त्वतः ॥ ७५ ॥
आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि ॥
उदीच्यः कश्चिदागत्य ध्रुवं त्वामुपदेक्ष्यति॥७६॥
तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम् ॥
ततस्ते हृत्स्थितं सर्वं सेत्स्यत्येव महामते ॥ ७७ ॥
इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः ॥
विवेश स्वाश्रमं तुष्टो नृपोप्याश्चर्यवानभूत् ॥ ७८ ॥
इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता ॥
सपौरा सावरोधा च सनृपा निजमायया ॥ ७९ ॥
कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् ॥
विधाय बहुधात्मानं काश्यां स्थितिमवाप च ॥ 4.2.56.८० ॥
यदा स न दिवोदासः प्रागासीत्कुम्भसम्भव ॥
तदातनं निजं स्थानमलञ्चक्रे गणाधिपः ॥ ८१ ॥
दिवोदासे नरपतौ विष्णुनोच्चाटिते सति ॥
पुनर्नवीकृतायां च नगर्यां विश्वकर्मणा ॥ ८२ ॥
स्वयमागत्य देवेन मन्दरात्सुन्दरां पुरीम् ॥
वाराणसीं प्रथमतस्तुष्टुवे गणनायकम् ॥ ८३ ॥
॥ अगस्त्य उवाच ॥ ॥
कथं स्तुतो भगवता देवदेवेन विघ्नजित् ॥
कथं च बहुधात्मानं स चकार विनायकः ॥ ८४ ॥
केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः ॥
इति सर्वं समासेन कथयस्व षडानन ॥ ८५ ॥
इत्युदीरितमाकर्ण्य कुम्भयोनेः षडाननः ॥
यथावत्कथयामास गणराज कथां शुभाम् ॥ ८६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्द्धे गणेशमाया प्रपञ्चो नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥