०४२ कालवञ्चनोपायः

॥ अगस्तिरुवाच ॥ ॥
कथं निकटतः कालो ज्ञायते हरनन्दन ॥
तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः ॥ १ ॥
॥ कुमार उवाच ॥ ॥
वदामि कालचिह्नानि जायन्ते यानि देहिनाम् ॥
मृत्यौ निकटमापन्ने मुने तानि निशामय ॥ २॥
याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् ॥
अखण्डमेव तस्यायुः क्षयत्यब्दत्रयेण हि ॥ ३ ॥
अहोरात्रं त्र्यहोरात्रं रविर्वहति सन्ततम् ॥
अब्दमेकं च तस्येह जीवनावधिरुच्यते ॥ ४ ॥
वहेन्नासापुटयुगे दशाहानि निरन्तरम् ॥
वातश्चेत्सह सङ्क्रान्तिस्तया जीवेद्दिनत्रयम् ॥ ५ ॥
नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् ॥
शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि ॥ ६ ॥
अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् ॥
चिन्तनीयः प्रयत्नेन स कालो मृत्युभीरुणा ॥ ७ ॥
सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे ॥
पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत् ॥ ८ ॥
अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिङ्गलम् ॥
तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम् ॥ ९ ॥
यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा ॥
इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते ॥ 4.1.42.१० ॥
इन्द्रनीलनिभं व्योम्नि नागवृन्दं य ईक्षते ॥
इतस्ततः प्रसृमरं षण्मासं न स जीवति ॥।१॥
व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् ॥
फूत्कृत्याश्विन्द्रचापं न पश्येत्षण्मासजीवितः ॥ १२ ॥
अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च ॥
आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमण्डलम् ॥१३॥
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ॥
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमण्डलम् ॥ १४ ॥
वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि ॥
अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक् ॥१५॥
षण्मासमृत्योर्मर्त्यस्य कण्ठोष्ठरसना रदाः ॥
शुष्यन्ति सततं तद्वद्विच्छायास्तालुपञ्चमाः ॥१६॥
रेतः करजनेत्रान्ता नीलिमानं भजन्ति चेत् ॥
तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः ॥ १७ ॥
सम्प्रवृत्ते निधुवने मध्येन्ते क्षौति चेन्नरः ॥
निश्चितं पञ्चमे मासि धर्मराजातिथिर्भवेत् ॥ १६ ॥
द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके ॥
प्रयाति याति तस्यायुः षण्मासेन परिक्षयम् ॥ १९ ॥
सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ॥
चरणौ च करौ वापि त्रिमासं तस्य जीवितम् ॥ 4.1.42.२० ॥
प्रतिबिम्बं भवेद्यस्य पदखण्डपदाकृति ॥
पांसौ वा कर्दमे वापि पञ्चमासान्स जीवति ॥ २१ ॥
छाया प्रकम्पते यस्य देहबन्धेपि निश्चले ॥
कृतान्तदूता बध्नन्ति चतुर्थे मासि तं नरम् ॥ २२ ॥
निजस्य प्रतिबिम्बस्य नीराज्यमुकुरादिषु ॥
उत्तमाङ्गं न यः पश्येत्समासेन विनश्यति ॥ २३ ॥
मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै ॥
रात्रौ चन्द्रद्वयं चापि दिवा द्वौ च दिवाकरौ ॥ २४ ॥
दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् ॥
युगपच्च चतुर्दिक्षु शाक्रं कोदण्डमण्डलम् ॥ २५ ॥
भूरुहे भूधराग्रे च गन्धर्वनगरालयम् ॥
दिवापिशाच नृत्यं च एते पञ्चत्वहेतवः ॥२६॥
सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते ॥
तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम् ॥ २७ ॥
करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् ॥
स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते ॥ २८ ॥
यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् ॥
दिनानि पञ्च जीवित्वा पञ्चत्वमुपयाति सः ॥ २९ ॥
प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः ॥
भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः ॥ 4.1.42.३० ॥
रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः ॥
स्वप्ने स जीवितं त्यक्त्वा वर्षान्ते यममीक्षते ॥ ३१ ॥
गन्धपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः ॥
यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो ॥ ३२ ॥
पांसुराशि च वल्मीकं यूपदण्डमथापि वा ॥
योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति ॥ ३३ ॥
रासभारूढमात्मानं तैलाभ्यक्तं च मुण्डितम् ॥
नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान् ॥ ३४ ॥
स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः ॥
तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति ॥ ३५ ॥
लोहदण्डधरं कृष्णं पुरुषं कृष्णवाससम् ॥
स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लङ्घयेत् ॥ ३६ ॥
काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः ॥
स मासेन समीक्षेत नगरींशमनोषिताम् ॥ ३७ ॥
नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् ॥
दिनैः स पञ्चभिरेव पश्येत्संयमिनीं पुरीम् ॥३८॥
कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि ॥
प्रकृतेर्विकृतिश्चेत्स्यात्तदा पञ्चत्वमृच्छति ॥३९॥
एतानि कालचिह्नानि सन्त्यन्यानि बहून्यपि ॥
ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत् ॥ 4.1.42.४० ॥
न कालवञ्चनोपायं मुनेन्यमवयाम्यहम् ॥
विना मृत्युजयं काशीनाथं गर्भावरोधकम् ॥ ४१ ॥
तावद्गर्जन्ति पापानि तावद्गर्जेद्यमो नृपः ॥
यावद्विश्वेशशरणं नरो न निरतो व्रजेत् ॥ ४२ ॥
प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः ॥
स्पृष्ट विश्वेशसल्लिङ्गः कश्च याति न वन्द्यताम् ॥ ४३ ॥
करिष्येत्कुपितःकालः किङ्काशीवासिनां नृणाम् ॥
काले शिवः स्वयं कर्णे यत्र मन्त्रोपदेशकः ॥ ४४ ॥
यथा प्रयाति शिशुता कौमारं च यथा गतम् ॥
सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम ॥ ४५ ॥
यावन्नहि जराक्रान्तिर्यावन्नेन्द्रियवैक्लवम् ॥
तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः ॥ ४६ ॥
अन्यानि काललक्ष्माणि तिष्ठन्तु कलशोद्भव ॥
जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि ॥ ४७ ॥
पराभूतो हि जरया सर्वैश्च परिभूयते ॥
हृततारुण्यमाणिक्यो धनहीनः पुमानिव ॥ ४८ ॥
सुतावाक्यं न कुर्वन्ति पत्नी प्रेमापि मुञ्चति ॥
बान्धवा नैव मन्यन्ते जरसाश्लेषितं नरम् ॥ ४९ ॥
आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशङ्किता ॥
भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी ॥ 4.1.42.५० ॥
न जरा सदृशो व्याधिर्न दुःखं जरया समम् ॥
कारयित्र्यपमानस्य जरैव मरणं नृणाम् ॥ ५१ ॥
न जीयते तथा कालस्तपसा योगयुक्तिभिः ॥
यथा चिरेणकालेन काशीवासाद्विजीयते ॥ ५२ ॥
विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः ॥
विनातिपुण्यसम्भारैः कः काशीं प्राप्तुमीहते ॥ ५३ ॥
काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः ॥
काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता ॥ ५४ ॥
कः कलिकोथवा कालः का जरा किं च दुष्कृतम् ॥
का रुजः केन्तराया वा श्रिता वाराणसी यदि ॥ ५५ ॥
कलिस्तानेव बाधेत कालस्तांश्च जिघांसति ॥ ५६॥
एनांसि तांश्च बाधन्ते ये न काशीं समाश्रिताः ॥
काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः ॥
तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः ॥ ॥ ५७ ॥
धनिनो न तथा सौख्यं प्राप्नुवन्ति नराः क्वचित् ॥
यथा निधनतः काश्यां लभते सुखमव्ययम् ॥ ५८ ॥
वरं काशीसमावासी नासीनो द्युसदां पदम्॥
दुःखान्तं लभते पूर्वः सुखान्तं लभते परः ॥ ५९ ॥
स्थितोपि भगवनीशो मन्दरं चारुकन्दरम् ॥
काशीं विना रतिं नाऽऽप दिवोदासनृपोषिताम् ॥ 4.1.42.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे कालवञ्चनोपायोनाम द्विचत्वारिंशोध्यायः ॥ ४२ ॥