॥ अथ श्रीकाशीखण्डोत्तरार्धं प्रारभ्यते ॥
श्रीगणेशाय नमः ॥
॥ अगस्तिरुवाच ॥ ॥
पार्वती हृदयानन्द सर्वज्ञाङ्गभव प्रभो ॥
किञ्चित्प्रष्टुमनाः स्वामिंस्तद्भवान्वक्तुमर्हति ॥ १ ॥
दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः ॥
गरुत्मतः प्रसूः साध्वी कुतो दास्यमवाप सा ॥ २ ॥
॥ स्कन्द उवाच ॥ ॥
हञ्जिकात्वं यथा प्राप्ता विनता सा तपस्विनी ॥
तदप्यहं समाख्यामि निशामय महामते ॥ ३ ॥
कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा ॥
उलूकमरुणं तार्क्ष्यमसूत विनता त्रयम् ॥ ४ ॥
कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने ॥
निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ॥ ५ ॥
क्रूराक्षोयं दिवान्धोयं सदा वक्रनखस्त्वसौ ॥
अतीवोद्वेगजनकं सर्वेषामस्य भाषणम् ॥ ६ ॥
इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः ॥
नाद्यापि वृण्वते राज्ये कमपि स्वैरचारिणः ॥ ७ ॥
कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा ॥
अण्डं प्रस्फोटयामास मध्यमं विनता तदा ॥ ८ ॥
पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसम्भव ॥
तदभेदितयौत्सुक्यादण्डमष्टमके शते ॥ ९ ॥
तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः ॥
ऊर्वोरुपरिसिद्धानि दण्डान्तर्निवासिनः ॥ 4.2.51.१० ॥
अण्डान्निर्गतमात्रेण क्रोधारुणमुखश्रिया ॥
अर्धनिष्पन्नदेहेन शिशुना शापिता प्रसूः ॥ ११ ॥
जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया ॥
खेलतो मातुरुत्सङ्गे यदण्डं व्याधित द्विधा ॥ १२ ॥
तदनिष्पन्न सर्वाङ्गः शपामि त्वा विहङ्गमे ॥
तेषामेवैधि दासी त्वं सपत्न्यङ्ग भुवामिह ॥ १३ ॥
वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी ॥
अनूरो ब्रूहि मे शापावसानं मातुरङ्गज ॥ १४ ॥
॥ अनूरुरुवाच ॥
अण्डं तृतीयं मा भिन्धि ह्यनिष्पन्नं ममेव हि ॥
अस्मिन्नण्डे भविष्यो यः स ते दास्यं हरिष्यति ॥ १५ ॥
इत्युक्त्वा सोरुणोगच्छदुड्डीयानन्दकाननम् ॥
यत्र विश्वेश्वरो दद्यादपि पङ्गोः शुभां गतिम्॥ १६ ॥
एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्॥
मुने प्रसङ्गतो वच्मि अरुणादित्यसम्भवम् ॥ १७ ॥
अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः ॥
वाराणस्यां तपस्तप्त्वा तेनाराधि दिवाकरः ॥ १८ ॥
सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे ॥
आदित्यस्तस्य नाम्नाभूदरुणादित्य इत्यपि ॥ १९ ॥
॥ अर्क उवाच ॥
तिष्ठानूरो मम रथे सदैव विनतात्मज ॥
जगतां च हितार्थाय ध्वान्तं विध्वंसयन्पुरः ॥ 4.2.51.२० ॥
अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यन्ति मानवाः ॥
वाराणस्यां महादेवोत्तरे तेषां कुतो भयम् ॥ २१ ॥
येर्चयिष्यन्ति सततमरुणादित्यसञ्ज्ञकम् ॥
मामत्र तेषां नो दुःखं न दारिद्र्यं न पातकम्॥ २२ ॥
व्याधिभिर्नाभिभूयन्ते नो पसर्गैश्च कैश्चन ॥
शोकाग्निना न दह्यन्ते ह्यरुणादित्यसेवनात् ॥ २३ ॥
अथ स्यन्दनमारोप्य नीतवानरुणं रविः ॥
अद्यापि स रथे सौरे प्रातरेव समुद्यति ॥ २४ ॥
यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने ॥
अरुणाय ससूर्याय तस्य दुःखभयं कुतः ॥ २५ ॥
अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः ॥
न तस्य दुष्कृतं किञ्चिद्भविष्यति कदाचन ॥ २६ ॥
स्कन्द उवाच ॥
वृद्धादित्यस्य माहात्म्यं शृणु ते कथयाम्यहम्॥
यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत् ॥२७ ॥
पुरात्र वृद्धहारीतो वाराणस्यां महातपाः ॥
महातपः समृद्ध्यर्थं समाराधितवान्रविम् ॥ २८ ॥
मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम् ॥
दक्षिणेन विशालाक्ष्या दृढभक्तिसमन्वितः ॥ २९ ॥
तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने ॥
अलं विलम्ब्य याचस्व कस्ते देयो वरो मया ॥ 4.2.51.३० ॥
सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः ॥
यदि प्रसन्नो भगवान्युवत्वं देहि मे पुनः॥ ३१ ॥
तपःकरण सामर्थ्यं स्थविरस्य न मे यतः ॥
पुनस्तारुण्यमाप्तोहं चरिष्याम्युत्तमं तपः ॥३२॥
तप एव परो धर्मस्तप एव परं वसु ॥
तप एव परः कामो निर्वाणं तप एव हि ॥ ३३ ॥
ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसम्पदः ॥
पदं ध्रुवादिभिः प्रापि केवलं तपसो बलात् ॥ ३४ ॥
ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम् ॥
प्राप्य त्वद्वरदानेन यौवनं सर्वसम्मतम् ॥ ३८३ ॥
धिग्जराम्प्राणिनामत्र यया सर्वो विरज्यति ॥
जरातुरेन्द्रियग्रामे स्त्रियोपि नयतः स्वसात् ॥ ३६ ॥
वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत् ॥
क्षणं दुःखं च मरणं जरा दुःखं क्षणेक्षणे ॥३७॥
काङ्क्षन्ति दीर्घतपसे चिरमायुर्जितेन्द्रियाः ॥
धनं दानाय पुत्राय कलत्रं मुक्तये धियम्॥ ३८ ॥
वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै ॥
ददौ च चारुता हेतुं तारुण्यं पुण्यसाधनम् ॥३९॥
एवं स वृद्धहारीतो वाराणस्यां महामुनिः ॥
सम्प्राप्य यौवनं ब्रध्नात्तप उग्रं चचार ह ॥4.2.51.४०॥
वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना ॥
आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः ॥ ४१ ॥
वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव ॥
जरा दुर्गति रोगघ्नं बहवः सिद्धिमागताः ॥ ४२ ॥
वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः ॥
लभेदभीप्सितां सिद्धिं न क्वचिद्दुर्गतिं लभेत् ॥ ४३ ॥
॥ स्कन्द उवाच ॥ ॥
अतः परं शृणु मुने केशवादित्यमुत्तमम् ॥
यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् ॥ ४४ ॥
व्योम्नि सञ्चरमाणेन सप्ताश्वेनादिकेशवः ॥
एकदा दर्शिभावेन पूजयल्ँलिङ्गमैश्वरम् ॥ ४५ ॥
कौतुकादिव उत्तीर्य हरे रविरुपाविशत् ॥
निःशब्दो निश्चलः स्वस्थो महाश्चर्यसमन्वितः ॥ ४६ ॥
प्रतीक्षमाणोवसरं किञ्चित्प्रष्टुमना हरिम् ॥
हरिं विसर्जितार्चं च प्रणनाम कृताञ्जलिः ॥ ४७ ॥
स्वागतं ते हरिः प्राह बहुमानपुरःसरम् ॥
स्वाभ्याशं आसयामास भास्वन्तं नतकन्धरम्॥ ४८॥
अथावसरमालोक्य लोकचक्षुरधोक्षजम् ॥
नत्वा विज्ञापयामास कृतानुज्ञोऽसुरारिणा ॥ ४९ ॥
॥ रविरुवाच ॥ ॥
अन्तरात्मासि जगतां विश्वम्भर जगत्पते ॥
तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव ॥ 4.2.51.५० ॥
त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते ॥
त्वमेव पाता सर्वस्य जगतो जगतान्निधे ॥ ५१ ॥
इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवान्तिकम् ॥
किमिदं पूज्यते नाथ भवता भवतापहृत् ॥ ५२ ॥
इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम् ॥
उच्चैर्माशम्स सप्ताश्वं वारयन्करसञ्ज्ञया ॥ ५३ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
देवदेवो महादेवो नीलकण्ठ उमापतिः ॥
एक एव हि पूज्योत्र सर्वकारणकारणम् ॥ ५४ ॥
अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः ॥
सलोचनोपि विज्ञेयो लोचनाभ्यां विवर्जितः ॥५५॥
एको मृत्युञ्जयः पूज्यो जन्ममृत्युजराहरः ॥
मृत्युञ्जयं किलाभ्यर्च्य श्वेतो मृत्युञ्जयोभवत् ॥ ५६ ॥
कालकालं समाराध्य भृङ्गी कालं जिगायवै ॥
शैलादिमपि तत्याज मृत्युर्मृत्युञ्जयार्चकम् ॥५७॥
विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात् ॥
तं समभ्यर्च्य भूतेशं को न पूज्यतमो भवेत् ॥५८॥
त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम् ॥
को नाराधयति ब्रध्नसारस्य स्मरविद्विषः ॥ ५९ ॥
यस्याक्षिपक्ष्मसङ्कोचाज्जगत्सङ्कोचमेत्यदः ॥
विकस्वरं विकासाच्च कस्य पूज्यतमो न सः ॥ 4.2.51.६० ॥
शम्भोर्लिङ्गं समभ्यर्च्य पुरुषार्थचतुष्टयम् ॥
प्राप्नोत्यत्र पुमान्सद्यो नात्र कार्या विचारणा ॥ ६१ ॥
समर्च्य शाम्भवं लिङ्गमपिजन्मशतार्जितम् ॥
पापपुञ्जं जहात्येव पुमानत्र क्षणाद्ध्रुवम् ॥ ६२ ॥
किङ्किं न सम्भवेदत्र शिवलिङ्गसमर्चनात् ॥
पुत्राः कलत्र क्षेत्राणि स्वर्गो मोक्षोप्यसंशयम् ॥ ६३ ॥
त्रैलोक्यैश्वर्यसम्पत्तिर्मया प्राप्ता सहस्रगो ॥
शिवलिङ्गार्चनादेकात्सत्यंसत्यं पुनःपुनः ॥ ६४ ॥
अयमेव परोयोगस्त्विदमेव परं तपः ॥
इदमेव परं ज्ञानं स्थाणुलिङ्गं यदर्च्यते ॥ ६५॥
यैर्लिङ्गं सकृदप्यत्र पूजितं पार्वतीपतेः ॥
कुतो दुःखभयं तेषां संसारे दुःखभाजने ॥ ६६ ॥
सर्वं परित्यज्य रवे यो लिङ्गं शरणं गतः ॥
न तं पापानि बाधन्ते महान्त्यपि दिवाकर ॥ ६७ ॥
लिङ्गार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर ॥
येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः ॥६८॥
न लिङ्गाराधनात्पुण्यं त्रिषुलोकेषु चापरम् ॥
सर्वतीर्थाभिषेकः स्याल्लिङ्गस्नानाम्बु सेवनात् ॥ ६९ ॥
तस्माल्लिङ्गं त्वमप्यर्क समर्चय महेशितुः ॥
सम्प्राप्तं परमां लक्ष्मीं महातेजोभि जृम्भणीम् ॥ 4.2.51.७० ॥
इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः ॥
विधाय स्फाटिकं लिङ्गं मुनेद्यापि समर्चयेत् ॥ ७१ ॥
गुरुत्वेन तदाकल्य विवस्वानादिकेशवम् ॥
तत्रोपतिष्ठतेद्यापि उत्तरेणादिकेशवात् ॥ ७२ ॥
अतः स केशवादित्यः काश्यां भक्ततमोनुदः ॥
समर्चितः सदा देयान्मनसो वाञ्छितं फलम् ॥ ७३ ॥
केशवादित्यमाराध्य वाराणस्यां नरोत्तमः ॥
परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत् ॥ ७४ ॥
तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः ॥
विलोक्य केशवादित्यं मुच्यते जन्मपातकैः ॥ ७५ ॥
अगस्ते रथसप्तम्यां रविवारो यदाप्यते ॥
तदा पादोदके तीर्थे आदिकेशव सन्निधौ ॥७६॥
स्नात्वोषसि नरो मौनी केशवादित्यपूजनात् ॥
सप्तजन्मार्जितात्पापान्मुक्तो भवति तत्क्षणात् ॥ ७७॥
यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ॥
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ॥ ७८ ॥
एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जितम् ॥
मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥ ७९ ॥
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके ॥
सप्तव्याधिसमायुक्तं हर माकरि सप्तमि ॥ 4.2.51.८० ॥
एतन्मन्त्रत्रयं जप्त्वा स्नात्वा पादोदके नरः ॥
केशवादित्यमालोक्य क्षणान्निष्कलुषो भवेत् ॥ ८१ ॥
केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः ॥
नरो न लिप्यते पापैः शिवभक्तिं च विन्दति ॥ ८२ ॥
॥ स्कन्द उवाच ॥ ॥
अतः परं शृणु मुने विमलादित्यमुत्तमम् ॥
हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्॥ ८३ ॥
उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः ॥
स प्राक्तनात्कर्मयोगाद्विमले पथ्यपि स्थितः ॥ ८४ ॥
कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु ॥
वाराणसीं समासाद्य ब्रध्नमाराधयत्सुधीः ॥ ८५ ॥
करवीरैर्जपाभिश्च गन्धकैः किंशुकैः शुभैः ॥
रक्तोत्पलैरशोकैश्च स समानर्च भास्करम् ॥ ८६ ॥
विचित्ररचनैर्माल्यैः पाटलाचम्पकोद्भवैः ॥
कुङ्कुमागुरुकर्पूरमिश्रितैः शोणचन्दनैः ॥ ८७ ॥
देवमोहनधूपैश्च बह्वामोदतताम्बरैः ॥
कर्पूरवर्तिदीपैश्च नैवेद्यैर्घृतपायसैः ॥ ८८ ॥
अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि ॥
एवं समाराधयतस्तस्यार्को वरदोभवत् ॥ ८९ ॥
उवाच च वरं ब्रूहि विमलामलचेष्टित ॥
कुष्ठश्च ते प्रयात्वेष प्रार्थयान्यं वरं पुनः ॥ 4.2.51.९० ॥
आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ॥
प्रणतो दण्डवद्भूमौ सम्प्रहष्टतनूरुहः । ९१ ॥
शनैर्विज्ञापयाञ्चक्र एकचक्ररथं रविम् ॥
जगच्चक्षुरमेयात्मन्महाध्वान्तविधूनन ॥ ९२ ॥
यदि प्रसन्नो भगवन्यदि देयो वरो मम ॥
तदा त्वद्भक्तिनिष्ठा ये कुष्ठं मास्तु तदन्वये ॥ ९३ ॥
अन्येपि रोगा मा सन्तु मास्तु तेषां दरिद्रता ॥
मास्तु कश्चन सन्तापस्त्वद्भक्तानां सहस्रगो ॥ ९४ ॥
। श्रीसूर्य उवाच ॥ ॥
तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम् ॥
त्वयेयं पूजिता मूर्तिरेवं काश्यां महामते ॥ ९५ ॥
अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन ॥
प्रथिता तव नाम्ना च प्रतिमैषा भविष्यति ॥९६॥
विमलादित्य इत्याख्या भक्तानां वरदा सदा ॥
सर्वव्याधि निहन्त्री च सर्वपापक्षयङ्करी ॥९७॥
इति दत्त्वा वरान्सूर्यस्तत्रैवान्तरधीयत ॥
विमलो निर्मलतनुः सोपि स्वभवनं ययौ ॥ ९८ ॥
इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः ॥
तस्य दर्शनमात्रेण कुष्ठरोगः प्रणश्यति ॥९९॥
यश्चैतां विमलादित्यकथां वै शृणुयान्नरः ॥
प्राप्नोति निर्मलां शुद्धिं त्यज्यते च मनोमलैः ॥4.2.51.१००॥
॥ स्कन्द उवाच ॥ ॥
गङ्गादित्योस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै ॥
तस्य दर्शनमात्रेण नरः शुद्धिमियादिह ॥ १ ॥
यदा गङ्गा समायाता भगीरथपुरस्कृता ॥
तदा गङ्गां परिष्टोतुं रविस्तत्रैव संस्थितः ॥ २ ॥
अद्याप्यहर्निशं गङ्गां सम्मुखीकृत्य भास्करः ॥
परिष्टौति प्रसन्नात्मा गङ्गाभक्तवरप्रदः ॥ ३ ॥
गङ्गादित्यं समाराध्य वाराणस्यां नरोत्तमः ॥
दुर्गतिं जातु न क्वापि लभते न च रोगभाक् ॥ ४
॥ स्कन्द उवाच ॥
अन्यच्छृणु महाभाग यमादित्यस्य सम्भवम्॥
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ॥ ५ ॥
यमेशात्पश्चिमे भागे वीरेशात्पूर्वतो मुने ॥
यमादित्यं नरो दृष्ट्वा यमलोकं न पश्यति ॥ ६ ॥
यमतीर्थे नरः स्नात्वा भूतायां भौमवासरे ॥
यमेश्वरं विलोक्याशु सर्वैः पापैः प्रमुच्यते ॥ ७ ॥
यमतीर्थे यमः पूर्वं तप्त्वा सुविमलं तपः ॥
यमेशं च यमादित्यं प्रत्यष्ठाद्भक्तसिद्धिदम् ॥ ८ ॥
यमेन स्थापितो यस्मादादित्यस्तत्र कुम्भज ॥
अतः स हि यमादित्यो यामीं हरति यातनाम् ॥ ९ ॥
यमेशं च यमादित्यं यमेन स्थापितं नमन् ॥
यमतीर्थे कृतस्नानो यमलोकं न पश्यति ॥ 4.2.51.११० ॥
यमतीर्थे चतुर्दश्यां भरण्यां भौमवासरे ॥
तर्पणं पिण्डदानं च कृत्वा पित्रनृणी भवेत् ॥ ११ ॥
अभिलष्यन्ति सततं पितरो नरकौकसः ॥
भौमै भरण्यां भूतायां यदि योगोयमुत्तमम् ॥ १२ ॥
काश्यां कश्चिद्यमे तीर्थे कृत्वा स्नानं महामतिः ॥
अपि यस्तर्पणङ्कुर्यात्सतिलं नो विमुक्तये ॥ १३ ॥
किं गया गमनैः पुंसां किं श्राद्धैर्भूरिदक्षिणैः ॥
यदि काश्यां यमे तीर्थे योगेस्मिञ्श्राद्धमाप्यते॥ १४ ॥
श्राद्धं कृत्वा यमे तीर्थे पूजयित्वा यमेश्वरम् ॥
यमादित्यं नमस्कृत्य पितॄणामनृणो भवेत् ॥१५॥
॥ स्कन्द उवाच ॥ ॥
इति ते द्वादशादित्याः कथिता पापनाशनाः ॥
यत्सम्भवं समाकर्ण्य नरो न निरयी भवेत्॥ १६ ॥
अन्येपि सन्ति घटज रविभक्तैरनेकशः ॥
काश्यां संस्थापिताः सूर्या गुह्यकार्कादयः किल ॥ १७ ॥
श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान् ॥
श्रावयित्वापि नो मर्त्यो दुर्गतिं याति कुत्रचित् ॥ ११८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुथें काशीखण्डे अरुणवृद्धकेशवविमलगङ्गायमादित्यवर्णनन्नामैकपञ्चाशत्तमोऽध्यायः ॥ ॥ ५१ ॥