॥ स्कन्द उवाच ॥
अथ मन्दरकन्दरोदरोल्लसद समद्युति रत्नमन्दिरे ॥
परितः समधिष्ठितामरे निजशिखरैर्वसनीकृताम्बरे ॥ १ ॥
निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः ॥।
लभते स्म न शर्म शङ्करः प्रसरत्काशिवियोगज ज्वरः ॥ २ ॥
विरहानलशान्तये तदा समलेपि त्रिपुरारिणापि यः ॥
मलयोद्भव पङ्क एष स प्रतिपेदेह्यधुना पिपांसुताम् । ३
परितापहराणि पद्मिनीनां मृदुलान्यपि कङ्कणीकृतानि ॥
गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा ॥ ४ ॥
यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचन्द्रः ॥
स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः ॥ ५ ॥
यददीधरदेष जाततापः पृथुले मौलिजटानि कुञ्जकोणे ॥
परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते॥ ६ ॥
महतो विरहस्य शङ्करः प्रसभन्तस्यवशी वशङ्गतः ॥
विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः ॥ ७ ॥
अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना ॥
स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः ॥ ८ ॥
निजभालतलं कलानिधेः कलया नित्यमलङ्करोति यः ॥
स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु ॥ ९ ॥
गरलं गलनालिकातले विलसेदस्य न तेन तापितः ॥
अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम् ॥ 4.1.44.१० ॥
विलसद्धरिचन्दनोदकच्छटया तद्विरहापनुत्तये ॥
हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु ॥११॥
सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः ॥
इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसम्भवः ॥१२॥
स्मृतिमात्रपथङ्गतोपि यस्त्रिविध तापमपाकरोत्यलम्॥
स हि काशिवियोगतापितः स्वगतं किञ्चिदजल्पदित्यजः ॥ १३ ॥
अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम ॥
दवथुः परिशान्तिमेति तन्नहि मानी परिगाहनैरपि ॥ १४ ॥
अगमिष्यदहोकथं सतापो ननु दक्षाङ्गजयाय एधितः ॥
ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि ॥ १५ ॥
न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् ॥
अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा ॥ १६ ॥
अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमङ्गसङ्गजम् ॥
अतिशीतलितानि येन मेऽद्भुतगात्राणि भवन्ति तत्क्षणात् ॥ १७ ॥
अयि काशि विनाशिताघसङ्घे तवविश्लेषजआशुशुक्षणिः ॥
अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते ॥ १८ ॥
अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन ॥
अधुना खलु नैव शान्तिमीयां यदि काशीं न विलोकयेहमाशु ॥ १९ ॥
मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः ॥
जगदम्बिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि ॥ 4.1.44.२० ॥
प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः ॥
वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः ॥ २१ ॥
॥ श्रीपार्वत्युवाच ॥ ॥
तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते ॥
तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री ॥ २२ ॥
त्वदनीक्षणतः क्षणाद्विभो प्रलयं यान्ति जगन्ति शोच्यवत् ॥
च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोङ्कृतः ॥ २३ ॥
भवतः परितापहेतवो न भवन्तीन्दु दिवाकराग्नयः ॥
नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ ॥ २४ ॥
भुजगाभुजगाः सदैव तेऽमी न विषं सङ्क्रमते च नीलकण्ठ ॥
अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता ॥२५॥
इति संसृतिसम्बीजजनन्याभिहिते हिते ॥
गिरां निगुम्फे गिरिशो वक्तुमप्याददे गिरम् ॥ २६ ॥
॥ ईश्वर उवाच ॥ ॥
अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् ॥
सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः ॥२७॥
अथबालसखी भूत तत्तत्काननवीरुधम् ॥ शिवाप्रस्तावयाञ्चक्रे विमुक्तां मुक्तिदां पुरीम् ॥२८॥
॥ पार्वत्युवाच ॥ ॥
गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् ॥
कृतपुण्डरीकशोभां स्मरहरकाशीं पुरीं यावः ॥२९॥
धराधरेन्द्रस्य धरातिसुन्दरा न मां तथास्यापि धिनोति धूर्जटे॥
धरागतापीह न या ध्रुवन्धरा पुरीधुरीणा तव काशिका यथा॥4.1.44.३०॥
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः॥
न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत् ॥३१॥
किमत्र नो सन्ति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः ॥
परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव ॥ ३२ ॥
त्रिविष्टपे सन्ति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः ॥
तृणी भवन्तीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः ॥३३॥
न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् ॥
उपाय एषोत्र निदाघशान्तये पुरी तु सा वा ममजन्मभूरथ ॥ ३४ ॥
मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः ॥
अवाप्यकाशीं परितः प्रशान्तिदां समस्तसन्तापविघातहेतुकाम् ॥ ३५ ॥
न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् ॥
अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका ॥ ३६ ॥
न मुक्तिरस्तीह तथा समाधिना स्थिरेन्द्रियत्वोज्झित तत्समाधिना ॥
क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम् ॥३७॥
न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुन्दरे ॥
वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि ॥ ३८ ॥
क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते ॥
मनोपि यः प्राणिवरः प्रयुङ्क्ते षडङ्गयोगं स सदैव युङ्क्ते ॥ ३९ ॥
षडङ्गयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते ॥
सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम् ॥ 4.1.44.४० ॥
वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् ॥
अकाशिसन्दर्शननिष्फलोदयं समन्ततः पुष्करबुद्बुदोपमम् ॥ ४१ ॥
दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी ॥
मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसम्मुखम् ॥ ४२ ॥
वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् ॥
कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः ॥ ४३ ॥
न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः ॥
तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम् ॥४४॥
महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति सङ्क्षयम् ॥
परः शतैर्जन्मभिरेधितापि या दिवाकराग्नीन्दुकरैरनिग्रहा ॥ ४५ ॥
किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः ॥
अथवा मणिकर्णिकास्थली परमानन्दसुकन्दजन्मभूमिः ॥ ४६ ॥
समतीतविमुक्तजन्तुसङ्ख्या क्रियते यत्र जनैः सुखोपविष्टैः ॥
विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः ॥ ४७ ॥
॥ स्कन्द उवाच ॥ ॥
अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने ॥
पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्॥ ४८ ॥
श्रीपार्वत्युवाच ॥ ॥
प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन ॥
यथानन्दवनं यायां तथा कुरु वरप्रद॥ ४९ ॥
स्कन्द उवाच॥ ॥
जितपीयूषमाधुर्यां काशीस्तवनसुन्दरीम् ॥
अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम् ॥ 4.1.44.५० ॥
श्रीदेवदेव उवाच ॥ ॥
अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः ॥
आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना ॥ ५१ ॥
त्वं जानासि महादेवि मम यत्तन्महद्व्रतम्॥
अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत् ॥५२॥
पितामहस्य वचनाद्दिवोदासे महीपतौ॥
धर्मेण शासति पुरीं क उपायो विधीयताम् ॥५३॥
कथं स राजा धर्मिष्ठः प्रजापालनतत्परः ॥
वियोज्यते पुरः काश्या दिवोदासो महीपतिः॥५४॥
अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु ॥
तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत् ॥५५॥
धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् ॥
तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि ॥५६ ॥
विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे ॥
मयैव हि यतो रक्ष्याः प्रिये धर्मधुरन्धराः ॥ ५७ ॥
न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति ॥
व्याधयस्तं न बाधन्ते धर्मवर्त्मभृदत्रयः ॥ ५८ ॥
इति सञ्चिन्तयन्देवो योगिनीचक्रमग्रतः ॥
ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम् ॥५९॥
अथ देव्या समालोच्य व्योमकेशो महामुने ॥
योगिनीवृन्दमाहूय जगौ वाक्यमिदं हरः ॥ 4.1.44.६० ॥
सत्वरं यात योगिन्यो मम वाराणसीं पुरीम्॥
यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम् ॥ ६१ ॥
स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः ॥
तथोपचरत प्राज्ञा योगमायाबलान्विताः ॥६२॥
यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् ॥
इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम् ॥ ६३ ॥
इति प्रसादमासाद्य शासनं शिरसा वहन्॥
कृतप्रणामो निर्यातो योगिनीनां गणस्ततः ॥ ६४ ॥
ययुराकाशमाविश्य मनसोप्य तिरंहसा ॥
परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः ॥६५॥
अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् ॥
कृतप्रसादाः प्रहिताः श्रीमदानन्दकाननम्॥६६॥
अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ ॥
त्रिनेत्रराजसम्मानस्तथा काशी विलोकनम् ॥ ६७ ॥
इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमन्दराद्रिकुञ्जात् ॥
नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलम्भयत्पुरीं ताम् ॥ ६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे काशीवर्णनं नाम चतुश्चत्वारिंशोध्यायः ॥ ४४ ॥