स्कन्द उवाच ॥ ॥
कुम्भसम्भव वक्ष्यामि शृणोत्ववहितो भवान् ॥
कपर्दीशस्य लिङ्गस्य महामाहात्म्यमुत्तमम् ॥ १ ॥
कपर्दी नाम गणपः शम्भोरत्यन्तवल्लभः ॥
पित्रीशादुत्तरे भागे लिङ्गं संस्थाप्य शाम्भवम् ॥२॥
कुण्डं चखान तस्याग्रे विमलोदक सञ्ज्ञकम् ॥
यस्य तोयस्य संस्पर्शाद्विमलो जायते नरः ॥ ३ ॥
इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा ॥
यथावृत्तं कुम्भयोने श्रवणात्पातकापहम् ॥ ४ ॥
एकः पाशुपत श्रेष्ठो वाल्मीकिरिति सञ्ज्ञितः ॥
तपश्चचार स मुनिः कपर्दीशं समर्चयन् ॥ ५ ॥
एकदा स हि हेमन्ते मार्गे मासि तपोधनः ॥
स्नात्वा तत्र महातीर्थे मध्याह्ने विमलोदके ॥ ६ ॥
चकार भस्मना स्नानमापादतलमस्तकम् ॥
लिङ्गस्य दक्षिणेभागे कृतमाध्याह्निकक्रियः ॥ ७ ॥
न्यस्तमस्तकपांसुश्च सन्ध्यामाध्यात्मिकीं स्मरन् ॥
जपन्पञ्चाक्षरीं विद्यां ध्यायन्देवं कपर्दिनम् ॥ ८ ॥
कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम् ॥
हुडुङ्कृत्य हुडुङ्कृत्य हुडुङ्कृत्य त्रिरुच्चकैः ॥ ९ ॥
प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः ॥
गीतं विधाय सानन्दं सनृत्यं हस्तकान्वितम् ॥ 4.2.54.१० ॥
अङ्गहारैर्मनोहारि चारी मण्डलसंयुतम् ॥
क्षणं तत्र सरस्तीरे उपविष्टो महातपाः ॥ ११ ॥
अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम् ॥
शुष्कशङ्खकपोलास्यं निमग्ना पिङ्गलोचनम् ॥१२॥
रूक्षस्फुटितकेशाग्रं महालम्ब शिरोधरम् ॥
अतीव चिपिट घ्राणं शुष्कौष्ठमतिदन्तुरम् ॥ १३ ॥
महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम् ॥
प्रलम्बकर्णपालीकं पिङ्गलश्मश्रुभीषणम् ॥ ॥ १४ ॥
प्रलम्बित ललज्जिह्वमत्युत्कट कृकाटिकम् ॥
स्थूलास्थि जत्रु संस्थानं दीर्घस्कन्धद्वयोत्कटम् ॥ १५ ॥
निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम् ॥
विरलाङ्गुलिहस्ताग्रं नतपीन नखावलिम् ॥ १६ ॥
विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम् ॥
कटीतटेन विकटं निर्मांसत्रिकबन्धनम् ॥ १७ ॥
प्रलम्ब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम् ॥
दीर्घनिर्मांसलोरूकं स्थूलजान्वस्थिपञ्जरम् ॥ १८ ॥
अस्थिचर्मावशेषं च शिराजालितविग्रहम् ॥
शिरालं दीर्घजङ्घं च स्थूलगुल्फास्थिभीषणम् ॥ १९ ॥
अतिविस्तृत पादं च दीर्घवक्रकृशाङ्गुलिम् ॥
अस्थिचर्मावशेषेण शिराताडितविग्रहम् ॥ 4.2.54.२० ॥
विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम् ॥
दावदग्धद्रुमाकारमति चञ्चललोचनम्॥ २१ ॥
मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् ॥
हृदयाकम्पनं दृष्ट्वा तं प्रेतं वृद्धतापसः ॥
अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान्॥ २२ ॥
कुतस्त्वमिह सम्प्राप्तः कस्मात्ते गतिरीदृशी ॥
अनुक्रोशधियारक्षः पृच्छामि वद निर्भयम् ॥ २३ ॥
अस्माकं तापसानां च न भयं त्वद्विधान्मनाक् ॥
शिवनामसहस्राणां विभूतिकृतवर्मणाम् ॥ २४ ॥
तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम् ॥
निशम्य प्राञ्जलिः प्राह तं कृपालुं तपोधनम् ॥ २५ ॥
॥ राक्षस उवाच ॥
अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम ॥
स्ववृत्तान्तं तदा वच्मि शृणुष्वावहितः क्षणम् ॥ २६ ॥
प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे ॥
तीर्थप्रतिग्रहरुचिस्तत्रासं ब्राह्मणस्त्वहम् ॥ २७ ॥
तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम् ॥
मरुस्थले महाघोरे तरुतोयविवर्जिते ॥ २८ ॥
गतो बहुतरः कालस्तत्र मे वसतो मुने ॥
क्षुधितस्य तृषार्तस्य शीततापसहस्य च ॥ २९ ॥
वर्षत्यपि महामेघे धारासारैर्दिवानिशम् ॥
प्रावृट्कालेऽनिले वाति किञ्चित्प्रावरणं न मे ॥ 4.2.54.३० ॥
पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः ॥
त इमां योनिमृच्छन्ति महादुःख निबन्धनीम् ॥ ३१ ॥
गते बहुतिथे काले मरुभूमौ मुने मया ॥
दृष्टो ब्राह्मणदायाद एकदा कश्चिदागतः ॥ ३२ ॥
सूर्योदयमनुप्राप्य सन्ध्याविधिविवर्जितः ॥
कृत्वा मूत्रपुरीषे तु शौचाचमनवर्जितः ॥ ३३ ॥
मुक्तकच्छमशौचं च सन्ध्याकर्मविवर्जितम् ॥
तं दृष्ट्वा तच्छरीरेहं सङ्क्रान्तो भोगलिप्सया ॥ ३४ ॥
स द्विजो मन्दभाग्यान्मे केनचिद्वणिजा सह ॥
अर्थलोभेन सम्प्राप्तः पुरीं पुण्यामिमां मुने ॥३५॥
अन्तःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम ॥
तच्छरीराद्बहिर्भूतस्त्वहं पापैः समं क्षणात् ॥३६॥
प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे ॥
महतां पातकानां च वाराणस्यां शिवाज्ञया ॥३७॥
अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया ॥
बहिरेव हि तिष्ठन्ति सीम्नि प्रमथसाध्वसात् ॥३८॥
अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति ॥
इत्याशया स्थिताः स्मो वै यावदद्य तपोधन ॥ ३९ ॥
नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः ॥
इत्यास्महे निराधारा आशापाश नियन्त्रिताः ॥ 4.2.54.४० ॥
चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय ॥
अतीव भावि कल्याणमिति मन्येऽधुनैव हि ॥ ४१ ॥
आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम्॥
आहारकाम्यया क्वापि परं नो किञ्चिदाप्नुमः ॥ ४२ ॥
सन्ति सर्वत्र फलिनः पादपाः प्रतिकाननम् ॥
जलाशयाश्च स्वच्छापाः सन्ति भूम्यां पदेपदे ॥ ४३ ॥
अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो ॥
पानान्यपि विचित्राणि सन्ति भूयांसि सर्वतः ॥ ४४ ॥
परं नो दृग्गतान्येव दूरे दूरे व्रजन्त्यहो ॥
दैवादद्यैकमायान्तं दृष्ट्वा कार्पटिकं मुने ॥४५॥
तस्यान्तिकमहं प्राप्तः क्षुधया परिपीडितः ॥
प्रसह्य भक्षयाम्येनमिति मत्वा त्वरान्वितः ॥ ४६ ॥
यावत्तं तु जिघृक्षामि तावत्तद्वदनाम्बुजात् ॥
शिवनामपवित्रा वाङ्निरगाद्विघ्नहारिणी ॥ ४७ ॥
शिवनामस्मरणतो मदीयमपि पातकम् ॥
मन्दीभूतं ततस्तेन प्रवेशं लब्धवानहम् ॥ ४८ ॥
सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः ॥
शिवनामश्रुतौ येषां तान्न पश्येद्यमोपि यत् ॥ ४९ ॥
अन्तर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना ॥
स तु कार्पटिको मध्यं प्रविष्टोहमिहस्थितः ॥ 4.2.54.५० ॥
आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने ॥
मामुद्धर कृपालो त्वं योनेरस्मात्सदारुणात् ॥ ५१ ॥
इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः ॥
मनसा चिन्तयामास धिङ्निजार्थोद्यमान्नरान् ॥ ५२ ॥
स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः ॥
स एव धन्यः संसारे यः परार्थोद्यतः सदा ॥५३॥
तपसाद्य निजेनाहं प्रेतमेतमघातुरम्॥
मामेव शरणं प्राप्तमुद्धरिष्याम्यसंशयम् ॥ ५४ ॥
विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः ॥
विमलोदे सरस्यस्मिन्स्नाहि रे पापनुत्तये ॥ ५५ ॥
पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः ॥
कपर्दीशेक्षणादद्य क्षणात्क्षीणं विनङ्क्ष्यति ॥ ५६ ॥
श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम्॥
प्रीतात्मा प्रीतमनसं प्रबद्धकरसम्पुटः ॥५७॥
पानीयं पातुमपि नो लभेयं मुनिसत्तम ।
स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः ॥५८॥
पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः ॥
इति प्रेतोक्तमाकर्ण्य स भृशं प्रीतिमानभूत् ॥ ५९ ॥
उवाच च तपस्वी तं जगदुद्धरणक्षमः ॥
गृहाणेमां विभूतिं त्वं ललाटफलके कुरु ॥ 4.2.54.६० ॥
अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित् ॥
बाधा करोति कस्यापि महापातकिनोप्यहो ॥६१ ॥
भालं विभूतिधवलं विलोक्य यमकिङ्कराः ॥
पापिनोपि पलायन्ते भीताः पाशुपतास्त्रतः ॥ ६२ ॥
अस्थिध्वजाङ्कितं दृष्ट्वा यथा पान्था जलाशयम् ॥
दूरं यन्ति तथा भस्म भालाङ्कं यमकिङ्कराः ॥ ६३ ॥
कृतभूति तनुत्राणं शिवमन्त्रैर्नरोत्तमम् ॥
नोपसर्पन्ति नियतमपि हिंस्राः समन्ततः ॥ ६४ ॥
भक्त्या बिभर्ति यो भस्म शिवमन्त्रपवित्रितम् ॥
भाले वक्षसि दोर्मूले न तं हिंसन्ति हिंसकाः ५५ ॥
सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम् ॥
रक्षत्येषा ततः प्रोक्ता विभूतिर्भूतिकृद्यतः ॥ ६६ ॥
भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः ॥
पापानां क्षारणात्क्षारो बुधेरेवं निरुच्यते ॥ ६७ ॥
गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत् ॥
सोप्यादरात्समादाय भालदेशे न्यवेशयत् ॥ ६८ ॥
विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः ॥
जलावगाहनपरं वारयाञ्चक्रिरे न तम् ॥ ६९ ॥
स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् ॥.
तावत्पैशाच्यमगमद्दिव्यदेहमवाप च ॥ 4.2.54.७०॥
दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः ॥
दिव्ययानं समारुह्य वर्त्म प्राप्तोथ पावनम् ॥ ७१ ॥
गच्छता तेन गगने स तपस्वी नमस्कृतः ॥
प्रोच्चैः प्रोवाच भगवन्मोचितोस्मि त्वयानघ ॥ ७२ ॥
तस्मात्कदर्ययोनित्वादतीव परिनिन्दितात् ॥
अस्य तीर्थस्य माहात्म्याद्दिव्यदेहमवाप्तवान् ॥७३॥
पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया ॥
अन्येषामपि पैशाच्यमिदं स्नानाद्धरिष्यति ॥७४॥
अस्मिंस्तीर्थे महापुण्ये ये स्नास्यन्तीह मानवाः ॥
पिण्डांश्च निर्वपिष्यन्ति सन्ध्यातर्पणपूर्वकम् ॥ ७५ ॥
दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः ॥
तेपि पैशाच्यमुत्सृज्य यास्यन्ति परमां गतिम् ॥ ७६॥
अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे ॥
अत्र स्नानादिकं कार्यं पैशाच्यपरिमोचनम ॥७७ ॥
इमां सांवत्सरीं यात्रां ये करिष्यन्ति मानवाः ॥
तीर्थप्रतिग्रहात्पापान्निःसरिष्यन्ति ते नराः॥७८॥
पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च ॥
कृत्वा तत्रान्नदानं च नरोन्यत्रापि निर्भयाः ॥ ७९ ॥
मार्गशुक्लचतुर्दश्यां कपर्दीश्वर सन्निधौ ॥
स्नात्वान्यत्रापि मरणान्न पैशाच्यमवाप्नुयुः ॥ 4.2.54.८० ॥
इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम् ॥
तपोधनं महाभागो दिव्यां गतिमवाप्तवान् ॥८१॥
तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव ॥
कपर्दीश्वरमाराध्य कालान्निर्वाणमाप्तवान् ॥ ८२ ॥
पिशाचमोचनं तीर्थं तदारभ्य महामुने ॥
वाराणस्यां परां ख्यातिमगमत्सर्वपापहृत् ॥ ॥ ८३ ॥
पैशाचमोचने तीर्थे सम्भोज्य शिवयोगिनम् ॥
कोटिभोज्यफलं सम्यगेकैक परिसङ्ख्यया ॥ ८४ ॥
श्रुत्वाध्यायमिमं पुण्यं नरो नियतमानसः ॥
भूतैः प्रेतैः पिशाचैश्च कदाचिन्नाभिभूयते ॥ ८५ ॥
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥
पठनीयं प्रयत्नेन महाख्यानमिदं परम् ॥ ८६ ॥
इदमाख्यानमाकर्ण्य गच्छन्देशान्तरं नरः ॥
चोरव्याघ्रपिशाचाद्यैर्नाभिभूयेत कुत्रचित् ॥ ८७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्द्धे पिशाचमोचनमहिमाकथनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥