०४१

॥ स्कन्द उवाच ॥ ॥
उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम् ॥
वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत् ॥ १ ॥
अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च ॥
पत्नीं पुत्रेषु सन्त्यज्य पत्न्या वा वनमाविशेत् ॥ २ ॥
वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः ॥
जटी सायम्प्रगे स्नायी श्मश्रुलोनखलोमभृत् ॥३॥
शाकमूलफलैर्वापि पञ्चयज्ञन्न हापयेत् ॥
अम्मूलफलभिक्षाभिरर्चयेद्भिक्षुकातिथीन् ॥ ४ ॥
अनादाता च दाता च दान्तः स्वाध्यायतत्परः ॥
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ॥ ५ ॥
मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् ॥
स्वयङ्कृतं च लवणं खादेत्स्नेहं फलोद्रवम् ॥ ६ ॥
वर्जयेच्छेलुशिग्रू च कवकं पललं मधु ॥
मुन्यन्नमाश्विनेमासि त्यजेद्यत्पूर्वसञ्चितम् ॥७॥
ग्राम्याणि फलमूलानि फालजान्नं च सन्त्यजेत् ॥
दन्तोलूखलको वा स्यादश्मकुट्टोथ वा भवेत् ॥ ८ ॥
सद्यः प्रक्षालको वा स्यादथवा माससञ्चयी ॥
त्रिषड्द्वादशमासान्नफलमूलादिसङ्ग्रही ॥९॥
नक्ताश्ये कान्तराशी वा षष्ठकालाशनोपि वा ॥
चान्द्रायणव्रती वा स्यात्पक्षभुग्वाथ मासभुक्॥ ॥4.1.41.१०॥
वैखानस मतस्थस्तु फलमूलाशनोपि वा ॥
तपसा शोषयेद्देहं पितॄन्देवांश्च तर्पयेत् ॥ ११ ॥
अग्निमात्मनि चाधाय विचरेदनिकेतनः ॥
भिक्षयेत्प्राणयात्रार्थं तापसान्वनवासिनः ॥ १२ ॥
ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने ॥
इत्थं वनाश्रमी विप्रो ब्रह्मलोके महीयते ॥ १३ ॥
अतिवाह्यायुषोभागं तृतीयमिति कानने ॥
आयुषस्तु तुरीयांशे त्यक्त्वा सङ्गान्परिव्रजेत् ॥ १४ ॥
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ॥ १५ ॥
मनागपि न भूतानां यस्मादुत्पद्यते भयम् ॥
सर्वभूतानि तस्येह प्रयच्छन्त्यभयं सदा ॥ १५ ॥
एक एव चरेन्नित्यमनग्निरनिकेतनः ॥
सिद्ध्यर्थमसहायः स्याद्ग्राममन्नार्थमाश्रयेत् ॥१७॥
जीवितं मरणं वाथ नाभिकाङ्क्षेत्क्वचिद्यतिः ॥
कालमेव प्रतीक्षेत निर्देशं भृतको यथा॥१८॥
सर्वत्र ममता शून्यः सर्वत्र समतायुतः ॥
वृक्षमूलनिकेतश्च मुमुक्षुरिह शस्यते ॥१९॥
ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता ॥
यतेश्चत्वारिकर्माणि पञ्चमं नोपपद्यते ॥ 4.1.41.२० ॥
वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित् ॥
बीजाङ्कुराणां जन्तूनां हिंसा तत्र यतो भवेत् ॥ २१ ॥
गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्॥
वाचं वदेदनुद्वेगां न क्रुध्येत्केनचित्क्वचित् ॥ २२ ॥
चरेदात्मसहायश्च निरपेक्षो निराश्रयः ॥
नित्यमध्यात्मनिरतो नीचकेश नखो वशी ॥ २३ ॥
कुसुम्भवासा दण्डाढ्यो भिक्षाशी ख्यातिवर्जितः ॥
अलाबुदारुमृद्वेणु पात्रं शस्तं न पञ्चमम् ॥ २४ ॥
न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन ॥
वराटके सङ्गृहीते तत्रतत्र दिनेदिने ॥२५॥
गोसहस्रवधं पापं श्रुतिरेषा सनातनी ॥
हृदि सस्नेह भावेन चेद्द्रक्षेत्स्त्रियमेकदा ॥ २६ ॥
कोटिद्वयं ब्रह्मकल्पं कुम्भीपाकी न संशयः ॥
एककालं चरेद्भैक्षं न कुर्यात्तत्र विस्तरम् ॥ २७ ॥
विधूमेसन्न मुसले व्यङ्गारे भुक्तवज्जने ॥
वृत्ते शरावसम्पाते भिक्षां नित्यं चरेद्यतिः ॥ २८ ॥
अल्पाहारो रहःस्थायी त्त्विन्द्रियार्थेष्वलोलुपः ॥
रागद्वेषविर्निर्मुक्तो भिक्षुर्मोक्षाय कल्पते ॥ २९ ॥
आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ॥
किं तस्यानेकतन्त्रेण कृतकृत्यः स जायते ॥ 4.1.41.३० ॥
सञ्चितं यद्ग्रहस्थेन पापमामरणान्तिकम् ॥
निर्धक्ष्यति हि तत्सर्वमेकरात्रोषितो यतिः ॥३१॥
दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम् ॥
देहत्यागं पुनर्गर्भं गर्भक्लेशं च दारुणम् ॥३२॥
नानायोनि निवासं च वियोगं च प्रियैः सह ॥
अप्रियैः सह संयोगमधर्माद्दुःखसम्भवम् ॥ ३३ ॥
पुनर्निरयसंवासन्नानानरकयातनाः ॥
कर्मदोषसमुद्भूता नृणाङ्गतिरनेकधा ॥ ३४ ॥
देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः ॥
कुर्वीत मुक्तये यत्नं यत्रयत्राश्रमे रतः ॥ ३५ ॥
करपात्रीति विख्याता भिक्षापात्रविवर्जिता ॥
तेषां शतगुणं पुण्यं भवत्येव दिनेदिने ॥ ३६ ॥
आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पण्डितः ॥
निर्द्वन्द्वस्त्यक्तसङ्गश्च ब्रह्मभूयाय कल्पते ॥ ३७ ॥
असंयतः कुबुद्धीनामात्मा बन्धाय कल्पते ॥
धीमद्भिः संयतः सोपि पदं दद्यादनामयम् ॥३८॥
श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा ॥
श्लोकाः मन्त्राणि भाष्याणि यच्चान्यद्वाङ्मयं क्वचित् ॥ ३९ ॥
वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः ॥
श्रद्धोपवासः स्वातन्त्र्यमात्मनोज्ञानहेतवः ॥ 4.1.41.४० ॥
स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः ॥
श्रोतव्यस्त्वथ मन्तव्यो द्रष्टव्यश्च प्रयत्नतः ॥४१॥
आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि॥
स च योगश्चिरं कालमभ्यासादेव सिध्यति ॥ ४२ ॥
नारण्यसंश्रयाद्योगो न नानाग्रन्थ चिन्तनात्॥
न दानैर्न व्रतैर्वापि न तपोभिर्न वा मखैः ॥ ४३ ॥
न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात् ॥
न शौचे न न मौनेन न मन्त्राराधनैरपि ॥ ४४ ॥
अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात् ॥
पुनःपुनरनिर्वेदात्सिध्येद्योगो न चान्यथा ॥ ४५ ॥
आत्मक्रीडस्य सततं सदात्ममिथुनस्य च ॥
आत्मन्येव सु तृप्तस्य योगसिद्धिर्न दूरतः ॥ ४६ ॥
अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ॥
आत्मारामः स योगीन्द्रो ब्रह्मीभूतो भवेदिह ॥ ४७ ॥
संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः ॥
प्राणापानसमायोगो योग इत्यपि कैश्चन ॥ ४८ ॥
विषयेन्द्रिय संयोगो योग इत्यप्यपण्डितैः ॥
विषयासक्तचित्तानां ज्ञानं मोक्षश्च दूरतः ॥ ४९ ॥
दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते ॥
किं वदन्त्यपियोगस्य तावन्नेदीयसी कुतः ॥ 4.1.41.५० ॥
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ॥
एकीकृत्य विमुच्येत योगयुक्तः स उच्यते ॥ ५१ ॥
बहिर्मुखानि सर्वाणि कृत्वा खान्यन्तराणि वै ॥
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥ ५२ ॥
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ॥
एतद्ध्यानं च योगश्च शेषोन्यो ग्रन्थविस्तरः ॥ ५३ ॥
यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते ॥
कथ्यमानं तदन्यस्य हृदयेनावतिष्ठते ॥ ५४ ॥
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा ॥
अयोगी नैव तद्वेत्ति जात्यन्ध इव वर्तिकाम् ॥ ५५ ॥
नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत् ॥
तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ॥ ५६ ॥
क्षणमप्येकमुदकं यथा न स्थिरतामियात् ॥
वाताहतं यथा चित्तं तस्मात्तस्य न विश्वसेत् ॥ ५७ ॥
अतोऽनिलं निरुन्धीत चित्तस्य स्थैर्य हेतवे ॥
मरुन्निरोधनार्थाय षडङ्गं योगमभ्यसेत् ॥ ५८ ॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ॥
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ५९ ॥
आसनानीह तावन्ति यावन्त्यो जीवयो नयः ॥
सिद्धासनमिदं प्रोक्तं योगिनो योगसिद्धिदम्॥4.1.41.६०॥
एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्॥ ॥ ६१ ॥
दक्षिणं चरणं न्यस्य वामोरूपरि योगवित् ॥
याम्योरूपरि वामं च पद्मासनमिदं विदुः ॥ ६२ ॥
कराभ्यां धारयेत्पश्चादङ्गुष्ठौ दृढबन्धवित्॥
भवेत्पद्मासनादस्मादभ्यासाद्दृढविग्रहः ॥ ६३ ॥
अथवा ह्यासने यस्मिन्सुखमस्योपजायते ॥
स्वस्तिकादौ तदध्यास्य योगं युञ्जीत योगवित् ॥ ६४ ॥
न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः ॥
न दंशमशकाकीर्णे न चैत्ये न च चत्वरे ॥ ६९ ॥
केशभस्मतुषाङ्गार कीकसादि प्रदूषिते ॥
नाभ्यसेत्पूतिगन्धादौ न स्थाने जनसङ्कुले ॥६६ ॥
सर्वबाधाविरहिते सर्वेन्द्रियसुखावहे ॥
मनःप्रसादजनने स्रग्धूपामोदमोदिते ॥ ६७ ॥
नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः ॥
नाध्वखिन्नो न चिन्तार्तो योगं युञ्जीत योगवित् ॥ ॥ ६८ ॥
ऊरुस्थोत्तानचरणः सव्येन्यस्योत्तरं करम् ॥
उत्तानं किञ्चिदुन्नम्य वक्त्रं विष्टभ्य चोरसा ॥ ६९ ॥
निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥ 4.1.41.७० ॥
सन्नियम्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ॥
मध्यमं चोत्तमं चाथ प्राणायाममुपक्रमेत् ॥ ७१ ॥
चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम् ॥
स्थाणुत्वमाप्नुयाद्योगी ततोऽनिलनिरुन्धनात् ॥ ७२ ॥
यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते ॥
निर्गते तत्र मरणं ततः प्राणं निरुन्धयेत् ॥ ७३ ॥
यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम् ॥
यावद्दृष्टिर्भुवोर्मध्ये तावत्कालभयं कुतः ॥७४॥
कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत् ॥
योगिनः सिद्धिमापन्नाः सम्यक्प्राणनियन्त्रणात् ॥ ७५ ॥
मन्दो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता ॥
मध्यमो द्विगुणः पूर्वादुत्तमस्त्रिगुणस्ततः ॥७६॥
स्वेदं कम्पं विषादं च जनयेत्क्रमशस्त्वसौ ॥
प्रथमेन जयेत्स्वेदं द्वितीयेन तु वेपथुम् ॥७७॥
विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः ॥
भवेत्क्रमात्सन्निरुद्धः सिद्धः प्राणोथ योगिना ॥
क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति ॥ ॥ ७८ ॥
हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत् ॥
देहंविदारयत्येष कुष्ठादिजनयत्यपि ॥ ७९ ॥
तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् ॥
वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात् ॥ 4.1.41.८० ॥
करोति शास्तृनिर्देशं न च तं परिलङ्घयेत् ॥
तथा प्राणो हदिस्थोयं योगिनाक्रमयोगतः ॥
गृहीतः सेव्यमानस्तु विश्रम्भमुपगच्छति ॥ ८१ ॥
षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः ॥
सव्यापसव्यमार्गेण प्रयाणात्प्राण उच्यते ॥ ८२ ॥
शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम् ॥
तदैव जायते योगी क्षमः प्राणनिरोधने ॥ ८३ ॥
दृढासनो यथाशक्ति प्राणं चन्द्रेण पूरयेत् ॥
रेचयेदथ सूर्येण प्राणायामोयमुच्यते ॥ ८४ ॥
स्रवत्पीयूषधारौघं ध्यायंश्चन्द्रसमन्वितम् ॥
प्राणायामेन योगीन्द्रः सुखमाप्नोति तत्क्षणात् ॥ ८५ ॥
रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम् ॥
कुम्भयित्वा शनैः पश्चाद्योगी चन्द्रेण रेचयेत् ॥ ८६ ॥
ज्वलज्वलनपुञ्जाभं शीलयन्नुष्मगुं हृदि ॥
अनेन याम्यायामेन योगीन्द्रः शर्मभाग्भवेत् ॥ ८७ ॥
इत्थं मासत्रयाभ्यासादुभयायामसेवनात् ॥
शुद्धनाडीगणो योगी सिद्धप्राणोभिधीयते ॥ ८८ ॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ॥
नादाभिव्यक्तिरारोग्यं भवेन्नाडीविशोधनात् ॥ ८९ ॥
प्राणोदेहगतोवायुरायामस्तन्निबन्धनम् ॥
एकश्वासमयी मात्रा प्राणायामो निरुच्यते ॥ 4.1.41.९० ॥
प्राणायामेऽधमे घर्मः कम्पो भवति मध्यमे ॥
उत्तिष्ठेदुत्तमे देहो बद्धपद्मासनो मुहुः ॥ ९१ ॥
प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम् ॥
मनोधैर्यं धारणया ध्यानेनेश्वरदर्शनम् ॥९२॥
समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम् ॥
आसनेन वपुर्दार्ढ्यं षडङ्गमिति कीर्तितम् ॥ ९३ ॥
प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ॥
प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्तिता ॥ ९४ ॥
भवेदीश्वरसङ्गत्यै ध्यानं द्वादशधारणम् ॥
ध्यानद्वादशकेनैव समाधिरभिधीयते ॥ ९५ ॥
समाधेः परतो ज्योतिरनन्तं स्वप्रकाशकम् ॥
तस्मिन्दृष्टे क्रियाकाण्डं यातायातं निवर्तते ॥ ९६ ॥
पवने व्योमसम्प्राप्ते ध्वनिरुत्पद्यते महान् ॥
घण्टादीनां प्रवाद्यानां ततः सिद्धिरदूरतः ॥ ९७ ॥
प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत् ॥
अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः ॥ ९८ ॥
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः ॥ .
भवन्ति विविधा दोषाः पवनस्य व्यतिक्रमात् ॥ ९९ ॥
युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् ॥
युक्तंयुक्तं च बध्नीयादित्थं सिध्यति योगवित् ॥ 4.1.41.१०० ॥
इन्द्रियाणां हि चरतां विषयेषु यदृच्छया ॥
यत्प्रत्याहरणं युक्त्या प्रत्याहारः स उच्यते ॥ १ ॥
प्रत्याहरति यः खानि कूर्मोङ्गानीव सर्वतः ॥
प्रत्याहृति विधानेन स स्याद्विगतकल्मषः ॥ २ ॥
नाभिदेशे वसेद्भानुस्तालुदेशे च चन्द्रमाः ॥
वर्षत्यधोमुखश्चन्द्रो ग्रसेदूर्ध्वमुखो रविः ॥ ३ ॥
करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा ॥
ऊर्ध्वनाभिरधस्तालुरूर्ध्वं भानुरधःशशी ॥
करणं विपरीताख्यमभ्यासादेव जायते ॥ ४ ॥
काकचञ्चुवदास्येन शीतलं शीतलं पिबेत् ॥
प्राणं प्राणविधानज्ञो योगी भवति निर्जरः ॥५॥
रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् ॥
धयन्निजर्रतां गच्छेदाषण्मासान्न संशयः ॥ ६ ॥
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ॥
मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ७ ॥
सम्पीड्य रसनाग्रेण राजदन्तबिलं महत् ॥
ध्यात्वा सुधामयीं देवीं षण्मासेन कविर्भवेत् ॥ ८ ॥
अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ॥
ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादिगुणोदयम्॥ ९ ॥
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः ॥
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥4.1.41.११०॥
आसनेन समायुक्तः प्राणायामेन संयुतः ॥
प्रत्याहारेण सम्पन्नो धारणामथ चाभ्यसेत् ॥ ११ ॥
हृदये पञ्चभूतानां धारणां यः पृथक्पृथक् ॥
मनसो निश्चलत्वेन धारणा साभिधीयते ॥ १२ ॥