०४६ लोलार्कवर्णनम्

॥ स्कन्द उवाच ॥ ॥
गतेथ योगिनीवृन्दे देवदेवो घटोद्भव ॥
काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम् ॥१॥
देवदेव उवाच ॥ ॥
सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम् ॥
यत्रास्ति स दिवोदासो धर्ममूर्तिर्महीपतिः ॥ २ ॥
तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत् ॥
तथा कुरुष्व भो क्षिप्रं मावमंस्थाश्च तं नृपम् ॥ ३ ॥
धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना ॥
सा भवेदात्मनो नूनं महदेनश्च जायते ॥ ४ ॥
तवबुद्धिविकासेन च्यवते चेत्स धर्मतः ॥
तदा सा नगरी भानो त्वयोद्वास्याऽसहैः करैः ॥ ५ ॥
कामक्रोधौ लोभमोहौ मत्सराहङ्कृती अपि ॥
ते तत्र न भवेतां यत्तत्कालोपि न तं जयेत् ॥ ६ ॥
यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः ॥
तावद्विघ्नोदयः क्वास्ति विपद्यपि रवे नृषु ॥ ७ ॥
सर्वेषामिह जन्तूनां त्वं वेत्सि ब्रध्नचेष्टितम् ॥
अतएव जगच्चक्षुर्व्रज त्वं कार्यसिद्धये ॥ ८ ॥
रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च ॥
नभोध्वगामहोरात्रं काशीमभिमुखोऽभवत् ॥ ९ ॥
मनसातीवलोलोऽभूत्काशीदर्शनलालसः ॥
सहस्रचरणोप्यैच्छत्तदा खे नैकपादताम् ॥ 4.1.46.१० ॥
हंसत्वं तस्य सूर्यस्य तदा सफलतामगात् ॥
सदा नभोध्वनीनस्य काशीं प्रति यियासतः ॥ ११ ॥
अथ काशीं समासाद्य रविरन्तर्बहिश्चरन् ॥
मनागपि न तद्भूपे धर्मध्वस्तिमवेक्षत ॥१२॥
विभावसुर्वसन्काश्यां नानारूपेण वत्सरम् ॥
क्वचिन्नावसरं प्राप तत्र राज्ञि सुधर्मिणि ॥ १३ ॥
कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः ॥
न तस्य राज्ञो विषये दुर्लभं किञ्चिदैक्षत ॥ १४ ॥
कदाचिद्याचको जातो बहुदोपि कदाप्यभूत् ॥
कदाचिद्दीनतां प्राप्तः कदाचिद्गणकोप्यभूत् ॥ १५ ॥
वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत्॥
कदाचित्स्थापयामास दृष्टप्रत्ययमैहिकम् ॥१६॥
कदाचिज्जटिलो जातः कदाचिच्च दिगम्बरः ॥
स कदाचिज्जाङ्गुलिको विषविद्याविशारदः॥ ॥ १७ ॥
सर्वपाषण्डधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत् ॥
ऐन्द्रजालिक आसीच्च कदाचिद्भ्रामयञ्जनान् ॥ १८ ॥
नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः ॥
क्षोभयामास बहुशः सदृष्टान्त कथानकैः ॥ १९ ॥
कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः ॥
कदाचिदपि विज्ञानी धातुवादी कदाचन ॥ 4.1.46.२० ॥
क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योन्त्यजः क्वचित ॥
ब्रह्मचारी क्वचिदभूद्गृही वनचरः क्वचित् ॥ २१ ॥
यतिः कदाचिदिति सरूपैरभ्रामयज्जनान् ॥
सर्वविद्यासु कुशलः सर्वज्ञश्चाभवत्क्वचित् ॥ २२ ॥
इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः ॥
न कदापि जने क्वापि च्छिद्रं प्राप कदाचन ॥ २३ ॥
ततो निनिन्द चात्मानं चिन्तार्तः कश्यपात्मजः ॥
धिक्परप्रेष्यतां यस्यां यशो लभ्येत न क्वचित् ॥ २४ ॥
॥ मार्तण्ड उवाच ॥ ॥
मन्दरं यदि याम्यद्य सद्यस्तत्क्रुद्ध्यतीश्वरः ॥
अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत् ॥ ॥२५ ॥
कोपमप्युररीकृत्य यदि यायां कथञ्चन ॥
कथं तिष्ठे पुरस्तस्य तर्हि वै मूढभृत्यवत् ॥ २६ ॥
अथोङ्कृत्यावहेलं वा यामि चेच्च कथञ्चन ॥
क्रोधान्निरीक्षेत्त्र्यक्षो मां विषं पेयं तदा मया ॥ २७ ॥
हरकोपानले नूनं यदि यातः पतङ्गताम् ॥
पितामहोपि मां त्रातुं तदा शक्ष्यति नस्फुटम् ॥ २८ ॥
स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन ॥
क्षेत्रसन्न्यासविधिना वाराणस्यां कृताश्रमः ॥ २९ ॥
पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः ॥
यत्पापं भावि मे तस्य काशीपापस्यनिष्कृतिः ॥4.1.46.३०॥
अन्यान्यपि च पापानि महान्त्यल्पानि यानि च ॥
क्षयन्ति तानि सर्वाणि काशीं प्रविशतां सताम् ॥३१॥
बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम् ॥
पुरारिणैव हि पुराऽऽशासि धर्मो हि रक्ष्यताम् ॥ ३२ ॥
धर्मो हि रक्षितो येन देहे सत्वरगत्वरे ॥
त्रैलोक्यरक्षितं तेन किं कामार्थैः सुरक्षितैः ॥३३ ॥
रक्षणीयो यदि भवेत्कामः कामारिणा कथम् ॥
क्षणादनङ्गतां नीतो बहूनां सुखकार्यपि ॥३४॥
अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम्॥
तत्कथं न हरिश्चन्द्रोऽरक्षत्कुशिकनन्दने ॥ ३५ ॥
धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च ॥
शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ॥ ३६ ॥
अयमेव हि वै धर्मः काशीसेवनसम्भवः ॥
रुषितादपि रुद्रान्मां रक्षिष्यति न संशयः ॥ ३७ ॥
अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः ॥
रत्नं करस्थमुत्सृज्य कः काचं सञ्जिघृक्षति ॥ ३८ ॥
वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति ॥
हत्वा निधानं पादेन सोर्थमिच्छति भिक्षया ॥ ३९ ॥
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ॥
प्रतिजन्मेह लभ्यन्ते काश्येका नैव लभ्यते ॥ 4.1.46.४० ॥
येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा ॥
त्रैलोक्यैश्वर्यदुष्प्रापं तेन लब्धं महासुखम् ॥ ४१ ॥
कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति ॥
काश्यां च लप्स्ये तत्तेजो यद्वै स्वात्मावबोधजम् ॥ ४२ ॥
इतराणीह तेजांसि भासन्ते तावदेव हि ॥
खद्योताभानि यावन्नो जृम्भते काशिजं महः ॥ ४३ ॥
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ॥
कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः ॥ ४४ ॥
लोलार्क उत्तरार्कश्च साम्बादित्यस्तथैव च ॥
चतुर्थो द्रुपदादित्यो मयूखादित्य एव च ॥ ४५ ॥
खखोल्कश्चारुणादित्यो वृद्धकेशवसञ्ज्ञकौ ॥
दशमो विमलादित्यो गङ्गादित्यस्तथैव च ॥ ॥ ४६ ॥
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव ॥
तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षन्त्यमी सदा ॥ ४७ ॥
तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने ॥
अतो लोलार्क इत्याख्या काश्यां जाता विवस्वतः ॥ ४८ ॥
लोलार्कस्त्वसिसम्भेदे दक्षिणस्यां दिशिस्थितः ॥
योगक्षेमं सदा कुर्यात्काशीवासि जनस्य च ॥ ॥ ४९ ॥
मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे ॥
विधाय वार्षिकीं यात्रां नरः पापै प्रमुच्यते ॥ 4.1.46.५० ॥
कृतानि यानि पापानि नरैः संवत्सरावधि ॥
नश्यन्ति क्षणतस्तानि षष्ठ्यर्के लोलदर्शनात् ॥ ५१ ॥
नरः स्नात्वासिसम्भेदे सन्तर्प्य पितृदेवताः ॥
श्राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात् ॥५२॥
लोलार्कसङ्गमे स्नात्वा दानं होमं सुरार्चनम् ॥
यत्किञ्चित्क्रियते कर्म तदानन्त्याय कल्पते ॥ ५३ ॥
सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः ॥
कुरुक्षेत्राद्दशगुणा भवन्तीह न संशयः ॥ ५४ ॥
लोलार्के रथसप्तम्यां स्नात्वा गङ्गासिसङ्गमे ॥
सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥ ५५ ॥
प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः ॥
न तस्य दुःखं लोकेस्मिन्कदाचित्सम्भविष्यति॥५६॥
न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका ॥
लोलार्कमर्के यः पश्येत्तत्पादोदकसेवकः ॥ ५७ ॥
वाराणस्यामुषित्वापि यो लोलार्कं न सेवते ॥
सेवन्ते तं नरं नूनं क्लेशाः क्षुद्व्याधिसम्भवाः ॥ ५८ ॥
सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः ॥
ततोंऽगान्यन्यतीर्थानि तज्जलप्लावितानिहि ॥ ५९ ॥
तीर्थान्तराणि सर्वाणि भूमीवलयगान्यपि ॥
असिसम्भेदतीर्थस्य कलां नार्हन्ति षोडशीम् ॥ 4.1.46.६० ॥
सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम् ॥
तत्फलं सम्यगाप्येत नरैर्गङ्गासिसङ्गमे ॥ ६१ ॥
नार्थवादोयमुदितः स्तुतिवादो न वै मुने ॥
सत्यं यथार्थवादोयं श्रद्धेयः सद्भिरादरात् ॥ ६२ ॥
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरङ्गिणी ॥
मिथ्या तत्रानुमन्यन्ते तार्किकाश्चानुसूयकाः ॥ ६३ ॥
उदाहरन्ति ये मूढाः कुतर्कबलदर्पिताः ॥
काश्यां सर्वेर्थवादोयं ते विट्कीटा युगेयुगे ॥ ६४ ॥
कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम्॥
नाधिरोहेन्मुने नूनमपि त्रैलोक्यमण्डपः ॥ ६५ ॥
नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः ॥
अन्त्यजाताश्च ये तेषां पुरः काशी न वर्ण्यताम् ॥ ६६ ॥
लोलार्ककरनिष्टप्ता असिधार विखण्डिताः ॥
काश्यां दक्षिणदिग्भागे न विशेयुर्महामलाः ॥६७॥
महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः ॥
न दुःखी जायते क्वापि संसारे दुःखसागरे ॥ ६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे लोलार्कवर्णनं नाम षट्चत्वारिंशोध्यायः ॥ ४६ ॥