०५२ दशाश्वमेधवर्णनम्

स्कन्द उवाच ॥ ॥
गभस्तिमालिनिगते काशीं त्रैलोक्यमोहिनीम् ॥
पुनश्चिन्तामवापोच्चैर्मन्दरस्थो मुने हरः ॥ १ ॥
नाद्याप्यायान्ति योगिन्यो नाद्याप्यायाति तिग्मगुः ॥
प्रवृत्तिरपि मे काश्याश्चित्रमत्यन्त दुर्लभा ॥२॥
किमत्र चित्रं यत्काशी मदीयमपिमानसम् ॥
निश्चलं चञ्चलयति गणना केतरेसुरे ॥३॥
अधाक्षिपमहं कामं त्रिजगज्जित्त्वरन्दृशा ॥
अहो काश्यभिलाषोत्र मामेव दुनुयात्तराम्॥४॥
काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः ॥
ज्ञातुं क एव निपुणो यतः स चतुराननः ॥ ५ ॥
इत्याहूय विधातारं बहुमानपुरःसरम् ॥
तत्रोपवेश्य श्रीकण्ठः प्रोवाच चतुराननम् ॥ ६ ॥
योगिन्यः प्रेषिताः पूर्वं प्रेषितोथ सहस्रगुः ॥
नाद्यापि ते निवर्तन्ते काश्याः कलशसम्भव ॥ ७ ॥
सा समुत्सुकयेत्काशी लोकेश मम मानसम् ॥
प्राकृतस्य जनस्येव चञ्चलाक्षीव काचन ॥ ८ ॥
मन्दरेत्र रतिर्मे न भृशं सुन्दरकन्दरे ॥
अनच्छतुच्छपानीये नक्रस्येवाल्पपल्वले ॥ ९ ॥
ना बाधिष्ट तथा मां स तापो हालाहलोद्भवः ॥
काशीविरहजन्मात्र यथा मामतिबाधते ॥ 4.2.52.१० ॥
शीतरश्मिः शिरःस्थोपि वर्षन्पीयूषसीकरैः ॥
काशीविश्लेषजं तापं नाहो गमयितुं प्रभुः ॥ ११ ॥
विधे विधेहि मे कार्यमार्य धुर्य महामते ॥
याहि काशीमितस्तूर्णं यतस्व च ममेहिते ॥ १२ ॥
ब्रह्मंस्त्वमेव तद्वेत्सि काशी त्यजनकारणम् ॥
मन्दोपि न त्यजेत्काशीं किमु यो वेत्ति किञ्चन ॥१३॥
अद्यैव किं न गच्छेयं काशीं ब्रह्मन्स्वमायया ॥
दिवोदासं स्वधर्मस्थं न तूल्लङ्घितुमुत्सहे ॥ १४॥
विधे सर्वविधेयानि त्वमेव विदधासि यत् ॥
इति चेति च वक्तव्यं त्वय्यपार्थमतोखिलम् ॥१५॥
अरिष्टं गच्छ पन्थास्ते शुभोदर्को भवत्वलम्॥
आदायाज्ञां विधि मूर्ध्नि ययौ वाराणसीं मुदा ॥१६॥
सितहंसरथस्तूर्णं प्राप्य वाराणसीं पुरीम् ॥
कृतकृत्यमिवात्मानममन्यत तदात्मभूः ॥ ॥ १७ ॥
हंसयानफलं मेद्य जातं काशीसमागमे ॥
काशी प्राप्तौ यतः प्रोक्ता अन्तरायाः पदेपदे ॥ १८ ॥
दृशि धातुरभूद्य मदृशो प्राप्य सान्वयः ॥
स्पष्टं दृष्टिपथं प्राप्ता यदेषाऽऽनन्दवाटिका ॥ १९ ॥
स्वयं सिञ्चति या मद्भिः स्वाभिः स्वर्गतरङ्गिणी ॥
यत्रानन्दमया वृक्षा यत्रानन्दमया जनाः॥ 4.2.52.२० ॥
निर्विशन्ति सदा काश्यां फलान्यानन्दवन्त्यपि॥
सदैवानन्दभूः काशी सदैवानन्ददः शिवः ॥ २१ ॥
आनन्दरूपा जायन्ते तेन काश्यां हि जन्तवः ॥
चरणौ चरितुं वित्तस्तावेव कृतिनामिह ॥ ॥ २२ ॥
चरणौ विचरेतांयौ विश्वभर्तृ पुरी भुवि ॥
तावेव श्रवणौ श्रोतुं संविदा ते बहुश्रुतौ ॥ २३ ॥
इह श्रुतिमतां पुंसां याभ्यां काशी श्रुता सकृत् ॥
तदेव मनुते सर्वं मनस्त्विह मनस्विनाम ॥ २४ ॥
येनानुमन्यते चैषा काशी सर्वप्रमाणभूः ॥
बुद्धिर्बुध्यति सा सर्वमिह बुद्धिमतां सताम् ॥
ययैतद्धूर्जटेर्धाम धृतं स्व विषयीकृतम् ॥ २५ ॥
वरं तृणानि धान्यानि तानि वात्याहतान्यपि ॥
काश्यां यान्या पतन्तीह न जनाः काश्यदर्शनाः ॥ २६ ॥ ।
अद्य मे सफलं चायुः परार्धद्वय सम्मितम् ॥
यस्मिन्सति मया प्रापि दुष्प्रापा काशिका पुरी ॥ २७ ॥
अहो मे धर्मसम्पत्तिरहोमे भाग्यगौरवम् ॥
यदद्राक्षिषमद्याहं काशीं सुचिर चिन्तिताम् ॥ २८ ॥
अद्य मे स्वतपो वृक्षो मनोरथफलैरलम् ॥
शिवभक्त्यम्बुना सिक्तः फलितोति बृहत्तरैः ॥ २९ ॥
मया व्यधायि बहुधा सृष्टिः सृष्टिं वितन्वता ॥
परमन्यादृशी काशी स्वयं विश्वेश निर्मितिः॥ 4.2.52.३० ॥
इति हृष्टमना वेधा दृष्ट्वा वाराणसीं पुरीम् ॥
वृद्धब्राह्मणरूपेण राजानं च ददर्श ह ॥ ३१ ॥
जलार्द्राक्षतपाणिश्च स्वस्त्युक्त्वा पृथिवीभुजे ॥
कृतप्रणामो राज्ञाथ भेजे तद्दत्तमासनम् ॥३२॥
कृतमानो नृपतिना सोभ्युत्थानासनादिभिः ॥
विप्रो व्यजिज्ञपद्भूपं पृष्टागमनकारणम् ॥ ३३ ॥
॥ ब्राह्मण उवाच ॥ ॥
भूपाल बहुकालीनोस्म्यहमत्र चिरन्तनः ॥
त्वं तु मां नैव जानासि जाने त्वां हि रिपुञ्जयम् ॥ ॥ ३४ ॥
परःशता मया दृष्टा राजानो भूरिदक्षिणाः ॥
विजितानेकसङ्ग्रामा यायजूका जितेन्द्रियाः ॥ ३५ ॥
विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः ॥
श्रुतस्यपारदृश्वानो राजनीतिविचक्षणाः ॥ ३६ ॥
दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः ॥
क्षमया क्षमयातुल्या गाम्भीर्यजितसागराः ॥ ३७ ॥
जितरोषरयाः शूराः सौम्यसौन्दर्यभूमयः ॥
इत्यादि गुणसम्पन्नाः सुसञ्चितयशोधनाः ॥३८॥
परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः ॥
तेष्वेषु राजसु मम प्रायशो न दृशं गताः ॥ ३९ ॥
प्रजानिजकुटुम्बस्त्वं त्वं तु भूदेवदैवतः ॥
महातपः सहायस्त्वं पथानान्ये तथा नृपाः ॥ 4.2.52.४० ॥
धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः ॥
देवा अपि दिवोदास त्वत्त्रासान्न विमार्गगाः ॥ ४१ ॥
किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम् ॥
किं कुर्मस्त्वद्गुणग्रामाः स्तावकान्नः प्रकुर्वते ॥४२॥
गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि साम्प्रतम् ॥
यष्टुकामोस्म्यहं राजंस्त्वां सहायमतो वृणे ॥४३॥
त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम् ॥
अहं चास्तिधनो राजन्न्यायोपात्तमहाधनः ॥४४॥
इयं च राजधानी ते कर्मभूमावनुत्तमा ॥
यस्यां कृतानां कार्याणां संवर्तेपि न सङ्क्षयः ॥४९॥
सञ्चितं यद्धनं पुम्भिर्नयसन्मार्गगामिभिः ॥
तत्काश्यां विनियुज्येत क्लेशायेतरथा भवेत् ॥४६॥
महिमानं परं काश्याः कोपि वेद न भूपते ॥
ऋते त्रिनयनाच्छम्भोः सर्वज्ञानप्रदायिनः ॥४७॥
मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः ॥
सुकृतैः पासि यत्काशीं विश्वभर्तुः परां तनुम् ॥ ४८॥
काशी त्रिजगतीसारस्त्रिवेदी सार एव वै ॥
त्रिवर्गोत्तरसारश्च निर्णीतेति महर्षिभिः ॥ ४९॥
विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी ॥
एकस्याप्यवनात्काश्यां त्रैलोक्यमवितं भवेत् ॥4.2.52.५०॥
अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ ॥
प्रीणनीयः सदैवैको विश्वेशः सर्वकर्मभिः ॥ ५१ ॥
अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित् ॥
ब्रह्मविष्ण्विन्द्र चन्द्रार्का क्रीडेयं तस्य धूर्जटेः ॥ ॥ ५२ ॥
विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः ॥
अतस्तव हितं ख्यातं किं वा मे चिन्तयानया ॥ ५३ ॥
इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः ॥
सर्वं मया हृदि धृतं यत्त्वयोक्तं द्विजोत्तम ॥ ५४ ॥
॥ राजोवाच ॥ ॥
अहं यियक्षमाणस्य तव साहाय्यकर्मणि ॥
दासोस्मि यज्ञसम्भारान्नयमेको शतोऽखिलान् ॥ ५५ ॥
यदस्ति मेखिलं तत्र सप्ताङ्गेपि भवान्प्रभुः ॥
यजस्वैकमनाब्रह्मन्सिद्धं मन्यस्व वाञ्छितम् ॥ ५६ ॥
राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि ॥
पुत्रैः कलत्रैर्देहेनपरोपकृतये यते ॥ ५७॥
राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समन्ततः ॥
प्रजापालनमेवैको धर्मः प्रोक्तो मनीषिभिः ॥ ५८ ॥
प्रजासन्तापजोवह्निर्वज्राग्नेरपि दारुणः ॥
द्वित्रान्दहति वज्राग्निः पूर्वो राज्यं कुलं तनुम् ॥ ५९ ॥
यदावभृथसिस्रासुर्भवेयं द्विजसत्तम ॥
तदा विप्रपदाम्भोभिरभिषेकं करोम्यहम् ॥ 4.2.52.६० ॥
हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम ॥
मन्ये क्रतुक्रियाभ्योपि तद्विशिष्टं महामते ॥६१॥
अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे ॥
अद्यापि मार्गणः कोपि द्रष्टव्यः स्वतनोरपि ॥ ६२ ॥
अहो अहोभिर्बहुभिः फलितो मे मनोरथः ॥
यत्त्वं मेद्य गृहे प्राप्तः किञ्चित्प्रार्थयितुं द्विज ॥ ६३ ॥
एकाग्रमानसो विप्र यज्ञान्विपुलदक्षिणान् ॥
बहून्यजकृतं विद्धि साहाय्यं सर्ववस्तुषु ॥ ६४ ॥
इति राज्ञो महाबुद्धेर्धर्मशीलस्य भाषितम् ॥
श्रुत्वा तुष्टमनाः स्रष्टा क्रतुसम्भारमाहरत् ॥ ६५ ॥
साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ॥
इयाज दशभिः काश्यामश्वमेधैर्महामखैः ॥६६ ॥
अद्यापि होमधूमोघैर्यद्व्याप्तं गगनान्तरम् ॥
तदा प्रभृति न व्योम नीलिमानं जहात्यदः ॥ ६७ ॥
तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले ॥
तदा प्रभृति तत्रासीद्वाराणस्यां शुभप्रदम् ॥ ६८ ॥
पुरा रुद्रसरो नाम तत्तीर्थं कलशोद्भव ॥
दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात् ॥ ६९ ॥
स्वर्धुन्यथ ततः प्राप्ता भगीरथसमागमात् ॥
अतीव पुण्यवज्जातमतस्तत्तीर्थमुत्तमम् ॥4.2.52.७०॥
विधिर्दशाश्वमेधेशं लिङ्गं संस्थाप्य तत्र वै॥
स्थितवान्न गतोद्यापि क्वापि काशीं विहाय तु ॥ ७१ ॥
राज्ञो धर्मरतेस्तस्य च्छिद्रं नावाप किञ्चन ॥
अतः पुरारेः पुरतो व्रजित्वा किं वदेद्विधिः ॥ ७२ ॥
क्षेत्रप्रभावं विज्ञाय ध्यायन्विश्वेश्वरं शिवम् ॥
ब्रह्मेश्वरं च संस्थाप्य विधिस्तत्रैव संस्थितः ॥ ७३ ॥
परातनुरियं काशी विश्वेशस्येति निश्चितम् ॥
अस्याः संसेवनाच्छम्भुर्न कुप्यति पुरो मयि ॥ ७४ ॥
कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेह ते ॥
अनेकजन्मजनितकर्मनिर्मूलनक्षमाम् ॥ ७५ ॥
विश्वसन्तापसंहर्तुः स्थाने विश्वपतेस्तनुः ॥
सन्ताप्यतेतरां काश्या विश्लेषज महाग्निना ॥ ७६ ॥
प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशिनीम्॥
नृपशुः स परिज्ञेयो महासौख्यपराङमुखः ॥ ७७ ॥
निर्वाणलक्ष्मीं यः काङ्क्षेत्त्यक्त्वा संसारदुर्गतिम् ॥
तेन काशी न सन्त्याज्या यद्याप्तैशादनुग्रहात् ॥ ७८ ॥
यः काशीं सम्परित्यज्य गच्छेदन्यत्र दुर्मतिः ॥
तस्य हस्ततलाद्गच्छेच्चतुर्वर्गफलोदयः ॥ ७९ ॥
निबर्हणी मधौघस्य सुपुण्य परिबृंहिणीम् ॥
कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम्॥ 4.2.52.८० ॥
सत्यलोके क्व तत्सौख्यं क्व सौख्यं वैष्णवे पदे ॥
यत्सौख्यं लभ्यते काश्यां निमेषार्धनिषेवणात् ॥ ८१ ॥
वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति ॥
व्यावृत्य मन्दरगिरिं न पुनः प्रत्यगान्मुने ॥८२॥
॥ स्कन्द उवाच ॥ ॥
मित्रावरुणयोः पुत्र महिमानं ब्रवीमि ते ॥ ॥
काश्यां दशाश्वमेधस्य सर्वतीर्थशिरोमणेः ॥ ८३ ॥
दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम् ॥
यत्किञ्चित्क्रियते कर्म तदक्षयमिहेरितम् ॥ ८४ ॥
स्नानं दानं जपो होमः स्वाध्यायो दे वतार्चनम् ॥
सन्ध्योपास्तिस्तर्पणं च श्राद्धं पितृसमर्चनम्॥८५॥
दशाश्वमेधिके तीर्थे सकृत्स्नात्वा नरोत्तमः ।९।
दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते ॥८६॥
ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ॥
दशाश्वमेधिके स्नात्वा मुच्यते जन्मपातकैः ॥ ८७ ॥
ज्येष्ठे शुक्ल द्वितीयायां स्नात्वा रुद्रसरोवरे ॥
जन्मद्वयकृतं पापं तत्क्षणादेव नश्यति ॥ ८८ ॥
एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः ॥
आशुक्लपक्षदशमि प्रतिजन्माघमुत्सृजेत् ॥ ८९ ॥
तिथिं दशहरां प्राप्य दशजन्माघहारिणीम् ॥
दशाश्वमेधिके स्नातो यामीं पश्येन्न यातनाम् ॥4.2.52.९०॥
लिङ्गं दशाश्वमेधेशं दृष्ट्वा दशहरा तिथौ ॥
दशजन्मार्जितैः पापैस्त्यज्यते नात्र संशयः ॥ ९१ ॥
स्नातो दशहरायां यः पूजयेल्लिङ्गमुत्तमम् ॥
भक्त्या दशाश्वमेधेशं न तं गर्भदशा स्पृशेत् ॥९२॥
ज्येष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः ॥
कुर्वन्वै वार्षिकीं यात्रां न विघ्नैरभिभूयते॥९३॥
दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते ॥
दशाश्वमेधे तन्नूनं स्नात्वा दशहरा तिथौ ॥ ९४ ॥
स्वर्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ॥
न दुर्दशामवाप्नोति पुमान्पुण्यतमः क्वचित् ॥ ९५ ॥
यत्काश्यां दक्षिणद्वारमन्तर्गेहस्य कीर्त्यते ॥
तत्र ब्रह्मेश्वरं दृष्ट्वा ब्रह्मलोके महीयते ॥ ९६ ॥
इति ब्राह्मणवेषेण वाराणस्यां महाधिया ॥
द्रुहिणेन स्थितं तावद्यावद्विश्वेश्वरागमः ॥ ९७ ॥
दिवोदासोपि राजेन्द्रो वृद्धब्राह्मणरूपिणे ॥
ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकल्पयत्॥ ९८ ॥
ब्रह्मेश्वरसमीपे तु ब्रह्मशाला मनोहरा ॥
ब्रह्मा तत्रावसद्व्योम ब्रह्मघोषैर्निनादयन् ॥ ९९ ॥
इति ते कथितो ब्रह्मन्महिमातिमहत्तरः ॥
दशाश्वमेधतीर्थस्य सर्वाघौघविनाशनः ॥ 4.2.52.१०० ॥
श्रुत्वाध्यायमिमं पुण्यं श्रावयित्वा तथैव च ॥
ब्रह्मलोकमवाप्नोति श्रद्धया मानवोत्तमः ॥ १०१ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुर्थे काशीखण्डे दशाश्वमेधवर्णनन्नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥