०४८ साम्बादित्यमाहात्म्यकथनम्

स्कन्द उवाच ॥ ॥
शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ॥
दानवानां वधार्थाय भुवोभारापनुत्तये ॥ १ ॥
आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ॥
वासुदेवो जगद्धाम देवक्या वसुदेवतः॥२॥
साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ॥
स्वर्गे पितादृशा बालाः सुशीला न हि कुम्भज ॥ ३ ॥
अतीवरूपसम्पन्ना अतीव सुमहाबलाः ॥
अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः ॥ ४ ॥
तान्द्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसान्निधिः ॥
कृतवल्कलकौपीनो धृत कृष्णाजिनाम्बरः ॥॥।
गृहीतब्रह्मदण्डश्च त्रिवृन्मौञ्जी सुमेखलः ॥
उरस्थलस्थ तुलसी मालया समलङ्कृतः ॥ ६ ॥
गोपीचन्दननिर्यास लसदङ्गविलेपनः ॥
तपसा कृशसर्वाङ्गो मूर्तो ज्वलनवज्ज्वलन् ॥७॥
आजगामाम्बरचरो नारदो द्वारकापुरीम् ॥
विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम् ॥८॥
तन्दृष्ट्वा नारदं सर्वे विनम्रतरकन्धराः ॥
प्रबद्ध मूर्धाञ्जलयः प्रणेमुर्वृष्णिनन्दनाः ॥ ९ ॥
साम्बः स्वरूपसौन्दर्य गर्वसर्वस्वमोहितः ॥
न ननाम मुनिं तत्र हसंस्तद्रूपसम्पदम् ॥ 4.1.48.१० ॥
साम्बस्य तमभिप्रायं विज्ञाय स महामुनिः ॥
विवेश सुमहारम्यं नारदः कृष्णमन्दिरम् ॥ ११ ॥
कृष्णोथ दृष्ट्वाऽऽगच्छन्तं प्रत्युद्गम्य च नारदम् ॥
मधुपर्केण सम्पूज्य स्वासने चोपवेशयत् ॥ १२ ॥
कृत्वा कथा विचित्रार्थास्तत एकान्तवर्तिनः ॥
कृष्णस्य कर्णेऽकथयन्नारदः साम्बचेष्टितम् ॥ १३ ॥
अवश्यं किञ्चिदत्राऽस्ति यशोदानन्दवर्धन ॥
प्रायशस्तन्न घटतेऽसम्भाव्यं नाथ वास्त्रियाम् ॥ १४ ॥
यूनां त्रिभुवनस्थानां साम्बोऽतीव सुरूपवान् ॥
स्वभावचञ्चलाक्षीणां चेतोवृत्तिः सुचञ्चला ॥ १५ ॥
अपेक्षन्ते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ॥
रूपमेव समीक्षन्ते विषमेषु विमोहिताः ॥१६॥
अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ॥
विनाष्टौनायिकाः कृष्ण कामयन्तेऽबलाह्यमुम् ॥ ४३ ॥
वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ॥
विज्ञाताऽऽखिलवृत्तान्तस्तथ्यं कृष्णोप्यमन्यत ॥ १८ ॥
तावद्धैर्यञ्चलाक्षीणां तावच्चेतोविवेकिता ॥
यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा ॥ १९॥
इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ॥
विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः ॥4.1.48.२०॥
साम्बस्य वैकृतं किञ्चित्क्वचित्कृष्णोनवैक्षत॥
गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम् ॥२१॥
कियत्यपि गते काले पुनरप्याययौ मुनिः ॥
मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम् ॥ २२ ॥
बहिः क्रीडन्तमाहूय साम्बमित्याह नारदः ॥
याहि कृष्णान्तिकं तूर्णं कथयागमनं मम ॥२३ ॥
साम्बोपि यामि नोयामि क्षणमित्थमचिन्तयत् ॥
कथं रहःस्थ पितरं यामि स्त्रैणसखम्प्रति ॥ २४ ॥
न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः ॥
ज्वलदङ्गारसङ्काश स्फुरत्सर्वाङ्गतेजसः ॥ २५॥
प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ॥
इदानीमपि नो यायामस्य वाक्यान्महामुनेः ॥ २६ ॥
अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ॥
पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु ॥ २७॥
ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहन्ति न जातुचित् ॥
अपराग्निविनिर्दग्धारो हन्ते दावदग्धवत् ॥ २८॥
इति ध्यात्वा क्षणं साम्बोऽविशदन्तःपुरम्पितुः ॥
मध्ये स्त्रैणसभङ्कृष्णं यावज्जाम्बवतीसुतः ॥ २९ ॥
दूरात्प्रणम्य विज्ञप्तिं स चकार सशङ्कितः ॥
तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये ॥ 4.1.48.३० ॥
ससम्भ्रमोथ कृष्णोपि दृष्ट्वा साम्बं च नारदम् ॥
समुत्तस्थौ परिदधत्पीतकौशेयमम्बरम् ॥ ३१ ॥
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ॥
विलज्जिताः समुत्तस्धुर्गृह्णन्त्यः स्वंस्वमम्बरम् ॥ ३२ ॥
महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ॥
समुपावेशयत्कृष्णः साम्बश्च क्रीडितुं ययौ ॥ ३३ ॥
तासां स्खलितमालोक्य तिष्ठन्तीनां पुरो मुनिः ॥
कृष्णलीलाद्रवीभूतवराङ्गानां जगौ हरिम् ॥ ३४ ॥
पश्यपश्य महाबुद्धे दृष्ट्वा जाम्बवतीसुतम् ॥
इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः ॥ ३५ ॥
कृष्णोपि साम्बमाहूय सहसैवाशपत्सुतम् ॥
सर्वा जाम्बवतीतुल्याः पश्यन्तमपि दुर्विधेः ॥ ३६ ॥
यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः ॥
तस्मात्कुष्ठी भव क्षिप्रमकाण्डागमनेन च ॥ ३७ ॥
वेपमानो महाव्याधिभयात्साम्बोपि दारुणात् ॥
कृष्णं प्रसादयामास बहुशः पापशान्तये॥ ३८ ॥
कृष्णोप्यनेन सञ्जानन्साम्बं स्वसुतमौरसम् ॥
अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम् ॥ ३९ ॥
तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ॥
महैनसां क्षयो यत्र नास्ति वाराणसीं विना ॥ 4.1.48.४० ॥
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ॥
येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ॥
तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम् ॥ ४१ ॥
न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ॥
प्राकृतेभ्योपि पापेभ्यो मुच्यते शङ्कराज्ञया ॥ ४२ ॥
पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ॥
सर्वेषामेव जन्तूनां कृपयान्ते तनुत्यजाम् ॥ ४३ ॥
तत्रानन्दवने शम्भोस्तवशाप निराकृतिः ॥
साम्ब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः ॥ ४४ ॥
ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ॥
नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना ॥ ४५ ॥
साम्बो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ॥
कुण्डं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान् ॥४६ ॥
साम्बादित्यस्तदारभ्य सर्वव्याधिहरो रविः ॥
ददाति सर्वभक्तेभ्योऽनामयाः सर्वसम्पदः ॥ ४७ ॥
साम्बकुण्डे नरः स्नात्वा रविवारेऽरुणोदये॥
साम्बादित्यं च सम्पूज्य व्याधिभिर्नाभिभूयते ॥ ४८ ॥
न स्त्री वैधव्यमाप्नोति साम्बादित्यस्य सेवनात् ॥
वन्ध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम् ॥ ४९ ॥
शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ॥
महापर्व समाख्यातं रविपर्व समं शुभम् ॥ 4.1.48.५० ॥
महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ॥
साम्बादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात् ॥ ५१ ॥
सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ॥
तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः ॥ ५२ ॥
मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ॥
अशोकैस्तत्र सम्पूज्य कुण्डे स्नात्वा विधानतः ॥ ५३ ॥
साम्बादित्यं नरो जातु न शोकैरभिभूयते ॥
संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात् ॥ ५४ ॥
विश्वेशात्पश्चिमाशायां साम्बेनात्र महात्मना ॥
सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा ॥ ५५ ॥
इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ॥
तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः ॥
नरो भवति निष्पापः काशीवास फलं लभेत् ॥ ५६ ॥
साम्बादित्यस्य माहात्म्यं कथितं ते महामते ॥
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ॥ ५७ ॥
इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ॥
तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः ॥ ५८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे साम्बादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ॥४८॥