०४३ दिवोदासप्रतापवर्णनम्

॥ अगस्तिरुवाच ॥ ॥
दिवोदासं नरपतिं कथं देवस्त्रिलोचनः ॥
काशीं सन्त्याजयामास कथमागाच्च मन्दरात् ॥
एतदाख्यानमाख्याहि श्रोतॄणां प्रमुदे भगोः ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
मन्दरं गतवान्देवो ब्रह्मणो वाक्य गौरवात् ॥
तपसा तस्य सन्तुष्टो मन्दरस्यैव भूभृतः ॥ २ ॥
गते विश्वेश्वरे देवे मन्दरं गिरिसुन्दरम् ॥
गिरिशेन समं जग्मुरपि सर्वे दिवौकसः ॥ ३ ॥
क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः ॥
प्रयातो मन्दरं यत्र देवदेव उमाधवः ॥ ४ ॥
स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत् ॥
हित्वाहमपि विप्रेन्द्र गतवान्मन्दरं प्रति ॥ ५ ॥
सूरः सौराणि सन्त्यज्य गतश्चायतनादरम् ॥
स्वंस्वं स्थानं क्षितौ त्यक्त्वा ययुरन्येपि निर्जराः ॥ ६॥
गतेषु देवसङ्घेषु पृथिव्याः पृथिवीपतिः ॥
चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रतापवान् ॥ ७ ॥
विधाय राजधानीं स वाराणस्यां सुनिश्चलाम् ॥
एधां चक्रे महाबुद्धिः प्रजाधर्मेण पालयन् ॥ ८ ॥
सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः ॥
सोमवत्सुहृदामासीन्मानसेषु स्वकेष्वऽपि ॥ ९ ॥
अखण्डमाखण्डलवत्कोदण्डकलयन्रणे ॥
पलायमानैरालोकिशत्रुसैन्यबलाहकैः ॥ 4.1.43.१० ॥
स धर्मराजवज्जातो धर्माधर्मविवेचकः ॥
अदण्ड्यान्मण्डयन्राजा दण्ड्यांश्च परिदण्डयन् ॥ ११ ॥
धनञ्जय इवाधाक्षीत्परारण्यान्यनेकशः ॥
पाशीव पाशयाञ्चक्रे वैरिचक्रं विदूरगः ॥ १२ ॥
सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः ॥
जगत्प्राणसमानश्च जगत्प्राणनतत्परः ॥१३॥
राजराजः स एवाभूत्सर्वेषां धनदः सताम् ॥
स एव रुद्रमूर्तिश्च प्रेक्षिष्ट रिपुभी रणे ॥ १४ ॥
विश्वेषां स हि देवानां तपसा रूपधृग्यतः ॥
विश्वेदेवास्ततस्तं तु स्तुवन्ति च भजन्ति च ॥ १५ ॥
असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः ॥
ग्रहाणां विग्रहधरो दस्रतोऽजस्ररूपभाक् ॥ १६ ॥
मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः ॥
सर्वविद्याधरो यस्तु सर्वविद्याधरेष्वपि ॥ १७ ॥
अगर्वानेव गन्धर्वान्यश्चक्रे निजगीतिभिः ॥
ररक्षुर्यक्षरक्षांसि तद्दुर्गं स्वर्गसोदरम् ॥ १८ ॥
नागानागांसि चक्रुश्च तस्य नागबलीयसः ॥
दनुजामनुजाकारं कृत्वा तं च सिषेविरे ॥ १९ ॥
जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु ॥
संसेविष्यामहे राजन्नसुरास्त्वां स्ववैभवैः ॥ 4.1.43.२० ॥
वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः ॥
अशिक्षयत्क्षितिपतेरिह यस्य तुरङ्गमान् ॥
आशुगश्चाशुगामित्वं पावमाने पथिस्थितः ॥ २१ ॥
अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः ॥
अजस्र दानिनो दृष्ट्वा भवन्नन्येपि दानिनः ॥ २२ ॥
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे ॥
न यस्य शास्त्रैर्विजिता न शस्त्रैः केनचित्क्वचित् ॥ २३ ॥
न नेत्रविषये जाता विषये यस्यभूभृतः ॥
सदा नष्टपदा द्वेष्यास्तदाऽनष्टपदाः प्रजाः ॥ २४ ॥
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम् ॥
तस्य क्षोणिभृतः क्षोण्यां जनाः सर्वे कलालयाः ॥ २५ ॥
एक एव हि कामोस्ति स्वर्गे सोप्यङ्गवर्जितः ॥
साङ्गोपाङ्गाश्च सर्वेषां सर्वे कामा हि तद्भुवि ॥२६॥
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित् ॥
स्वर्गे स्वर्गसदामीशो गोत्रभित्परिकीर्तितः ॥ २७ ॥
क्षयी च तस्य विषये कोप्याकर्णि न केनचित् ॥
त्रिविष्टपे क्षपानाथः पक्षेपक्षे क्षयीष्यते ॥ २८ ॥
नाके नवग्रहाः सन्ति देशास्तस्याऽनवग्रहाः ॥ २९ ॥
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते ॥
हिरण्यगर्भाः सर्वेषां तत्पौराणामिहालयाः ॥ 4.1.43.३० ॥
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान् ॥
सदंशुकाः प्रतिदिनं बह्वश्वास्तत्पुरौकसः ॥ ३१ ॥
सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः ॥
एकैव पद्मा वैकुण्ठे तस्य पद्माकराः शतम् ॥ ॥ ३२ ॥
अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित् ॥
गृहेगृहेत्र धनदा नाक एकोऽलकापतिः ॥ ३३ ॥
दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः ॥
गतं वर्षं दिनप्रायं शरदामयुताष्टकम् ॥ ३४ ॥
गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः ॥
गुरुणा मन्त्रयाञ्चक्रुर्धर्मवर्त्मानुयायिनः ॥३५॥
भवादृशामिव मुने प्रायशो धर्मचारिणाम् ॥
विबुधा विदधत्येव महतीरापदान्ततीः ॥३६॥
यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः ॥
तानध्वरभुजोऽत्यन्तं तथापि सुहृदो न ते ॥ ३७ ॥
स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता ॥
बलि बाण दधीच्याद्यैरपराद्धं किमत्र तैः ॥३८॥
अन्तराया भवन्त्येव धर्मस्यापि पदेपदे ॥
तथापि न निजो धर्मो धर्मधीभिर्विमुच्यते ॥ ३९ ॥
अधर्मिणः समेधन्ते धनधान्यसमृद्धिभिः ॥
अधर्मादेव च परं समूलं यान्त्यधोगतिम् ॥ 4.1.43.४० ॥
प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान् ॥
रिपुञ्जयस्य नाल्पोपि बभूवाधर्मसङ्ग्रहः ॥४१॥
षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः ॥
चतुरोपायवित्तस्य न रन्ध्रं विविदुः सुराः ॥ ४२ ॥
बुद्धिमन्तोपि विबुधा विप्रतीकर्तुमुद्यताः ॥
मनागपि न संशेकुरपकर्तुं तदीशितुः ॥ ४३ ॥
एकपत्नीव्रताः सर्वे पुमांसस्तस्य मण्डले ॥
नारीषु काचिन्नैवासीदपतिव्रतधर्मिणी ॥ ४४ ॥
अनधीतो न विप्रोभूदशूरोनैव बाहुजः ॥
वैश्योनभिज्ञो नैवासीदर्थोपार्जनकर्मसु ॥४५॥
अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति ॥
तस्य राष्ट्रे समभवन्दिवोदासस्य भूपतेः ॥ ४६ ॥
अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः ॥
नित्यं गुरुकुलाधीना वेदग्रहणतत्पराः ॥ ४७ ॥
आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः ॥
नित्यसाधुसमाचारा गृहस्थास्तस्य सर्वतः ॥ ४८ ॥
तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः ॥
निःस्पृहा ग्रामवार्तासु वेदवर्त्मानुसारिणः ॥ ४९ ॥
सर्वसङ्गविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः ॥
वाङ्मनःकर्मदण्डाढ्या यतयो यत्र निःस्पृहाः ॥ 4.1.43.५० ॥
अन्येनुलोमजन्मानः प्रतिलो मभवा अपि ॥
स्वपारम्पर्यतो दृष्टं मनाग्वर्त्म न तत्यजुः ॥ ५१ ॥
अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न ॥
अवृद्धसेवी नो कश्चिदकाण्डमृतिभाक्च न ॥ ५२ ॥
न चाटा नैव वाचाटा वञ्चका नो न हिंसकाः ॥
न पाषण्डा न वै भण्डा न रण्डा न च शौण्डिकाः ॥५३॥
श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे ॥
सर्वत्र सुभगालापा मुदामङ्गलगीतयः ॥५४ ॥
वीणावेणुप्रवादाश्च मृदङ्गा मधुरस्वनाः ॥
सोमपानं विनान्यत्र पानगोष्ठी न कर्णगा ॥५५॥
मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन ॥
न दुरोदरिणो यत्र नाधमर्णा न तस्कराः ॥ ५६ ॥
पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम् ॥
उपवासो व्रतं तीर्थं देवताराधनं परम् ॥ ५७ ॥
नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः ॥
समर्चयन्ति सततमनुजा निजमग्रजम् ॥ ५८ ॥
सपर्ययन्ति मुदिता भृत्याः स्वामिपदाम्बुजम् ॥
हीनवर्णैरग्रवर्णो वर्ण्यते गुणगौरवैः ॥ ५९ ॥
वरिवस्यन्ति भूयोपि त्रिकालं काशिदेवताः ॥
सर्वत्र सर्वे विद्वांसः समर्च्यन्ते मनोरथैः ॥ 4.1.43.६० ॥
विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेन्द्रियाः ॥
जितेन्द्रियैर्ज्ञाननिष्ठा ज्ञानिभिः शिवयोगिनः ॥ ६१ ॥
मन्त्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम् ॥
वाडवानां मुखाग्नौ च हूयतेऽहर्निशं हविः ॥ ६२ ॥
वापीकूपतडागानामारामाणां पदेपदे ॥
शुचिभिर्द्रव्यसम्भारैः कर्तारो यत्र भूरिशः ॥ ६३ ॥
यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यन्ते सर्वजातयः ॥
अनिन्द्यसेवा सम्पन्ना विनामृगयु सौनिकान् ॥ ६४ ॥
इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः ॥
उन्मिषन्तोप्यनिमिषा मनाक्छिद्रं न लेभिरे ॥ ६५ ॥
अथोवाचामर गुरुर्देवानपचिकीर्षुकान् ॥
तस्मिन्राजनि धर्मिष्ठे वरिष्ठे मन्त्रवेदिषु ॥६८॥
॥ गुरुरुवाच ॥ ॥
सन्धिविग्रहयानास्ति सं श्रयं द्वैधभावनम् ॥
यथा स राजा संवेत्ति न तथात्रापि कश्चन ॥ ६७ ॥
उपायोप्येक एवास्ति चतुर्ष्विह दिवौकसः ॥
भेदो नाम स चेत्सिध्येत्तपोबलिनि तत्र हि ॥६८॥
तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः ॥
तथापि भूरिशस्तत्र सन्त्यस्मत्पक्षपातिनः ॥ ६९ ॥
कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् ॥
अस्माकमपि तस्यापि सन्ति ते तत्र मानिताः ॥ 4.1.43.७० ॥
अन्तर्बहिश्चरा नित्यं सर्वविश्रम्भ भूमयः ॥
समागतेषु तेष्वत्र सर्वं नः सेत्स्यति प्रियम् ॥ ७१ ॥
समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् ॥
निर्णीतवन्तस्तस्यार्थं तस्मादन्तर्बहिश्चरान् ॥
अभिनन्द्याथ तं सर्वे प्रोचुरित्थं भवेदिति ॥ ७२ ॥
ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम् ॥
ऊचे मधुरया वाचा बहुमानपुरःसरम् ॥ ७३ ॥
हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता ॥
तामुपासंहर क्षिप्रं विषयात्तस्य भूपतेः ॥ ॥ ७४ ॥
समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः ॥
हव्यकव्यक्रियाशून्या विरजिष्यन्ति राजनि ॥ ७५ ॥
प्रजासु च विरक्तासु राज्यकामदुघासु वै ॥
कृच्छ्रेणोपार्जितोऽपार्थो राजशब्दो भविष्यति ॥ ७६ ॥
प्रजानां रञ्जनाद्राजा येयं रूढिरुपार्जिता ॥
तस्यां रूढ्यां प्रनष्टायां राज्यमेव विनङ्क्ष्यति ॥ ७७ ॥
प्रजाविरहितो राजा कोशदुर्गबलादिभिः ॥
समृद्धोप्यचिरान्नश्येत्कूलसंस्थ इव द्रुमः ॥ ७८ ॥
त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः ॥
क्षीणवृत्त्यां प्रजायां वै त्रिवर्गः क्षीयते स्वयम् ॥ ७९ ॥
क्षीणे त्रिवर्गे सङ्क्षीणा गतिर्लोकद्वयात्मिका ॥ 4.1.43.८० ॥
इतीन्द्रवचनाद्वह्निरह्नाय क्षोणिमण्डलात् ॥
आचकर्ष निजां मूर्तिं योगमाया बलान्वितः ॥ ८१ ॥
निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः ॥
वज्रिणो वचसा वह्निर्निजशक्तिसमन्वितम् ॥ ८२ ॥
वह्नौ स्वर्लोकमापन्ने जाते मध्यन्दिने नृपः ॥
कृतमाध्याह्निकस्तूर्णं प्राविशद्भोज्यमण्डपम् ॥ ८३ ॥
महानसाधिकृतयो वेपमानास्ततो मुहुः ॥
क्षुधार्तमपि भूपालमिदं मन्दं व्यजिज्ञपन् ॥ ८४ ॥
सूपकारा ऊचुः ॥
अत्यहस्करतेजस्क प्रतापविजितानल ॥
किञ्चिद्विज्ञप्तुकामाः स्मोप्यकाण्डेरणपण्डित ॥ ८५ ॥
यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम् ॥
तदा विज्ञापयिष्यामः प्रबद्धकरसम्पुटाः ॥ ८६ ॥
भ्रूसञ्ज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा ॥
मृदु विज्ञापयाञ्चक्रुः पाकशालाधिकारिणः ॥ ८७ ॥
न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः ॥
कुसृत्याथ कया विद्वान्नष्टो वैश्वानरः पुरात् ॥ ८८ ॥
कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत् ॥
तथापि सूर्यपाकेन सिद्धा पक्तिर्हि काचन ॥ ८९ ॥
प्रभोरादेशमासाद्य तामिहैवानयामहे ॥
मन्यामहे च भूजाने पक्तिरद्यतनी शुभा ॥ 4.1.43.९० ॥
श्रुत्वान्धसिकवाक्यं स महासत्त्वो महामतिः ॥
नृपतिश्चिन्तयामास देवानां वै कृतं त्विदम् ॥ ९१ ॥
क्षणं संशीलयंस्तत्र ददर्श तपसोबलात् ॥
न केवलं जहौ गेहं हुतभुक्चौदरीर्दरीः ॥ ९२ ॥
अप्यहासीदितोलोकाज्जगाम च सुरालयम् ॥
भवत्विह हि का हानिरस्माकं ज्वलने गतै ॥ ९३ ॥
तेषामेवविचाराच्च हानिरेषा सुपर्वणाम् ॥
तद्बलेन च किं राज्यं मयेदमुररीकृतम् ॥ ९४ ॥
पितामहेन महतो गौरवात्प्रतिपादितम् ॥
इति चिन्तयतस्तस्य मध्यलोकशतक्रतोः ॥ ९५ ॥
पौराः समागता द्वारि सह जानपदैर्नरैः ॥
द्वास्थेन चाज्ञया राज्ञस्ततस्तेन्तः प्रवेशिताः ॥ ९६ ॥
दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम् ॥
केचित्सम्भाषिता राज्ञादरसोदरया गिरा ॥ ९७ ॥
केचिच्च समुदा दृष्ट्या केचिच्च करसञ्ज्ञया ॥
विसर्जिता सना राज्ञा बहुमानपुरःसरम् ॥ ९८ ॥
तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते ॥
विजितामोदसन्दोहे सुरानोकहसौरभैः ॥
राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे ॥ ९९ ॥
विशाम्पतिरथोवाच तन्मुखच्छाययेरितम् ॥
विज्ञाय तदभिप्रायमलम्भीत्या पुरौकसः ॥ 4.1.43.१०० ॥
विकारकारिभिर्लेखैर्यदिनीतोऽनलो भुवः ॥
एतावतैव किं सिद्धयेन्मयि तेषां पराभवः ॥ १ ॥
चिकीर्षुरहमेवासं पौराः कार्यमिदम्पुरा ॥
परं ह्युपेक्षितप्रायं दिष्ट्या तैः स्मारितं चिरात् ॥ २ ॥
गतोऽनलोऽभवद्भद्रं जगत्प्राणोपि यात्वितः ॥
वरुणः पुष्पवन्ताभ्यामविलम्बं प्रयात्वितः ॥ ३ ॥
अहमेव हि पर्जन्यो भविष्यामि तपोबलात् ॥
मुदे जनपदानां च सर्वसस्यसमृद्धिदः ॥ ४ ॥
तपोयोगबलेनाहमात्मानं परिकल्प्य च ॥
त्रिधावह्निस्वरूपेण पक्तीष्टिव्युष्टिकृत्तमः ॥ ५॥
अन्तर्बहिश्च यो द्वेधा नभस्वत्पदवी दधत् ॥
सर्वेषामेव वेत्स्यामि त्वन्तःकरणचेष्टितम् ॥ ६ ॥
विधाय चाम्भसीं मूर्तिं सर्वजीवैकजीवनीम् ॥
प्रजाः सञ्जीवयिप्यामि किं जडैर्विषये मम ॥ ७ ॥
यदा खे तमसा पौरा ग्रस्येते शशिभास्करौ ॥
तदा न किं विना ताभ्यां जीवामः क्षितिमण्डले ॥ ८ ॥
श्रियं चान्द्रमसीं प्राप्य ह्लादयिष्याम्यहं प्रजाः ॥
निशाचरेण किमिह क्षयिणा च कलङ्किना ॥ ९ ॥
अस्मत्कुले मूलभूतो भास्करो मान्य एव नः ॥
स तिष्ठतु सुखेनात्र यातायातं करोतु च ॥ 4.1.43.११० ॥
स एको जगतामात्मा विशेषात्कुलदेवता ॥
सोपकर्तुं न वेत्त्येव तस्येदं व्रतमुत्तमम् ॥ ११ ॥
इति नरपतिवाक्सुधारसौघं श्रुतिपुटकैः परिपीय पौरवर्गः ॥
विकसितवदनाम्बुजो जगामनिजनिजमालयमाधिमुक्तचित्तः ॥ १२ ॥
क्षितिपतिरपि तत्तथा विधाय तपसोसाध्यमिहास्ति किं त्रिलोक्याम् ॥
अतिवह्न्यर्कमसौ दधच्चतेजो द्युसदां शल्यमिवोच्चकैर्बभूव ॥ १३ ॥
इति श्रीस्कान्दे महापुरण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे दिवोदासप्रतापवर्णनन्नाम त्रिचत्वारिंशोध्यायः ॥४३॥