०३४ ज्ञानवापीप्रशंसनम्

॥ स्कन्द उवाच ॥ ॥
पुनर्ददर्श तन्वङ्गी चित्रपट्यां घटोद्भव ॥
स्वर्गद्वारात्पुरोभागे श्रीमतीं मणिकर्णिकाम् ॥ १ ॥
संसारसर्पदष्टानां जन्तूनां यत्र शङ्करः ॥
अपसव्येन हस्तेन ब्रूते ब्रह्मस्पृशञ्छ्रुतिम् ॥ २ ॥
न कापिलेन योगेन न साङ्ख्येन न च व्रतैः ॥
या गतिः प्राप्यते पुम्भिस्तां दद्यान्मोक्षभूरियम् ॥ ३ ॥
वैकुण्ठे विष्णुभवने विष्णुभक्तिपरायणाः ॥
जपेयुः सततं मुक्त्यै श्रीमतीं मणिकर्णिकाम् ॥४॥
हुत्वाग्निहोत्रमपि च यावज्जीवं द्विजोत्तमाः ॥
अन्ते श्रयन्ते मुक्त्यै यां सेयं श्रीमणिकर्णिका ॥ ५ ॥
वेदान्पठित्वा विधिवद्ब्रह्मयज्ञरता भुवि ॥
यां श्रयन्ति द्विजा मुक्त्यै सेयं श्रीमणिकर्णिका ॥ ६ ॥
इष्ट्वा क्रतूनपि नृपा बहून्पर्याप्तदक्षिणान् ॥
श्रयन्ते श्रेयसे धन्याः प्रान्तेऽधिमणिकर्णिकम् ॥ ७ ॥
सीमन्तिन्योपि सततं पतिव्रतपरायणाः ॥
मुक्त्यै पतिमनुव्रज्य श्रयन्ति मणिकर्णिकाम् ॥ ८ ॥
वैश्या अपि च सेवन्ते न्यायोपार्जितसम्पदः ॥
धनानि साधुसात्कृत्वा प्रान्ते श्रीमणिकर्णिकाम्॥ ९ ॥
त्यक्त्वा पुत्रकलत्रादि सच्छूद्रा न्यायमार्गगाः ॥
निर्वाणप्राप्तये चैनां भजेयुर्मणिकर्णिकाम् ॥ 4.1.34.१० ॥
यावज्जीवं चरन्तोपि ब्रह्मचर्य जितेन्द्रियाः ॥
निःश्रेयसे श्रयन्त्येनां श्रीमतीं मणिकार्णकाम् ॥ ११ ॥
अतिथीनपि सन्तर्प्य पञ्चयज्ञरता अपि ॥
गृहस्थाश्रमिणो नेमां त्यजेयुर्मणिकर्णिकाम् ॥१२॥
वानप्रस्थाश्रमयुजो ज्ञात्वा निर्वाणसाधनम् ॥
सन्नियम्येन्द्रियग्रामं मणिकर्णीमुपासते ॥ १३ ॥
अनन्यसाधनां मुक्तिं ज्ञात्वा शास्त्रैरनेकधा ॥
मुमुक्षुभिस्त्वेकदण्डैः सेव्यते मणिकर्णिका ॥ १४ ॥
दण्डयित्वा मनोवाचं कायं नित्यं त्रिदण्डिनः ॥
नैःश्रेयसीं श्रियं प्राप्तुं श्रयन्ते मणिकर्णिकाम् ॥ १५ ॥
सन्न्यस्ताखिलकर्माणो दण्डयित्वा चलं मनः ॥
एकदण्डव्रता मुक्त्यै भजेयुर्मणिकर्णिकाम् ॥ १५ ॥
शिखी मुण्डी जटी वापि कौपीनी वा दिगम्बरः ॥
मुमुक्षुः को न सेवेत मुक्तिदां मणिकर्णिकाम् ॥१७॥ ।
तपःकर्तुं न शक्ता ये दानं वा दातुमक्षमाः ॥
योगाभ्यास विहीना ये तेषामेषा विमुक्तिदा ॥ १- ॥
सन्त्युपायाः सहस्रं तु मुक्तये न तथा मुने ॥
हेलयैषा यथा दद्यान्निर्वाणं मणिकर्णिका ॥ १९ ॥
अनशनव्रतभृते त्रिकालाभ्यवहारिणे ॥
प्रान्ते दद्यात्समां मुक्तिमुभाभ्यां मणिकर्णिका ॥ 4.1.34.२० ॥
यथोक्तमाचरेदेको निष्ठा पाशुपतंव्रतम् ॥
निरन्तरं स्मरेदेको हृद्येनां मणिकर्णिकाम् ॥ २१ ॥
दृष्टात्र वपुषः पाते द्वयोश्च सदृशी गतिः ॥
तस्मात्सर्वविहायाशु सेव्यैषा मणिकर्णिका ॥ ॥ २२ ॥
स्वर्गद्वारे विशेयुर्ये विगाह्य मणिकर्णिकाम् ॥
तेषां विधूतपापानां कापि स्वर्गो न दूरतः ॥ २३ ॥
स्वर्गद्वाः स्वर्गभूरेषा मोक्षभूर्मणिकर्णिका ॥
स्वर्गापवर्गावत्रैव नोपरिष्टान्न चाप्यधः ॥२४॥
दत्त्वा दानान्यनेकानि विगाह्य मणिकर्णिकाम् ॥
स्वर्गद्वारं प्रविष्टा ये न ते निरयगामिनः ॥२५॥
स्वर्गापवर्गयोरर्थः कोविदैश्च निरूपितः ॥
स्वर्गः सुखं समुद्दिष्टमपवर्गो महासुखम् ॥ २६ ॥
मणिकर्ण्युपविष्टस्य यत्सुखं जायते सतः ॥
सिंहासनोपविष्टस्य तत्सुखं क्व शतक्रतोः ॥ २७ ॥
महासुखं यदुद्दिष्टं समाधौ विस्मृतात्मनाम् ॥
श्रीमत्यां मणिकर्ण्यां तत्सहजेनैव जायते ॥ २८ ॥
स्वर्गद्वारात्पुरोभागे देवनद्याश्च पश्चिमे ॥
सौभाग्यभाग्यैकनिधिः काचिदेका महास्थली ॥ २९ ॥
यावन्तो भास्वतः स्पर्शाद्भासन्ते सैकताः कणाः ॥
तावन्तो द्रुहिणा जग्मुर्नैत्येषा मणिकर्णिका ॥ 4.1.34.३० ॥
सन्ति तीर्थानि तावन्ति परितो मणिकर्णिकाम् ॥
यावद्भिस्तिलमात्रापि न भूमिर्विरलीकृता ॥ ३१ ॥
यदन्वये कोपि मुक्तः सम्प्राप्य मणिकर्णिकाम् ॥
तद्वंश्यास्तत्प्रभावेण मान्याः स्वर्गौकसामपि ॥ ३२॥
तर्पिताः पितरो येन सम्प्राप्य मणिकर्णिकाम्॥
सप्तसप्त तथा सप्त पूर्वजास्तेन तारिताः ॥ ३३ ॥
आमध्याद्देवसरित आ हरिश्चन्द्रमडपात् ॥
आ गङ्गा केशवादा च स्वर्द्वारान्मणिकर्णिका ॥ ॥ ३४ ॥
एतद्रजःकणतुलां त्रिलोक्यपि न गच्छति ॥
एतत्प्राप्त्यै प्रयतते त्रिलोकस्थोऽखिलो भवी ॥३५॥
कलावती चित्रपटीं पश्यन्तीत्थं मुहुर्मुहुः ॥
ज्ञानवापीं ददर्शाथ श्रीविश्वेश्वरदक्षिणे ॥ ३६ ॥
यदम्बुसततं रक्षेद्दुर्वृत्ताद्दण्डनायकः ॥
सम्भ्रमो विभ्रमश्चासौ दत्त्वा भ्रातिं गरीयसीम् ॥ ३७ ॥
योष्टमूर्तिर्महादेवः पुराणे परिपठ्यते ॥
तस्यैषाम्बुमयी मूर्तिर्ज्ञानदा ज्ञानवापिका॥ ३८ ॥
नेत्रयोरतिथीकृत्य ज्ञानवापी कलावती ॥
कदम्बकुसुमाकारां बभार क्षणतस्तनुम् ॥ ॥ ३९ ॥
अङ्गानि वेपथुं प्रापुः स्विन्ना भालस्थली भृशम् ॥
हर्षवाष्पाम्बुकलिले जाते तस्या विलोचने ॥ 4.1.34.४० ॥
तस्तम्भ गात्रलतिका मुखवैवर्ण्यमाप च ॥
स्वरोथ गद्गदो जातो व्यभ्रंशत्तत्करात्पटी ॥ ४१ ॥
साक्षणं स्वं विसस्मार काहं क्वाहं न वेत्ति च ॥
सौषुप्तायां दशायां च परमात्मेव निश्चला ॥ ४२ ॥
अथ तत्परिचारिण्यस्त्वरमाणा इतस्ततः ॥
किं किं किमेतदेतत्किं पृच्छन्ति स्म परस्परम् ॥ ४३ ॥
तदवस्थां समालोक्य तां ताश्चतुरचेतसः ॥
विज्ञाय सात्त्विकैर्भावैरिदमूचूः परस्परम् ॥ ४४ ॥
भवान्तरे प्रेमपात्रमेतयैक्षितु किञ्चन ॥
चिरात्तेन च सङ्गत्य सुखमूर्च्छामवाप ह ॥ ४५ ॥
अथनेत्थं कथमियमकाण्डात्पर्यमूमुहत् ॥
प्रेक्षमाणा रहश्चित्रपटीमति पटीयसीम्॥४६॥
तन्मोहस्य निदानं ताःसम्यगेव विचार्य च ॥
उपचेरुर्महाशान्तैरुपचारैरनाकुलम् ॥ ४७ ॥
काचित्तां वीजयाञ्चक्रे कदलीतालवृन्तकैः ॥
बिसिनीवलयैरन्या धन्यां तां पर्यभूषयत् ॥ ४८ ॥
अमन्दैश्चन्दनरसैरभ्यषिञ्चदमुं परा ॥
अशोकपल्लवैरस्याः काचिच्छोकमनीनशत् ॥ ४९ ॥
धारामण्डपधाराम्बुसीकरैस्तत्तनूलताम् ॥
इष्टार्थविरहग्लानां सिञ्चयामास काचन ॥ 4.1.34.५० ॥
जलार्द्रवाससा काचिदेतस्यास्तनुमावृणोत् ॥
कर्पूरक्षोदजालेपैरन्यास्तामन्वलेपयन् ॥ ५१ ॥
पद्मिनीदलशय्या च काचित्यरचयन्मृदुम् ॥
काचित्कुलिशनेपथ्यं दूरीकृत्य तदङ्गतः ॥ ५२ ॥
मुक्ताकलापं रचयाञ्चक्रे वक्षोजमण्डले ॥
काचिच्छशिमुखी तां तु चन्द्रकान्तशिलातले ॥ ५३ ॥
स्वापयामास तन्वङ्गीं स्रवच्छीताम्बुशीतले ॥
दृष्ट्वोपचार्यमाणां तामित्थं बुद्धिशरीरिणी ॥ ५४ ॥
अतितापपरीताङ्गी ताः सखीः प्रत्यभाषत ॥
एतस्यास्तापशान्त्यर्थं जानेहं परमौषधम् ॥ ५५ ॥
उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम् ॥
अपतापां करोम्येनां सद्यः पश्यत कौतुकम् ॥५६॥
दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात् ॥
अत्रैव काचिदेतस्याः प्रेमभूरस्ति निश्चितम् ॥५७॥
अतश्चित्रपटीस्पर्शात्परितापं विहास्यति ॥
वाक्याद्बुद्धिशरीरिण्यास्ततस्तत्परिचारिकाः ॥ ५८ ॥
निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति ॥
तवानन्दकरी यत्र काचिदस्तीष्टदेवता ॥ ॥ ५९ ॥
सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च ॥
सुधासेकमिव प्राप्य मूर्छां हित्वोत्थिता द्रुतम् ॥ 4.1.34.६० ॥
अवग्रहपरिम्लाना वर्षासारैरिवौषधीः ॥
पुनरालोकयाञ्चक्रे ज्ञानदां ज्ञानवापिकाम् ॥ ६१ ॥
स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि ॥
लेभे भवान्तरज्ञानं यथासीत्पूर्वर्जन्मनि ॥ ६२ ॥
पुनर्विचारयाञ्चक्रे वापी माहात्म्यमुत्तमम्॥
अहो चित्रगतापीयं संस्पृष्टा ज्ञानवापिका ॥ ६३ ॥
ज्ञानं मे जनयामास भवान्तर समुद्भवम् ॥
अथ तासां पुरो हृष्टा कथयामास सुन्दरी ॥६४॥
निजं प्राग्भव वृत्तान्तं ज्ञानवापीप्रभावजम् ॥
॥ कलावत्युवाच ॥ ॥
एतस्माज्जन्मनः पूर्वमहं ब्राह्मणकन्यका ॥ ६५ ॥
उपविश्वेश्वरं काश्यां ज्ञानवाप्यां रमे मुदा ॥
जनको मे हरिस्वामी जनयित्री प्रियंवदा ॥ ६६ ॥
आख्या मम सुशीलेति मां च विद्याधरोऽहरत् ॥
मध्येमार्गं निशीथेथ तदोप मलयाचलम् ॥ ६७ ॥
रक्षसा सहतो वीरो राक्षसं स जघानह ॥
रक्षोपि मुक्तं शापात्तु दिव्यवपुरवाप ह ॥ ६८ ॥
अवाप जन्मगन्धर्वस्त्वसौ मलयकेतुतः ॥
कर्णाटनृपतेः कन्या बभूवाहं कलावती ॥ ६९ ॥
इति ज्ञानं ममोद्भूतं ज्ञानवापीक्षणात्क्षणात् ॥
इति तस्या वचः श्रुत्वा सापि बुद्धिशरीरिणी ॥ 4.1.34.७० ॥
ताश्च तत्परिचारिण्यः प्रहृष्टास्यास्तदाऽभवन् ॥
प्रोचुस्तां प्रणिपत्याथ पुण्यशीलां कलावतीम् ॥ ७१ ॥
अहो कथं हि सा लभ्या यत्प्रभावोयमीदृशः ॥
धिग्जन्म तेषां मर्त्येऽस्मिन्यैर्नैक्षि ज्ञानवापिका ॥ ७२ ॥
कलावति नमस्तुभ्यं कुरुनोपि समीहितम् ॥
जनिं सफलयास्माकं नय नः प्रार्थ्य भूपतिम् ॥ ७३ ॥
अयं च नियमोस्माकमद्यारभ्य कलावति ॥
निर्वेक्ष्यामो महाभोगान्दृष्ट्वा तां ज्ञानवापिकाम् ॥ ७४ ॥
अवश्यं ज्ञानवापी सा नाम्ना भवितुमर्हति ॥
चित्रं चित्रगतापीह या तव ज्ञानदायिनी ॥ ७५ ॥
ॐकृत्य तासां वाक्यं सा स्वाकारं परिगोप्य च ॥
प्रियाणि कृत्वा भूभर्तुः प्रस्तावज्ञा व्यजिज्ञपत् ॥ ७६ ॥
कलावत्युवाच ॥
जीवितेश न मे त्वत्तः किञ्चित्प्रियतरं क्वचित् ॥
त्वामासाद्य पतिं राजन्प्राप्ताः सर्वे मनोरथाः ॥ ७७ ॥
एको मनोरथः प्रार्थ्यो ममास्त्यत्रार्यपुत्रक ॥
विचारपथमापन्नस्तवापि स महाहितः ॥ ७८ ॥
मम तु त्वदधीनायाः सुदुष्प्रापतरो महान् ॥
तव स्वाधीनवृत्तेस्तु सिद्धप्रायो मनोरथः ॥ ७९ ॥
प्राणेश किं बहूक्तेन यदि प्राणैः प्रयोजनम् ॥
तदाभिलषितं देहि प्राणा यास्यन्त्यथान्यथा ॥ 4.1.34.८० ॥
प्राणेभ्योपि गरीयस्यास्तस्या वाक्यं निशम्य सः ॥
उवाच वचनं राजा तस्याः स्वस्यापि च प्रियम् ॥ ८१ ॥
राजोवाच ॥ ॥
नाहं प्रिये तवादेयमिह पश्यामि भामिनि ॥
प्राणा अपि मम क्रीतास्त्वया शीलकलागुणैः ॥ ८२ ॥
अविलम्बितमाचक्ष्व कृतं विद्धि कलावति ॥
भवद्विधानां साध्वीनामन्येऽप्राप्यं न किञ्चन॥ ८३ ॥
कः प्रार्थ्यः प्रार्थनीयं किं को वा प्रार्थयिता प्रिये॥
न पृथग्जनवत्किञ्चिद्वर्तनं नौ कलावति ॥ ८४ ॥
देशः कोशो बलं दुर्गं यदन्यदपि भामिनि ॥
तत्त्वदीयं न मे किञ्चित्स्वाम्यमात्रमिहास्ति मे ॥ ८५ ॥
तच्च स्वाम्यं ममान्यत्र त्वदृते जीवितेश्वरि ॥
राज्यं त्यजेयं त्वद्वाक्यात्तृणीकृत्यापि मानिनि ॥ ८६ ॥
माल्पकेतोर्महीजानेरिति वाक्यं निशम्य सा ॥
प्राह गम्भीरया वाचा वचश्चारु कलावती ॥ ८७ ॥
कलावत्युवाच ॥
नाथ प्रजासृजापूर्वं सृष्टा नानाविधाः प्रजाः ॥
प्रजाहिताय संसृष्टं पुरुषार्थचतुष्टयम् ॥ ८८ ॥
तद्विहीनाजनिरपि जल बुद्बुदवन्मुधा ॥
तस्मादेकोपि संसाध्यः परत्रेह च शर्मणे ॥ ८९ ॥
यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ॥
यदुच्यते पुराविद्भिरिति तत्तथ्यमीक्षितम् ॥4.1.34.९०॥
मद्विधाना तु दासीनां शतं तेऽस्तीह मन्दिरे ॥
तथापि नितरां प्रेम स्वामिनो मयि दृश्यते ॥ ९१ ॥
तव दास्यपि भोगाढ्या किमुताङ्कस्थलीचरी ॥
तत्राप्यनन्यसम्पत्तिस्तत्र स्वाधीनभर्तृता ॥ ९२ ॥
विपश्चित्सञ्चयेदर्थानिष्टापूर्ताय कर्मणे ॥
तपोर्थमायुर्निर्विघ्नं दारांश्चापत्यलब्धये ॥ ९३ ॥
तवैतत्सर्वमस्तीह विश्वेशानुग्रहात्प्रिय ॥
पूरणीयोऽभिलाषो मे यदि तद्वचम्यहं शृणु ॥ ९४ ॥
तूर्णं प्रहिणु मां नाथ विश्वनाथपुरीं प्रति ॥
प्राणाः प्रयाता प्रागेव वपुः शेषास्मि केवलम् ॥ ९५ ॥
माल्यकेतुः कलावत्या इत्याकर्ण्य वचः स्फुटम् ॥
क्षणं विचार्य स्वहृदि राजा प्रोवाच तां प्रियाम् ॥ ९६ ॥
प्रिये कलावति यदि तव गन्तव्यमेव हि ॥
राज्यलक्ष्म्यानया किं मे चलया त्वद्विहीनया ॥ ९७ ॥
न राज्यं राज्यमित्याहू राज्यश्रीः प्रेयसी ध्रुवम् ॥
सप्ताङ्गमपि तद्राज्यं तया हीनं तृणायते ॥ ९८ ॥
निःसपत्नं कृतं राज्यं भुक्त्वा भोगान्निरन्तरम् ॥
हृषीकार्थाः कृतार्थाश्च विधृता आधृतिः प्रिये ॥ ९९ ॥
अपत्यान्यपि जातानि किं कर्तव्यमिहास्ति मे ॥
अवश्यमेव गन्तव्याऽऽवाभ्यां वाराणसी पुरी ॥ 4.1.34.१०० ॥
माल्यकेतुः प्रियामित्थमाश्वास्य कृतनिश्चयः ॥
समाहूय च देवज्ञान्प्रकृतीः परिपूज्य च ॥ १ ॥
पुत्रे राज्यं निधायाथ राजा काशीं प्रतस्थिवान् ॥
रत्नजातं कियदपि पुत्रादर्थं प्रगृह्य च ॥ २ ॥
दृष्ट्वा विश्वेश्वरपुरीं हृष्टरोमा नरेश्वरः ॥
मेने कृतार्थमात्मानं संसाराम्बुधिपारगम् ॥ ३ ।
प्राग्जन्मवासनायोगात्सापि राज्ञी कलावती ॥
ग्रामान्तरादागतेव पुरीमार्गानवैत्स्वयम ॥ ४ ॥
मणिकर्ण्यामथस्नात्वा भूरि दत्त्वा ततो वसु ॥
विश्वेशमर्चयित्वाथ रत्नजातैरनेकशः ॥ ५ ॥
दत्त्वा तत्रापि रत्नानि गजानश्वान्गवां व्रजम् ॥
दुकूलानि विचित्राणि पूजोपकरणानि च ॥ ५ ॥
सुवर्णरूप्यकलशान्दीपी दर्पण चामरान् ॥
ध्वजस्तम्भ पताकाश्च विचित्रोल्लोचकानि च ॥ ७ ॥
अथ प्रदक्षिणीकृत्य मुक्तिमण्डपमाविशत् ॥
तत्र धर्मकथां श्रुत्वा दत्त्वा तत्रापि सद्धनम् ॥ ८ ॥
सायन्तनीं महापूजां पुनः कृत्वा क्षितीश्वरः ॥
तत्र जागरणं कृत्वा तौर्यत्रिक महोत्सवैः ॥९॥
अथ प्रातः समुत्थाय कृत्वा शौचाचमक्रियाम् ॥
राज्ञ्या विनिर्दिष्टपथा ज्ञानवापीं नृपो ययौ ॥4.1.34.११०॥
नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ॥
अथ पिण्डान्सनिर्वाप्य सन्तर्प्य श्रद्धया पितॄन् ॥ ११ ॥
तत्र रूप्य सुवर्णादि पात्रेभ्यः प्रतिपाद्य च ॥
दीनान्ध कृपणानाथान्महार्है रत्नजातकैः ॥ १२ ॥
प्रीणयित्वा नरपतिः पारणां कृतवांस्ततः ॥
संस्कार्य रत्नसोपानैर्ज्ञानवापी कलावती ॥ १३ ॥
आबबन्ध रतिं तत्र सह भर्त्रा तपस्विनी ॥
एकान्तरोपवासैश्च कदाचिच्च त्र्यहोव्रतैः ॥ १४ ॥
षडहोभोजनैश्चापि पक्षार्धनियमैरथ ॥
पक्षान्तरोपवासैश्च मासोपवसनादिभिः ॥ १५ ॥
चान्द्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रूषणैरपि ॥
निनाय क्षणवत्कालमायुःशेषस्य सानघा ॥ १६ ॥
एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ॥
आगत्य जटिलः कश्चिद्विभूतिं दत्तवान्करे ॥ १७ ॥
उवाच च प्रसन्नास्य आशीर्भिरभिनद्य च ॥
उत्तिष्ठतं प्रकुरुतं महानेपथ्यमद्य वै ॥ १८ ॥
तारकोदय सम्प्राप्तिर्भवित्री वां क्षणादिह ॥
यावदित्थं समाचष्ट जटिलोऽग्रे तयोर्वचः ॥ १९ ॥
तावद्विमानमापन्नं सक्वणत्किङ्किणीगणम् ॥
पश्यतां सर्वलोकानां चन्द्रमौलिरथोरथात् ॥ 4.1.34.१२० ॥
उत्तीर्य तच्छ्रुतिपुटे किमपि स्वयमादिशत् ॥
अनाख्यं यत्परञ्ज्योतिरुच्चक्राम च तत्क्षणात् ॥ २१ ॥
उद्योतयन्नभोवर्त्म देवोपि स्वालयं ययौ ॥
॥ स्कन्द उवाच ॥ ॥
तदा प्रभृति लोकेऽत्र ज्ञानवापी विशिष्यते ॥ २२ ॥
सर्वेभ्यस्तीर्थर्मुख्येभ्यः प्रत्यक्ष ज्ञानदा मुने ॥
सर्वज्ञानमयी चैषा सर्वलिङ्गमयी शुभा ॥ २३ ॥
साक्षाच्छिवमयी मूर्तिर्ज्ञानकृज्ज्ञानवापिका ॥
सन्ति तीर्थान्यनेकानि सद्यः शुचिकराण्यपि ॥ २४ ॥
परन्तु ज्ञानवाप्या हि कलां नार्हन्ति षोडशीम् ॥
ज्ञानवाप्याः समुत्पत्तिं यः श्रोष्यति समाहितः ॥
न तस्य ज्ञानविभ्रंशो मरणे जायते क्वचित् ॥ २५ ॥
महाख्यानमिदं पुण्यं महापातकनाशनम्॥
महादेवस्य गौर्याश्च महाप्रीतिविवर्धनम् ॥ २६ ॥
पठित्वा पाठयित्वा वा श्रुत्वा वा श्रद्धयान्वितः ॥
ज्ञानवाप्याः शुभाख्यानं शिवलोके महीयते ॥ १२७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे ज्ञानवापीप्रशंसनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥