०३५ सदाचारः

॥ कुम्भयोनिरुवाच ॥ ॥
अविमुक्तं महाक्षेत्रं परनिर्वाणकारणम् ॥
क्षेत्राणां परमं क्षेत्रं मङ्गलानां च मङ्गलम् ॥ १ ॥
श्मशानानां च सर्वेषां श्मशानं परमं महत् ॥
पीठानां परमं पीठमूषराणां महोषरम् ॥ २ ॥
धर्माभिलाषिबुद्धीनां धर्मराशिकरं परम् ॥
अर्थार्थिनां शिखिरथ परमार्थ प्रकाशकम् ॥ ३ ॥
कामिनां कामजननं मुमुक्षूणां च मोक्षदम् ॥
श्रूयते यत्र यत्रैतत्तत्र तत्र परामृतम् ॥ ४ ॥
क्षेत्रैकदेशवर्तिन्या ज्ञानवाप्याः कथां पराम् ॥
श्रुत्वेमामिति मन्येहं गौरीहृदयनन्दन ॥ ५ ॥
अणुप्रमाणमपि या मध्ये काशिविकासिनी ॥
मही महीयसी ज्ञेया सा सिद्ध्यै न मुधा क्वचित् ॥ ६ ॥
कियन्ति सन्ति तीर्थानि नेह क्षोणीतलेऽखिले ॥
परं काशीरजोमात्र तुलासाम्यं क्व तेष्वपि ॥ ७ ॥
कियन्त्यो न स्रवन्त्योत्र रत्नाकर मुदावहाः ॥
परं स्वर्गतरङ्गिण्याः काश्यां का साम्यमुद्वहेत् ॥ ८ ॥
कियन्ति सन्ति नो भूम्यां मोक्षक्षेत्राणि षण्मुख ॥
परं मन्येऽविमुक्तस्य कोट्यंशोपि न तेष्वहो ॥ ९ ॥
गङ्गा विश्वेश्वरः काशी जागर्ति त्रितयं यतः ॥
तत्र नैःश्रेयसी लक्ष्मीर्लभ्यते चित्रमत्र किम् ॥ 4.1.35.१० ॥
कथमेषा त्रयी स्कन्द प्राप्यते नियतं नरैः ॥
तिष्ये युगे विशेषेण नितरां चञ्चलेन्द्रियैः ॥ ११ ॥
तपस्तादृक्क्व वा तिष्ये तिष्ये योगः क्व तादृशः ॥
क्व वा व्रतं क्व वा दानं तिष्ये मोक्षस्त्वतः कुतः ॥ १२॥
विनापि तपसा स्कन्द विनायोगेन षण्मुख ॥
विना व्रतैर्विना दानैः काश्यां मोक्षस्त्वयेरितः ॥ १३ ॥
किं किमाचरता स्कन्द काशी प्राप्येत तद्वद ॥
मन्ये विना सदाचारं न सिद्ध्येयुर्मनोरथाः ॥ १४ ॥
आचारः परमो धर्म आचारः परमं तपः ॥
आचाराद्वर्धते ह्यायुराचारात्पापसङ्क्षयः ॥ १५ ॥
आचारमेव प्रथमं तस्मादाचक्ष्व षण्मुख ॥
देवदेवो यथा प्राह तवाग्रे त्वं तथा वद ॥ १६ ॥
॥ स्कन्द उवाच॥ ॥
मित्रावरुणजाख्यामि सदाचारं सतां हितम् ॥
यदाचरन्नरो नित्यं सर्वान्कामानवाप्नुयात् ॥१७॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ॥
क्रमेण धार्मिकास्त्वेते ह्येतेभ्यो धार्मिकाः सुराः ॥ १८ ॥
सहस्रभागः प्रथमा द्वितीयोनुक्रमात्तथा ॥
सर्व एते महाभागा यावन्मुक्ति समाश्रयाः ॥ १९ ॥
चतुर्णामपि भूतानां प्राणिनोऽतीव चोत्तमाः ॥
प्राणिभ्यामपि मुने श्रेष्ठाः सर्वे बुद्ध्युपजीविनः ॥ 4.1.35.२० ॥
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्यः श्रेष्ठास्तु वाडवाः ॥
विप्रेभ्योपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ॥ २१ ॥
कृतधीभ्योपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ॥
न तेषामर्चनीयोऽन्यस्त्रिषु लोकेषु कुम्भज ॥ २२ ॥
अन्योन्यमर्चकास्ते वै तपोविद्याऽविशेषतः ॥
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ॥ २३ ॥
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ॥
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ॥
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ॥ २४ ॥
विद्वेष रागरहिता अनुतिष्ठन्ति यं मुने ॥
विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥२५॥
लक्षणैः परिहीनोपि सम्यगाचारतत्परः ॥
श्रद्धालुरनसूयुश्च नरो जीवेत्समाः शतम ॥ २६ ॥
श्रुतिस्मृतिभ्यामुदितं स्वेषु स्वेषु च कर्मसु ॥
सदाचारं निषेवेत धर्ममूलमतन्द्रितः ॥ २७ ॥
दुराचाररतो लोके गर्हणीयः पुमान्भवेत् ॥
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ॥ २८ ॥
त्याज्यं कर्म पराधीनं कायमात्मवशं सदा ॥
दुःखी यतः पराधीनः सदैवात्मवशः सुखी ॥ २९ ॥
यस्मिन्कर्मण्यन्तरात्मा क्रियमाणे प्रसीदति ॥
तदेव कर्म कर्तव्यं विपरीतं न च क्वचित् ॥ 4.1.35.३० ॥
प्रथमं धर्मसर्वस्वं प्रोक्ता यन्नियमा यमाः ॥
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ॥ ३१ ॥
सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम् ॥
दमः प्रसादो माधुर्यं मृदुतेति यमा दश ॥ ३२ ॥
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ॥
उपोषणोपस्थ दण्डौ दशैते नियमाः स्मृताः ॥ ३३ ॥
कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च ॥
अमून्षड्वै(?)रिणो जित्वा सर्वत्र विजयी भवेत् ॥ ३४ ॥
शनैः शनैः स चिनुयाद्धर्मं वल्मीक शृङ्गवत् ॥
परपीडामकुर्वाणः परलोकसहायिनम् ॥ ३५ ॥
धर्म एव सहायी स्यादमुत्र न परिच्छदः ॥
पितृ मातृ सुत भ्रातृ योषिद्बन्धुजनादिकः ॥ ३६ ॥
जायते चैकलः प्राणी प्रम्रियेत तथैकलः ॥
एकलः सुकृतं भुङ्क्ते भुङ्क्ते दुष्कृतमेकलः ॥ ३७ ॥
देहं पञ्चत्वमापन्नं त्यक्त्वा कौ काष्ठलोष्ठवत् ॥
बान्धवा विमुखा यान्ति धर्मो यान्तमनुव्रजेत् ॥३८॥
कृती सञ्चिनुयाद्धर्मं ततोऽमुत्र सहायिनम् ॥
धर्मं सहायिनं लब्द्ध्वा सन्तरेद्दुस्तरं तमः ॥ ३९ ॥
सम्बन्धानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः ॥
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्॥ 4.1.35.४० ॥
उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन् ॥
ब्राह्मणः श्रेष्ठतामेति प्रत्यवाये न शूद्रताम् ॥ ४१ ॥
अनध्ययनशीलं च सदाचारविलङ्घिनम्॥
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ॥ ४२ ॥
ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः ॥
तीर्थान्यप्यभिलष्यन्ति सदाचारिसमागमम्॥ ४३ ॥
रजनीप्रान्तयामार्धं बाह्मः समय उच्यते ॥
स्वहितं चिन्तयेत्प्राज्ञस्तस्मिंश्चोत्थाय सवर्दा ॥ ४४ ॥
गजास्यं संस्मरेदादौ तत ईशं सहाम्बया॥
श्रीरङ्गं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम्॥ ४५ ॥
इन्द्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ॥
गङ्गाद्याः सरितः सर्वाः श्रीशैलाद्यखिलान्गिरीन् ॥ ४६ ॥
क्षीरोदादीन्समुद्रांश्च मानसादि सरांसि च ॥
वनानि नन्दनादीनि धेनूः कामदुघादिकाः ॥ ४७ ॥
कल्पवृक्षादि वृक्षांश्च धातून्काञ्चनमुख्यतः ॥
दिव्यस्त्रीरुर्वशीमुख्या गरुडादीन्पतत्त्रिणः ॥ ४८ ॥
नागाश्च शेषप्रमुखान्गजानैरावतादिकान्॥
अश्वानुच्चैःश्रवो मुख्यान्कौस्तुभादीन्मणीञ्छुभान् ॥ ४९ ॥
स्मरेदरुन्धतीमुख्याः पतिव्रतवतीर्वधूः ॥
नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः ॥ 4.1.35.५० ॥
विश्वेशादीनि लिङ्गानि वेदानृक्प्रमुखानपि ॥
गायत्रीप्रमुखान्मन्त्रान्योगिनः सनकादिकान् ॥ ५१ ॥
प्रणवादिमहाबीजं नारदादींश्च वैष्णवान् ॥
शिवभक्तांश्च बाणादीन्प्रह्लादादीन्दृढव्रतान् ॥ ५२ ॥
वदान्यांश्च दधीच्यादीन्हरिश्चन्द्रादि भूपतीन् ॥
जननी चरणौ स्मृत्वा सर्वतीर्थोत्तमोत्तमौ ॥ ५३ ॥
पितरं च गुरूंश्चापि हृदि ध्यात्वा प्रसन्नधीः ॥
ततश्चावश्यकं कर्तुं नैर्ऋतीं दिशमाश्रयेत् ॥ ५४ ॥
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् ॥
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ॥५५ ॥
कर्णोपवीत्युदग्वक्त्रो दिवसे सन्ध्ययोरपि ॥
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ॥ ५६ ॥
न तिष्ठन्नाप्सु नो विप्र गो वह्न्यनिल सम्मुखः ॥
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ॥ ५७ ॥
नालोकयेद्दिशोभागाञ्ज्योतिश्चक्रं नभोमलम् ॥
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ॥ ५८ ॥
अथो मृदं समादाय जन्तुकर्करवर्जिताम् ॥
विहाय मूषकोत्खातां शौचोच्छिष्टां च नाकुलाम् ॥ ५९ ॥
गुह्ये दद्यान्मृदं चैकां पायौ पञ्चाम्बुसां तराः ॥
दश वामकरे चापि सप्त पाणिद्वये मृदः ॥ 4.1.35.६० ॥
एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ॥
इत्थं शौचं गृही कुर्याद्गन्धलेपक्षयावधि ॥ ६१ ॥
क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु ॥
दिवाविहित शौचस्य रात्रावर्धं समाचरेत् ॥ ६२ ॥
रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते ॥
तदर्धं योषितां चापि सुस्थे न्यूनं न कारयेत् ॥६३॥
अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः ॥
आपादमाचरच्छौचं भावदुष्टो न शुद्धिभाक् ॥६४॥
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः॥
सर्वाश्चाहुतयोप्येवं ग्रासाश्चान्द्रायणेपि च ॥
प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि॥
उपस्पृशेद्विहीनायां तुषाङ्गारास्थिभस्मभिः ॥ ६६॥
अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः ॥
ब्राह्मणो ब्राह्मतीर्थेन दृष्टिपूताभिराचमेत् ॥ ६७॥
कण्ठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः ॥
स्त्रीशूद्रावास्य संस्पर्शमात्रेणापि विशुद्ध्यतः ॥ ६८ ॥
शिरः प्रावृत्य कण्ठं वा जले मुक्तशिखोऽपि च ॥
अक्षालितपदद्वन्द्व आचान्तोप्यशुचिर्मतः ॥ ६९ ॥
त्रिः पीत्वाम्बु विशुद्ध्यर्थं ततः खानि विशोधयेत् ॥
अङ्गुष्ठमूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत् ॥ 4.1.35.७० ॥
अङ्गुलीभिस्त्रिभिः पश्चात्पुनरास्यं स्पृशेत्सुधीः ॥
तर्जन्यङ्गुष्ठकोट्या च घ्राणरन्ध्रे पुनः पुनः ॥ ७१ ॥
अङ्गुष्ठानामिकाग्राभ्यां चक्षुः श्रोत्रे पुनः पुनः ॥
कनिष्ठाङ्गुष्ठयोगेन नाभिरन्ध्रमुपस्पृशेत् ॥ ७२ ॥
स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत् ॥
अङ्गुल्यग्रैस्तथा स्कन्धौ साम्बु सर्वत्र संस्पृशेत् ॥ ७३ ॥
आचान्तः पुनराचामेत्कृते रथ्योपसर्पणे ॥
स्नात्वा भुक्त्वा पयः पीत्वा प्रारम्भे शुभकर्मणाम् ॥ ७४ ॥
सुप्त्वा वासः परीधाय तथा दृष्ट्वाप्यमङ्गलम् ॥
प्रमादादशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर्भवेत् ॥ ७५ ॥
अथो मुखविशुद्ध्यर्थं गृह्णीयाद्दन्तधावनम् ॥
आचान्तोप्यशुचिर्यस्मादकृत्वा दन्तधावनम्॥ ७६ ॥
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ॥
दन्तानां काष्ठसंयोगो दहेदासप्तमं कुलम् ॥ ७७॥
अलाभे दन्तकाष्ठानां निषिद्धे वाथ वासरे ॥
गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥ ७८ ॥
कनिष्ठाग्र परीमाणं सत्वचं निर्व्रणं ऋजुम् ॥
द्वादशाङ्गुलमानं च सार्धं स्याद्दन्तधावनम् ॥ ७९ ॥
एकैकाङ्गुलह्रासेन वर्णेष्वन्येषु कीर्तितम् ॥
आम्राम्रातक धात्रीणां कङ्कोल खदिरोद्भवम् ॥ 4.1.35.८० ॥
शम्यपामार्गखर्जूरीशेलुश्रीपर्णिपीलुजम्॥
राजादनं च नारङ्गं कषायकटुकण्टकम्॥८१॥
क्षीरवृक्षोद्भवं वापि प्रशस्तं दन्तधावनम्॥
जिह्वोल्लेखनिकां चापि कुर्याच्चापाकृतिं शुभाम्॥ ८२॥
अन्नाद्याय व्यूहध्वं सोमोराजाय मा गमत् ॥
समे मुखं प्रमार्क्ष्यते यशसा च भगेन च ॥ ८३ ॥
आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च ॥
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ ८४ ॥
मन्त्रावेतौ समुच्चार्य यः कुर्याद्दन्तधावनम् ॥
वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति ॥ ८५ ॥
मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः ॥
ततः कुर्यात्प्रयत्नेन शुद्ध्यर्थं दन्तधावनम् ॥ ८६ ॥
उपवासेपि नो दुष्येद्दन्तधावनमञ्जनम् ॥
गन्धालङ्कारसद्वस्त्रपुष्पमालानुलेपनम् ॥ ८७ ॥
प्रातःसन्ध्यां ततः कुर्याद्दन्तधावनपूर्विकाम् ॥
प्रातःस्नानं चरित्वा च शुद्धे तीर्थे विशेषतः ॥ ८८ ॥
प्रातःस्नानाद्यतःशुद्ध्येत्कायोयं मलिनः सदा ॥
छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ॥ ८९ ॥
उत्साह मेधा सौभाग्य रूप सम्पत्प्रवर्तकम् ॥
मनः प्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते ॥ 4.1.35.९० ॥
प्रस्वेद लालाद्याक्लिन्नो निद्राधीनो यतो नरः ॥
प्रातःस्नानात्ततोर्हः स्यान्मन्त्रस्तोत्रजपादिषु॥९१॥
प्रातःप्रातस्तु यत्स्नानं सञ्जाते चारुणोदये ॥
प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत् ॥ ९२ ॥
प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ॥
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥ ९३ ॥
नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजन क्वचित् ॥
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ॥ ९४ ॥
प्रसङ्गतः स्नानविधिं वक्ष्यामि कलशोद्भव ॥
विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम् ॥ ९५ ॥
विशुद्धां मृदमादाय बर्हींषि तिल गोमयम् ॥
शुचौ देशे परिस्थाप्य त्वाचम्य स्नानमाचरेत् ॥ ९६ ॥
उपग्रही बद्धशिखो जलमध्ये समाविशेत् ॥
उरुँ हीति मन्त्रेण तोयमावर्त्य सृष्टितः ॥ ९७ ॥
ये ते शतं ततो जप्त्वा तोयस्यामन्त्रणाय च ॥
सुमित्रिया नो मन्त्रेण पूर्वं कृत्वा जलाञ्जलिम् ॥
क्षिपेद्द्वेष्यं समुद्दिश्य जपन्दुर्मित्रिया इति ॥ ९८ ॥
इदं विष्णुरिमं जप्त्वा लिम्पेदङ्गानि मृत्स्नया ॥
मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि ॥ ९९ ॥
नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् ॥ ॥
मज्जेत्प्रवाहाभिमुख आपो अस्मानिमं जपन् ॥4.1.35.१००॥
उदिदाभ्यः शुचिरिति मन्त्र उन्मज्जने मतः ॥
मानस्तोक इमं जप्त्वा लिम्पेद्गात्राणि गोमयैः ॥ १ ॥
इमं मे वरुणेत्यादि मन्त्रः स्वात्माभिषेचनम् ॥
तत्त्वायामि तथात्वन्नः सत्वं नश्चाप्युदुत्तमम् ॥ २ ॥
धाम्नोधाम्नस्तथा मापो मौषधीरिति सञ्जपेत् ॥
यदाहुरघ्न्या मुञ्चन्तु मेति चावभृथेति च ॥ ३ ॥
अब्दैवता इमे मन्त्राः प्रोक्ताः स्वात्माभिषेचने ॥
प्रणवेन ततो विप्रो महाव्याहृतिभिस्ततः ॥ ४ ॥
आत्मानं पावयेद्विद्वान्गायत्र्या च ततः कृती ॥
आपो हिष्ठेति तिसृभिः प्रत्यृचं पावनं स्मृतम् ॥ ५ ॥
एतेपि पावना मन्त्रा इदमापो हविष्मतीः ॥
देवीराप अपो देवा द्रुपदादिव सञ्ज्ञकाः ॥ ६ ॥
शन्नो देवीरपोदेवीस्तथापाँरसमित्यपि ॥
पुनन्तु मेति च नव पावमान्यः प्रकीर्तिताः ॥ ७ ॥
ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो जपेत् ॥
प्राणायामं च विधिवदथवान्तर्जले जपेत् ॥ ८ ॥
प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत्सुधीः॥
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ॥
आचम्य च ततः कुर्यात्प्रातःसन्ध्यां कुशान्विताम्॥
यो न सन्ध्यामुपासीत ब्राह्मणो हि विशेषतः ॥ 4.1.35.११० ॥
स जीवन्नेव शूद्रस्तु मृतः श्वा जायते ध्रुवम् ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥ ११ ॥
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥
प्रणवं प्राग्दिशि स्मृत्वा ततो दत्त्वा कुशासनम् ॥ १२ ॥
चतुःस्रक्तिरिमं मन्त्रं पठित्वा नान्यदृङ्मनाः ॥ १३ ॥
प्राङ्मुखो बद्धचूडो वाप्युपविष्ट उदङ्मुखः ॥
प्रदक्षिणं स्वमभ्युक्ष्य प्राणायामं समाचरेत् ॥ १४ ॥
गायत्रीं शिरसा सार्धम्ं सप्तव्याहृतिपूर्विकाम् ॥
त्रिर्जपेत्सदशोङ्कारः प्राणायामोयमुच्यते ॥१५॥
प्राणायामांश्चरन्विप्रो नियतेन्द्रिय मानसः ॥
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥१६॥
दशद्वादश सङ्ख्या वा प्राणायामाः कृता यदि ॥
नियम्य मानसं तेन तदा तप्तं महत्तपः ॥ १७ ॥
सव्याहृति प्रणवकाः प्राणायामास्तु षोडश ॥
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ १८ ॥
यथा पार्थिवधातूनां दह्यन्ते धमनान्मलाः ॥
तथेन्द्रियैः कृता दोषा ज्वाल्यन्ते प्राणसंयमात् ॥ १९ ॥
एकं सम्भोज्य विधिवद्ब्राह्मणं यत्फलं लभेत् ॥
प्राणायामैर्द्वादशभिस्तत्फलं श्रद्धयाप्यते ॥ 4.1.35.१२० ॥
वेदादि वाङ्मयं सर्वं प्रणवे यत्प्रतिष्ठितम्॥
ततः प्रणवमभ्यस्येद्वेदादिं वेदजापकः ॥ २१ ॥
प्रणवे नित्ययुक्तस्य सप्तसु व्याहृतिष्वपि ॥
त्रिपदायां तु गायत्र्यां न भयं जायते क्वचित् ॥२२॥
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥
गायत्र्यास्तु परं नास्ति पावनं कलशोद्भव ॥ २३ ॥
कर्मणा मनसा वाचा यद्रात्रौ कुरुतेत्वघम् ॥
उत्तिष्ठन्पूर्वसन्ध्यायां प्राणायामैर्विशोधयेत्॥ २४॥
यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ॥
आसीनः पश्चिमां सन्ध्यां तत्प्राणायामतो हरेत् ॥ २५ ॥
पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ॥
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २६ ॥
पूर्वां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ॥
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २७ ॥
नोपतिष्ठेत्तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २८ ॥
अपां समीपमासाद्य नित्यकर्म समाचरेत् ॥
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ २९ ॥
गृहाद्बहुगुणा यस्मात्सन्ध्या बहिरुपासिता ॥
गायत्र्यभ्यासमात्रोपि वरं विप्रो जितेन्द्रियः ॥ 4.1.35.१३० ॥
त्रिवेद्यपि च नो मान्यः सर्वभुक्सर्वविक्रयी ॥
सविता देवता यस्या मुखमग्निस्त्रिपाच्च या ॥ ३१ ॥
विश्वामित्रे ऋषिश्छन्दो गायत्री सा विशिष्यते ॥
गायत्रीमुषसि ध्यायेल्लोहितां ब्रह्मदैवताम् ॥ ३२ ॥
हंसारूढामष्टवर्षां रक्तस्रगनुलेपनाम् ॥
ऋक्स्वरूपामभयदामक्षमालावलम्बिनीम् ॥ ३३ ॥
व्यासर्षिणा स्तूयमानां छन्दसानुष्टुभायुताम् ॥
एतद्ध्यानादुषर्देव्या नैशमेनो व्यपोहति ॥ ३४ ॥
सूर्यश्चेति च मन्त्रेण स्यादाचमनमुत्तमम् ॥
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ॥ ३५ ॥
भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ॥
मस्तके च तथाकाशे भूमौ च नवधा क्षिपेत् ॥ ३६ ॥
भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ॥
शिरस्येव शिरः शब्दो मार्जनज्ञैरुदाहृतः ॥ ३७ ॥
वारुणादपि चाग्नेयाद्वायव्यादपि चैन्द्रतः ॥
मन्त्रस्नानादपि परं ब्राह्मं स्नानमिदं परम् ॥ ३८ ॥
ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यन्तरे शुचिः ॥
सर्वत्र चार्हतामेति देवपूजादिकर्मणि ॥३९ ॥
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ॥
शतशोपि तथा स्नाता न शुद्धा भावदूषिता ॥ 4.1.35.१४० ॥
अन्तःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् ॥
किं पावनाः प्रकीर्त्यन्ते रासभा भस्मधूसराः ॥ ४१ ॥
स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः ॥
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥ ४२ ॥
तदेव निर्मलं चेतो यथास्यात्तन्मुने शृणु ॥
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ॥ ४३ ॥
तस्माच्चेतोविशुद्ध्यर्थं काशीनाथं समाश्रयेत् ॥
तदाश्रयेण नियतं सङ्क्षीयन्ते मनोमलाः ॥ ४४ ॥
सङ्क्षीणमान स मलो विश्वेशानु ग्रहात्परात् ॥
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति ॥ ४५ ॥
विश्वेशानुग्रहे हेतुः सदाचारो मतो नृणाम् ॥
श्रुतिस्मृतिभ्यामुदितं तस्मात्तमनु संश्रयेत् ॥ ॥ ४६ ॥
द्रुपदां तु ततो जप्त्वा जलमादाय पाणिना ॥
कुर्यादृतं च मन्त्रेण विधिज्ञस्त्वघमर्षणम् ॥ ४७ ॥
निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ॥
यथाश्वमेधावभृथस्तस्य स्यात्तत्तथा ध्रुवम् ॥ ४८ ॥
जले वापि स्थले वापि यः कुयार्दघमषर्णम् ॥
तस्याघौघो विनश्येत यथा सूर्योदये तमः ॥ ४९ ॥
इमं मन्त्रं ततश्चोक्त्वा कुर्यादाचमनं द्विजः ॥
आचार्याः केचिदिच्छन्ति शाखाभेदेन चापरे ॥ 4.1.35.१५० ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतम् ॥ ५१ ॥
गायत्रीं शिरसा हीनां महाव्याहृतिपूर्विकाम् ॥
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदम्भोञ्जलि त्रयम् ॥ ५२ ॥
तेन वज्रोदकेनाशु मन्देहा नाम राक्षसाः ॥
सूर्यारयः प्रलीयन्ते शैला वज्रहता इव ॥५३॥
विवस्वतः सहायार्थं यो द्विजो नाञ्जलित्रयम् ॥
क्षिपेन्मन्देहनाशाय सोपि मन्देहतां व्रजेत्॥५४॥
प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम्॥
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात्॥५५॥
काललोपो न कर्तव्यो द्विजेन स्वहितेप्सुना॥
अर्धोदयास्त समये तस्माद्वज्रोदकं क्षिपेत् ॥५६ ॥
विधिनापि कृता सन्ध्या कालातीताऽफला भवेत् ॥
अयमेव हि दृष्टान्तो वन्ध्या स्त्री मैथुनं यथा ॥५७॥
जलं वामकरे कृत्वा यासन्ध्या चरिता द्विजैः ॥
वृषली सा परिज्ञेया रक्षोगण मुदावहा ॥५८॥
उद्वयं तमुदुत्यं च चित्रं देवेति तत्परम् ॥
तच्चक्षुरित्युपस्थानमन्त्रा ब्रध्नस्य सिद्धिदाः ॥५९॥
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ॥
दशकृत्वोथ देव्यैव कुर्यात्सौरीमुपस्थितिम् ॥ 4.1.35.१६० ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ॥ ६१ ॥
विभ्राडित्यनुवाकं वा सूक्तं वा पौरुषं जपेत् ॥
शिवसङ्कल्पमथवा ब्राह्मणं मण्डलं तु वा ॥ ६२ ॥
एतानि चोपस्थानानि रविप्रीतिकराणि च ॥
रक्तचन्दनमिश्राद्भिरक्षतैः कुसुमैः कुशैः ॥६३॥
वेदोक्तैरागमोक्तैर्वा मन्त्रैरर्घं प्रदापयेत् ॥
अर्चितः सविता येन तेन त्रैलोक्यमर्चितम्॥६४॥
अर्चितः सविता सूते सुतान्पशु वसूनि च ॥
व्याधीन्हरेद्ददात्यायुः पूरयेद्वाञ्छितान्यपि ॥ ६५ ॥
अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ॥
रविर्हिरण्यगर्भोसौ त्रयीरूपोयमर्यमा ॥ ६६ ॥
रवेस्तु तोषणात्तुष्टा ब्रह्मविष्णुमहेश्वराः ॥
इन्द्रादयोखिला देवा मरीच्याद्या महर्षयः ॥ ६७ ॥
मानवा मनुमुख्याश्च सोमपाद्याः पितामहाः ॥
रवेरर्चां विधायेत्थं ततस्तर्पणमारभेत् ॥ ६८ ॥
दर्भानगर्भानादाय नव सप्त च पञ्च वा ॥
साग्रान्समूलानच्छिन्नान्द्विजो दक्षिणपाणिना ॥ ६९ ॥
अन्वारब्धेन सव्येन तर्पयेत्षड्विनायकान् ॥
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ॥ 4.1.35.१७० ॥
चन्दनागुरुकस्तूरी गन्धवत्कुसुमैरपि ॥
तर्पयेच्छुचिभिस्तोयैस्तृप्यन्त्विति समुच्चरन् ॥ ७१ ॥
सनकादीन्मनुष्याँश्च निवीती तर्पयेद्यवैः ॥
अङ्गुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ॥ ७२ ॥
कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्पयेत् ॥
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ॥ ७३ ॥
रवौ शुक्रे त्रयोदश्यां सप्तम्यां निशि सन्ध्ययोः ॥
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्पणम् ॥ ७४ ॥
यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ॥
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ॥ ७५ ॥
ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वपितॄन्मुदा ॥
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ॥ ७६ ॥
एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादिकाः ॥
पितरस्त्रीन्प्रवाञ्छन्ति स्त्रिय एकैकमञ्जलिम् ॥ ७७ ॥
अङ्गुल्यग्रे भवेद्दैवमार्षमङ्गुलि मूलगम् ॥
ब्राह्ममङ्गुष्ठमूले तु पाणिमध्ये प्रजापतेः ॥ ७८ ॥
मध्येङ्गुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ॥
नवर्चमुच्चरन्विद्वान्विदध्यात्पितृतर्पणम् ॥ ७९ ॥
उदीरतामगिंरस आयन्तुन इतीष्यते ॥
ऊर्जं वहन्ती पितृभ्यः स्वधायिभ्यस्ततः पठेत् ॥ 4.1.35.१८० ॥
ये चेह पितरस्तद्वन्मधुवाता इति तृचम् ॥
नमो वः पितरश्चोक्त्वा पठन्सिञ्चेज्जलं भुवि ॥ ८१ ॥
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ॥
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥८२ ॥
अतीतकुलकोटीनां सप्तद्वीप निवासिनाम् ॥
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥ ६३ ॥
ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ॥
सर्वे ते तृप्तिमायान्तु वस्त्रनिष्पीडनोदकैः ॥८४ ॥
अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ॥
श्रुत्यभ्यासः पञ्चधा स्यात्स्वीकारोर्थविचारणम् ॥ ८५ ॥
अभ्यासश्च जपश्चापि शिष्येभ्यः प्रतिपादनम् ॥
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ॥ ८६ ॥
दातारं समुपेयाद्वै स्वगुरुत्वं च वर्धयेत् ॥
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां द्विजोत्तम ॥ ८७ ॥
अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ॥
शौचाचमनमादाय भक्षयेद्दन्तधावनम् ॥ ८८ ॥
विशोध्य सर्वगात्राणि प्रातःसन्ध्यां समाचरेत् ॥
वेदार्थानधिगच्छेच्च शास्त्राणि विविधान्यपि ॥ ८९ ॥
अध्यापयेच्छुचीञ्शिष्यान्हितान्मेधासमन्वितान् ॥
उपेयादीश्वरं चैव योगक्षेमादि सिद्धये ॥ 4.1.35.१९० ॥
ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ॥
स्नात्वा माध्याह्निका सन्ध्यामुपासीत विचक्षणः ॥ ९१ ॥
नवयौवनभिन्नाङ्गीं शुद्धस्फटिकनिर्मलाम् ॥
त्रिष्टुप्छन्दः समायुक्तां सावित्रीं रुद्रदैवताम् ॥ ९२ ॥
कश्यपर्षिसमायुक्तां यजुर्वेदस्वरूपिणीम् ॥
त्र्यक्षरां वृषभारूढां भक्ताभयकरां पराम् ॥ ९३ ॥
देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत् ॥
पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ॥ ९४ ॥
निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ॥
तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत् ॥ ९५ ॥
आढकीश्च मसूरांश्च वर्तुलान्वरटांस्तथा ॥
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् ॥ ९६ ॥
दर्भपाणिः समाचम्य प्राणायामं विधाय च ॥
पृष्ठो दिवीति मन्त्रेण पर्युक्षणमथाचरेत् ॥ ९७ ॥
प्रदक्षिणं च पर्युक्ष्य त्रिःपरिस्तीर्य वै कुशान् ॥
एषो ह देव मन्त्रेण कुर्याद्वह्निं सुसम्मुखम् ॥ ९८ ॥
वैश्वानरं समभ्यर्च्य साज्यपुष्पाक्षतैरथ ॥
भूराद्याश्चाहुतीस्तिस्रः स्वाहान्ताः प्रणवादिकाः ॥ ९९ ॥
ॐभूर्भुवःस्वःस्वाहेति विप्रो दद्यात्तथाहुतिम् ॥
तथा देवकृतस्याद्या जुहुयाच्च षडाहुतीः ॥ 4.1.35.२०० ॥
यमाय तूष्णीमेकां च तथा स्विष्टकृतीद्वयम् ॥
विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्ततो बलिम् ॥ १ ॥
सर्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे ॥
तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिको ददेत् ॥ २ ॥
निर्णेजनोदकान्नं चैशान्यां वै यक्ष्मणेऽर्पयेत् ॥
ततो ब्रह्मादि देवेभ्यो नमो दद्यात्तदुत्तरे ॥ ३ ॥
निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् ॥
हन्तः षोडशभिर्ग्रासश्चतुर्भिः पुष्कलं स्मृतम् ॥ ४ ॥
ग्रासमात्राभवेद्भिक्षा गृहस्थसुकृतप्रदा ॥
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ॥ ५ ॥
यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः ॥
अतिथिः पथिको ज्ञेयो ऽनूचानः श्रुतिपारगः ॥ ६ ॥
मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ॥
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ॥ ७ ॥
अन्नार्थिनि समायाते पात्रापात्रं न चिन्तयेत् ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम्॥ ८ ॥
काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ॥
ऐन्द्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ॥ ९ ॥
प्रतिगृह्णन्त्विमं पिण्डं काका भूमौ मयार्पितम् ॥
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ॥ 4.1.35.२१० ॥
ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ ॥
देवा मनुष्याः पशवो रक्षो यक्षोरगाः खगाः ॥ ११ ॥
दैत्याः सिद्धाः पिशाचाश्च प्रेता भूताश्च दानवाः ॥
तृणानि तरवश्चापि मद्दत्तान्नाभिलाषुकाः ॥ १२ ॥
कृमि कीट पतङ्गाद्याः कर्मबद्धा बुभुक्षिताः ॥
तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेस्तु वै ॥ १३ ॥
इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम् ॥
प्रतीक्ष्यातिथिमायान्तं विशेद्भोज्यगृहं ततः ॥ १४ ॥
अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ॥
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ॥ १५ ॥
भोजयेत्पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः ॥
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ॥ १६ ॥
दक्षिणारहितं त्वेतद्दातृभोक्तृ व्रतोज्झितम् ॥
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ॥ १७ ॥
अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह ॥
सुगन्धिः सुमनाः स्रग्वी शुचिवासो द्वयान्वितः ॥ १८ ॥
प्रागास्य उदगास्यो वा भुञ्जीत पितृसेवितम् ॥ १९ ॥
विधायान्नमनग्नं तदुपरिष्टादधस्तथा ॥
आपोशनविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ॥4.1.35.२२०॥
प्रदद्याद्भुवःपतये भुवनपतये तथा॥
भूतानाम्पतये स्वाहेत्युक्त्वा भूमौ बलित्रयम् ॥२१॥
सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपञ्चकम् ॥
दद्याज्जठरकुण्डाग्नौ दर्भपाणिः प्रसन्नधीः ॥ २२ ॥
दर्भपाणिस्तु यो भुङ्क्ते तस्य दोषो न विद्यते ॥
केशकीटादि सम्भूतस्तदश्नीयात्सदर्भकः ॥ २३ ॥
यावद्रुच्यन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् ॥
भुञ्जते पितरस्तावद्यावन्नोक्ता गुणागुणाः ॥ २४ ॥
अतो मौनेन यो भुङ्क्ते स भुङ्क्ते केवलामृतम् ॥
अनुपीय ततः क्षीरं तक्रं पानीयमेव वा ॥ २५ ॥
अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् ॥
पीतशेषं क्षिपेद्भूमौ तोयं मन्त्रमिमं पठन्॥ २६ ॥
अप्रक्षालितहस्तस्य दक्षिणाङ्गुष्ठमूलतः ॥
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ॥ २७ ॥
उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ॥ ॥ २८ ॥
पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ॥
हस्तेनोदकमादाय मन्त्रमेतमुदीरयेत्॥२९॥
अङ्गुष्ठमात्रः पुरुषस्त्वङ्गुष्ठं च समाश्रितः ॥
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ 4.1.35.२३० ॥
इत्यन्नं परिसङ्कल्प्य प्रक्षाल्य चरणौ करौ ॥
ततोन्नपरिणामार्थं मन्त्रानेतानुदीरयेत् ॥ ३१ ॥
अग्निराप्याययन्धातून्पार्थिवान्पवनेरितः ॥
दत्तावकाशो नभसा जरयत्वस्तु मे सुखम् ॥३२॥
प्राणापानसमानानामुदानव्यानयोस्तथा॥
अन्नपुष्टिकरं चास्तु ममास्त्वव्याहतं सुखम् ॥ ३३॥
समुद्रो वडवाग्निश्च ब्रध्नो ब्रध्नस्यनन्दनः ॥
मयाभ्यवहृतं यत्तदशेषं जरयन्त्विमे ॥ ३४ ॥
मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ॥
अतिवाह्य दिवाशेषं ततः सन्ध्यां समारभेत् ॥ ३५॥
गृहे गोष्ठे नदीतीरे सन्ध्या दशगुणा क्रमात् ॥
सम्भेदे स्याच्छतगुणा ह्यनन्ता शिवसन्निधौ ॥ ३६ ॥
उपासिता बहिः सन्ध्या दिवामैथुनपातकम् ॥
शमयेदनृतोक्ताघं मद्यगन्धजमेव च ॥ ३७ ॥
सामवेदस्वरूपां च वसिष्ठर्षि समायुताम् ॥
कृष्णाङ्गीं कृष्णवसनां मनाक्स्खलित यौवनाम् ॥ ३८ ॥
सरस्वतीं तार्क्ष्ययानां विघ्नघ्नीं विष्णुदैवताम् ॥
जगतीच्छन्दसा युक्तां ध्यायेदेकाक्षरां पराम् ॥ ३९ ॥
अग्निश्चेति च मन्त्रेण विधायाचमने सुधीः ॥
पश्चिमास्यो जपेत्तावद्यावन्नक्षत्रदर्शनम् ॥ 4.1.35.२४० ॥
अतिथिं सायमायान्तमपिवाग्भूतृणोदकैः ॥
सम्भाव्य परिकल्प्येत्थं निशःप्राक्प्रहरं सुधीः ॥ ४१ ॥
इत्थं दिवाकर्म कृत्वा श्रुतेः पठनपाठनैः ॥
एककाष्ठमयीं शय्यां नातितृप्तोथ संविशेत् ॥ ४२ ॥
उद्देशतः समाख्यातो ह्येष नित्यतमो विधिः ॥
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित् ॥ २४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहरस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे सदाचारो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ ॥