०५५ गणेशप्रेषणम्

॥ स्कन्द उवाच ॥
अन्येपि ये गणास्तत्र काश्यां लिङ्गानि चक्रिरे ॥
तांश्च ते कथयिष्यामि कुम्भयोने निशामय ॥ १ ॥
गणेन पिङ्गलाख्येन पिङ्गलाख्येशसञ्ज्ञितम् ॥
लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदग्दिशि ॥२॥
तस्य दर्शनमात्रेण पापानां जायते क्षयः ॥
वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः ॥ ३ ॥
वीरभद्रेश्वरं लिङ्गं ध्यायेदद्यापि निश्चलः ॥
तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते ॥ ४ ॥
अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः ॥
समर्च्य न रणे भङ्गं कदाचिदपि चाप्नुयात् ॥ ५ ॥
वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने ॥
संहरेद्विप्रसङ्घातमविमुक्तनिवासिनाम ॥ ६ ॥
भद्रया भद्रकाल्या च भार्यया शुभया युतम् ॥
वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत् ॥ ७ ॥
किरातेन किरातेशं लिङ्गं काश्यां प्रतिष्ठितम् ॥
केदाराद्दक्षिणे भागे भक्तानामभयप्रदम् ॥ ८ ॥
चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ ॥
चतुर्मुखेश्वरं लिङ्गं ध्यायेदद्यापि निश्चलः ॥ ९ ॥
भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि ॥
पूज्यन्ते सुरसङ्घातैः सर्वभोगसमन्विताः॥ 4.2.55.१०॥
निकुम्भेश्वरमालोक्य निकुम्भगणपूजितम् ॥
पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् ॥
कुबेरेश समीपेतु शिवलोके महीयते ॥ ११ ॥
पञ्चाक्षेशं महालिङ्गं महादेवस्य दक्षिणे ॥
समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात् ॥ १२ ॥
भारभूतेश्वरं लिङ्गं भारभूतगणार्चितम्॥
अन्तर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत् ॥ १३ ॥
भारभूतेश्वरं लिङ्गं यैः काश्यां न विलोकितम् ॥
भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः ॥ १४ ॥
गणेन त्र्यक्षसञ्ज्ञेन लिङ्गं त्र्यक्षेश्वरं परम् ॥
त्रिलोचनपुरोभागे शील्येताद्यापि कुम्भज ॥ १५ ॥
तस्य लिङ्गस्य ये भक्तास्ते तु देहावसानतः ॥
त्र्यक्षा एव प्रजायन्ते नात्र कार्या विचारणा ॥ १६ ॥
क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् ॥
विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः ॥१७॥
क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् ॥
विघ्नास्तस्य प्रलीयन्ते क्षेमं स्याच्च पदेपदे ॥ १८ ॥
देशान्तरं गतो यस्तु तस्यागमनकाम्यया ॥
क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत् ॥१९॥
लाङ्गलीश्वरमालोक्य लिङ्गं लाङ्गलिनार्चितम् ॥
विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत् ॥4.2.55.२० ॥
लाङ्गलीशं सकृत्पूज्य पञ्चलाङ्गलदानजम् ॥
फलं प्राप्नोत्यविकलं सर्वसम्पत्करं परम् ॥ २१ ॥
विराधेश्वरमाराध्य विराधगणपूजितम्॥
सर्वापराधयुक्तोपि नापराध्यति कुत्रचित् ॥ २२ ॥
दिनेदिनेपराधो यः क्रियते काशिवासिभिः ॥
स याति सङ्क्षयं क्षिप्रं विराधेश समर्चनात् ॥ २३ ॥
नैर्ऋते दण्ढपाणस्तु विराधेशं प्रयत्नतः॥
नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः॥२४॥
सुमुखेशं महालिङ्गं सुमुखाख्यगणार्चितम् ॥
पश्चिमाभिमुखं लिङ्गं दृष्ट्वा पापैः प्रमुच्यते ॥ २५ ॥
स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च ॥
सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम् ॥ २६ ॥
आषाढिनार्चितं लिङ्गमाषाढीश्वरसञ्ज्ञकम् ॥
दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते ॥ २७ ॥
उदीच्यां भारभूतेशादाषाढीशं समर्चयन् ॥
आषाढ्यां पञ्चदश्यां वै न पापैः परितप्यते ॥ २८ ॥
शुचिशुक्लचतुर्दश्यां पञ्चदश्यामथापि वा ॥
कृत्वा सांवत्सरीं यात्रामनेना जायते नरः ॥ २९ ॥
॥ स्कन्द उवाच ॥ ॥
मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति ॥
स्वनाम्ना स्थाप्य लिङ्गानि विश्वेशपरितुष्टये ॥ ॥ 4.2.55.३० ॥
विश्वेशश्चिन्तयां चक्रे पुनः काशीप्रवृत्तये ॥
कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे ॥ ३१ ॥
योगिन्यस्तिग्मगुर्वेधाः शङ्कुकर्णमुखागणाः ॥
व्यावृत्त्यनागताः काश्याः सिन्धुगा इव सिन्धवः ॥ ३२ ॥
धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे ॥
तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव ॥ ३३ ॥
येषां हि संस्थितिः काश्यां लिङ्गार्चनरतात्मनाम् ॥
त एव मम लिङ्गानि जङ्गमानि न संशयः ॥ ३४ ॥
स्थावरा जङ्गमाः काश्यामचेतनसचेतनाः ॥
सर्वे ममैव लिङ्गानि तेभ्यो द्रुह्यन्ति दुर्धियः ॥ ३५ ॥
वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा ॥
त एव काशी लिङ्गानि वराण्यर्च्यान्यहं यथा ॥ ३६ ॥
वाराणसीति काशीति रुद्रावास इति स्फुटम् ॥
मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः ॥ ३७ ॥
आनन्दकाननं प्राप्य ये निरानन्दभूमिकाम् ॥
अन्यां हृदापि वाञ्छन्ति निरानन्दाः सदात्र ते ॥ ३८ ॥
अद्यैव वास्तुमरणं बहुकालान्तरेपि वा॥
कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित् ॥ ३९ ॥
अवश्यम्भाविनो भावा भविष्यन्ति पदेपदे ॥
सलक्ष्मीनिलयां काशीं ते त्यजन्ति कुतो धियः ॥ 4.2.55.४० ॥
वरं विघ्नसहस्राणि सोढव्यानि पदेपदे ॥
काश्यां नान्यत्र निर्विघ्नं वाञ्छेद्राज्यमपि क्वचित् ॥ ४१ ॥
कियन्निमेषसम्भोग्याः सन्ति लक्ष्म्याः पदेपदे ॥
परं निरन्तरसुखाऽमुत्राप्यत्रापि का शिका ॥ ४२ ॥
विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका ॥
सुधातरङ्गा स्वर्गङ्गा त्रय्येषा किन्न यच्छति ॥ ४३ ॥
पञ्चक्रोश्यापरिमिता तनुरेषा पुरी मम ॥
अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम् ॥ ४४ ॥
संसारभारखिन्नानां यातायातकृतां सदा ॥
एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका ॥ ४५ ॥
मण्डपः कल्पवल्लीनां मनोरथफलैरलम् ॥
फलितः काशिकाख्योयं संसाराध्वजुषां सदा ॥ ४६ ॥
चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् ॥
काशीनिर्वाणराजस्य ममशूलोच्च दण्डवत् ॥ ४७ ॥
निर्वाणलक्ष्मीं ये पुण्याः परिवाञ्छन्ति लीलया ॥
निरन्तरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः ॥ ४८ ॥
ममानन्दवने ये वै निरं तर वनौकसः ॥
मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभन्ति ते ॥४९॥
निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ॥
कैर्न संस्मरणीया सा काशी विश्वविमोहिनी॥ ॥ 4.2.55.५० ॥
नामापि मधुरं यस्याः परानन्दप्रकाशकम् ॥
काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते ॥ ५१ ॥
काशीनामसुधापानं ये कुर्वन्ति निरन्तरम् ॥
तेषां वर्त्म भवत्येव सुधाम वसुधामयम् ॥ ५२ ॥
ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् ॥
त एव मामका लोके ये काशीनाम जापकाः ॥ ५३ ॥
रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः ॥
सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा ॥ ५४ ॥
अन्यथा ताश्च योगिन्यः सरविः सपितामहः ॥
ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः ॥ ५५ ॥
अतीव भद्रं सञ्जातं काश्यां तिष्ठत्सु तेषु हि ॥
एकोपि भेद प्रभवेद्राज्ये राज्यान्तरं विना ॥ ५६ ॥
लब्धप्रवेशास्तावन्तस्ते सर्वे मत्स्वरूपिणः ॥
यतिष्यन्ति यतोवश्यं मदागमनहेतवे ॥५७॥
अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः ॥
ये ते तत्र स्थिताः श्रेष्ठा अपिगन्तास्म्यहं ततः ॥ ५८ ॥
विचार्येति महादेवः समाहूय गजाननम् ॥
प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत ॥ ५९ ॥
तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः ॥
निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ॥ 4.2.55.६० ॥
आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः ॥
प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे ॥६१॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे काशीवर्णन गणेशप्रेषणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥