॥ स्कन्द उवाच ॥ ॥
अथोत्तरस्यामाशायां कुण्डमर्काख्यमुत्तमम् ॥
तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः ॥ १ ॥
तापयन्दुःखसङ्घातं साधूनाप्याययन्रविः ॥
उत्तरार्को महातेजाः काशीं रक्षति सर्वदा ॥ २ ॥
तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत ॥
विप्रः प्रियव्रतो नाम कश्चिदात्रेय वंशजः ॥ ३ ॥
आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः ॥
भार्या शुभव्रता तस्य बभूवातिमनोहरा ॥ ४ ॥
भर्तृशुश्रूषणरता गृहकर्मसुपेशला ॥
तस्यां स जनयामास कन्यामेकां सुलक्षणाम् ॥ ५ ॥
मूलर्क्षप्रथमेपादे तथा केन्द्रे बृहस्पतौ ॥
ववृधे सा गृहे पित्रोः शुक्ले पक्षे यथा शशी ॥ ६ ॥
सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी ॥
अतीव निपुणा जाता गृहोपस्करमार्जने ॥ ७ ॥
यथायथा समैधिष्ट सा कन्या पितृमन्दिरे ॥
तथातथा पितुस्तस्याश्चिन्ता संववृधेतराम् ॥ ८ ॥
कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा ॥
अस्या अनुगुणो लभ्यः क्व मया वर उत्तमः ॥ ९ ॥
कुलेन वयसा चापि शीलेनापि श्रुतेन च ॥
रूपेणार्थेनसंयुक्तः कस्मै दत्ता सुखं लभेत् ॥ 4.1.47.१० ॥
इति चिन्तयतस्तस्य ज्वरोभूदतिदारुणः ॥
यश्चिन्ताख्यो ज्वरः पुंसामौषधैर्नापि शाम्यति ॥ ११ ॥
तन्मूलर्क्षविपाकेन चिन्ताख्येन ज्वरेण च ॥
स विप्रः पञ्चतां प्राप्तस्त्यक्त्वा सर्वं गृहादिकम् ॥ १२ ॥
पितर्युपरते तस्याः कन्यायाः सा जनन्यपि ॥
शुभव्रता परित्यज्य तां कन्यां पतिमन्वगात् ॥ १३ ॥
धर्मोयं सहचारिण्या जीवताजीवतापि वा ॥
पत्या सहैव स्थातव्यं पतिव्रतयुजा सदा ॥ १४ ॥
नापत्यं पाति नो माता न पिता नैव बान्धवाः ॥
पत्युश्चरणशुश्रूषा पायाद्वै केवलं स्त्रियम् ॥१५॥
सुलक्षणापि दुःखार्ता पित्रोः पञ्चत्वमाप्तयोः ॥
और्ध्वदैहिकमापाद्य दशाहं विनिवर्त्य च ॥ ॥ १६ ॥
चिन्तामवाप महतीमनाथा दैन्यमागता ॥
कथमेकाकिनी पित्रा मात्राहीना भवाम्बुधेः ॥ १७ ॥
दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत् ॥
न कस्मैचिद्वरायाहं पितृभ्यां प्रतिपादिता ॥ १८ ॥
तददत्ता कथं स्वैरमहमन्यं वरं वृणे ॥
वृतोपि न कुलीनश्चेद्गुणवान्न च शीलवान् ॥ १९ ॥
स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् ॥
इति सञ्चिन्तयन्ती सा रूपौदार्यगुणान्विता ॥ 4.1.47.२० ॥
युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः ॥
न कस्यापि ददौ बाला प्रवेशं निज मानसे ॥ २१ ॥
पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम् ॥
निनिन्द बहुधात्मानं संसारं च निनिन्द ह ॥ २२ ॥
याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता ॥
पितरौ कुत्र तौ यातौ देहिनो धिगनित्यताम् ॥ २३ ॥
अहो देहोप्यहोङ्गत्वं यथा पित्रोः पुरो मम ॥
इति निश्चित्य सा बाला विजितेन्द्रिय मानसा ॥ २४ ॥
ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह ॥
उत्तरार्कस्य देवस्य समीपे स्थिरमानसा ॥२५॥
तस्यां तपस्यमानायामेकाच्छागी लघीयसी ॥
तत्र प्रत्यहमागत्य तिष्ठेत्तत्पुरतोऽचला ॥२६॥
तृणपर्णादिकं किञ्चित्सायमभ्यवहृत्य सा ॥
तत्कुण्डपीतपानीया स्वस्वामिसदनं व्रजेत् ॥ २७ ॥
तत इत्थं व्यतीतासु पञ्चषा सुसमासु च ॥
लीलया विचरन्देवस्तत्र देव्या सहागतः ॥ २८ ॥
सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम् ॥
स्थाणुवन्निश्चलां स्थाणुरद्राक्षीत्तपसा कृशाम् ॥२९॥
ततो गिरिजया शम्भुर्विज्ञप्तः करुणात्मना ॥
वरेणानुगृहाणेमां बन्धुहीनां सुमध्यमाम् ॥ 4.1.47.३० ॥
शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः ॥
समाधिमीलिताक्षीं तामुवाच वरदो हरः ॥ ३१ ॥
सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते ॥
चिरं खिन्नासि तपसा कस्तेऽस्तीह मनोरथः ॥३२॥
सापि शम्भोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम् ॥
महासन्तापशमनीं लोचने उदमीलयत्॥३३॥
त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः ॥
देवीं च वामभागस्थां प्रणनाम कृताञ्जलिः ॥ ३४ ॥
किं वृणे यावदित्थं सा चिन्तयेच्चारुमध्यमा ॥
तावत्तयानिरैक्षिष्ट वराकी बर्करी पुरः ॥ ३५ ॥
आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः ॥
परं परोपकारार्थं यो जीवति स जीवति ॥ ३६ ॥
अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम् ॥
असेव्यहं तदेतस्यै वरयामि जगत्पतिम् ॥ ३७ ॥
परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा ॥
कृपानिधे महादेव यदि देयो वरो मम ॥ ॥ ३८ ॥
अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम् ॥
वक्तुं पशुत्वान्नोवेत्ति किञ्चिन्मद्भक्तिपेशला ॥ ३९ ॥
इति वाचं निशम्येशः परोपकृतिशालिनीम्॥
सुलक्षणाया नितरां तुतोष प्रणतार्तिहा ॥ 4.1.47.४० ॥
देवदवस्ततः प्राह देवि पश्य गिरीन्द्रजे ॥
साधूनामीदृशी बुद्धिः परोपकरणोर्जिता ॥ ४१ ॥
ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते ॥
यतन्ते सर्वभावेन परोपकरणाय ये ॥४२॥
सञ्चयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित् ॥
सुचिरं तिष्ठते चैकं परोपकरणं प्रिये ॥४३॥
धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि ॥
ब्रूहि देवि वरो देयः कोऽस्यैच्छाग्यै च कः प्रिये ॥ ४४ ॥
॥ श्रीदेव्युवाच ॥ ॥
सर्वसृष्टिकृतां कर्तः सर्वज्ञप्रणतार्तिहन् ॥
सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा ॥ ४५ ॥
यथा जया च विजया यथा चैव जयन्तिका ॥
शुभानन्दा सुनन्दा च कौमुदी च यथोर्मिला ॥ ४६ ॥
यथा चम्पकमाला च यथा मलयवासिनी ॥
कर्पूरलतिका यद्वद्गन्धधारा यथा शुभा ॥ ४७ ॥
अशोका च विशोका च यथा मलयगन्धिनी ॥
यथा चन्दननिःश्वासा यथा मृगमदोत्तमा ॥ ४८ ॥
यथा च कोकिलालापा यथा मधुरभाषिणी ॥
गद्यपद्यनिधिर्यद्वदनुक्तज्ञा यथा च सा ॥ ४९ ॥
दृगञ्चलेङ्गितज्ञा च यथा कृतमनोरथा ॥
गानचित्तहरा यद्वत्तथास्त्वेषा सुलक्षणा ॥ 4.1.47.५० ॥
अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी ॥
अनेनैव शरीरेण दिव्यावयवभूषणा ॥ ॥ ५१ ॥
दिव्याम्बरा दिव्यगन्धा दिव्यज्ञानसमन्विता ॥
समया मां सदैवास्तां चञ्चच्चामरधारिणी ॥ ५२ ॥
एषापि काशिराजस्य कुमार्यस्त्विह बर्करी ॥
अत्रैव भोगान्सम्प्राप्य मुक्तिं प्राप्स्यत्यनुत्तमाम् ॥ ५३ ॥
अनया त्वर्ककुण्डेस्मिन्पुष्ये मासि रवेर्दिने ॥
स्नातं त्वनुदिते सूर्ये शीतादक्षुब्धचित्तया ॥ ५४ ॥
राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना ॥
वरदानप्रभावेण तव विश्वेश्वर प्रभो ॥ ५५ ॥
बर्करीकुण्डमित्याख्या त्वर्ककुण्डस्य जायताम् ॥
एतस्याः प्रतिमा पूज्या भविष्यत्यत्र मानवैः ॥ ९६ ॥
उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने ॥
कार्या सा वत्सरीयात्रा न तैः काशीफलेप्सुभिः ॥५७॥
मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः ॥
विश्वनाथो विवेशाथ प्रासादं स्वमतर्कितः ॥ ५८ ॥
॥ स्कन्द उवाच ॥ ॥
लोलार्कस्य च माहात्म्यमुत्तरार्कस्य च द्विज ॥
कथितं ते महाभाग साम्बादित्यं निशामय ॥ ५९ ॥
श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः ॥
व्याधिभिर्नाभिभूयेत न दारिद्र्येण बाध्यते ॥ 4.1.47.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे उत्तरार्कवर्णनं नाम सप्तचत्वारिंशोध्यायः ॥ ४७ ॥