स्कन्द उवाच ॥
शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम् ॥
नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम् ॥ १ ॥
परं ब्रह्म यदाम्नातं निष्प्रपञ्चं निरात्मकम् ॥
निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत् ॥ २ ॥
तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो ॥
किमन्यत्र न शक्तोसौ जन्तून्मोचयितुं भवात् ॥ ३ ॥
भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय ॥
महत्या योगयुक्त्या वा महादानैरकामिकैः ॥ ४ ॥
सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत् ॥
योगयुक्तिं न महतीं न दानानि महान्ति च ॥ ५ ॥
न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत् ॥
वियुनक्ति न यत्काश्या उपसर्गे महत्यपि ॥ ६ ॥
अयमेव महायोग उपयोगस्त्विहा परः ॥
नियमेन तु विश्वेशे पुष्पं पत्रं फलं जलम् ॥ ७ ॥
यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै ॥
मुक्तिमण्डपिकायां च क्षणं यत्स्थिरमास्यते ॥ ८ ॥
स्नात्वा गङ्गामृते शुद्धे तप एतदिहोत्तमम् ॥
सत्कृत्य भिक्षवे भिक्षा यत्काश्यां परिदीयते ॥
तुला पुरुष एतस्याः कलां नार्हति षोडशीम् ॥ ९ ॥
हृदि सञ्चिन्त्य विश्वेशं क्षणं यद्विनिमील्यते॥
देवस्य दक्षिणे भागे महायोगोयमुत्तमः ॥ 4.1.39.१० ॥
इदमेव तपोत्युग्रं यदिन्द्रिय विलोलताम् ॥
निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य च ॥ ११ ॥
मासि मासि यदाप्येत व्रताच्चान्द्रायणात्फलम् ॥
अन्यत्र तदिहाप्येत भूतायां नक्तभोजनात् ॥ १२ ॥
मासोपवासादन्यत्र यत्फलं समुपार्ज्यते ॥
श्रद्धयैकोपवासेन तत्काश्यां स्यादसंशयम्॥१३॥
चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम् ॥
एकादश्युपवासेन तत्काश्यां स्यादसंशयम् ॥ १४ ॥
षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत्॥
शिवरात्र्युपवासेन तत्काश्यां जायते ध्रुवम् ॥ १५ ॥
वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती ॥
तत्फलं स्यात्त्रिरात्रेण काश्यामविकलं मुने ॥ १६ ॥
मासिमासि कुशाग्राम्बु पानादन्यत्र यत्फलम् ॥
काश्यामुत्तरवाहिन्यामेकेन चुलुकेन तत् ॥ १७ ॥
अनन्तो महिमा काश्याः कस्तं वर्णयितुं प्रभुः ॥
विपत्तिमिच्छतो जन्तोर्यत्रकर्णे जपः शिवः ॥ १८ ॥
शम्भुस्तत्किञ्चिदाचष्टे म्रियमाणस्य जन्मिनः ॥
कर्णेऽक्षरं यदाकर्ण्य मृतोप्यमृततां व्रजेत् ॥ १९ ॥
स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शङ्करः ॥
अदुनोन्मन्दरं यातो बहुशस्तदवाप्तये ॥4.1.39.२०॥
अगस्त्य उवाच ॥
स्वकार्यनिपुणैः स्वामिन्गीर्वाणैरतिदारुणैः ॥
त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः ॥ २१ ॥
पराधीनोहमिव किं देवदेवः पिनाकवान् ॥
काशिकां सोऽत्यजत्कस्मान्निर्वाणमणिराशिकाम् ॥ २२ ॥
॥ स्कन्द उवाच ॥ ॥
मित्रावरुणसम्भूत कथयामि कथामिमाम् ॥
तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः ॥ २३ ॥
प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने ॥
द्रुहिणेन तथा रुद्रः स्वरक्षण विचक्षणः ॥ २४ ॥
॥ अगस्त्य उवाच ॥ ॥
कथं स भगवान्रुद्रो द्रुहिणेन कृपाम्बुधिः ॥
प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन ॥ २५ ॥
॥ स्कन्द उवाच ॥ ॥
पाद्मेकल्पे पुरावृत्ते मनोः स्वायम्भुवेन्तरे ॥
अनावृष्टिरभूद्विप्र सर्वभूतप्रकम्पिनी ॥ २६ ॥
तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः ॥
केचिदम्बुधितीरेषु गिरिद्रोणीषु केचन ॥ २७ ॥
महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः ॥
अरण्यान्यवनिर्जाता ग्रामखर्वट वर्जिता ॥ २८ ॥
क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च ॥
आसन्नभ्रंलिहो वृक्षाः सर्वत्र क्षोणिमण्डले ॥ २९ ॥
चौरा एव महाचौरैरुल्लुठ्यन्त इतस्ततः ॥
मांसवृत्त्योपजीवन्ति प्राणिनः प्राणरक्षिणः ॥ 4.1.39.३० ॥
अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि ॥
प्रयत्नो विफलस्त्वासीत्सृष्टेः सृष्टिकृतस्तदा ॥ ३१ ॥
चिन्तामवाप महती जगद्योनिः प्रजाक्षयात् ॥
प्रजासु क्षीयमाणासु क्षीणा यज्ञादिकाः क्रियाः ॥ ३२॥
तासु क्षीणासु सङ्क्षीणाः सर्वे यज्ञभुजोऽभवन् ॥
ततश्चिन्तयता स्रष्ट्रा दृष्टो राजर्षिसत्तमः ॥ ३३ ॥
अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेन्द्रियः ॥
मनोरन्वयजो वीरः क्षात्रो धर्म इवोदितः ॥ ३४ ॥
रिपुञ्जय इति ख्यातो राजा परपुरञ्जयः ॥
अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम् ॥ ३५ ॥
उवाच वचनं राजन्रिपुञ्जय महामते ॥
इलां पालय भूपाल ससमुद्राद्रिकाननाम् ॥ ३६ ॥
नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति ॥
अनङ्गमोहिनीं नाम्ना वासुकिः शीलभूषणाम् ॥ ३७ ॥
दिवोपि देवा दास्यन्ति रत्नानि कुसुमानि च ॥
प्रजापालनसन्तुष्टा महाराज प्रतिक्षणम् ॥ ३८ ॥
दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ॥
मत्प्रभावाच्च नृपते दिव्यं सामर्थ्यमस्तु ते ॥ ३९ ॥
परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः ॥
वेधसं बहुशः स्तुत्वा वाक्यं चेदमुवाच ह ॥ 4.1.39.४० ॥
॥राजोवाच ॥ ॥
पितामह महाप्राज्ञ जनाकीर्णे महीतले ॥
कथं नान्ये च राजानो मां कथं कथ्यते त्वया ॥ ४१ ॥
॥ ब्रह्मोवाच ॥ ॥
त्वयि राज्यं प्रकुर्वाणे देवो वृष्टिं विधास्यति॥
पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः ॥ ४२ ॥
॥ राजोवाच ॥ ॥
पितामह महामान्य त्रिलोकी करणक्षम॥
महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे ॥ ४३ ॥
किञ्चिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत् ॥
ततः करोम्यहं राज्यं पृथिव्यामसपत्नवत् ॥ ४४ ॥
॥ ब्रह्मोवाच ॥
अविलम्बेन तद्ब्रूहि कृतं मन्यस्व पार्थिव ॥
यत्ते हृदि महाबाहो तवादेयं न किञ्चन ॥ ४५ ॥
॥ राजोवाच ॥ ॥
यद्यहं पृथिवीनाथः सर्वलोकपितामह ॥
तदादिविष(प?)दो देवा दिवि तिष्ठन्तु मा भुवि ॥ ४६ ॥
देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले ॥
असपत्नेन राज्येन प्रजासौख्यमवाप्स्यति ॥ ४७ ॥
तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः ॥
पटहं घोषयाञ्चक्रे दिवं देवा व्रजन्त्विति ॥ ४८ ॥
मा गच्छन्त्विह वै नागा नराः स्वस्था भवन्त्वितः ॥
मयि प्रशासति क्षोणीं सुराः स्वस्था भवन्त्विति ॥ ४९ ॥
एतस्मिन्नन्तरे ब्रह्मा विश्वेशं प्रणिपत्य ह ॥
यावद्विज्ञप्तुकामोभूत्तावदीशोब्रवीद्विधिम् ॥ 4.1.39.५० ॥
लोकेश्वर समायाहि मन्दरो नाम भूधरः ॥
कुशद्वीपादिहागत्य तपस्तप्येत दुष्करम् ॥ ५१ ॥
यावस्तस्मै वरं दातुं बहुकालं तपस्यते ॥
इत्युक्त्वा पार्वतीनाथो नन्दिभृङ्गिपुरोगमः ॥ ५२ ॥
जगाम वृषमारुह्य मन्दरो यत्र तिष्ठति ॥
उवाच च प्रसन्नात्मा देवदेवो वृषध्वज ॥५३॥
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम ॥
सोथ श्रुत्वा महेशानं देवदेवं त्रिलोचनम्॥ ॥ ५४ ॥
प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत् ॥
लीलाविग्रहभृच्छम्भो प्रणतैक कृपानिधे ॥ ५५ ॥
सर्वज्ञोपि कथं नाम न वेत्थ मम वाञ्छितम् ॥
शरणागतसन्त्राण सर्ववृत्तान्तकोविद ॥ ५६ ॥
सर्वेषां हृदयानन्द शर्वसर्वगसर्वकृत् ॥
यदि देयो वरो मह्यं स्वभावादृषदात्मने ॥५७ ॥
याचकायातिशोच्याय प्रणतार्तिप्रभञ्जक ॥
ततोऽविमुक्तक्षेत्रस्य साम्यं ह्यभिलषाम्यहम् ॥ ५८ ॥
कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः ॥
मन्मौलौ विहितावासः प्रयात्वेष वरो मम ॥ ५९ ॥
सर्वेषां सर्वदः शम्भुः क्षणं यावद्विचिन्तयेत् ॥
विज्ञातावसरो ब्रह्मा तावच्छम्भुं व्यजिज्ञपत्॥
प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ॥ 4.1.39.६० ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वेश जगतान्नाथ पत्या व्यापारितोस्म्यहम् ॥
कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम् ॥ ६१ ॥
प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया ॥
अवृष्ट्या षष्टिहायिन्या तत्र नष्टाऽप्रजा भुवि ॥ ६२ ॥
अराजकं महच्चासीद्दुरवस्थमभूज्जगत् ॥
ततो रिपुञ्जयो नाम राजर्षिर्मनुवंशजः ॥ ६३ ॥
मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः ॥
चकार समयं सोपि महावीर्यो महातपाः ॥६४॥
तवाज्ञया चेत्स्थास्यन्ति सर्वे दिविषदो दिवि ॥
नागलोके तथा नागास्ततो राज्यं करोम्यहम् ॥ ॥ ६५ ॥
तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत् ॥
मन्दराय वरो दत्तो भवेदेवं कृपानिधे ॥ ६६ ॥
तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः ॥
मम नाडीद्वयं राज्यं तस्यापि च शतक्रतोः ॥ ६७ ॥
मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्॥
देवोपि निर्मलं मत्वा मन्दरं चारुकन्दरम् ॥६८॥
विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः ॥
जम्बूद्वीपे यथा काशी निर्वाणपददा सदा ॥६९॥
तथा बहुतिथं कालं द्वीपोभूत्सोपि मन्दरः ॥
यियासुना च देवेन मन्दरं चित्रकन्दरम् ॥4.1.39.७०॥
निजमूर्तिमयं लिङ्गमविज्ञातं विधेरपि ॥
स्थापितं सर्वसिद्धीनां स्थापकेभ्यः समर्पितुम् ॥ ७१ ॥
विपन्नानां च जन्तूनां दातुं नैःश्रेयसीं श्रियम् ॥
सर्वेषामिह संस्थानां क्षेत्रं चैवाभिरक्षितुम्॥ ७२ ॥
मन्दराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना ॥
विमुक्तं लिङ्गरूपेण अविमुक्तमतः स्मृतम् ॥ ७३ ॥
पुरा नन्दवनं नाम क्षेत्रमेतत्प्रकीर्तितम्॥
अविमुक्तं तदारभ्य नामास्य प्रथितं भुवि ॥ ७४ ॥
नामाविमुक्तमभवदुभयोः क्षेत्रलिङ्गयोः ॥
एतद्द्वयं समासाद्य न भूयो गर्भभाग्भवेत् ॥ ७५ ॥
अविमुक्तेश्वरं लिङ्गं दृष्ट्वा क्षेत्रेऽविमुक्तके ॥
विमुक्त एव भवति सर्वस्मात्कर्मबन्धनात् ॥ ७६ ॥
अर्चन्ति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत् ॥
अविमुक्तेश्वरं लिङ्गं भुविमुक्तिप्रदायकम् ॥ ७७ ॥
पुरा न स्थापितं लिङ्गं कस्यचित्केनचित्क्वचित् ॥
किमाकृति भवेल्लिङ्गं नैतद्वेत्त्यपि कश्चन ॥ ७८ ॥
आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः ॥
लिङ्गं संस्थापयामासुर्वसिष्ठाद्यास्तथषर्यः ॥ ७९ ॥
आदिलिङ्गमिदं प्रोक्तमविमुक्तेश्वरं महत् ॥
ततो लिङ्गान्तराण्यत्र जातानि क्षितिमण्डले ॥ 4.1.39.८० ॥
अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात् ॥
क्षणान्मुक्तो भवेन्मर्त्यो नात्र कार्या विचारणा ॥८१ ॥
अविमुक्तेश्वरं लिङ्गं स्मृत्वा दूरगतोपि च ॥
जन्मद्वयकृतात्पापात्क्षणादेव विमुच्यते ॥८२॥
अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च ॥
त्रिजन्मजनितं पापं हित्वा पुण्यमयो भवेत् ॥ ८३ ॥
यत्कृतं ज्ञानविभ्रंशादेनः पञ्चसु जन्मसु ॥
अविमुक्तेश संस्पर्शात्तत्क्षयेदेव नान्यथा ॥ ८४ ॥
अर्चयित्वा महालिङ्गमविमुक्तेश्वरं नरः ॥
कृतकृत्यो भवेदत्र न च स्याज्जन्मभाक्कुतः ॥ ८५ ॥
स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति ॥
अविमुक्ते विमुक्तेशं स्तूयते नम्यतेऽर्च्यते ॥८६॥
अनादिमदिदं लिङ्गं स्वयं विश्वेश्वरार्चितम् ॥
काश्यां प्रयत्नतः सेव्यमविमुक्तं विमुक्तये ॥ ८७ ॥
सन्ति लिङ्गान्यनेकानि पुण्येष्वायतनेषु च ॥
आयान्ति तानि लिङ्गानि माघीं प्राप्य चतुदर्शीम्॥ ८८ ॥
कृष्णायां माघभूतायामविमुक्तेश जागरात् ॥
सदा विगतनिद्रस्य योगिनो गतिभाग्भवेत् ॥ ८९ ॥
नानायतनलिङ्गानि चतुर्वर्गप्रदान्यपि ॥
माघकृष्णचतुर्दश्यामविमुक्तमुपासते ॥ 4.1.39.९० ॥
किं बिभेति नरो धीरः कृतादघशिलोच्चयात् ॥
अविमुक्तेश लिङ्गस्य भक्ति वज्रधरो यदि ॥ ९१ ॥
क्वाविमुक्तं महालिङ्गं चतुर्वर्गफलोदयम् ॥
क्व पापि पापशैलोऽल्पो यःक्षयेन्नामसम्भृतः ॥ ९२ ॥
अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते ॥
यैर्न दृष्टं विमूढास्तेऽविमुक्तं लिङ्गमुत्तमम् ॥ ९३ ॥
द्रष्टारमविमुक्तस्य दृष्ट्वा दण्डधरो यमः ॥
दूरादेव प्रणमति प्रबद्धकरसम्पुटः ॥ ९४ ॥
धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ ॥
अविमुक्तेश्वरं येन याभ्यामैक्षिष्ट यः स्पृशेत् ॥ ९५ ॥
त्रिसन्ध्यमविमुक्तेशं यो जपेन्नियतः शुचिः ॥
दूरदेशविपन्नोपि काशीमृतफलं लभेत् ॥ ९६ ॥
अविमुक्तं महालिङ्गं दृष्ट्वा ग्रामान्तरं व्रजेत्॥
लब्धाशुकार्यसंसिद्धिं क्षेमेण प्रविशेद्गृहम्॥९७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशी खण्डे पूर्वार्द्धे अविमुक्तेशाविर्भावोनामैकोनचत्वारिंशोध्यायः ॥३९॥