०४५ षष्टियोगन्यागमनम्

॥ स्कन्द उवाच ॥ ॥
अथ तद्योगिनीवृन्दं दूराद्दृष्टिं प्रसार्य च ॥
स्वनेत्रदैर्घ्यनिर्माणं प्रशशम्स फलान्वितम् ॥ १ ॥
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः ॥
सादरं दूरमार्गस्थान्पान्थानाह्वयतीरिव ॥२॥
चञ्चत्प्रासादमाणिक्यैर्विजृम्भितमरीचिभिः ॥
सुनीलमपि च व्योमवीक्ष्यमाणं सुनिर्मलम् ॥ ३ ॥
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम् ॥
विधाय काशीमविशद्योगिनीचक्रमक्रमम् ॥ ४ ॥
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी ॥
काचिद्बभूव सैरन्ध्री काचिन्मासोपवासिनी ॥५॥
मालाकारवधूः काचित्काचिन्नापितसुन्दरी ॥
सूतिकर्मविचारज्ञा ऽपरा भैषज्यकोविदा ॥ ६ ॥
वैश्या च काचिदभवत्क्रयविक्रयचञ्चुरा ॥
व्यालग्राहिण्यभूत्काचिद्दासीधात्री च काचन ॥ ७ ॥
एका च नृत्यकुशला त्वन्या गानविशारदा ॥
अपरा वेणुवादज्ञा परा वीणाधराभवत् ॥ ८ ॥
मृदङ्गवादनज्ञान्या काचित्ताल कलावती ॥
काचित्कार्मणतत्त्वज्ञा काचिन्मौक्तिकगुम्फिका ॥ ९ ॥
गन्धभागविधिज्ञान्या काचिदक्षकलालया ॥
आलापोल्लासकुशला काचिच्चत्वरचारिणी ॥ 4.1.45.१० ॥
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा ॥
काचिद्वातुलचेष्टाऽभूत्पथि चीवरवेष्टना ॥ ११ ॥
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत् ॥
काचित्कराङ्घ्रिरेखाणां लक्षणानि चिकेति च ॥ १२ ॥
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा ॥
वशीकरणमन्त्रज्ञा काचित्तत्र चचार ह ॥ १३ ॥
गुटिकासिद्धिदा काचित्काचिदञ्जनसिद्धिदा ॥
धातुवादविदग्धान्या पादुकासिद्धिदा परा ॥ १४ ॥
अग्निस्तम्भ जलस्तम्भ वाक्स्तम्भं चाप्यशिक्षयत् ॥
खेचरीत्वं ददौ काचिददृश्यत्वं परा ददौ ॥ १५ ॥
काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा ॥
काचिन्निजाङ्गसौन्दर्य युवचित्तविमोहिनी ॥ १६ ॥
चिन्तितार्थप्रदा काचित्काचिज्ज्योतिः कलावती ॥
इत्यादि वेषभाषाभिरनुकृत्य समन्ततः ॥ १७ ॥
प्रत्यङ्गणं प्रतिगृहं प्राविशद्योगिनीगणः ॥
इत्थमब्दञ्चरन्त्यस्ता योगिन्योऽहर्निशं पुरि ॥१८॥
न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः ॥
ततः समेत्य ताः सर्वा योगिन्यो वन्ध्यवाञ्छिताः ॥
तस्थुः सम्मन्त्र्य तत्रैव न गता मन्दरं पुनः ॥ १९ ॥
प्रभुकार्यमनिष्पाद्य सदः सम्भावनैधितः ॥
कः पुरः शक्नुयात्स्थातुं स्वामिनो क्षतविग्रहः ॥4.1.45.२०॥
अन्यच्च चिन्तितं ताभिर्योगिनीभिरिदं मुने ॥
प्रभुं विनापि जीवामो न तु काशीं विना पुनः ॥ २१ ॥
प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः ॥
काशीहरेत्कराद्भ्रष्टा पुरुषार्थचतुष्टयम् ॥ २२ ॥
नाद्यापि काशीं सन्त्यज्य तदारभ्य महामुने ॥
योगिन्योन्यत्र तिष्ठन्ति चरन्त्योपि जगत्त्रयम्॥ २३ ॥
प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः ॥
स एव प्रत्युत त्यक्तो धर्मकामार्थमुक्तिभिः ॥२४॥
कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति॥
मोक्षनिक्षेप कलशीं तुच्छश्रीकृतमानसः ॥ २५ ॥
विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः ॥
सम्मुखो भविता पुण्यं कृतकृत्याः स्म तद्वयम् ॥ २६ ॥
दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति ॥
विना काशीं न रमते यतोऽन्यत्र त्रिलोचनः ॥ २७ ॥
शम्भोः शक्तिरियं काशी काचित्सर्वैरगोचरा ॥
शम्भुरेव हि जानीयादेतस्याः परमं सुखम् ॥ ॥ २८ ॥
इति निश्चित्य मनसि शम्भोरानन्दकानने ॥
अतिष्ठद्योगिनीवृन्दं कयाचिन्माययावृतम् ॥ २९ ॥
व्यास उवाच ॥ ॥
इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् ॥
कानि कानि च नामानि तासां तानि वदेश्वर ॥ 4.1.45.३० ॥
भजनाद्योगिनीनां च काश्यां किं जायते फलम् ॥
कस्मिन्पर्वणि ताः पूज्याः कथं पूज्याश्च तद्वद ॥ ३१ ॥
श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः ॥
प्रत्युवाच मुने वच्मि शृणोत्ववहितो भवान् ॥ ३२ ॥
॥ स्कन्द उवाच ॥ ॥
नामधेयानि वक्ष्यामि योगिनीनां घटोद्भव॥
आकर्ण्य यानि पापानि क्षयन्ति भविनां क्षणात्॥३३॥
गजानना सिंहमुखी गृध्रास्या काकतुण्डिका॥
उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ॥३४॥
उलूकिका शिवारावा मयूरी विकटानना ॥
अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ॥३५॥
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥
ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ ३६ ॥
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥
पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ ३७ ॥
शिशुघ्नी पापहन्त्री च काली रुधिरपायिनी ॥
वसाधया गर्भभक्षा शवहस्तान्त्रमालिनी ॥३८॥
स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ॥
दन्दशूककरा क्रौञ्ची मृगशीर्षा वृषानना ॥ ३९ ॥
व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ॥
तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका ॥ 4.1.45.४० ॥
विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ॥
अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ॥४१॥
नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ॥
जपेत्त्रिसन्ध्यं तस्येह दुष्टबाधा प्रशाम्यति ॥ ४२ ॥
न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ॥
तस्य पीडां प्रकुर्वन्ति नामानीमानि यः पठेत् ॥ ४३ ॥
शिशूनां शान्तिकारीणि गर्भशान्तिकराणि च ॥
रणे राजकुले वापि विवादे जयदान्यपि ॥ ४४ ॥
लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ॥
मन्त्रान्तराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत् ॥ ४५ ॥
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ॥
क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान् ॥ ४६ ॥
शरत्काले महापूजां तत्र कृत्वा विधानतः ॥
हवींषि हुत्वा मन्त्रज्ञो महतीं सिद्धिमाप्नुयात् ॥ ४७ ॥
आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ॥
पूजयेन्नवमीयावन्नरश्चिन्तितमाप्नुयात् ॥ ४८ ॥
कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ॥
तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात् ॥ ४९ ॥
प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ॥
प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि ॥ 4.1.45.५० ॥
ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ॥
यां यां सिद्धिमभीप्सेत तान्तां प्राप्नोति मानवः ॥५१॥
चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ॥
क्षेत्रविघ्नशान्त्यर्थं कर्तव्या पुण्यकृज्जनैः ॥ ५२ ॥
यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ॥
तस्य विघ्नं प्रयच्छन्ति योगिन्यः काशिवासिनः ॥ ५३ ॥
अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ॥
तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते ॥ ५४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे षष्टियोगन्यागमनन्नाम पञ्चचत्वारिंशोध्यायः ॥ ४५ ॥