०३३ ज्ञानवापीवर्णनम्

॥ अगस्त्य उवाच ॥ ॥
स्कन्दज्ञानोदतीर्थस्य माहात्म्यं वद साम्प्रतम् ॥
ज्ञानवापीं प्रशंसन्ति यतः स्वर्गौकसोप्यलम् ॥१॥
॥ स्कन्द उवाच ॥ ॥
घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम् ॥
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ॥२॥
अनादिसिद्धे संसारे पुरा देवयुगे मुने ॥
प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः ॥ ३ ॥
न वर्षन्ति यदाभ्राणि न प्रावर्तन्त निम्रगाः ॥
जलाभिलाषो न यदा स्नानपानादि कर्मणि ॥ ४ ॥
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ॥
प्रथिव्यां नरसञ्चारे वतर्माने क्वचित्क्वचित् ॥ ५ ॥
निर्वाणकमलाक्षेत्रं श्रीमदानन्दकाननम् ॥
महाश्मशानं सर्वेषां बीजानां परमूषरम् ॥ ६ ॥
महाशयनसुप्तानां जन्तूनां प्रतिबोधकम् ॥
संसारसागरावर्त पतज्जन्तुतरण्डकम् ॥ ७ ॥
यातायातातिसङ्खिन्न जन्तुविश्राममण्डपम ॥
अनेकजन्मगुणित कर्मसूत्रच्छिदाक्षुरम् ॥ ८॥
सच्चिदानन्दनिलयं परब्रह्मरसायनम् ॥
सुखसन्तानजनकं मोक्षसाधनसिद्धिदम् ॥ ९ ॥
प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा ॥
लसत्त्रिशूलविमलरश्मिजालसमाकुलः ॥ 4.1.33.१० ॥
आलुलोके महालिङ्गं वैकुण्ठपरमेष्ठिनोः ॥
महाहमहमिकायां प्रादुरास यदादितः ॥ ११ ॥
ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम् ॥
वृन्दैर्वृन्दारकर्षीणां गणानां च निरन्तरम् ॥ १२ ॥
सिद्धानां योगिनां स्तोमैरर्च्यमानं निरन्तरम् ॥
गीयमानं च गन्धर्वैः स्तूयमानं च चारणैः ॥ १३ ॥
अङ्गहारैरप्सरोभिः सेव्यमानमनेकधा ॥
नीराज्यमानं सततं नागीभिर्मणिदीपकैः ॥ १४ ॥
विद्याधरीकिन्नरीभिस्त्रिकालं कृतमण्डनम् ॥
अमरीचमरीराजि वीज्यमानमितस्ततः ॥ १५ ॥
अस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छेत्यभवत्तदा ॥
स्नपयामि महल्लिङ्गं कलशैः शीतलैर्जलैः ॥ १६ ॥
चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः ॥
कुण्डं प्रचण्डवेगेन रुद्रोरुद्रवपुर्धरः ॥ १७ ॥
पृथिव्यावरणाम्भांसि निष्क्रान्तानि तदा मुने ॥
भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ॥ १८ ॥
तैर्जलैः स्नापयाञ्चक्रे त्वत्स्पृष्टैरन्यदेहिभिः
तुषारैर्जाड्यविधुरैर्जञ्जपूकौघहारिभिः ॥ १९ ॥
सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् ॥
ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शम्भुनामवत् ॥ 4.1.33.२० ॥
पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवाङ्गवत् ॥
निष्पापधीवद्गम्भीरैस्तरलैः पापिशर्मवत् ॥ २१ ॥
विजिताब्जमहागन्धैः पाटलामोदमोदिभिः ॥
अदृष्टपूर्वलोकानां मनोनयनहारिभिः ॥ २२ ॥
अज्ञानतापसन्तप्त प्राणिप्राणैकरक्षिभिः ॥
पञ्चामृतानां कलशैः स्नपनातिफलप्रदैः ॥ २३ ॥
श्रद्धोपस्पर्शि दृदयलिङ्ग त्रितयहेतुभिः ॥
अज्ञानतिमिरार्काभैर्ज्ञानदान निदायकैः॥२४॥
विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः ॥
महावभृथसुस्नान महाशुद्धिविधायिभिः ॥ २५ ॥
सहस्रधारैः कलशैः स ईशानो घटोद्भव ॥
सहस्रकृत्वः स्नपयामास संहृष्टमानसः ॥ २६॥
ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः ॥
तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ॥ २७ ॥
तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत ॥
गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा ॥ २८ ॥
ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन ॥
अदेयं न तवास्त्यद्य महोद्यमपरायण ॥ २९ ॥
॥ ईशान उवाच ॥ ॥
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥
तदेतदतुलं तीर्थं तव नाम्नास्तु शङ्कर ॥ 4.1.33.३० ॥
॥विश्वेश्वर उवाच ॥
त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि ॥
तेभ्योखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम् ॥ ३१ ॥
शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिन्तकाः ॥
तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ॥ ३२ ॥
अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ॥
अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। ॥ ३३ ॥
ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत् ॥
स्पर्शनाचमनाभ्यां च राजसूयाश्वमेधयोः ॥ ३४ ॥
फल्गुतीर्थे नरः स्नात्वा सन्तर्प्य च पितामहान् ॥
यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा ॥ ३५ ॥
गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत् ॥
तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत् ॥ ३६ ॥
यत्फलं समवाप्नोति पितॄन्सन्तर्प्य पुष्करे ॥
तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः ॥ ३७ ॥
सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ॥
यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने॥३८॥
पिण्डनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्॥
मोदन्ते शिवलोके ते यावदाभूतसम्प्लवम् ॥ ३९ ॥
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥
प्रातः स्नात्वाथ पीताम्भस्त्वन्तर्लिङ्गमयो भवेत् ॥ 4.1.33.४० ॥
एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम् ॥
हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम् ॥४१॥
ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे ॥।
सन्तर्प्य देवर्षि पितॄन्दत्त्वा दानम स्वशक्तितः ॥ ४२ ॥
ततः समर्च्य श्रीलिङ्गं महासम्भारविस्तरैः ॥
अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः ॥ ४३ ॥
उपास्य सन्ध्यां ज्ञानोदे यत्पापं काललोपजम् ।
क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः ॥ ४४ ॥
शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम् ॥
तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं धुवम् ॥ ४५ ॥
स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम् ॥
दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसम्भवः ॥ ४६ ॥
डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः ॥
ग्रहाः कूष्माण्डझोटिङ्गाः कालकर्णी शिशुग्रहाः ॥ ४७ ॥
ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः ॥
सर्वे प्रशममायान्ति शिवर्तार्थजलेक्षणात्॥ ॥ ४८ ॥
ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नापयेत्सुधीः ॥
सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत् ॥ ४९ ॥
ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च ॥
जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ॥ 4.1.33.५० ॥
इति दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत ॥
कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत् ॥ ५१ ॥
ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्॥
अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्॥ ५२ ॥
॥ स्कन्द उवाच ॥ ॥
कलशोद्भव चित्रार्थमितिहासं पुरातनम् ॥
ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय ॥ ५३ ॥
हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा ॥
तस्यैका तनया जाता रूपेणाऽप्रतिमा भुवि ॥ ५४ ॥
न समा शीलसम्पत्त्या तस्या काचन भूतले ॥
कलाकलापकुशला स्वरेणजितकोकिला ॥ ५५ ॥
न नारी तादृगस्तीह ना भरी किन्नरी न च [॥
विद्याधरी न नो नागी गन्धर्वी नासुरी न च ॥ ५६ ॥
सर्वसौन्दर्यनिलया सर्वलक्षणसत्खनिः ॥
अधिशेते ध्रुवं ध्वान्तं तन्मौलिं ब्रध्न साध्वसात् ॥९७॥
तदास्य शरणं यातो मन्ये दर्शभयाच्छशी ॥
दिवापि न त्यजेत्तां तु त्रस्तश्चण्डमरीचितः ॥ ५८ ॥
तद्भ्रूर्भ्रमरराजीव गण्डपत्रलतान्तरे ॥
उदञ्चन्न्यञ्चदुड्डीन गतेरभ्यासभाजिनी ॥ ५९ ॥
तच्चारुलोचनक्षेत्रे विचरन्तौ च खञ्जनौ ॥
सदैव शारदीं प्रीतिं निर्विशेते निजेच्छया ॥ 4.1.33.६० ॥
सुदत्या रदनश्रेणी छेदेषु विषमेषुणा ॥
विहिता काञ्चनी रेखा क्वेन्दावेतावती कला ॥ ६१ ॥
प्रायो मदन भूपाल हर्म्य रत्नान्तरे शुभे ॥
जितप्रवालसुच्छाये तस्या रदनवाससी ॥६२॥
स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्॥
तत्कण्ठरेखात्रितय व्याजेन शपते स्मरः ॥ ६३ ॥
शङ्के चित्त भुवो राज्ञो लसत्पटकुटीद्वयम् ॥
अनर्घ्यरत्नकोशाढ्यं तम्या वक्षोरुहद्वयम् ॥ ६४ ॥
अनङ्गभू नियमतोऽदृश्ये मध्ये नतभ्रुवः ॥
रोमालीलक्षिकामूर्ध्वामिव यष्टिं विधिर्व्यधात् ॥ ६५ ॥
तस्या नाभीदरीं प्राप्य कन्दर्पोऽनङ्गता गतः ॥
पुनः प्राप्तुमिवाङ्गानि तप्यते परमं तपः ॥ ६६ ॥
गुरुणैतन्नितम्बेन महामन्मथ दीक्षया ॥
भुवि के के युवानो न स्वाधीना प्रापितादृशाम् ॥ ६७ ॥
ऊरुस्तम्भेन चैतस्याः स्तम्भवत्कस्यनो मनः ॥
तस्तम्भेन मुने वापि सुवृत्तेन सुवर्तनम् ॥ ६८ ॥
पादाङ्गुष्ठनखज्योतिः प्रभया कस्य न प्रभा ॥
विवेकजनिताऽध्वंसि मुने तस्या मृगीदृशः ॥ ॥ ६९ ॥
सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये ॥
सम्मार्जनादि कर्माणि कुरुतेऽनन्यमानसा ॥ 4.1.33.७० ॥
तत्पादप्रतिबिम्बेषु रेखा शष्पाङ्कुरं चरन् ॥
नान्यद्वनान्तरं याति काश्यां यूनां मनोमृगः ॥ ७१ ॥
तदास्य पङ्कजं हित्वा यूनां नेत्रालिमालया ॥
न लतान्तरमासेवि अप्यामोदप्रसूनयुक् ॥ ७२ ॥
सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित् ॥
सुश्रवा अपि सा बाला नादत्ते कस्यचिद्वचः ॥ ७३ ॥
सुशीला शीलसम्पन्ना रहस्तद्विरहातुरैः ॥
प्रार्थितापि सुरूपाढ्यैर्नाभिलाषं बबन्ध सा ॥ ७४ ॥
धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु ॥
नाशकत्तां सुलीलां सदातुं शीलोर्जितश्रियम् ॥ ७५ ॥
ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा ॥
बहिरन्तस्तदाऽद्राक्षीत्सर्वलिङ्गमयं जगत ॥ ७६ ॥
कदाचिदेकदा तां तु प्रसुप्तां सदनाङ्गणे ॥
मोहितो रूपसम्पत्त्या कश्चिद्विद्याधरोऽहरत् ॥ ७७ ॥
व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम् ॥
स निनीषति तावच्च विद्युन्माली समागतः ॥ ७८ ॥
राक्षसो भीषणवपुः कपालकृतकुण्डलः ॥
वसारुधिरलिप्ताङ्गः श्मश्रुलः पिङ्गलोचनः ॥ ७९ ॥
राक्षस उवाच ॥ ॥
ममदृग्गोचरं यातो विद्याधरकुमारक ॥
अद्य त्वामेतया सार्धं प्रेषयामि यमालयम्॥4.1.33.८०॥
इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा ॥
चकम्पेऽतीव सम्भीता कदलीदलवन्मुहुः ॥ ८१ ॥
निजघान त्रिशूलेन रक्षो विद्याधरं च तम् ॥
विद्याधरकुमारोपि नितरां मधुराकृतिः ॥ ८२ ॥
तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः ॥
जघान मुष्टिघातेन वज्रपातोपमेन तम् ॥ ८३ ॥
नरमांसवसामत्तं विद्युन्मालिनमाहवे ॥
चूर्णितो मुष्टिपातेन सोऽपतद्वसुधातले ॥ ८४ ॥
राक्षसो मृत्युवशगो वज्रेणेव महीधरः ॥
विद्याधरोपि तच्छूलघातेन विकलीकृतः ॥ ८५ ॥
उवाच गद्गदं वाक्यं विघूर्णित विलोचनः ॥
प्रिये मुधा समानीता सुशित्यर्धोक्तिमुच्चरन् ॥ ८६ ॥
जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन् ॥ ८७ ॥
अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा ॥
तमेव च पतिं मत्वा चक्रे शोकाग्निसात्तनुम् ॥ ८८ ॥
लिङ्गत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि ॥
दिव्यं वपुः समासाद्य राक्षसस्त्रिदिवं ययौ ॥ ८९ ॥
रणे पणीकृतप्राणो विद्याधरसुतोपि सः ॥
अन्ते प्रियां स्मरन्प्राप जनुर्मलयकेतुतः ॥ 4.1.33.९० ॥
ध्यायन्ती सापि तं बाला विद्याधरकुमारकम्॥
विरहाग्नौ विसृष्टासुः कर्णाटे जन्मभागभूत् ॥९१॥
सुतो मलयकेतोस्तां कालेन परिणीतवान् ॥
माल्यकेतुरनङ्गश्रीः पित्रा दत्तां कलावतीम् ॥ ९२ ॥
सापि प्राग्वासनायोगाल्लिङ्गार्चनरता सती ॥
हित्वा मलयजक्षोदं विभूतिं बह्वमंस्त वै॥ ॥ ९३ ॥
मुक्ता वैदूर्य माणिक्य पुष्परागेभ्य एव सा ॥
मेने रुद्राक्षनेपध्यमनर्घ्यं गर्भसुन्दरी ॥ ९४ ॥
कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ॥
अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ॥ ९५ ॥
एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ॥
चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ॥ ९६ ॥
तां तु चित्रपटीं राजा कलावत्यै समर्पयत् ॥
साथ चित्रपटीं रम्यां सम्प्रहृष्टतनूरुहा ॥ ९७ ॥
मुहुर्मुहुः प्रपश्यन्ती रहसि प्राणदेवताम् ॥
विसस्मार स्वमपि च समाधिस्थेव योगिनी ॥ ९८ ॥
क्षणमुन्मील्य नयने कृत्वा नेत्रातिथिं पटीम् ॥
तर्जन्यग्रमथोत्क्षिप्य स्वात्मानं समबोधयत् ॥९९॥
सम्भेदोयमसे रम्य उपलोलार्कमग्रतः ॥
उपश्रीकेशवपदं वरणैषा सरिद्वरा ॥4.1.33.१००॥
स्वगें प्रार्थितसंस्पर्शा सैषा स्वर्गतरङ्गिणी ॥
उदग्वहाभिलष्यन्ति यां दिवोद्युसदः सदा ॥१॥
अलक्ष्यामोक्षलक्ष्मी र्या वेदान्ते परिपठ्यते ॥
विमुक्तये सतां सैषा श्रीमती मणिकर्णिका ॥ २ ॥
मरणं मङ्गलं यत्र सफलं यत्र जीवितम् ॥
स्वर्गस्तृणायते यत्र सैषा श्रीमणिकर्णिका॥ ॥ ३ ॥
यत्र सम्पत्तिसम्भारान्विश्राण्य निधनेच्छया ॥
यतिव्रतं समालम्ब्य तिष्ठते मूलकन्दभुक् ॥ ४ ॥
यत्र त्रिमार्गं गाङ्गं गां मार्गमाणोमृतान्हरः ॥
स्वमौलिबालचन्द्रेण मुक्तिमार्गं प्रदर्शयन् ॥ ५ ॥
संसारं यत्र दुर्वारं प्रतारयति शङ्करः ॥
मृता अप्यमृतायन्ते कर्णधाराद्यतो नराः ॥ ६ ॥
संसारासारपदवी यत्र स्याददवीयसी ॥
कर्णे जपान्महेशानात्करुणा वरुणालयात् ॥ ७ ॥
अनेक भवसम्भूत प्रभूत सुकृतैर्नराः ॥
कर्णे जपं भवं यत्र लभन्ते ते भवापहम् ॥ ८ ॥
स्वीकृत्य क्षेत्रसन्न्यासं यद्बलेन महाधियः ॥
तृणं कृतातं मन्यन्ते सेयं श्रीमणिकर्णिका ॥ ९ ॥
तृणीकृत्य निजं देहं यत्र राजर्षिसत्तमः ॥
हरिश्चन्द्रः सपत्नीको व्यक्रीणाद्भूरयं हि सा ॥ 4.1.33.११० ॥
अभिलष्यन्ति यत्रत्यमपि वैकुण्ठवासिनः ॥
सैकतं मृदुलं तल्पं सैषा श्रीमणिकर्णिका ॥ ॥ ११ ॥
अनेक जन्म जनित कर्मसूत्रनियन्त्रणम् ॥
उन्मुच्य यत्र मुक्ताः स्युः सैषा श्रीमणिकर्णिका ॥ १२ ॥
सत्यलोकेऽपि ये लोकास्तेऽर्थयन्ति निरन्तरम् ॥
यामहो दीर्घनिद्रायै सेयं श्रीमणिकर्णिका ॥ १३ ॥
अयं हि स कुलस्तम्भो यत्र श्रीकालभैरवः ॥
क्षेत्रपापकृतः शास्ति दर्शयंस्तीव्रयातनाम् ॥ १४ ॥
अन्यत्र विहितं पापं नश्येत्काशीनिरीक्षणात् ॥
काश्यां कृतानां पापानां दारुणेयं तु यातना ॥१५॥
कपालमोचनं तीर्थमेतत्तदपि पावनम् ॥
कपालं पतितं यत्र विधेर्भैरवपाणितः ॥ १६ ॥
ऋणत्रयाद्विमुच्यन्ते यत्र स्नाता नरोतमाः ॥
तीर्थं विशुद्धिजनकं तदेतदृणमोचनम् ॥ १७ ॥
प्रणवाख्यं परम्ब्रह्म यत्र नित्यं प्रकाशते ॥
सपञ्चायतनोपेत ॐकारेशोयमद्भुतः ॥ १८ ॥
अश्च उश्च मकारश्च नादोबिन्दुश्च पञ्चमः ॥
पञ्चात्मकं परम्ब्रह्म यत्र नित्यं प्रकाशते ॥१९॥
एषा मत्स्योदरी रम्या यत्स्नातो मानवोत्तमः ॥
मातुर्जातूदरदरीं न विशेदेष निश्चयः ॥4.1.33.१२०॥
त्रिलोचनोयं भगवान्कुर्यादेव त्रिलोचनम्॥
निजभक्तं कृपायुक्तस्त्वपि देशातम्र स्थितम् ॥ २१ ॥
असौ कामेश्वरो देवो यः कामान्पूरयेत्सताम् ॥
दुर्वासा अपि यत्राप निजकाममहोदयम् ॥ २२ ॥
स्वयं लीनो महेशोत्र भक्तकामसमृद्धये ॥
तस्मात्स्वर्लीनसञ्ज्ञास्य देवदेवस्य शूलिनः ॥ २३ ॥
वाराणस्यां महादेवो यः पुराणेषु पठ्यते ॥
क्षेत्राभिमानी भगवांस्तत्प्रासादोयमद्भुतः ॥ २४ ॥
असौ स्कन्देश्वरो देवः श्रद्धया यद्विलोकनात् ॥
आजन्मब्रह्मचर्यस्य फलमाप्नोति मानवः ॥ २५ ॥
विनायकेश्वरश्चायं सर्वसिद्धि प्रदायकः ॥
यत्सेवया प्रणश्यन्ति नृणां सर्वे विनायकाः ॥२६॥
इयं वाराणसी देवी साक्षान्मूर्त्तिमयी शुभा ॥
यस्या विलोकनात्पुंसां भूयो नो गर्भसम्भवः॥ ॥२७॥
पार्वतीश्वरलिङ्गस्य महदायतनं त्विदम् ॥
यत्र नित्यं महेशानो गौर्या सह विमुक्तिदः ॥२८॥
एष भृङ्गीश्वरः श्रीमान्महापातकनाशनः ॥
जीवन्मुक्तोऽभवद्भृङ्गी यस्य लिङ्गस्य सेवया ॥ २९ ॥
चतुर्वेदेश्वरश्चैष चतुर्वेदधरो विधिः ॥
लभेद्यद्वीक्षणाद्विप्रो वेदाध्ययनजं फलम् ॥ 4.1.33.१३० ॥
यज्ञैः संस्थापितं चैतल्लिङ्गं यज्ञेश्वराभिधम् ॥
यदर्चनाल्लभेन्मर्त्यः सर्वयागफलं महत् ॥ ३१ ॥
पुराणेश्वर नामैतल्लिङ्गमष्टादशाङ्गुलम् ॥
अष्टादशानां विद्यानां स्यादाधारो यदीक्षणात् ॥ ३२ ॥
धर्मशास्त्रेश्वरश्चायं स्मृतिभिश्च प्रतिष्ठितः ॥
स्मृत्यध्ययनजं पुण्यं यद्विलोकनतो भवेत् ॥ ३३ ॥
सारस्वतमिदं लिङ्गं सर्वजाड्यविनाशकृत् ॥
सर्वतीर्थेश्वरं लिङ्गमेतत्सद्यो विशुद्धिदम् ॥३४॥
शैलेश्वरस्य लिङ्गस्य मण्डपोयं महाद्भुतः ॥
सर्वेषां रत्नजातानां यो बिभर्ति परां श्रियम् ॥ ३५ ॥
सप्तसागरसञ्ज्ञं वै लिङ्गमेतन्मनोहरम् ॥
यद्वीक्षणाल्लभेन्मर्त्यः सप्ताब्धिस्नानजं फलम् ॥ ३६ ॥
असौ मन्त्रेश्वरः श्रीमान्मन्त्रजाप्यफलप्रदः ॥
सप्तकोटिमहामन्त्रैः स्थापितो यः पुरा युगे ॥३७॥
त्रिपुरेशस्य लिङ्गस्य पुरः कुण्डमिदं महत् ॥
त्रिपुरैः खानितं पूर्वं त्रिपुरारिप्रियं परम् ॥३८॥
इदं वाणेश्वरं लिङ्गं सहस्रभुजपूजितम् ॥
द्विभुजस्यापि बाणस्य सहस्रभुजहेतुकम् ॥ ३९ ॥
वैरोचनेश्वरश्चैष पुरः प्रह्लादकेशवात् ॥
बलिकेशवनामासावेष नारदकेशवः ॥ 4.1.33.१४० ॥
आदिकेशव पूर्वेण त्वयमादित्यकेशवः ॥
भीष्मकेशवनामासौ दत्तात्रेयेश्वरस्त्वयम् ॥ ४१ ॥
दत्तात्रेयेश्वरात्पूर्वमेष आदि गदाधरः ॥
भृगुकेशवनामासावेष वामनकेशवः ॥ ४२ ॥
नरनारायणावेतौ यज्ञवाराहकेशवः ॥
विदारनारसिंहोयं गोपीगोविन्द एष ह ॥ ४३ ॥
एष लक्ष्मीनृसिंहस्य प्रासादो रत्नकेतनः ॥
यस्य प्रसादात्प्रह्लादः पदमैन्द्रमवाप्तवान् ॥ ४४ ॥
अखर्वसिद्धिदः पुंसामेष खर्वविनायकः ॥
शेषमाधवनामासौ शेषेण स्थापितः पुरा ॥४५॥
यस्य भक्ता न दह्यन्ते त्वपि संवर्तवह्निना ॥
शङ्खमाधवनामासौ शङ्खं हत्वात्र संस्थितः ॥४६॥
इदं सारस्वतं स्रोतः परं ब्रह्मरसायनम् ॥
सरस्वत्या महानद्याः सङ्गमो यत्र गङ्गया ॥ ४७ ॥
यत्राप्लुता नरा भूयः सम्भवन्ति न भूतले ॥
श्रीबिन्दुमाधवस्त्वेष साक्षाल्लक्ष्मीपतिः परः ॥ ४८ ॥
श्रद्धया यं नमन्मर्त्यो न वसेद्गर्भवेश्मनि ॥
न दारिद्र्यमवाप्नोति व्याधिभिर्नाभिभूयते ॥ ४९ ॥
बिन्दुमाधवभक्तो यस्तं यमोपि नमस्यति ॥
प्रणवात्मा य एकोऽस्ति नादबिन्दु स्वरूपधृक् ॥4.1.33.१५०॥
अमूर्तं यत्परं ब्रह्म बिन्दुमाधव एव सः ॥
एतत्पञ्चनदं तीर्थं पञ्चब्रह्मात्मसञ्ज्ञकम् ॥५१॥
यत्र स्नातो न गृह्णीयाच्छरीरं पाञ्चभौतिकम् ॥
एषा सा मङ्गलागौरी काश्यां परममङ्गलम् ॥ ५२ ॥
यत्प्रसादादवाप्नोति नरोऽत्र च परत्र च ॥
मयूखादित्यसञ्ज्ञोयं रश्मिमाली तमोपहः ॥ ५३ ॥
गभस्तीशो महालिङ्गमेतद्दिव्यमहःप्रदम् ॥
मृकण्डुसूनुनाप्यत्र तपस्तप्तं पुरा महत् ॥ ५४ ॥
लिङ्गं संस्थाप्य परमं स्वनाम्नायुःप्रदं परम् ॥
किरणेश्वरनामैतल्लिङ्गं त्रैलोक्यविश्रुतम् ॥ ५५ ॥
सकृन्न तमिदं लोकं नयेत्किरणमालिनः ॥
धौतपापेश्वरं लिङ्गमेतत्पातकधावनम् ॥ ५६ ॥
निर्वाणनरसिंहोयं भक्तनिर्वाणकारणम् ॥
मणिप्रदीपनागोयं महामणिविभूषणः ॥ ५७ ॥
यदर्चनान्नरो जातु न नागैः परिभूयते ॥
कपिलेशमिदं लिङ्गं कपिलेन प्रतिष्ठितम्॥ ॥ ५८ ॥
मुच्यन्ते कपयोप्यस्य दर्शनात्किमु मानवाः ॥
प्रियव्रतेश्वरं लिङ्गं महदेतत्प्रकाशते ॥५९ ॥
यस्यार्चनाल्लभेज्जन्तुः प्रियत्वं सर्वजन्तुषु ॥
इदमायतनं श्रेष्ठं मणिमाणिक्यनिर्मितम् ॥ 4.1.33.१६० ॥
श्रीमतः कालराजस्य कलिकालार्तिहारिणः ॥
निजभक्तं जनं पाति यः पापात्पापभक्षणः ॥ ६१ ॥
क्षेत्रविघ्नकरान्पापान्यातयन्यातना शतैः ॥
इयं मन्दाकिनी रम्या तपस्तप्तुमिहागता ॥ ६२ ॥
काशीवाससुखं प्राप्य नाद्यापि दिवमीहते ॥
स्नात्वात्र सन्तर्प्य पितॄञ्छ्राद्धं कृत्वा विधानतः ॥ ६३ ॥
नरो न नरकं पश्येदपि दुष्कृतकर्मकृत् ॥
यानि कानि च लिङ्गानि काश्यां सन्ति सहस्रशः ॥ ६४ ॥
रत्नभूतमिदं तेषु लिङ्गं रत्नेश्वराभिधम् ॥
रत्नेश्वरप्रसादेन भुक्त्वा रत्नान्यनेकशः ॥ ६५ ॥
पुरुषार्थमहारत्नं निर्वाणं को न लब्धवान् ॥
कृत्तिवासेश्वरस्यैषा महाप्रासादनिर्मितिः ॥ ॥ ६६ ॥
यां दृष्ट्वापि नरो दूरात्कृत्तिवासः पदं लभेत् ॥
सर्वेषामपि लिङ्गानां मौलित्वं कृत्तिवाससः ॥ ६७ ॥
ॐकारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः ॥
गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्तितौ ॥६८॥
विश्वेश्वराविमुक्तौ च द्वावेतौ दक्षिणौ करौ ॥
धर्मेशमणिकर्णेशौ द्वौ करौ दक्षिणेतरौ ॥ ६९ ॥
कालेश्वरकपर्दीशौ चरणावतिनिर्मलौ ॥
ज्येष्ठेश्वरो नितम्बश्च नाभिर्वै मध्यमेश्वरः ॥ 4.1.33.१७० ॥
कपर्दोस्य महादेवः शिरोभूषा श्रुतीश्वरः ॥
चन्द्रेशो हृदयं तस्य आत्मा वीरेश्वरः परः ॥ ७१ ॥
लिङ्गं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः ॥
अन्यानि यानि लिङ्गानि परः कोटि शतानि च ॥ ७२ ॥
ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि ॥
यावेतौ दक्षिणौ हस्तौ नित्यनिर्वाणदौ हि तौ ॥ ७३ ॥
जन्तूनामभयं दत्त्वा पततां मोहसागरे ॥
इयं दुर्गा भगवती पितृलिङ्गमिदं परम् ॥ ७४ ॥
इयं हि चित्रघण्टेशी घण्टाकर्ण ह्रदस्त्वयम् ॥
इयं सा ललिता गौरी विशालाक्षीयमद्भुता ॥ ७५ ॥
आशाविनायकस्त्वेष धर्मकूपोयमद्भुतः ॥
यत्र पिण्डान्नरो दत्त्वा पितॄन्ब्रह्मपदं नयेत् ॥ ७६ ॥
एषा विश्वभुजा देवी विश्वैकजननी परा ॥
असौ बन्दी महादेवी नित्यं त्रैलोक्यवन्दिता ॥ ७७ ॥
निगडस्थानपि जनान्पाशान्मोचयति स्मृता॥
दशाश्वमेधिकं तीर्थमेतत्त्रैलोक्यवन्दितम् ॥ ७८ ॥
यत्राहुतित्रयेणापि अग्निहोत्रफलं लभेत् ॥
प्रयागाख्यमिदं स्रोतः सर्वतीर्थोत्तमोत्तमम्॥७९॥
अशोकाख्यमिदं तीर्थं गङ्गाकेशव एष वै॥
मोक्षद्वारमिदं श्रेष्ठं स्वर्ग द्वारमिदं विदुः ॥ 4.1.33.१८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे ज्ञानवापीवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥