स्कन्द उवाच ॥ ॥
सदा गृही सुखं भुङ्क्ते स्त्री लक्षणवती यदि ॥
अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् ॥ १ ॥
वपुरावर्तगन्धाश्चच्छाया सत्वं स्वरो गतिः ॥
वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ॥ २ ॥
आपादतलमारभ्य यावन्मौलिरुहं क्रमात् ॥
शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु ॥ ३ ॥
आदौ पादतलं रेखास्ततोङ्गुष्ठाङ्गुली नखाः ॥
पृष्ठगुल्फद्वयं पार्ष्णी जङ्घे रोमाणि जानुनी ॥ ४ ॥
ऊरू कटी नितम्बस्फिग्भगो जघन बस्तिके ॥
नाभिः कुक्षिद्वयं पार्श्वोदरमध्य वलित्रयम् ॥ ५ ॥
रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ॥
जत्रुस्कन्धां सकक्षादोर्मणिबन्ध करद्वयम् । ६ ॥
पाणिपृष्ठं पाणितलं रेखाङ्गुष्ठाङ्गुली नखाः ॥
पृष्ठिः कृकाटिका कण्ठे चिबुकं च हनुद्वयम् ॥ ७ ॥
कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः ॥
घण्टिका तालुहसितं नासिकाक्षुतमक्षिणी ॥ ८ ॥
पक्ष्म भ्रूकर्णभालानि मौलि सीमन्तमौलिजाः ॥
षष्टिः षडुत्तरायोषिदङ्गलक्षणसत्खनिः ॥ ९ ॥
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ॥
अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ॥ 4.1.37.१० ॥
रूक्षं विवर्णं परुषं खण्डितप्रतिबिम्बकम् ॥
शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ॥ ११ ॥
चक्र स्वस्तिक शङ्खाब्ज ध्वजमीनातपत्रवत् ॥
यस्याः पादतले रेखा सा भवेत्क्षितिपाङ्गना ॥ १२ ॥
भवेदखण्डभोगायोर्द्ध्वामध्याङ्गुलिसङ्गता ॥
रेखाखु सर्पकाकाभा दुःखदारिद्र्यसूचिका ॥ १३ ॥
उन्नतो मांसलोङ्गुष्ठो वर्तुलोतुलभोगदः ॥
वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभञ्जकः ॥ १४ ॥
विधवा विपुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा ॥
मृदवोङ्गुलयः शस्ता घनावृत्ताः समुन्नताः ॥१५॥
दीर्घाङ्गुलीभिः कुलटा कृशाभिरतिनिर्धना ॥
ह्रस्वायुष्या च ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ॥ १६ ॥
चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ॥
परस्परं समारूढाः पादाङ्गुल्यो भवन्ति हि ॥ १७ ॥
हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ॥
यस्याः पथि समायान्त्या रजोभूमेः समुच्छलेत् ॥ १८ ॥
सा पांसुला प्रजायेत कुलत्रयविनाशिनी ॥
यस्याः कनिष्ठिका भूमिं न गच्छन्त्याः परिस्पृशेत् ॥ १९ ॥
सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ॥
अनामिका च मध्या च यस्या भूमिं न संस्पृशेत् ॥ 4.1.37.२० ॥
पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥
पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि ॥ २१ ॥
प्रदेशिनी भवेद्यस्या अङ्गुष्ठाव्यतिरेकिणी ॥
कन्यैव कुलटा सा स्यादेष एव विनिश्चयः ॥ २२ ॥
स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ॥ २३ ॥
राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ॥
अस्वेदमशिराढ्यं च मसृणं मृदुमांसलम् ॥ २४ ॥
दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा ॥
रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा ॥ २५ ॥
गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ ॥
स्थपुटौ शिथिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ ॥ २६ ॥
समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा ॥
कुलटोन्नतपार्ष्णि स्याद्दीर्घपार्ष्णिश्च दुःखभाक् ॥ २७ ॥
रोमहीने समे स्निग्धे यज्जङ्घे क्रमवर्तुले ॥
सा राजपत्नी भवति विशिरेसुमनोहरे ॥ २८ ॥
एकरोमा राजपत्नी द्विरोमा च सुखावहा ॥
त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् ॥ २९ ॥
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ॥
निर्मांसं स्वैरचारिण्या दरिद्रा याश्च विश्लथम् ॥ 4.1.37.३० ॥
विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ॥
सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः ॥ ३१ ॥
वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि ॥
मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः ॥ ३२ ॥
चतुर्भिरङ्गुलैः शस्ता कटिर्विंशतिसंयुतैः ॥
समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम् ॥ ३३ ॥
विनता चिपिटा दीर्घा निर्मांसासङ्कटाकटिः ॥
ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचिका ॥ ३४ ॥
नितम्बबिम्बो नारीणामुन्नतो मांसलः पृथुः ॥
महाभोगाय सम्प्रोक्तस्तदन्योऽशर्मणे मतः ॥ ३५ ॥
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ॥
स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ॥ ३६ ॥
शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः ॥
वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ॥३७॥
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ॥
तुङ्गः कमलपर्णाभः शुभोश्वत्थदलाकृतिः ॥ ३८ ॥
कुरङ्गखुररूपोयश्चुल्लिकोदरसन्निभः ॥
रोमशो विवृतास्यश्च दृश्यनासोतिदुर्भगः ॥ ३९ ॥
शङ्खावर्तो भगो यस्याः सा गर्भमिह नेच्छति ॥
चिपिटः खर्पराकारः किङ्करी पददो भगः ॥4.1.37.४०॥।
वंशवेतसपत्राभो गजरोमोच्चनासिकः ॥
विकटः कुटिलाकारो लम्बगल्लस्तथाऽशुभः॥४१॥
भगस्य भालं जघनं विस्तीर्णं तुङ्गमांसलम् ॥
मृदुलं मृदुलोमाढ्यं दक्षिणावर्तमीडितम् ॥ ४२ ॥
वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम् ॥
सङ्कटस्थपुटं रूक्षं जघनं दुःखदं सदा ॥ ४३ ॥
बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता ॥
रोमशा च शिराला च रेखाङ्का नैव शोभना ॥ ४४ ॥
गम्भीरा दक्षिणावर्ता नाभी स्यात्सुखसम्पदे ॥
वामावर्ता समुत्ताना व्यक्तग्रन्थिर्न शोभना ॥ ४५ ॥
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥
क्षितीशं जनयेत्पुत्रं मण्डूकाभेन कुक्षिणा ॥ ४६ ॥
उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥
वन्ध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ॥ ४७ ॥
समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः ॥
पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् ॥ ४८ ॥
यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते ॥
निरपत्या च दुःशीला सा भवेद्दुःखशेवधिः ॥ ४९ ॥
उदरेणातितुच्छेन विशिरेण मृदुत्वचा ॥
योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी ॥ 4.1.37.५० ॥
कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत् ॥
कूष्माण्डाभं यवाभं च दुष्पूरं जायते स्त्रियाः ॥ ५१ ॥
सुविशालोदरी नारी निरपत्या च दुर्भगा ॥
प्रलम्बजठरा हन्ति श्वशुरं चापि देवरम् ॥ ५२ ॥
मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया ॥
ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ॥ ५३ ॥
कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका ॥
चौर वैधव्य दौर्भाग्यं विदध्यादिह योषिताम् ॥ ५४ ॥
निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम् ॥
ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत् ॥ ५५ ॥
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ॥
उद्भिन्नरोमहृदया पतिं हन्ति विनिश्चितम् ॥ ५६ ॥
अष्टादशाङ्गुलततमुरः पीवरमुन्नतम् ॥
सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ॥ ५७ ॥
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ॥
स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ॥ ५८ ॥
दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता ॥
वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम् ॥ ५९ ॥
अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ॥
पीवरास्यौ सान्तरालौ पृथूपान्तौ न शोभनौ ॥ 4.1.37.६० ॥
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ॥
सुखदौ पूर्वकाले तु पश्चादत्यन्त दुःखदौ ॥६१॥
सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम् ॥
अन्तर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ॥ ६२ ॥
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ॥
श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी ॥ ६३ ॥
अबद्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ॥
वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्य वैधव्यसूचकौ ॥ ६४ ॥
निगूढसन्धी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ॥
वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ॥ ६५ ॥
कक्षेसु सूक्ष्मरोमे तु तुङ्गे स्निग्धे च मांसले ॥
शस्तेन शस्ते गम्भीरे शिराले स्वेदमेदुरे ॥ ६६ ॥
स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रन्थिकोमलौ ॥
विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम् ॥ ६७ ॥
वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ ॥
परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ ॥ ६८ ॥
अम्भोज मुकुलाकारमङ्गुष्ठाङ्गुलिसम्मुखम् ॥
हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ॥ ६९ ॥
मृदुमध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् ॥
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभश्रियम् ॥ 4.1.37.७० ॥
विधवा बहुरेखेण विरेखेण दरिद्रिणी ॥
भिक्षुकी सुशिराढ्येन नारी करतलेन वै ॥ ७१ ॥
विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम् ॥
वैधव्यहेतुरोमाढ्यं निर्मांसं स्नायुमत्त्यजेत् ॥ ७२ ॥
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ॥
कररेखाङ्गना याः स्याच्छुभा भाग्यानुसारतः ॥ ७३ ॥
मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा॥
पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ॥ ७४ ॥
चक्रवर्तिस्त्रियाः पाणौ नन्द्यावर्तः प्रदक्षिणः ॥
शङ्खातपत्रक मठा नृपमातृत्वसूचकाः ॥ ७५ ॥
तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके ॥
गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥ ७६ ॥
रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम् ॥
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ ७७ ॥
चामराङ्कुशकोदण्डै राजपत्नी भवेद्ध्रुवम् ॥
अङ्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम्॥ ७८ ॥
यदि सा पतिहन्त्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥
त्रिशूलासिगदाशक्ति दुन्दुभ्याकृति रेखया ॥
नितम्बिनी कीर्तिमती त्यागेन पृथिवीतले ॥ ७९ ॥
कङ्क जम्बूक मण्डूक वृक वृश्चिक भोगिनः ॥
रासभोष्ट्र बिडालाः स्युः करस्था दुःखदाः स्त्रियाः ॥ 4.1.37.८० ॥
शुभदः सरलोङ्गुष्ठो वृत्तो वृत्तनखो मृदुः ॥ ८१ ॥
अङ्गुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः ॥
चिपिटाःस्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः॥८२ ॥
अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः ॥
दुःखायाङ्गुलयः स्त्रीणां बहुपर्वसमन्विताः ॥ ८३ ॥
अरुणाः सशिखास्तुङ्गाः करजाः सुदृशांशुभाः ॥
निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यदायकाः ॥ ८४ ॥
नखेषु बिन्दवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः ॥
पुरुषा अपि जायन्ते दुःखिनः पुष्पितैर्नखैः ॥ ८५ ॥
अन्तर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा ॥
पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ॥ ८६ ॥
भुग्नेन विनतेनापि सशिरेणापि दुःखिता ॥
ऋज्वी कृकाटिका श्रेष्ठा समांसा च समुन्नता॥ ८७ ॥
शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा॥
मांसलो वर्तुलः कण्ठः प्रशस्तश्चतुरङ्गुलः ॥ ८८ ॥
शस्ता ग्रीवा त्रिरेखाङ्का त्वव्यक्तास्थिः सुसंहता ॥
निर्मांसा चिपिटा दीर्घास्थपुटा न शुभप्रदा ॥ ८९ ॥
स्थूलग्रीवा च विधवा वक्रग्रीवा च किङ्करी ॥
वन्ध्या द्विचिपिटग्रीवा ह्रस्वग्रीवा च निःसुता ॥4.1.37.९० ॥
चिबुकन्द्वयङ्गुलं शस्तं वृत्तं पीनं सुकोमलम् ॥
स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ॥ ९१ ॥
हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा ॥
वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ॥ ९२ ॥
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ॥
रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्जयेत् ॥ ९३ ॥
समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम् ॥
जनेतृवदनच्छायं धन्यानामिह जायते ॥ ९४ ॥
पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः ॥
सीमन्तिनी नामधरो धराजानि प्रियो भवेत् ॥ ९५ ॥
कृशः प्रलम्बः स्फुटितो रूक्षो दौर्भाग्यसूचकः ॥
श्यावः स्थूलोऽधरोष्ठः स्याद्वैधव्य कलहप्रदः ॥ ९६ ॥
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥
किञ्चिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत् ॥ ९७ ॥
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः ॥
अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ॥ ९८ ॥
पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपङ्क्तयः ॥
शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ॥ ९९ ॥
अधस्तादधिकैर्दन्तैर्मातरं भक्षयेत्स्फुटम् ॥
पतिहीना च विकटैः कुलटा विरलैर्भवेत् ॥ 4.1.37.१०० ॥
जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथासिता ॥
दुःखाय मध्यसङ्कीर्णा पुरोभागसविस्तरा ॥ १ ॥
सितया तोयमरणं श्यामया कलहप्रिया ।
दरिद्रिणी मांसलया लम्बयाऽभक्ष्यभक्षिणी ॥ २ ॥
विशालया रसनया प्रमदातिप्रमादभाक् ॥
स्निग्धं कोकनदाभासं प्रशस्तं तालुकोमलम् ॥ ३ ॥
सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत्॥
कृष्णेऽपत्यवियोगार्ता रूक्षे भूरिकुटुम्बिनी ॥ ४ ॥
कण्ठे स्थूला सुवृत्ता च क्रमतीक्ष्णा सुलोहिता ॥
अप्रलम्बा शुभा घण्टी स्थूला कृष्णा च दुःखदा ॥ ५ ॥
अलक्षितद्विजं किञ्चित्किञ्चित्फुल्ल कपोलकम् ॥
स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ॥ ६ ॥
समवृत्तपुटानासा लघुच्छिद्रा शुभावहा ॥
स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥ ७ ॥
आकुञ्चितारुणाग्रा च वैधव्यक्लेशदायिनी ॥
परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया ॥ ८ ॥
दीर्घायुः कृत्क्षुतं दीर्घं युगपद्द्वित्रिपिण्डितम् ॥
ललना लोचने शस्ते रक्तान्ते कृष्णतारके ॥ ९॥
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ॥
उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥ 4.1.37.११० ॥
मेषाक्षीमहिषाक्षी च केकराक्षी न शोभना ॥
कामगृहीला नितरां गोपिङ्गाक्षी सुदुर्वृता ॥ ११ ॥
पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ॥
कोटरा नयना दुष्टा गजनेत्रा न शोभना ॥ १२ ॥
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ॥
मधुपिङ्गाक्षी रमणी धनधान्यसमृद्धिभाक् ॥ १३ ॥
पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥
कपिलैर्विरलैः स्थूलैर्निन्द्या भवति भामिनी ॥ १४ ॥
भ्रुवौ सुवर्तुले तन्व्याः स्निग्धे कृष्णे असंहते ॥
प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती ॥ १५ ॥
खररोमा च पृथुला विकीर्णा सरला स्त्रियाः ॥
न भ्रूः प्रशस्ता मिलिता दीर्घरोमा च पिङ्गला ॥ १६ ॥
लम्बौ कर्णौ शुभावर्तौ सुखदौ च शुभप्रदौ ॥
शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ १७ ॥
भालः शिराविरहितो निर्लोमार्धेन्दु सन्निभः ॥
अनिम्नस्त्र्यङ्गुलो नार्याः सौभाग्यारोग्यकारणम् ॥ १८ ॥
व्यक्त स्वस्तिकरेखं च ललाटं राज्यसम्पदे ॥
प्रलम्बं मस्तकं यस्या देवरं हन्ति सा ध्रुवम् ॥ १९ ॥
रोमशेन शिरालेन प्रांशुना रोगिणी मता ॥ 4.1.37.१२० ॥
सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ॥
गजकुम्भनिभावृत्तैः सौभाग्यैश्वर्यसूचकैः ॥ २१ ॥
स्थूलमूर्धा च विधवा दीर्घशीर्षा च बन्धकी ॥
विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम् ॥ २२ ॥
केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ॥
किञ्चिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभनाः ॥ २३ ॥
परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः ॥
पिङ्गला लघवो रूक्षा दुःखदारिद्र्यबन्धदाः ॥ २४ ॥
भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ॥
वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः ॥ २५ ॥
तिलकं लाञ्छनं वापि हृदि सौभाग्यकारणम् ॥
यस्या दक्षिणवक्षोजे शोणे तिलकलाञ्छने ॥ २६ ॥
कन्या चतुष्टयं सूते सूते सा च सुतत्रयम् ॥
तिलकं लाञ्छनं शोणं यस्या वामे कुचे भवेत् ॥ २७ ॥
एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ॥
गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ॥ २८ ॥
तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ॥
नासाग्रे मशकः शोणो महिष्या एव जायते॥ २९ ॥
कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः ॥
नाभेरधस्तात्तिलकं मशको लाञ्छनं शुभम् ॥ 4.1.37.१३० ॥
मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत ॥
करे कर्णे कपोले वा कण्ठे वामे भवेद्यदि ॥ ३१ ॥
एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ॥
भालगेन त्रिशूलेन निर्मितेन स्वयम्भुवा ॥ ३२ ॥
नितम्बिनी सहस्राणां स्वामित्वं योषिदाप्नुयात् ॥
सुप्ता परस्परं यातु दन्तान्किटिकिटायते ॥ ३३ ॥
सुलक्ष्मापि न सा शस्ता या किञ्चित्प्रलपेत्तथा ॥
पाणौ प्रदक्षिणावर्तो धर्म्यो वामो न शोभनः ॥ ३४ ॥
नाभौ श्रुतावुरसि वा दक्षिणावर्त ईडितः ॥
सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे ॥ ३५ ॥
अन्तःपृष्ठं नाभिसमो बह्वायुः पुत्रवर्धनः ॥
राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ॥ ३६ ॥
सचेच्छकटभङ्गःस्याद्बह्वपत्यसुखप्रदः ॥
कटिगो गुह्यवेधेन पत्यपत्यनिपातनः ॥ ३७ ॥
स्यातामुदरवेधेन पृष्ठावर्तौ न शोभनौ ॥
एकेन हन्ति भर्तारं भवेदन्येन पुं श्चली ॥ ३८ ॥
कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ॥
सीमन्तेथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः ॥ ३९ ॥
सा पतिं हन्ति वर्षेण यस्या मध्ये कृकाटिकम्॥
प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः ॥ 4.1.37.१४० ॥
एको वा मूर्धनि द्वौ वा वामे वामगती यदि ॥
आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ॥ ४१ ॥
कट्यावर्ता च कुलटा नाभ्यावर्ता पतिव्रता ॥
पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ॥ ४२ ॥
स्कन्द उवाच ॥
सुलक्षणापि दुःशीला कुलक्षण शिरोमणिः ॥
अलक्षणापि सा साध्वी सर्वलक्षणभूस्तु सा॥ ४३ ॥
सुलक्षणा सुचारित्रा स्वाधीना पतिदेवता ॥
विश्वेशानुग्रहादेव गृहे योषिदवाप्यते ॥ ४४ ॥
अलकृताः स्ववासिन्यो याभिः प्राक्तनजन्मनि ॥
नानाविधैरलङ्कारैस्ताः सुरूपा भवन्ति हि ॥ ४५ ॥
सुतीर्थेषु वपुर्याभिः क्षयितं वा विहायितम् ॥
ता लावण्यतरङ्गिण्यो भवन्तीह सुलक्षणाः ॥ ४६ ॥
अर्चिता जगतां माता याभिर्मृडवधूरिव ॥
ता भवन्ति सुचारित्रा योषाः स्वाधीनभ र्तृकाः ॥ ४७॥
स्वाधीन पतिकानां च सुशीलानां मृगीदृशाम् ॥
स्वर्गापवर्गावत्रैव सुलक्षण फलं हि तत् ॥ ४८ ॥
सुलक्षणैः सुचरितैरपि मन्दायुषं पतिम् ॥
दीर्घायुषं प्रकुर्वन्ति प्रमदाः प्रमदास्पदम् ॥ ४९ ॥
अतः सुलक्षणा योषा परिणेया विचक्षणैः ॥
लक्षणानि परीक्ष्यादौ हित्वा दुर्लक्षणान्यपि ॥ 4.1.37.१५० ॥
लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम्॥
विवाहानपि वक्ष्यामि तन्निबोध घटोद्भव ॥ १५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे स्त्रीलक्षणवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥