॥ अगस्तिरुवाच ॥ ॥
अपूवेंयं कथा ख्याता ब्रह्मणो ब्रह्मवित्तम ॥
किं चकार पुनः शम्भुस्तत्र ब्रह्मण्यपि स्थिते ॥ १ ॥
॥ स्कन्द उवाच ॥
शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते ॥
गिरिशश्चिन्तयामास भृशमुद्विग्नमानसः ॥ २ ॥
पुरी सा यादृशी काशी वशीकरणभूमिका ॥
न तादृशीदृशीहासीत्क्वचिन्मे प्रायशो ध्रुवम् ॥ ३ ॥
यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति ॥
अभूवन्ननुयोगिन्योऽयोगिन्यः काशिसङ्गताः ॥ ४ ॥
अकिञ्चित्करतां प्राप्तः स सहस्रकरोप्यरम् ॥
विधिर्विधानदक्षोपि न मे स सविधोभवत् ॥ ५ ॥
चिन्तयन्निति देवेशो गणानारहूय भूरिशः ॥
प्रेषयामास भो यात क्षिप्रं वाराणसीं पुरीम् ॥६॥
किं कुर्वन्ति तु योगिन्यः किं करोति स भानुमान् ॥
गत्वा वित्त त्वरायुक्ता विधिश्च विदधाति किम् ॥ ७ ॥
नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम्॥
शङ्कुकर्ण महाकाल घटाकर्ण महोदर ॥८॥
सोमनन्दिन्नन्दिषेण काल पिङ्गल कुक्कुट ॥
कुण्डोदर मयूराक्ष बाण गोकर्ण तारक ॥ ९ ॥
तिलपर्ण स्मृलकर्ण दृमिचण्ड प्रभामय ॥
सुकेश विन्दते छाग कपर्दिन्पिङ्गलाक्षक ॥ 4.2.53.१० ॥
वीरभद्र किराताख्य चतुर्मुख निकुम्भक ॥
पञ्चाक्षभारभूताख्य त्र्यक्ष क्षेमक लाङ्गलिन्॥११॥
विराध सुमुखाषाढे भवन्तो मम सूनवः ॥
यथेमौ स्कन्दहेरम्बौ नैगमेयो यथा त्वयम् ॥१२॥
यथा शाखविशाखौ च यथेमौ नन्दिभृङ्गिणौ ॥
भवत्सु विद्यमानेषु महाविक्रमशालिषु ॥ १३ ॥
काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च ॥
योगिन्यर्कविधीनां च तद्द्वौ यातं भवत्स्वमू ॥ १४ ॥
शङ्कुकर्णमहाकालौ कालस्यापि प्रकम्पनौ ॥
ज्ञातुं वाराणसीवार्तामायातं चत्वरान्वितौ ॥ १५ ॥
कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम् ॥
शङ्कुकर्णमहाकालौ विस्मृत्य शाम्भवीं गिरम् ॥ १६ ॥
यथैन्द्रजालिकीं दृष्ट्वा मायामिह विचक्षणः ॥
क्षणेन मोहमायाति काशीं वीक्ष्य तथैव तौ ॥ १७ ॥
अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः ॥
निर्वाणराशिं यत्काशीं प्राप्य यान्त्यन्यतोऽबुधाः ॥ १८ ॥
तत्यजे यैरियं काशी महाशीर्वादभूभिका ॥
तेषां करतलान्मुक्तिः प्राप्तापि परितो गता ॥ १९ ॥
यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते ॥
अप्युष्णीकृतपानीयैस्तां काशीं कः परित्यजेत् ॥ 4.2.53.२० ॥
यत्रैकपुष्पदानेन शिवलिङ्गस्य मूर्धनि ॥
दशसौवर्णिकं पुण्यं कस्तां काशीं परित्यजेत् ॥ २१ ॥
यत्र दण्डप्रणामेन अप्येकेन शिवाग्रतः ॥
तुच्छमेन्द्रपदम्प्राहुस्तां काशीं को विमुञ्चति ॥ २२ ॥
यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया ॥
वाजपेयाधिकं पुण्यं तां काशीं को विमुञ्चति ॥ २३ ॥
एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै ॥
लभेदयुत गोपुण्यं कस्तां काशीं त्यजेत्सुधीः ॥ २४ ॥
एकलिङ्गं प्रतिष्ठाप्य यत्र संस्थापितं भवेत् ॥
अपि त्रैलोक्यमखिलं तां काशीं कः समुज्झति ॥ २५ ॥
परिनिश्चित्य तावित्थं लिङ्गे संस्थाप्य पुण्यदे ॥
तत्रैव संस्थितिं प्राप्तौ काशीं नाद्यापि मुञ्चतः ॥ २६ ॥
शङ्कुकर्णेश्वरं लिङ्गं शङ्कुकर्ण ग णार्चितम् ॥
दृष्ट्वा न जायते जन्तुर्जातु मातुर्महोदरे ॥ २७ ॥
विश्वेशाद्वायुदिग्भागे शङ्कुकर्णेश्वरं नरः ॥
सम्पूज्य न विशेदत्र घोरे संसारसागरे ॥ २८ ॥
महाकालेश्वरं लिङ्गं महाकालगणार्चितम् ॥
अर्चयित्वा च नत्वा च स्तुत्वा कालभयं कुतः ॥ २९ ॥
॥ स्कन्द उवाच ॥ ॥
शङ्कुकर्णे महाकाले चिरन्तन विलम्बिते ॥
ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ ॥ 4.2.53.३० ॥
घण्टाकर्ण त्वमागच्छ महोदर महामते ॥
काशीं यातं युवां तूर्णं ज्ञातुं तत्रत्य चेष्टितम् ॥३१॥
इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम्॥
व्यावृत्याद्यापि नो यातौ क्वापि तत्रैव संस्थितौ ॥ ३२ ॥
घण्टाकर्णेश्वरं लिङ्गं घण्टाकर्ण गणोत्तमः ॥
काश्यां संस्थाप्य विधिवत्स्वयं तत्रैव निर्वृतः ॥ ३३ ॥
कुण्डं तत्रैव संस्थाप्य लिङ्गस्नपनकर्मणे ॥
नाद्यापि स त्यजेत्काशीं ध्यायल्ँलिङ्गं तथैव हि ॥ ३४ ॥
महोदरोपि तत्प्राच्यां शिवध्यानपरायणः ॥
महोदरेश्वरं लिङ्गं ध्यायेदद्यापि कुम्भज ॥ ३५ ॥
महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम ॥
कदाचिदपि वै मातुः प्रविशेन्नौदरीं दरीम् ॥ ॥ ३६ ॥
घण्टाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम् ॥
यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत्॥३७॥
घण्टाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः ॥
अपि दुर्गतिमापन्नानुद्धरेत्सप्तपूर्वजान् ॥ ३८ ॥
निमज्ज्याद्यापि तत्कुण्डे क्षण योवहितो भवेत् ॥
विश्वेश्वरमहापूजा घण्टारावाञ्शृणोति सः ॥३९॥
वदन्ति पितरः काश्यां घण्टाकर्णेमलेजले॥
दाता तिलोदकस्यापि वंशे नः कोपि जायते॥4.2.53.४०॥
यद्वंश्या मुनयः काश्यां घण्टाकर्णे महाह्रदे॥
कृतोदकक्रियाः प्राप्ताः परां सिद्धिं घटोद्भव ॥४१॥
॥ स्कन्द उवाच॥ ॥
घण्टाकर्णे गणे याते प्रयाते च महोदरे ॥
विसिस्माय स्मरद्वेष्टा मौलिमान्दोलयन्मुहुः ॥४२॥
उवाच च मनस्येव हरः स्मित्वा पुनःपुनः ॥
महामोहनविद्यासि काशि त्वां पर्यवैम्यहम् ॥ ४३ ॥
पुराविदः प्रशंसन्ति त्वां महामोहहारिणीम् ॥
काशीन्त्विति न जानन्ति महामोहनभूरियम् ॥ ४४ ॥
प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति ॥
इति सम्यग्विजानामि काशि त्वां मोहनोषधिम् ॥ ४९ ॥
तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः ॥
नोद्यमाद्विरमन्तीह ज्ञानिनः साध्यकर्मणि ॥ ४६ ॥
नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः ॥
प्रतिकूलोपि खिद्येत विधिस्तत्सततोद्यमात् ॥ ४७ ॥
शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोङ्गणे ॥
गतिं न त्यजतोद्यापि प्रक्रान्तव्य कृतोद्यमौ ॥ ४८ ॥
एकत्र हन्ति कार्याणि प्रातिकूल्याद्विधिर्मुहुः ॥
एकत्रकरणीयानि सेत्स्यन्त्यत्र भृशोद्यमात् ॥ ४९ ॥
दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः ॥
तन्निराकरणे यत्नः स्वयं कार्यो विपश्चिता ॥ 4.2.53.५० ॥
भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत् ॥
हस्तवक्त्रोद्यमात्तच्च प्रविशेदौदरीं दरीम् ॥ ५१ ॥
इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम् ॥
पुनश्च प्रेषयाञ्चक्रे गणान्पञ्चमहारयान् ॥ ५२ ॥
सोमनन्दी नन्दिषेणः कालपिङ्गलकुक्कुटाः ॥
तेद्यापि न निवर्तन्ते काश्यां जीवामृता यथा ॥५३॥
तेपि स्वनाम्ना लिङ्गानि शम्भुसन्तुष्टि काम्यया॥
प्रतिष्ठाप्य स्थिताः काश्यां विश्वनिर्वाणजन्मनि ॥ ५४ ॥
सोमनन्दीश्वरं दृष्ट्वा लिङ्गं नन्दवने परम् ॥
सोमलोके परानन्दं प्राप्नुयाद्भक्तिमान्नरः ॥ ५५ ॥
तदुत्तरे विलोक्याथ नन्दिषेणेश्वरं नरः ॥
आनन्दसेनां सम्प्राप्य जयेन्मृत्युमपि क्षणात् ॥ ५६ ॥
कालेश्वरं महालिङ्गं गङ्गायाः पश्चिमोत्तरे ॥
प्रणम्य कालपाशेन नो बध्येत कदाचन ॥ ॥ ५७ ॥
पिङ्गलेश्वरमभ्यर्च्य कालेशात्किञ्चिदुत्तरे ॥
लभते पिङ्गलज्ञानं येन तन्मयतां व्रजेत् ॥ ५८ ॥
कुक्कुटेश्वर लिङ्गस्य येत्र भक्तिं वितन्वते ॥
कुक्कुटाण्डाकृतेस्तस्य न ते गर्भमवाप्नुयुः ॥ ५९ ॥
॥ स्कन्द उवाच ॥ ॥
सोमनन्दि प्रभृतिषु मुने पञ्चगणेष्वपि ॥
आनन्दकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत् ॥ 4.2.53.६० ॥
कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते ॥
अनेनोपाधिनाप्येते तत्र तिष्ठन्तु मामकाः ॥ ६१ ॥
प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि ॥
अहमेव प्रविष्टोस्मि वाराणस्यां न संशयः ॥ ६२ ॥
क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः ॥
तत्र सर्वेषु यातेषु ततो यास्याम्यहं पुनः ॥ ६३ ॥
सम्प्रधार्येति हृदये देवदेवेन शूलिना ॥
प्रैषिष्ट प्रमथानां तु ततो गणचतुष्टयम् ॥ ६४ ॥
कुण्डोदरो मयूराख्यो बाणो गोकर्ण एव च ॥
मायाबलं समाश्रित्य काशीं प्रविविशुर्गणाः ॥ ६५ ॥
कृत्वोपायशतं तैस्तु दिवोदासस्य सम्भ्रमे
यदैकोपि समर्थो न तदा तत्रैव संस्थितम् ॥६६॥
अपराधशतेष्वीशः केन तुष्यति कर्मणा ॥
सम्प्रधार्येति ते चक्रुर्लिङ्गाराधनमुत्तमम् ॥ ६७ ॥
एकस्मिञ्शाम्भवे लिङ्गे विधिनात्र समर्चिते ॥
क्षमेत्त्र्यक्षोपराधानां शतं मोक्षं च यच्छति ॥६८॥
न तुष्यति तथा शम्भुर्यज्ञदानतपोव्रतैः ॥
यथा तुष्येत्सकृल्लिङ्गे विधिनाभ्यर्चिते सति ॥ ६९ ॥
लिङ्गार्चनविधानज्ञो लिङ्गार्चनरतः सदा ॥
त्र्यक्ष एव स विज्ञेयः साक्षाद्द्व्यक्षोपि मानवः ॥ 4.2.53.७० ॥
न गोशतप्रदानेन न स्वर्णशतदानतः ॥
तत्फलं लभ्यते पुम्भिर्यत्सकृल्लिङ्गपूजनात् ॥ ७१ ॥
अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते ॥
यत्फलं लभ्यते मर्त्यैर्नित्यं लिङ्गप्रपूजनात् ॥ ७२ ॥
स्नापयित्वा विधानेन यो लिङ्गस्नपनोदकम् ॥
त्रिः पिबेत्त्रिविधं पापं तस्येहाशु प्रणश्यति ॥ ७३ ॥
लिङ्ग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् ॥
गङ्गास्नानफलं तस्य जायतेत्र विपाप्मनः ॥ ७४ ॥
लिङ्गं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत् ॥
सन्देहो जायते तस्य पुनर्देहनिबन्धने ॥ ७५ ॥
लिङ्गं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात् ॥
मुच्यते नात्र सन्देहो विशुद्धः स्वर्गभाग्भवेत् ॥ ॥ ७६ ॥
विचार्येति गणैः काश्यां स्वामिद्रोहोपशान्तये ॥
प्रतिष्ठितानि लिङ्गानि महापातकभिन्द्यपि ॥ ७७ ॥
कुण्डोदरेश्वरं लिङ्गं दृष्ट्वा लोलार्कसन्निधौ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥७८॥
कुण्डोदरेश्वराल्लिङ्गात्प्रतीच्यामसिरोधसि ॥
मयूरेश्वरमभ्यर्च्य न गर्भं प्रतिपद्यते ॥७९॥
मयूरेशप्रतीच्यां च लिङ्गं बाणेश्वरं महत् ॥
तस्य दर्शनमात्रेण सर्वैः पापैः प्रमुच्यते ॥ 4.2.53.८० ॥
गोकर्णेशं महालिङ्गमन्तर्गेहस्य पश्चिमे ॥
द्वारे समर्च्य वै काश्यां न विघ्नैरभिभूयते ॥ ८१ ॥
गोकर्णेश्वर भक्तस्य पञ्चत्व समये सति ॥
ज्ञानभ्रंशो न जायेत क्वचिदप्यन्तमृच्छतः ॥८२॥
॥ स्कन्द उवाच ॥ ॥
चिरयत्सुगणेष्वेषु चतुर्ष्वपिगणेश्वरः ॥
महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत् ॥ ८३ ॥
वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम्॥
ध्रुवं मूर्तिमती सैषा काशी विश्वैकमोहिनी ॥ ८४ ॥
अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ॥
अप्यङ्गीकृत्य निधनं सर्वे काशीमुपासते ॥ ८५॥
मरणादपि नो काश्यां भयं यत्र मनागपि ॥
गणास्तत्र तु तिष्ठन्तः कुतो मत्तोपि बिभ्यति ॥ ८६ ॥
मरणं मङ्गलं यत्र विभूतिर्यत्र भूषणम् ॥
कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ॥ ८७ ॥
निर्वाणरमणी यत्र रङ्कं वाऽरङ्कमेव वा ॥
ब्राह्मणं वा श्वपाकं वा वृणीते प्रान्त्यभूषणम् ॥ ८८ ॥
मृतानां यत्र जन्तूनां निर्वाणपदमृच्छताम् ॥
कोट्यंशेनापि न समा अपि शक्रादयः सुराः ॥ ८९ ॥
यत्र काश्यां मृतो जन्तुर्ब्रह्मनारायणादिभिः ॥
प्रबद्ध मूर्धाञ्जलिभिर्नमस्येतातियत्नतः ॥ 4.2.53.९० ॥
यत्र काश्यां शवत्वेपि जन्तुर्नाशुचितां व्रजेत् ॥
अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम् ॥ ९१ ॥
यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान् ॥
अपि सर्वपवित्रेभ्यः स पवित्रतरो महान् ॥ ९२ ॥
येन काशी हृदि ध्याता येन काशीह सेविता ॥
तेनाहं हृदि सन्ध्यातस्तेनाहं सेवितः सदा ॥ ९३ ॥
काशीं यः सेवते जन्तुर्निर्विकल्पेन चेतसा ॥
तमहं हृदये नित्यं धारयामि प्रयत्नतः ॥ ९४ ॥
स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम् ॥
अप्येकमपि मूल्येन स वस्तुःफलभाग्ध्रुवम् ॥ ९५ ॥
काश्यां वसन्ति ये धीरा आपञ्चत्व विनिश्चयाः ॥
जीवन्मुक्तास्तु ते ज्ञेया वन्द्याः पूज्यास्त एव हि ॥ ९६ ॥
इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान् ॥
गणानन्यान्समाहूय प्राहिणोत्प्रीतिपूर्वकम् ॥ ॥९७॥
तारकत्वं समागच्छ गच्छाति स्वच्छमानस ॥
दिवोदासो वृषावासो यामधीष्टे वरां पुरीम् ॥९८॥
तिलपर्ण स्धूलकर्ण दृमिचण्ड प्रभामय ॥
सुकेश विन्दते छाग कपर्दिन्पिङ्गलाक्षक ॥९९॥
वीरभद्र किराताख्य चतुर्मुख निकुम्भक ॥
पञ्चाक्ष भारभूताख्य त्र्यक्ष क्षेमकलाङ्गलिन् ॥ 4.2.53.१०० ॥
विराध सुमुखाषाढे यान्तु सर्वे पृथक्पृथक् ॥
एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ॥१॥
कृत्वा माया बहुविधा बहुरूपा विचक्षणाः॥
अनिमेषेक्षणास्तस्थुः क्षोणीशच्छिद्रकाङ्क्षिणः ॥२॥
अपरुज्ञात तच्छिद्रा विद्रावितयशोधनाः॥
आः किमेतदहोजातं निनिन्दुः स्वमितीह ते ॥३॥
गणा ऊचुः ॥ ॥
धिगस्मान्स्वामिना नित्यं कृतसम्भावनान्मुहुः ॥
मनुष्यमात्रमप्यत्र यैरेकं न वशीकृतम् ॥ ४ ॥
बहुमानेन दानेन सौहार्देन महीयसा ॥
कृतप्रसादांस्त्र्यक्षेण धिङ्नस्तत्कार्यवञ्चकान् ॥५॥
का गतिर्नो भवित्रीह स्वामिकृत्यप्रमादिनाम् ॥
अन्धं तमोमये लोके ध्रुवं वासो भविष्यति ॥ ६ ॥
अकृतस्वामिकार्याणामहो जीवितधारिणाम्॥
अक्षतेन्द्रियवृत्तीनां दुर्गतिश्च पदे पदे ॥ ७ ॥
लब्धसम्भावनानां च न्यक्कृतस्वामिकर्मणाम् ॥
भृत्यानां भूरिभाजां च भङ्गुराः स्युर्मनोरथाः ॥ ८ ॥
अनिष्पादितकार्यार्था ये मुखं प्रेक्षयन्त्यहो ॥
अपत्रपाः पुरो भर्तुस्तैर्भूर्भारवतीत्वियम्॥९॥
नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् ॥
भूतधात्र्यास्तथा भारो यथा स्वामिद्रुहां महान् ॥ 4.2.53.११० ॥
अहो पौराणिकी गाथा स्मृतास्माभिरनिन्दिता ॥
तदर्थमवलम्ब्येह स्थास्यामः कृतनिश्चयाः ॥ ११ ॥
अनाकलितपुण्यानां परिक्षीणधनायुषाम् ॥
सर्वोपायविहीनानां गतिर्वाराणसीपुरी ॥ १२ ॥
अपुण्यभारखिन्नानां पश्चात्तापमुपेयुषाम्॥
विष्वगूर्ध्वगतीनां च गतिर्वाराणसीपुरी ॥ १३ ॥
स्वामिद्रुहः कृतघ्नाश्च ये च विश्रम्भघातकाः ॥
तेषां क्वापि गतिर्नास्ति मुक्त्वा वाराणसीं पुरीम् ॥ १४ ॥
इत्थं निश्चित्य गाथार्थं प्रमथा अवतस्थिरे ॥
अविज्ञातस्वरूपाश्च दिवोदासेन भूभुजा ॥ ॥ १५ ॥
न बुबोध स भूपालो नितरां बुद्धिमानपि ॥
विबुधान्विविधाकारैः स्थितानीशप्रभावतः ॥ १६ ॥
चित्रं न चित्रगुप्तोपि वेत्ति वाराणसीस्थितान्॥
जन्तून्का गणनान्येषां मर्त्यलोकनिवासिनाम् ॥ १७ ॥
अविच्छिन्न प्रभावाणामपरिच्छिन्न तेजसाम् ॥
कृतलिङ्गप्रतिष्ठानां नान्तं प्राप्नोति धर्मराट् ॥ १८ ॥
इति ते प्रमथाः सर्वे घटोद्भव महामुने ॥
कृतलिङ्गार्चनाः काशीं नाद्याप्युज्झन्ति शर्मदाम् ॥ १९ ॥
तारकेशं महालिङ्गं तारकाख्यो गणोत्तमः ॥
तारकज्ञानदं पुंसां मुनेऽद्यापि समर्चयेत् ॥ 4.2.53.१२० ॥
तारकेश्वरलिङ्गस्य कृत्वा भक्तिसुनिश्चलाम् ॥
सुखेन तारकज्ञानं लभ्यते तैर्नरोत्तमैः ॥२१॥
तिलपर्णेश्वरं लिङ्गं तिलपर्ण प्रतिष्ठितम् ॥
तिलप्रमाणमप्यत्र दृष्ट्वा पापं न सम्भवेत् ॥ २२ ॥
स्थूलकर्णेश्वरं लिङ्गं परिपूज्य नरोत्तमः ॥
न दुर्गतिमवाप्नोति पुण्यमाप्नोति चोत्तमम् ॥ ॥ २३ ॥
दृमिचण्डेश्वरं लिङ्गं तथा लिङ्गं प्रभामयम् ॥
आराध्य तत्प्रतीच्यां च न पापैरभिभूयते ॥ २४॥
प्रभामयेश्वरं लिङ्गं दृष्ट्वान्यत्रापि संस्थितः ॥
प्रभामयेन यानेन शिवलोके व्रजेत्सुधीः ॥ २५ ॥
सुकेशेश्वरमभ्यर्च्य हरिकेशवने नरः ॥
षाट्कौशिकमयं देहं धारयेन्न पुनःपुनः ॥ २६ ॥
विन्दतीशं नरोभ्यर्च्य भीमचण्डी समीपतः ॥
त्यक्त्वा प्रचण्डमप्येनो मोक्षं विन्दति शाश्वतम् ॥ २७ ॥
छागलेशं महालिङ्गं पित्रीश्वरसमीपगम् ॥
विलोक्य पशुवत्कोपि न पापं प्राकृतं स्पृशेत् ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वाराणसीवर्णनं गणप्रेषणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥