०४९ द्रौपदादित्यमयूखादित्ययोर्वर्णनम्

सूत उवाच ॥ ॥
पाराशर्यमुने व्यास कुमारः कुम्भजन्मने ॥
यदावदत्कथामेतां तदा क्व द्रुपदात्मजा ॥ १ ॥
॥ व्यास उवाच ॥ ॥
पुराणसंहितां सूत ब्रूते त्रैकालिकीं कथाम् ॥
सन्देहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम् ॥२॥
॥ स्कन्द उवाच॥ ॥
आकर्णय मुने पूर्वं पञ्चवक्त्रो हरः स्वयम् ॥
पृथिव्यां पञ्चधा भूत्वा प्रादुरासीज्जगद्धितः ॥३॥
उमापि च जगद्धात्री द्रुपदस्य महीभुजः ॥
यजतो वह्निकुण्डाच्च प्रादुश्चक्रेति सुन्दरी ॥ ४ ॥
पञ्चापि पाण्डुतनयाः साक्षाद्रुद्रवपुर्धराः ॥
अवतेरुरिह स्वर्गाद्दुष्टसंहारकारकाः ॥ ५ ॥
नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् ॥
उद्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः ॥ ॥ ६ ॥
प्रतपन्तः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक् ॥
उदयानुदयौ तस्मिन्सम्पदां विपदामपि ॥ ७ ॥
कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् ॥
विपत्तिमाप्य महतीं बभूवुः काननौकसः ॥ ८ ॥
पाञ्चाल्यपि च तत्पत्नी पतिव्यसनतापिता ॥
धर्मज्ञा प्राप्य तन्वङ्गी ब्रध्नमाराधयद्भृशम् ॥ ९ ॥
आराधितोथ सविता तया द्रुपदकन्यया ॥
सदर्वी सपिधानां च स्थालिकामक्षयां ददौ ॥ 4.1.49.१० ॥
उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम् ॥ २३॥
आराधयन्तीं भावेन सर्वत्र शुचिमानसाम् ॥ ११ ॥
स्थाल्यैतया महाभागे यावन्तोऽन्नार्थिनो जनाः ॥
तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं न भोक्ष्यसे ॥ १२ ॥
भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति ॥
रसवद्व्यञ्जननिधिरिच्छाभक्ष्यप्रदायिनी ॥ १३ ॥
इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने ॥
अपरश्च वरो दत्तस्तस्यै देवेन भास्वता ॥ १४ ॥
॥ रविरुवाच ॥ ॥
विश्वेशाद्दक्षिणेभागे यो मां त्वत्पुरतः स्थितम् ॥
आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति ॥ १५ ॥
अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते ॥
तपसा परितुष्टेन तं निशामय वच्मि ते ॥ १६ ॥
प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः ॥
तस्य त्वं दुःखतिमिरमपानुद निजैः करैः ॥ १७ ॥
अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम् ॥
काशीस्थितानां जन्तूनां नाशयाम्यघसञ्चयम् ॥ १८ ॥
ये मामत्र भजिष्यन्ति मानवाः श्रद्धयान्विताः ॥
त्वद्वरोद्यतपाणिं च तेषां दास्यामि चिन्तितम् ॥ १९ ॥
भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् ॥
विश्वेशाद्दक्षिणेभागे दण्डपाणेः समीपतः ॥ 4.1.49.२० ॥
येर्चयिष्यन्ति भावेन पुरुषा वास्त्रियोपि वा ॥
तेषां कदाचिन्नो भावि भयं प्रियवियोगजम् ॥ २१ ॥
न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसम्भवम् ॥
द्रौपदीक्षणतः काश्यां तव धर्मप्रियेनघे ॥ २२ ॥
इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् ॥
शम्भुमाराधयामास धर्मं द्रौपद्युपाययौ ॥ २३ ॥
आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै ॥
यः श्रोष्यति नरो भक्त्या तस्यैनः क्षयमेष्यति ॥ २४ ॥
स्कन्द उव।च ॥ ॥
द्रौपदादित्यमाहात्म्यं सङ्क्षेपात्कथितं मया ॥
मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव ॥ -२५ ॥
पुरा पञ्चनदे तीर्थे त्रिषुलोकेषु विश्रुते ॥
सहस्ररश्मिर्भगवांस्तपस्तेपे सुदारुणम् ॥ २६ ॥
प्रतिष्ठाप्य महालिङ्गं गभस्तीश्वर सञ्ज्ञितम् ॥
गौरीं च मङ्गला नाम्नीं भक्तमङ्गलदां सदा ॥ २७ ॥
दिव्यवर्षसहस्रं तु शतेन गुणितं मुने ॥
आराधयञ्शिवं सोमं सोमार्धकृतशेखरम् ॥ २८ ॥
स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः ॥
ततोतितीव्र तपसा जज्वाल नितरां मुने ॥ २९ ॥
मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः ॥
ततं समस्तं तत्काले द्यावाभूम्योर्यदन्तरम् ॥ 4.1.49.३० ॥
वैमानिकैर्विष्णुपदे तत्यजे च गतागतम् ॥
तीव्रे पतङ्गमहसि पतङ्गत्वभयादिव ॥ ३१ ॥
मयूखा एव दृश्यन्ते तिर्यगूर्ध्वमधोपि च॥
आदित्यस्य न चादित्यो नीपपुष्पस्थितेरिव॥ ३२॥
तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम्॥
चकम्पे साध्वसात्तीव्रा त्रैलोक्यं सचराचरम् ॥ ३३ ॥
सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते ॥
स एव चेज्वालयिता को नस्त्राता भवेदिह ॥ ३४ ॥
जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः ॥
जगद्योयन्मृतप्रायं प्रातःप्रातः प्रबोधयेत् ॥ ३५ ॥
तमोन्धकूपपतितमुद्यन्नेष दिनेदिने ॥
प्रसार्य परितः पाणीन्प्राणिजातं समुद्धरेत् ॥ ३६ ॥
उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः ॥
उदयेऽनुदये तस्मादस्माकं कारणं रविः ॥ ३७ ॥
इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम् ॥
विश्वत्राता वरं दातुं सञ्जग्मे तिग्मरश्मये ॥ ३८ ॥
मयूखमालिनं शम्भुरालोक्याति सुनिश्चलम् ॥
समाधि विस्मृतात्मानं विसिस्माय तपः प्रति ॥ ३९ ॥
उवाच च प्रसन्नात्मा श्रीकण्ठः प्रणतार्तिहृत् ॥
अलं तप्त्वा वरं ब्रूहि द्युमणे महसां निधे ॥ 4.1.49.४० ॥
निरुद्धेन्द्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना ॥
न जग्राह वचः शम्भोर्द्वित्रिरुक्तोप्यकर्णवत् ॥ ४१ ॥
काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना ॥
महातपः समुद्भूत सन्तापामृतवर्षिणा ॥ ४२ ॥
तत उन्मीलयाञ्चक्रे लोचने विश्वलोचनः ॥
तस्योदयमिव प्राप्य प्रगे पङ्कजिनीवनी ॥४३॥
परिव्यपेतसन्तापस्तपनः स्पर्शनाद्विभोः ॥
अवग्रहितसस्यश्रीरुल्ललास यथाम्बुदात् ॥ ४४ ॥
मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः ॥
दण्डवत्प्रणनामोच्चैस्तुष्टाव च पिनाकिनम् ॥ ४५ ॥
॥ रविरुवाच ॥ ॥
देवदेव जगताम्पते विभो भर्ग भीम भव चन्द्रभूषण ॥
भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवाञ्छितप्रद ॥ ४६॥
चन्द्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततन्तुशातन॥
शान्तशाश्वत शिवापते शिव त्वां नतोस्मि नतवाञ्छितप्रद ॥ ४७ ॥
नीललोहित समीहितार्थ दहे(?)द्व्येकलोचन विरूपलोचन ॥
व्योमकेशपशुपाशनाशन त्वां नतोस्मि नतवाञ्छितप्रद ॥ ४८ ॥
वामदेवशितिकण्ठशूलभृच्चन्द्रशेखर फणीन्द्रभूषण॥
कामकृत्पशुपते महेश्वर त्वां नतोस्मि नतवाञ्छितप्रद॥४९॥
त्र्यम्बक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय॥
कालकूट दलनान्तकान्तक त्वां नतोस्मि नतवाञ्छितप्रद ॥ 4.1.49.५० ॥
शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद ॥
अन्धकासुररिपो कपर्दभृत्त्वां नतोस्मि नतवाञ्छितप्रद ॥५१॥
शङ्करोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत ॥
वेदवेद्यविदिताऽखिलेङ्गि तत्वां नतोस्मि नतवाञ्छितप्रद ॥५२॥
विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद ॥
वाङमनोविषयदूरदूरगत्वां नतोस्मि नतवाञ्छितप्रद ॥ ५३ ॥
इत्थं परीत्य मार्तण्डो मृडं देवं मृडानिकाम् ॥
अथ तुष्टाव प्रीतात्मा शिववामार्धहारिणीम्॥ ५४ ॥
रविरुवाच ॥ ॥
देवि त्वदीयचरणाम्बुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः ॥
जन्मान्तरेपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ॥ ५५ ॥
श्रीमङ्गले सकलमङ्गलजन्मभूमे श्रीमङ्गले सकलकल्मषतूलवह्ने॥
श्रीमङ्गले सकलदानवदर्पहन्त्रि श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम्॥५६॥
विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहन्त्री ॥
त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान् ॥५७॥
मातर्भवानि भवती भवतीव्रदुःखसम्भारहारिणि शरण्यमिहास्ति नान्या ॥
धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः ॥ ५८ ॥
ये त्वा स्मरन्ति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ॥
तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धीन्निर्वाणरक्षणविचक्षणपात्रभूतान् ॥५९॥
मातस्तवाङ्घ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् ॥
यो नामतेज एति मङ्गलगौरि नित्यं सिद्ध्यष्टकं न परिमुञ्चति तस्य गेहम् ॥ 4.1.49.६० ॥
त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः ॥
त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ॥ ६१ ॥
गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ॥
काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मङ्गलगौरि मातः ॥ ६२ ॥
स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमङ्गलाष्टक महास्तवनेन भानुः ॥
देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥ ६३ ॥
॥ देवदेव उवाच ॥ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते प्रसन्नोस्मि महामते ॥
मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम् ॥ ६४ ॥
मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः ॥
सर्वेषां महसां राशिः सर्वेषां सर्वकर्मवित् ॥ ६५ ॥
सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु ॥
त्वया नाम्नां चतुःषष्ट्या यदष्टकमुदीरितम् ॥ ६६ ॥
अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति ॥
अष्टकं मङ्गलागौर्या मङ्गलाष्टकसञ्ज्ञकम् ॥ ६७ ॥
अनेन मङ्गलागौरीं स्तुत्वा मङ्गलमाप्स्यति ॥
चतुःषष्ट्यष्टकं स्तोत्रं मङ्गलाष्टकमेव च ॥ ६८ ॥
एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम् ॥
दूरदेशान्तरस्थोपि जपन्नित्यं नरोत्तमः ॥६९॥
त्रिसन्ध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् ॥
अनेन स्तोत्रयुग्मेन जप्तेन प्रत्यहं नृभिः ॥4.1.49.७०॥
ध्रुवदैनन्दिनं पापं क्षालितं नात्र संशयः ॥
न तस्य देहिनो देहे जातु चित्किल्बिषस्थितिः ॥७१॥
त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम् ॥
किञ्जप्तैर्बहुभिः स्तोत्रैश्चञ्चलश्रीप्रदैर्नृणाम् ॥ ७२ ॥
एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम् ॥
तस्मात्सर्वप्रयत्नेन मानवैर्मोक्षकाङ्क्षिभिः ॥ ७३ ॥
एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः ॥
प्रपञ्च आवयोरेव सर्व एष चराचरः ॥ ७४ ॥
तदावयोःस्तवादस्मान्निष्प्रपञ्चो जनो भवेत् ॥
समृद्धिमाप्य महतीं पुत्रपौत्रवतीमिह ॥ ७५ ॥
अन्ते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः ॥
अन्यच्च शृणु सप्ताश्व ग्रहराज दिवाकर ॥ ॥ ७६ ॥
त्वया प्रतिष्ठितं लिङ्गं गभस्तीश्वरसञ्ज्ञितम् ॥
सेवितं भक्तिभावेन सर्वसिद्धिसमर्पकम् ॥ ७७॥
त्वया गभस्तिमालाभिश्चाम्पेयाम्बुजकान्तिभिः ॥
यदर्चित्वैश्वरं लिङ्गं सर्वभावेन भास्कर ॥ ७८ ॥
गभस्तीश्वर इत्याख्यां ततो लिङ्गमवाप्स्यति ॥
अर्चयित्वा गभस्तीशं स्नात्वा पञ्चनदे नरः ॥ ७९ ॥
न जातु जायते मातुर्जठरे धूतकल्मषः ॥
इमां च मङ्गलागौरीं नारी वा पुरुषोपि वा ॥ 4.1.49.८० ॥
चैत्रशुक्लतृतीयायामुपोषणपरायणः ॥
महोपचारैः सम्पूज्य दुकूलाभरणादिभिः ॥ ८१ ॥
रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः ॥
प्रातः कुमारीः सम्पूज्य द्वादशाच्छादनादिभिः ॥ ८२ ॥
सम्भोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम् ॥
होमं कृत्वा विधानेन जातवेदस इत्यृचा ॥ ८३ ॥
अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे ॥
एकं गोमिथुनं दत्त्वा ब्राह्मणाय कुटुम्बिने ॥८४ ॥
श्रद्धया समलङ्कृत्य भूषणैर्द्विजदम्पती ॥
भोजयित्वा महार्हान्नैः प्रीयेतां मङ्गलेश्वरौ ॥ ८५ ॥
इति मन्त्रं समुच्चार्य प्रातः कृत्वाथ पारणम् ॥
न दुर्भगत्वमाप्नोति न दारिद्र्यं कदाचन ॥ ८६ ॥
न वै सन्तानविच्छित्तिं भोगोच्छित्तिं न जातुचित् ॥
स्त्री वैधव्यं न चाप्नोति न नायोषिद्वियोगभाक् ॥ ८७ ॥
पापानि विलयं यान्ति पुण्यराशिश्च लभ्यते ॥
अपि वन्ध्या प्रसूयेत कृत्वैतन्मङ्गलाव्रतम् ॥ ८८ ॥
एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित् ॥
कुमारी विन्दतेत्यन्तं गुणरूपयुतं पतिम् ॥८९॥
कुमारोपि व्रतं कृत्वा विन्दति स्त्रियमुत्तमाम् ॥
सन्ति व्रतानि बहुशो धनकामप्रदानि च ॥4.1.49.९०॥
नाप्नुयुर्जातुचित्तानि मङ्गलाव्रततुल्यताम् ॥
कर्तव्या चाब्दिकी यात्रा मधौ तस्यां तिथौ नरैः ॥ ९१ ॥
सर्वविघ्नप्रशान्त्यर्थं सदा काशीनिवासिभिः ॥
अपरं द्युमणे वच्मि तव चात्र तपस्यतः ॥ ९२ ॥
मयूखा एव खे दृष्टा न च दृष्टं कलेवरम् ॥
मयूखादित्य इत्याख्या ततस्ते दितिनन्दन ॥ ९३ ॥
त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति ॥
भविष्यति न दारिद्र्यं रविवारे त्वदीक्षणात् ॥ ९४ ॥
इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान् ॥
तत्रैवान्तर्हितो भूतो रविस्तत्रैव तस्थिवान् ॥ ९५ ॥
श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम् ॥
द्रौपदादित्यसहितं नरो न निरयं व्रजेत् ॥९६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे द्रौपदादित्यमयूखादित्ययोर्वर्णनं नामैकोनपञ्चाशत्तमोध्यायः ॥ ४९ ॥ ॥