०५० गरुडेशयोर्वर्णनम्

॥ स्कन्द उवाच ॥ ॥
वाराणस्यां तथादित्या ये चान्ये तान्वदाम्यतः ॥
कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः ॥ १ ॥
खखोल्को नाम भगवानादित्य परिकीर्तितः ॥
त्रिविष्टपोत्तरे भागे सर्वव्याधिविघातकृत् ॥ २ ॥
यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु ॥
पुरा कद्रूश्च विनता दक्षस्य तनये शुभे ॥ ॥३॥
कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः ॥
क्रीडन्त्यावेकदान्योन्यं मुने ते ऊचतुस्त्विति ॥ ४ ॥
॥ कद्रूरुवाच ॥ ॥
विनते त्वं विजानासि यदि तद्ब्रूहि मेग्रतः॥
अखण्डिता गतिस्तेस्ति यतो गगनमण्डले ॥ ५ ॥
योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे ॥
किं रूपःसोस्ति शबलो धवलो वा वदाशु मे ॥ ६ ॥
पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे ॥
एवमेव न यात्येष कालक्रीडनकं विना ॥७॥
॥ विनतोवाच ॥ ॥
किं पणेन भगिन्यत्र कथयाम्येवमेव हि ॥
त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम् ॥ ८ ॥
ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता ॥
ध्रुवमेकस्य विजये क्रोधोन्स्येह जायते ॥९॥
कद्रूरुवाच ॥
क्रीडेयं नात्र भगिनि कारणं किमपि क्रुधः ॥
खेलस्य व्यवहारोयं पणे यत्किञ्चिदुच्यते ॥ 4.1.50.१० ॥
॥ विनतोवाच ॥ ॥
तथा कुरु यथा प्रीतिस्तवास्ति पवनाशिनि ॥
अथ तां विनतामाह कद्रूः कुटिलमानसा ॥ ११ ॥
तस्यास्तु सा भवेद्दासी पराजीयेत या यया ॥
अस्मिन्पणे इमाः सर्वाः सख्यः साक्षिण्य एव नौ ॥ १२ ॥
इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी ॥
उवाच कर्बुरं कद्रूरश्वं श्वेतं गरुत्मती ॥ १३ ॥
कदागन्तव्यमिति च चक्राते ते गमावधिम् ॥
जग्मतुश्च विरम्याथ क्रीडनात्स्वस्वमालयम् ॥ १४ ॥
विनतायां गतायां तु कद्रूराहूय चाङ्गजान् ॥
उवाच यात वै पुत्रा द्रुतं वचनतो मम ॥ १५॥
तुरङ्गमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः ॥
सुरासुरैर्मथ्यमानान्मन्दराघातसाध्वसात् ॥ १६ ॥
कार्यकारणरूपस्य सादृश्यमधिगच्छति ॥
अतस्तं क्षीरवर्णाभं कल्माषयत पुत्रकाः ॥ १७ ॥
तस्य वालधिमध्यास्य कृष्णकुन्तलतां गताः ॥
तथा तदङ्गलोमानि विधत्तविषसीत्कृतैः ॥ १८ ॥
इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम् ॥
सम्मन्त्र्य मातरं प्रोचुः कद्रूं कद्रूपमागताः ॥ १९ ॥
॥ नागा ऊचुः ॥ ॥
मातर्वयं त्वदाह्वानाद्विहाय क्रीडनं बलात् ॥
प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति ॥ 4.1.50.२० ॥
मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु ॥
तत्त्वया वादियन्मन्त्रैरौषधैर्नोपशाम्यति ॥ २१ ॥
वयं न यामो यद्भाव्यं तदस्माकं भवत्विह ॥
इति प्रोक्तं विषास्यैस्तैस्तदा कुटिलगामिभिः ॥ २२ ॥
॥ स्कन्द उवाच ॥ ॥
अन्येपि ये कुटिलगाः पररन्ध्रनिषेविणः ॥
अकर्णाः कूरहृदयाः पितरौ व्रीडयन्ति ते ॥ २३ ॥
पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः ॥
अत्याहितमिह प्राप्य गच्छेयुस्तेऽचिराल्लयम् ॥ २४ ॥
तेषां वचनमाकर्ण्य नयाम इति सोरगी ॥
शशाप तान्क्रुधाविष्टा नागांश्चागः समागतान् ॥ २५ ॥
तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलङ्घनात् ॥
जातमात्राश्च सर्पिण्यो भक्षयन्तु स्वबालकान् ॥ २६ ॥
इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम् ॥
जिजीविषुभिरन्यैश्च द्वित्रैश्चक्रे प्रसूवचः ॥ २७ ॥
ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः ॥
सुनीलचिकुराभासं चक्रुरङ्गं च कर्बुरम् ॥ २८ ॥
तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः॥
मातृवाक्कृतिजाद्धर्मान्न दग्धा भानुभानुभिः ॥ २९ ॥
विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः ॥
वियन्मार्गमलङ्कृत्य ददर्शोष्णांशुमण्डलम् ॥ 4.1.50.३० ॥
तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा ॥
कद्रुस्ततः खगीं प्राह विस्रब्धं विनते व्रज ॥ ३१ ॥
उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः ॥
विस्रब्धाहं स्वभावेन त्वं सापेक्षाहि सर्वतः ॥ ॥ ३२ ॥
स्वरूपेण पतङ्गी त्वं पतङ्गोसौ सहस्रगुः ॥
अतएव न ते बाधा गगने तापसम्भवा ॥ ३३ ॥
वियत्सरसि हंसोयं भवती हंसगामिनी ॥
चण्डरश्मिप्रतापाग्निस्त्वामतो नेह बाधते ॥ ३४ ॥
खगीमुद्गीयमानां खे पुनरूचे बिलेशया ॥
त्राहित्राहि भगिन्यत्र यावोन्यत्र वियत्पथः ॥ ३५ ॥
विनते विनतां मां त्वं किं नावसि पतत्त्रिणी ॥
तव दासी भविष्यामि त्वदुच्छिष्टनिषेविणी ॥३६ ॥
यावज्जीवमहं भूयां त्वत्पादोदकपायिनी ॥
खखोल्कानि पतेदेषा भृशगद्गदभाषिणी ॥॥ ३७ ॥
मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी॥
सख्युल्कानि पतेदेषा वक्तव्ये त्विति सम्भ्रमात् ॥ ३८ ॥
खखोल्केति यदुक्ता गीः कद्र्वा सम्भ्रातचेतसा ॥
तदा खखोल्कनामार्कः स्तुतो विनतया बहु ॥ ३९ ॥
मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति ॥
ताभ्यां तुरङ्गमो दर्शि किञ्चित्किर्मीरवान्रथे ॥ 4.1.50.४० ॥
उक्ता विनतयैवैषा तापोपहतलोचना ॥
क्रूरा सरीसृपी सत्यवादिन्या विश्वमान्यया ॥ ४१ ॥
कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः ॥
चन्द्ररश्मिप्रभोप्येष कल्माष इव भासते ॥ ४२ ॥
विधिर्बलीयान्भुजगि चित्रं जयपराजये ॥
क्रूरोपि विजयी क्वापि त्वक्रूरोपि पराजयी ॥ ४३ ॥
विनताविनताधारा वदन्तीति यथागतम् ॥
कद्रूनिवेशनं प्राप्ता तस्या दास्यमचीकरत् ॥४४॥
कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना ॥
विच्छाया मलिना दीना दीर्घनिःश्वासवत्यपि ॥ ॥ ४५ ॥
सुपर्ण उवाच ॥ ॥
प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने ॥
सायमायासि च कुतो विच्छाया दीनमानसा ॥ ४६ ॥
कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना ॥
यथा क्लीबसुता योषिद्यथापति तिरस्कृता ॥४७॥
ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि ॥
मयि जीवति ते बाले कालेपि कृतसाध्वसे॥ ॥ ४८ ॥
अश्रुनिर्माणकरणे कारणं किं तपस्विनि ॥
सुचरित्रा सुनारीषु नामङ्गलमिहेष्यते ॥ ४९ ॥
धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् ॥
वरं वन्ध्यैव सा यस्याः सुता वन्ध्यमनोरथाः ॥4.1.50.५० ॥
इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः ॥
विनता प्राह तं पुत्रं मातृभक्तिसमन्वितम् ॥ ५१ ॥
अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः ॥
पृष्ठे वहामि तां नित्यं तत्पुत्रानपि पुत्रक॥५२॥
कदाचिन्मन्दरं यामि कदाचिन्मलयाचलम् ॥
कदाचिदन्तरीपेषु चरेयं तदुदन्वताम् ॥ ॥ ५३ ॥
यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः ॥
व्रजेयं तत्रतत्राहं तदधीना यतः सुत ॥ ५४॥
गरुड उवाच ॥ ॥
दासीत्वकारणं मातः किं ते जातं सुलक्षणे ॥
दक्षप्रजापतेः पुत्रि कश्यपस्यप्रियेऽनघे ॥ ५५ ॥
विनतोवाच गरुडं पुरावृत्तमशेषतः ॥
दासीत्वकारणं यद्वदादित्याश्वविलोकनम् ॥ ५६ ॥
श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज॥
पृच्छाद्य मातस्तान्दुष्टान्काद्रवेयानिदं वचः ॥५७॥
यद्दुर्लभं हि भवतां यत्रात्यन्तरुचिश्च वः ॥
मद्दासीत्वविमोक्षाय तद्याचध्वं ददाम्यहम्॥ ॥ ५८ ॥
तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम् ॥
सर्पाः सम्मन्त्र्य तां प्रोचुर्विनतां हृष्टमानसाः ॥ ५९ ॥
मातृशापविमोक्षाय यदि दास्यति नः सुधाम् ॥
तदा समीहितं तेस्तु न दास्यत्यथ दास्यसि ॥ 4.1.50.६० ॥
इत्योङ्कृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी ॥
गरुत्मन्तं समाचष्ट दृष्ट्वा संहृष्टमानसम् ॥ ६१ ॥
नागान्तकस्ततः प्राह मातरं चिन्तयातुराम् ॥
आनीतं विद्धि पीयूषं मातर्मे देहि भोजनम्॥ ६२ ॥
विनता प्राह तं पुत्रं सम्प्रहृष्टतनूरुहा ॥
भोः सुपर्णार्णवं तूर्णं याहि मङ्गलमस्तु ते ॥ ६३ ॥
सन्ति तत्रापि बहुशो निषादा मत्स्यघातिनः ॥
वेलातटनिवासाश्च तान्भक्षय दुरात्मनः ॥ ६४ ॥
परप्राणैर्निजप्राणान्ये पुष्णन्तीह दुर्धियः ॥
शासनीयाः प्रयत्नेन श्रेयस्तच्छासनं परम् ॥ ६५ ॥
बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम् ॥
विहिंसितेषु दुष्टेषु रक्ष्यते भूरिशो यतः ॥६६॥
निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक ॥
संरक्षणीयो यत्नेन भक्षणीयो न कर्हिचित् ॥ ६७ ॥
॥ गरुड उवाच ॥ ॥
मत्स्यादिनां वसन्मध्ये कथं ज्ञेयो द्विजो मया ॥ अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे ॥ ६८ ॥
॥ विनतोवाच ॥
यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम् ॥
नित्यधौतानि वासांसि भालं तिलक लाञ्छितम् ॥६९॥
सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी॥
यन्मौलिः सशिखाग्रन्थिः स ज्ञेयो ब्राह्मणस्त्वया ॥ 4.1.50.७० ॥
उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः ॥
गायत्रीमात्रमन्त्रोपि स विज्ञेयो द्विजस्त्वया ॥ ७१ ॥
गरुड उवाच ॥
मध्ये सदा निषादानां यो वसेज्जननि द्विजः ॥
तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम् ॥ ७२ ॥
लक्ष्मान्तरं समाचक्ष्व द्विजबोधकरं प्रसूः ॥
येन विज्ञाय तं विप्रं त्यजेयमपि कण्ठगम् ॥ ७३ ॥
तच्छ्रुत्वा विनता प्राह यस्ते कण्ठगतोंऽगज ॥
खदिराङ्गारवद्दह्यात्तमपाकुरु दूरतः ॥ ७४ ॥
द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न ॥
देशं वंशं श्रियं स्वं च निर्मूलयति कालतः ॥ ७५ ॥
निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च ॥
गृहीताशीर्ययौ शीघ्रं खमार्गेण खगेश्वरः ॥७६॥
दूरादालोकयाञ्चक्रे निषादान्मत्स्यजीविनः ॥
पक्षौ विधूय पक्षीन्द्रो रजसापूर्य रोदसी ॥ ७७ ॥
अन्धीकृत्य दिशोभागानब्धिरोधस्युपाविशत् ॥
व्यादाय वदनं घोरं महाकन्दरसन्निभम् ॥ ७८ ॥
कान्दिशीका निषादास्तु विविशुस्तत्र च स्वयम् ॥
मन्वानेष्वथ पन्थानं तेषु कण्ठं विशत्स्वपि ॥७९ ॥
जज्वालेङ्गलसंस्पर्शो द्विजस्तत्कण्ठकन्दलीम् ॥
प्राक्प्रविष्टानथो तार्क्ष्यो निषादानौदरीं दरीम् ॥ 4.1.50.८० ॥
प्रवेश्य कण्ठतालुस्थं तं विज्ञाय द्विजस्फुटम् ॥
भयादुदगिरत्तूर्णं मातृवाक्येन यन्त्रितः ॥ ८१ ॥
तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत ॥
कस्त्वं जात्यासि निगद मम कण्ठविदाहकृत् ॥ ८२ ॥
स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः ॥
वसाम्येषु निषादेषु जातिमात्रोपजीवकः ॥ ८३ ॥
तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः ॥
नभो विक्षोभयाञ्चक्रे प्रलयानिल सन्निभः ॥ ८४ ॥
तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगन्तरम् ॥
ज्वलद्दावानलं शैलमिव बिभ्युर्दिवौकसः ॥ ॥ ८५ ॥
ते सन्नह्यन्त युद्धाय सज्जीकृत बलायुधाः ॥
अध्यास्य वाहनान्याशु सर्वे वर्मभृतः सुराः ॥ ८६ ॥
तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान् ॥
क्षणप्रभाप्यसौ नैव को नः सम्मुख एत्यसौ ॥ ८७ ॥
न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्॥
महासाध्वसदः कोयमस्माकं हृत्प्रकम्पनः ॥ ८८ ॥
यावत्सम्भावयन्तीति नीतिज्ञा अपि निर्जराः ॥
तावद्दुधाव स्वौ पक्षौ पक्षिराजो महाबलः ॥ ८९ ॥
निपेतुः पक्षवातेन सायुधाश्च सवाहनाः ॥
न ज्ञायन्ते क्व सम्प्राप्ता वात्यया पार्णतार्णवत् ॥ 4.1.50.९० ॥
अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट् ॥
कोशागारं सुधायाः स तत्रापश्यच्च रक्षिणः ॥ ९१ ॥
शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः ॥
ददर्श कर्तरीयन्त्रममृतोपरिसंस्थितम् ॥ ९२ ॥
मनःपवनवेगेन भ्रममाणं महारयम् ॥
अपिस्पृशन्तं मशकं यत्खण्डयति कोटिशः ॥ ९३ ॥
उपोपविश्य पक्षीन्द्रस्तस्य यन्त्रस्य निर्भयः ॥
क्षणं विचारयामास किमत्र करवाण्यहो ॥ ९४ ॥
स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह ॥
क उपायोत्र कर्तव्यो वृथा जातो ममोद्यमः ॥ ९५ ॥
न बलं प्रभवेदत्र न किञ्चिदपि पौरुषम् ॥
अहो प्रयत्नो देवानामेतत्पीयूषरक्षणे ॥९६॥
यदि मे शङ्करे भक्तिर्निर्द्वन्द्वातीव निश्चला ॥
तदा स देवदेवो मां वियुनक्तु महाऽधिया ॥९७॥
यद्यहं मातृभक्तोस्मि स्वामिनः शङ्करादपि ॥
तदा मे बुद्धिरत्रास्तु पीयूषहरणं क्षमा ॥ ९८ ॥
आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः ॥
मातुर्दास्यविमोक्षाय यतेहममृतं प्रति ॥ ९९ ॥
जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् ॥
साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येपि तस्य न ॥ 4.1.50.१०० ॥
इति चिन्तयतस्तस्य बुद्धिरासीन्महात्मनः ॥ १ ॥
देहं चकार सोत्यन्तमणीयांसमणोरपि ॥
परमाणुसहस्रांशं कृत्वा रूपं महाद्भुतम् ॥ २ ॥
प्रविश्य कर्तरीयन्त्रमधोदेहस्य लाघवात् ॥
बिभ्यत्तद्यन्त्रतो देहं वञ्चयन्वायुखण्डनात् ॥
मूलमुत्पाट्य तरसा गृहीत्वाऽमृतभाजनम् ॥ ३ ॥
निर्ययौ पावने मार्गे क्रोशत्सु स्वर्गसद्मसु ॥ ४ ॥
तथा वैकुण्ठनाथं ते गत्वा प्रोचुः सुधाभुजः ॥
निर्जित्य नीयते चक्रिन्सुधा नो जीवितं परम् ॥ ५ ॥
इत्याकर्ण्य हरिस्तेभ्योऽभयं दत्त्वा त्वरायुतः ॥
कृत्वा युद्धं च सुमहद्विंशार्कघटिकाद्वयम् ॥ ॥ ६ ॥
शुम्भदेव्योर्यथासूत गरुडस्तत्र चाधिकः ॥
तदा प्रसन्नो भगवान्महायुद्धेन सर्वदः ॥ ७ ॥
गत्वा गरुडमाहेदं प्रसन्नोस्मि खगेश्वर ॥
वरं वृणीहि भद्रं ते जितवृन्दारवृन्दक॥ ८ ॥
हसित्वा गरुडः प्राह विश्वरूपं जनार्दनम् ॥
अहमेव प्रसन्नोस्मि त्वं प्रार्थय वरद्वयम् ॥ ९ ॥
ततः कैटभजित्प्राह वैनतेयं मुदान्वितः ॥
वृतंवृतं महोदार देहिदेहि वरद्वयम् ॥ 4.1.50.११० ॥
इति विष्णूदितं श्रुत्वा प्रहसन्नाह पक्षिराट् ॥
किं विलम्बेन तद्ब्रूहि दत्तं दत्तं वरद्वयम् ॥ ११ ॥
अलब्धलाभे सञ्जाते द्यूतादि विजयोदये ॥
दातव्यं सुधियापात्रे सदा लाभजयौ क्व वा ॥ १२ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
बलवानसि पक्षीन्द्र तन्मे वाहनतां व्रज ॥
एको वरोयं वरद द्वितीयं शृणु काश्यप ॥ १३ ॥
दर्शयित्वामृतं प्राज्ञ मातृदास्यविमोक्षकम् ॥
द्विजिह्वेभ्यः कुरु तथा द्रागश्नन्ति न ते यथा ॥ १४ ॥
देया सुधा सुधाभुग्भ्यो द्वितीयोस्तु वरो मम ॥
तथेति स प्रतिज्ञाय निर्ययौ पक्षिराड्दिवः ॥ १५ ॥
स मातरं विनिर्मोच्य दास्यात्काश्यपनन्दनः ॥
नागानां पुरतो धृत्वा महामृतकमण्डलुम् ॥ १६ ॥
अमृतं पातुकामांस्तानित्याचष्ट महामतिः ॥
नागाः शुचित्वमासाद्य भोक्तव्यैषा सुधा शुभा ॥ १७ ॥
नोचेदशुचिभिः स्पृष्टा स्नानादि परिवर्जितैः ॥
यास्यत्यदृश्यतामेषा सुधाऽनिमिषरक्षिता॥ १८॥
सामान्यमपि यद्रक्ष्यं स्पृश्यतेऽशुचिभिः क्वचित् ॥
हरन्ति तद्रसं देवास्तच्च तिष्ठति नीरसम् ॥ १९ ॥
इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ ॥
कुशासने च तैरुक्तो धृत्वा पीयूषभाजनम् ॥ 4.1.50.१२० ॥
यावत्स्नातुं गताः सर्पास्तावत्पीयूषभाजनम् ॥
आदाय विष्णुना दत्तं देवेभ्य इव जीवितम् ॥ २१ ॥
आगत्य भुजगाः स्नात्वा न दृष्ट्वामृतभाजनम् ॥
अहो प्रतारिता नीतममृतं चेति चुक्रुशुः ॥ २२ ॥
ततः पर्यलिहन्दर्भान्पीयूषस्पर्शकाङ्क्षिणः ॥
आस्तां तावत्सुधा दूरं जिह्वास्तेषां द्विधाभवन् ॥ २३ ॥
अन्येप्यन्यायलब्धार्थं ये बुभुक्षन्ति केवलम् ॥
तन्नो परिणतिं गच्छेद्भोक्तुं वातैर्न लभ्यते॥ ॥ २४ ॥
न्यायाध्वस्थेन तार्क्ष्येण सुधा प्राप्तातिदुर्लभा ॥
लब्धाप्यन्यायतो नागैर्दृष्टमात्रा क्षणाद्गता ॥२५॥
अथ दास्याद्विनिर्मुक्ता विनतोवाच खेचरम् ॥
पुत्र काशीं प्रयास्यामि दास्यपापापनुत्तये ॥ २६ ॥
तावत्पापानि जृम्भन्ते नानाजन्मार्जितान्यपि ॥
यावत्काशी न हृत्संस्था पुनर्भवविघातिनी॥ २७ ॥
काशीस्मरणमात्रेण किं चित्रं यदघं व्रजेत् ॥
गर्भवासोपि नश्येत विश्वेशानुग्रहात्परात् ॥ २८ ॥
यत्र विश्वेश्वरः साक्षात्तारापतिविभूषणः ॥
तारयेत्तारकद्रोण्या दुस्तराद्भवसागरात् ॥ २९ ॥
विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् ॥
भवेत्काशीं प्रति मतिर्नेतरेषां कदाचन ॥ 4.1.50.१३० ॥
काशीं प्रति मनो येषां निःशेषक्षालितैनसाम् ॥
त एव मानवा लोके सत्यं नृप शवोपरे ॥ ३१ ॥
तैरेव कालो विजितस्त एव हि गतैनसः ॥
अपुनर्गर्भवासास्ते प्राप्ता वाराणसीह यैः ॥ ॥ ३२॥
श्रेयसां भाजनं चैतन्नृजन्मन मुधा नयेत्॥
देवानामपिदुष्प्राप्यं काशीसन्दर्शनादृते ॥ ३३ ॥
कः कलिः कोथवा कालः किं वा कर्माण्यनेकधा ॥
परानन्दप्रदं क्षेत्रमविमुक्तं यदीक्षितम् ॥ ३४ ॥
ते गर्भवासे तिष्ठन्ति पुनस्ते गर्भवासिनः॥
ये न गर्भवनच्छेत्रीं सेवन्ते वरणामसिम्॥३५॥
निशम्येति वचः प्राह तार्क्ष्यो नत्वाथ मातरम्॥
अहमप्यागमिष्यामि काशीं द्रष्टुं शिवार्चिताम् ॥ ३६॥
मातुराज्ञामथ प्राप्य जनन्या सह पक्षिराट् ॥
क्षणाद्वाराणसीं प्राप मोक्षनिक्षेपभूमिकाम् ॥ ३७ ॥
उभावपि च तेपाते तप उग्रं महामती ॥
संस्थाप्य शाम्भवं लिङ्गं पतत्त्रीन्द्रोऽचलेन्द्रियः ॥ ३८ ॥
नाम्ना खखोल्कमादित्यं संस्थाप्य विनता शुभम् ॥
अचिरेणैव कालेन महतस्तपसस्तयोः ॥३९॥
काश्यां प्रसन्नौ सञ्जातौ देवौ शङ्करभास्करौ ॥
गरुडस्थापिताल्लिङ्गादाविरासीदुमापतिः ॥ 4.1.50.१४० ॥
गरुडाय वरान्प्रादात्स बहूनतिदुर्लभान्॥
खगेन्द्र मम भक्तोसि तव ज्ञानं भविष्यति ॥ ४१ ॥
वेत्स्यसि त्वं रहस्यं मे यन्न ज्ञातं सुरैरपि ॥
त्वयैतत्स्थापितं लिङ्गं गरुडेश्वरसञ्ज्ञितम् ॥ ४२ ॥
परमज्ञानदं पुंसां दृष्टं स्पृष्टं समर्चितम् ॥ अन्यच्च शृणु पक्षीन्द्र हितं ते वच्मि साम्प्रतम् ॥ ४३ ॥
असावहं स वै विष्णुर्मास्तु ते भेददृक्च नौ ॥
एवं तस्यैव पक्षीन्द्र दैत्येन्द्र बलहारिण ॥ ४४ ॥
प्राप्य सत्पत्रतां पत्रिंस्त्वमप्यर्च्यो भविष्यसि ॥
इति दत्त्वा वरं शम्भुः स्वभक्ताय गरुत्मते ॥ ४५ ॥
तत्रैवान्तर्हितो जातो गरुडोपि हरिं ययौ ॥
हरे रथत्वं सम्प्राप्य सोपि पूज्योऽभवद्भुवि ॥ ४६ ॥
तपस्यन्तीमथालोक्य कदाचिद्विनतां प्रभुः ॥
शिवस्यैव परामूर्तिः खखोल्को नाम भास्करः ॥ ४७ ॥
दत्त्वा वरं च पापघ्नं शिवज्ञानसमन्वितम् ॥
काशीवासिजनानेक भवपापक्षयङ्करः ॥ ४८ ॥
विनतादित्य इत्याख्यः खखोल्कस्तत्र संस्थितः ॥
इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः ॥ ४९ ॥
तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
काश्यां पैशङ्गिले तीर्थे खखोल्कस्य विलोकनात् ॥
नरश्चिन्तितमाप्नोति नीरोगो जायते क्षणात् ॥ 4.1.50.१५० ॥
नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसम्भवम् ॥
गरुडेशेन सहितं सर्वपापैः प्रमुच्यते ॥ १५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे खखोल्कादित्य गरुडेशयोर्वर्णनन्नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
इति काशीखण्डपूर्वार्धं समाप्तम् ॥