०३२ दण्डपाणिप्रादुर्भावः

॥ अगस्त्य उवाच ॥ ॥
बर्हियान समाचक्ष्व हरिकेशसमुद्भवम् ॥
कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत् ॥ १ ॥
कथं च देवदेवस्य प्रियत्वं समुपेयिवान् ॥
काशीवासिजनीनोभूत्कथं वा दण्डनायकः ॥ २ ॥
एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो ॥
अन्नदत्वं च सम्प्राप्तः कथमेष महामतिः ॥ ३ ॥
सम्भ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ ॥
विभ्रान्तिकारिणौ क्षेत्रवैरिणां सर्वदा नृणाम् ॥ ४ ॥
॥ स्कन्द उवाच ॥ ॥
सम्यगापृच्छि भवता काशीवासिसमाहितम् ॥
कुम्भसम्भव विप्रर्षे दण्डपाणि कथानकम् ॥ ५ ॥
यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम् ॥
निष्प्रत्यूहं तदाप्नोति विश्वभर्त्तुरनुग्रहात् ॥ ६ ॥
रत्नभद्र इति ख्यातः पर्वते गन्धमादने ॥
यक्षः सुकृतलक्षश्रीः पुरा परम धार्मिकः ॥ ७ ॥
पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः ॥
वयश्चरममासाद्य भुक्त्वा भोगाननेकशः ॥ ८ ॥
शाम्भवेनाथ योगेन देहमुत्सृज्य पार्थिवम् ॥
आससादाशवं शान्तं शान्तसर्वेन्द्रियार्थकः ॥ ९ ॥
पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः ॥
सुकृतोपात्तविभव भवसम्भोगभुक्तिभाक् ॥ 4.1.32.१० ॥
सर्वान्मनोरथाल्ँलेभे विना स्वर्गैकसाधनम् ॥
गार्हस्थ्याश्रम नेपथ्यं पथ्यं पैतामहं महत् ॥ ११ ॥
संसारतापसन्तप्तावयवामृतसीकरम् ॥
अपत्यं पततां पोतं बहुक्लेशमहार्णवे ॥ १२ ॥
पूर्णभद्रोऽथ संवीक्ष्य मन्दिरं सर्वसुन्दरम् ॥
तद्बालकोमलालाप विकलं त्यक्तमङ्गलम्॥ १३ ॥
शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा ॥
पान्थवत्प्रान्तरमिव खिन्नोऽतीवानपत्यवान् ॥ १४ ॥
आहूय गृहिणी सोऽथ यक्षः कनककुण्डलाम् ॥
उवाच यक्षिणीं श्रेष्ठां पूर्णभद्रो घटोद्भव ॥ १५ ॥
न हर्म्यं सुखदं कान्ते दर्पणोदरसुन्दरम् ॥
मुक्ता गवाक्षसुभगं चन्द्रकान्तशिलाजिरम् ॥ १६ ॥
पद्मरागेन्द्रनीलार्चिरर्चिताट्टालकं क्वणत् ॥
विद्रुमस्तम्भशोभाढ्यं स्फुरत्स्फटिककुड्यवत् ॥ १७ ॥
प्रेङ्खत्पताकानिकरं मणिमाणिक्यमालितम्॥
कृष्णागुरुमहाधूप बहुलामोदमोदितम् ॥ १८ ॥
अनर्घ्यासनसंयुक्तं चारुपर्यङ्कभूषितम् ॥
रम्यार्गलकपाटाढ्यं दुकूलच्छन्नमण्डपम् ॥ १९ ॥
सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् ॥
दासदासीशताकीर्णं किङ्किणीनादनादितम् ॥ 4.1.32.२० ॥
नूपुरारावसोत्कण्ठ केकिकेकारवाकुलम् ॥
कूजत्पारावत कुलं गुरुसारीकथावरम् ॥ २१ ॥
खेलन्मरालयुगलं जीवं जीवककान्तिमत् ॥
माल्याहूत द्विरेफाणां मञ्जुगुञ्जारवावृतम् ॥ २२ ॥
कर्पूरैण मदामोद सोदरानिलवीजितम् ॥
क्रीडामर्कटदंष्ट्राग्री कृतमाणिक्यदाडिमम् ॥ २३ ॥
दाडिमीबीजसम्भ्रान्तशुकतुण्डात्तमौक्तिकम् ॥
धनधान्यसमृद्धं च पद्मालयमिवापरम् ॥ २४ ॥
कमलामोदगर्भं च गर्भरूपं विना प्रिये ॥
गर्भरूपमुखं प्रेक्ष्ये कथं कनककुडले ॥ २५ ॥
यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम् ॥
सर्वशून्यमिवाभाति गृहमेतदनङ्गजम् ॥ २६ ॥
धिगेतत्सौधसौन्दर्यं धिगेतद्धनसञ्चयम् ॥
विनापत्यं प्रियतमे जीवितं च धिगावयोः ॥ २१७ ॥
प्रलपन्तमिव प्रोच्चैः प्रियं कनककुण्डला ॥
बभाषेंऽतर्विनिःश्वस्य यक्षिणी सा पतिव्रता ॥ २८ ॥
॥ कनककुण्डलोवाच ॥ ॥
किमर्थं खिद्यसे कान्त ज्ञानवानसि यद्भवान् ॥
अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय ॥ २९ ॥
किमुद्यमवतां पुंसां दुर्लभं हि चराचरे ॥
ईश्वरार्पितबुद्धीनां स्फुंरन्त्यग्रे मनोरथाः ॥ 4.1.32.३० ॥
दैवं हेतुं वदन्त्येवं भृशं कापुरुषाः पते ॥
स्वयं पुराकृतं कर्म दैवं तच्च न हीतरत् ॥३१॥
ततः पौरुषमालम्ब्य तत्कर्म परिशान्तये ॥
ईश्वरं शरणं यायात्सर्वकारणकारणम् ॥ ३२ ॥
अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः ॥
सुखानि स्वर्गमोक्षौ च न दूरे शिवभक्तितः ॥ ३३ ॥
विधातुः शाम्भवीं भक्तिं प्रिय सर्वे मनोरथाः ॥
सिद्धयोष्टौ गृहद्वारं सेवन्ते नात्र संशयः ॥ ३४ ॥
नारायणोपि भगवानन्तरात्मा जगत्पतिः ॥
चराचराणामविता जातः श्रीकण्ठसेवया ॥ ३५ ॥
ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शम्भुना ॥
इन्द्रादयो लोकपाला जाता शम्भोरनुग्रहात् ॥ ३६ ॥
मृत्युञ्जयं सुतं लेभे शिलादोप्यनपत्यवान् ॥
श्वेतकेतुरपि प्राप जीवितं कालपाशतः ॥ ३७ ॥
क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान् ॥
अन्धकोप्यभवद्भृङ्गी गाणपत्यपदोर्जितः ॥ ३८ ॥
जिगाय शार्ङ्गिणं सङ्ख्ये दधीचिः शम्भुसेवया ॥
प्राजापत्यपदं प्राप दक्षः संशील्य शङ्करम्॥ ३९ ॥
मनोरथपथातीतं यच्च वाचामगोचरम्॥
गोचरो गोचरीकुर्यात्तत्पदं क्षणतो मृडः ॥ 4.1.32.४० ॥
अनाराध्य महेशानं सर्वदं सर्वदेहिनाम् ॥
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ॥ ४१ ॥
तस्मात्सर्वप्रयत्नेन शङ्करं शरणं व्रज ॥
यदिच्छसि प्रियं पुत्रं प्रियसर्वजनीनकम् ॥ ४२ ॥
इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट् ॥
आराध्य श्रीमहादेवं गीतज्ञो गीतविद्यया ॥ ४३ ॥
दिनैः कतिपयैरेव परिपूर्णमनोरथः ॥
पुत्रकाममवापोच्चैस्तस्यां पत्न्यां दृढव्रतः ॥ ४४ ॥
नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिन्तितम् ॥
तस्मात्काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः ॥ ४५ ॥
अन्तर्वत्न्यथ कालने तत्पत्नी सुषुवे सुतम् ॥
तस्य नाम पिता चक्रे हरिकेश इति द्विज ॥ ४६ ॥
प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात् ॥
पूर्णभद्रस्तथागस्त्य हृष्टा कनककुण्डला ॥ ४७ ॥
बालोऽपि पूर्णचन्द्राभ वदनो मदनोपमः ॥
वृद्धिं प्रतिक्षणं प्राप शुक्लपक्ष इवोडुराट् ॥ ४८ ॥
यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः ॥
नित्यं तदाप्रभृत्येवं शिवमेकममन्यत ॥ ४९ ॥
पांसुक्रीडनसक्तोपि कुर्याल्लिङ्गं रजोमयम् ॥
शाद्वलैः कोमलतृणैः पूजयेच्च स कौतुकम् ॥ 4.1.32.५० ॥
आकारयति मित्राणि शिवनाम्नाऽखिलानि सः ॥
चन्द्रशेखरभूतेश मृत्युञ्जय मृडेश्वरः ॥ ५१ ॥
धूर्जटे खण्डपरशो मृडानीश त्रिलोचन ॥
भर्गशम्भोपशुपते पिनाकिन्नुग्रशङ्कर ॥ ५२ ॥
श्रीकण्ठनीलकण्ठेश स्मरारे पार्वतीपते ॥
कपालिन्भालनयन शूलपाणे महेश्वर ॥ ५7३ ॥
अजिनाम्बरदिग्वासः स्वर्धुनी क्लिन्नमौलिज ॥
विरूपाक्षाहिनेपथ्य गृणन्नामावलीमिमाम् ॥ ५४ ॥
सवयस्कानिति मुहुः समाह्वयति लालयन् ॥
शब्दग्रहौ न गृह्णीतस्तस्यान्याख्यां हरादृते ॥ ५५ ॥
पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात् ॥
द्रष्टुं रूपान्तरं तस्य वीक्षणेन विचक्षणे ॥ ५६ ॥
रसयेत्तस्य रसना हरनामाक्षरामृतम्॥
शिवाङ्घ्रिकमलामोदाद्घ्राणं नैव जिघृक्षति ॥ ५७ ॥
करौ तत्कौतुककरौ मनो मनति नापरम् ॥
शिवसात्कृत्यपेयानि पीयते तेन सद्धिया ॥ ५८ ॥
भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि ॥
सर्वावस्थासु सर्वत्र न स पश्येच्छिवं विना ॥ ५९ ॥
गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि ॥
परितस्त्र्यक्षमैक्षिष्ट नान्यं भावं चिकेति सः ॥ 4.1.32.६० ॥
क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः ॥
क्षणं त्र्यक्ष प्रतीक्षस्व बुध्यतीति स बालकः ॥ ६१ ॥
स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता ॥
अशिक्षयत्सुतं सोऽथ गृहकर्मरतो भव ॥ ६२ ॥
एते तुरङ्गमा वत्स तवैतेऽश्वकिशो रकाः ॥
चित्राणीमानि वासांसि सुदुकूलान्यमूनि च ॥ ६३ ॥
रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः ॥
कुप्यं बहुविधं चैतद्गोधनानि महान्ति च ॥६४॥
अमत्राणि महार्हाणि रौप्य कांस्यमयानि च ॥
पणनीयानि वस्तूनि नानादेशोद्भवान्यपि ॥ ६५ ॥
चामराणि विचित्राणि गन्धद्रव्याण्यनेकशः ॥
एतान्यन्यानि बहुशस्त्वनेके धान्यराशयः ॥ ६६ ॥
एतत्त्वदीयं सकलंवस्तुजातं समन्ततः ॥
अर्थोपार्जनविद्याश्च सर्वाः शिक्षस्व पुत्रक ॥ ६७ ॥
चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः ॥
अभ्यस्यविद्याः सकला भोगान्निर्विश्य चोत्तमान् ॥ ६८ ॥
तां दशां चरमां प्राप्य भक्तियोगं ततश्चर ॥
असकृच्छिक्षितः पित्रेत्यवमन्य गुरोर्गिरम्॥ ६९ ॥
रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः ॥
निर्जगाम गृहाद्भीतो हरिकेश उदारधीः ॥ 4.1.32.७० ॥
ततश्चिन्तामवापोच्चैर्दिग्भ्रान्तिमपि चाप्तवान् ॥
अहो बालिशबुद्धित्वात्कुतस्त्यक्तं गृहं मया ॥ ७१ ॥
क्व यामि क्व स्थिते शम्भो मम श्रेयो भविष्यति ॥
पित्रा निर्वासितश्चाहं न च वेद्म्यथ किञ्चन ॥ ७२ ॥
इति श्रुतं मया पूर्वं पितुरुत्सङ्गवर्तिना ॥
गदतस्तातपुरतः कस्यचिद्वचनं स्फुटम् ॥ ७३ ॥
मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबन्धुभिः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ७४ ॥
जरया परिभूता ये ये व्याधिविकलीकृताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ७५ ॥
पदे पदे समाक्रान्ता ये विपद्भिरहर्निशम् ॥
येषां क्वापि गतिर्नास्ति तेषांवाराणसी गतिः ॥ ७६ ॥
पापराशिभिराक्रान्ता ये दारिद्र्य पराजिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ७७ ॥
संसार भयभीताय ये ये बद्धाः कर्मबन्धनैः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ७८ ॥
श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ ७९ ॥
ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः ॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ 4.1.32.८० ॥
मध्ये बन्धुजने येषामपमानं पदे पदे ॥
तेषामानन्ददं चैकं शम्भोरानन्दकाननम् ॥८१॥
आनन्दकानने येषां रुचिर्वै वसतां सताम् ॥
विश्वेशानुगृहीतानां तेषामानन्दजोदयः ॥ ८२ ॥
भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना ॥
अतो महाश्मशानं तदगतीनां परा गतिः ॥ ८३ ॥
हरिकेशो विचार्येति यातो वाराणसीं पुरीम् ॥
यत्राविमुक्ते जन्तूनां त्यजतां पार्थिवीं तनुम् ॥ ८४ ॥
पुनर्नो तनुसम्बन्धस्तनुद्वेषिप्रसादतः ॥
आनन्दवनमासाद्य स तपः शरणं गतः ॥ ८५ ॥
अथ कालान्तरे शम्भुः प्रविश्यानन्दकानमम् ॥
पार्वत्यै दर्शयामास निजमाक्रीडकाननम् ॥ ८६ ॥
अमन्दामोदमन्दारं कोविदारपरिष्कृतम् ॥
चारुचम्पकचूताढ्यं प्रोत्फुल्लनवमल्लिकम् ॥ ८७ ॥
विकसन्मालतीजालं करवीरविराजितम् ॥
प्रस्फुटत्केतकिवनं प्रोद्यत्कुरबकोर्जितम् ॥ ८८ ॥
जृम्भद्विचकिलामोदं लसत्कङ्केलिपल्लवम्॥
नवमल्लीपरिमलाकृष्टषट्पदनादितम् ॥ ८९ ॥
पुष्प्यपुन्नागनिकरं बकुलामोदमोदितम् ॥
मेदस्विपाटलामोद सदामोदित दिङ्मुखम् ॥ 4.1.32.९० ॥
बहुशोलम्बिरोलम्ब मालामालितभूतलम् ॥
चलच्चन्दनशाखाग्र रममाणपि काकुलम् ॥ ९१ ॥
गुरुणाऽगुरुणामत्त भद्रजातिविहङ्गमम् ॥
नागकेसरशाखास्थ शालभञ्जि विनोदितम् ॥ ९२ ॥
मेरुतुङ्ग नमेरुस्थच्छायाक्रीडितकिन्नरम् ॥
किन्नरीमिथुनोद्गीतं गानवच्छुककिंशुकम् ॥ ९३ ॥
कदम्बानां कदम्बेषु गुञ्जद्रोलम्बयुग्मकम् ॥
जितसौवर्णवर्णोच्च कर्णिकारविराजितम् ॥ ९४ ॥
शालतालतमालाली हिन्ताली लकुचावृतम् ॥
लसत्सप्तच्छदामोदं खर्जूरीराजिराजितम् ॥
नारिकेल तरुच्छन्न नारङ्गीरागरञ्जितम् ॥ ९५ ॥
फलिजम्बीरनिकरं मधूकमधुपाकुलम् ॥
शाल्मली शीतलच्छायं पिचुमन्द महावनम्॥ ९६ ॥
मधुरामोद दमनच्छन्नं मरुबनोदितम् ॥
लवलीलोललीलाभृन्मन्दमारुतलोलितम् ॥ ९७ ॥
भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम् ॥
क्वचित्सरः परिसरक्रीडत्क्रोडकदम्बकम् ॥ ९८ ॥
मरालीगलनालीस्थ बिसासक्तसितच्छदम् ॥
विशोककोकमिथुनक्रीडाक्रेङ्कारसुन्दरम् ॥ ९९ ॥
बकशावकसञ्चारं लक्ष्मणासक्त सारसम् ॥
मत्तबर्हिणसङ्घुष्टं कपिञ्जलकुलाकुलम् ॥ 4.1.32.१०० ॥
जीवञ्जीवलसज्जीवं क्वणत्कारण्डवोत्कटम् ॥
दीर्घिकावारिसञ्चारि शीतमारुत वीजितम्॥ १ ॥
मदान्दोलितकह्लार परागपरिपिङ्गलम् ॥
उल्लसत्पङ्कजमुखं नीलेन्दीवरलोचनम् ॥ २ ॥
तमालकबरीभारं विलसद्दाडिमीरदम् ॥
भ्रमरालीलसद्भ्रूकं शुकनासाविराजितम् ॥ ३ ॥
महान्धुश्रवणं दूर्वा श्मश्रुभिः परिशोभितम् ॥
कमलामोदनिःश्वासं बिम्बीफल रदच्छदम् ॥ ४ ॥
सुपद्मपत्रवसनं कर्णिकारविभूषणम् ॥
कम्रकम्बु लसत्कण्ठं शङ्करस्कन्ध बन्धुरम् ॥ ५ ॥
गन्धसारसमासक्ता हीन दोर्दण्डमण्डितम् ॥
अशोकपल्लवाङ्गुष्ठं केतकीनखरोज्ज्वलम् ॥ ६ ॥
लसत्कण्ठीरवोरस्कं गण्डशैलपृथूदरम् ॥
जलावर्तलसन्नाभि तरुजङ्घा युगान्वितम् ॥ ७ ॥
स्थलभाक्पद्मचरणं मत्तमातङ्गगामिनम् ॥
लसत्कदलिकेदारदलच्चीनांशुकावृतम् ॥ ८ ॥
नानासुकुममालाभिर्मालितं च समन्ततः ॥
अकण्टकितरुच्छन्नं महिष श्वापदावृतम् ॥ ९ ॥
चन्द्रकान्तशिलासुप्तकृष्णैणहरितोडुपम् ॥
तरुप्रकीर्णकुसुम जितस्वर्लोकतारकम् ॥
दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम् ॥ 4.1.32.११० ॥
॥ देवदेव उवाच ॥ ॥
यथाप्रियतमा देवि मम त्वं सर्वसुन्दरि ॥
तथा प्रियतरं चैतन्मे सदानन्दकाननम् ॥ ११ ॥
अत्रानन्दवने देवि मृतानां मदनुग्रहात् ॥
वपुस्त्वमृततां प्राप्तमपुनर्भविनस्तु ते ॥ १२ ॥
भविनो ये विपद्यन्ते वाराणस्यां ममाज्ञया ॥
तेषां बीजानि दग्धानि श्मशानज्वलदग्निना ॥ १३ ॥
महाश्मशाने ये प्राप्ता दीर्घनिद्रां गिरीन्द्रजे ॥
न पुनर्गर्भशयने ते स्वपन्ति कदाचन ॥ १४ ॥
ब्रह्मज्ञानेन मुच्यन्ते नान्यथा जन्तवः क्वचित् ॥
ब्रह्मज्ञानमये क्षेत्रे प्रयागे वा तनुत्यजः ॥ १५ ॥
ब्रह्मज्ञानं तदेवाहं काशीसंस्थितिभागिनाम् ॥
दिशामि तारकं प्रान्ते मुच्यन्ते ते तु तत्क्षणात् ॥ १६ ॥
गृह्णीयुः पापकर्माणि काशीमृतविनिन्दकाः ॥
सुकृतानि स्तुतिकृतो मुच्यन्ते तेऽत्र जन्तवः ॥ १७ ॥
ब्रह्मज्ञानं कुतो देवि कलिनोपहतात्मनाम् ॥
स्वभावचञ्चलाक्षाणां तद्ब्रह्मेह दिशाम्यहम् ॥ १८ ॥
योगिनो योगविभ्रष्टाः पतन्त्यैश्वर्यमोहिताः ॥
काश्यां पतित्वा न पुनः पतन्त्यपि महालये ॥ १९ ॥
ब्रह्मज्ञानं न विन्दन्ति योगैरेकेन जन्मना ॥
जन्मनैकेन मुच्यन्ते काश्यामन्तकृतो जनाः ॥ 4.1.32.१२० ॥
यथेह मुच्यते जन्तुर्गिरिजे मदनुग्रहात् ॥
अविमुक्ते महाक्षेत्रे न तथान्यत्र कुत्रचित् ॥ २१ ॥
बहुजन्मसमभ्यासाद्योगी मुच्येत वा न वा ॥
मृतमात्रो विमुच्येत काश्यामेकेन जन्मना ॥ २२ ॥
न सिध्यति कलौ योगो न सिध्यति कलौ तपः ॥
न्यायार्जितधनोत्सर्गः सद्यः सिध्येत्कलौ नरः ॥ २३ ॥
न व्रतं न तपो नेज्या न जपो न सुरार्चनम् ॥
दानमेव कलौ मुक्त्यै काशीदानैरवाप्यते ॥ २४ ॥
कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी ॥
कलौ भागीरथी गङ्गा कलौ दानं विशिष्यते ॥ २५ ॥
गङ्गोत्तरवहाकाश्यां लिङ्गं विश्वेश्वरं मम ॥
उभे विमुक्तिदे पुंसां प्राप्ये दानबलात्कलौ ॥ २६ ॥
पुण्यवानितरो वापि मम क्षेत्रस्य सेवया ॥
मुक्तो भवति देवेशि नात्र कार्या विचारणा ॥ २७ ॥
अविमुक्तस्य माहात्म्यात्पुण्यपापेन कर्मणा ॥
देवि प्रभवतः पुंसामपिजन्मशतार्जिते ॥ २८ ॥
अविमुक्तं न मोक्तव्यं तस्माद्देवि मुमुक्षुणा ॥
हन्यमानेन बहुधा ह्युपसर्गशतैरपि ॥ २९ ॥
विधाय क्षेत्रसन्न्यासं ये वसन्तीह मानवाः ॥
जीवन्मुक्तास्तु ते देवि तेषां विघ्नं हराम्यहम् ॥ 4.1.32.१३० ॥
न योगिनां हृदाकाशे न कैलासे न मन्दरे ॥
तथा वासरतिर्मेऽस्ति यथा काश्यां रतिर्मम ॥ ३१ ॥
काशीवासि जनो देवि मम गर्भे वसेत्सदा ॥
अतस्तं मोचयाम्यन्ते प्रतिज्ञेयं यतो मम ॥ ३२ ॥
तामसीं प्रकृतिं प्राप्य कालो भूत्वा चराचरम् ॥
ग्रसामि लीलया देवि काशीं रक्षामि यत्नतः ॥ ३३ ॥
प्रेमपात्रद्वयं देवि नितरां नेतरन्मम ॥
त्वं वा तपोधने गौरि काशी वानन्दभूमिका ॥ ३४ ॥
विना काशी न मे स्थानं विना काशी न मे रतिः ॥
विना काशी न निर्वाणं सत्यं सत्यं वदाम्यहम् ॥ ३५ ॥
ब्रह्माण्डगोलके यद्वन्मुक्तिः काश्यां व्यवस्थिता ॥
अष्टाङ्गयोगयुक्त्या वा न तथा हेलयाऽन्यतः ॥ ३६ ॥
इति ब्रुवाणो देवेशो हरिकेशमवैक्षत ॥
मध्ये वनं तपस्यन्तमशोकतरुमूलगम्॥ ३७ ॥
शुष्कस्नायुपिनद्धास्थि सञ्चयं निश्चलाकृतिम् ॥
वल्मीककीटकाकोटिशोषितासृगसृग्धरम् ॥३८॥
निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥
शङ्खकुन्देन्दुतुहिन महाशङ्खलसच्छ्रियम्॥ ३९ ॥
सत्वावलम्बितप्राणमायुःशेषेणरक्षितम् ॥
निःश्वासोच्छासपवनवृत्तिसूचितजीवितम् ॥ 4.1.32.१४० ॥
निमेषोन्मेषसञ्चार पिशुनीकृतजन्तुकम् ॥
पिङ्गतारस्फुरद्रश्मि नेत्रदीपित दिङ्मुखम् ॥ ४१ ॥
तत्तपोग्निशिखादाव चुम्बितम्लानकाननम्॥
तत्सौम्यदृक्सुधावर्ष संसिक्ताऽखिलभूरुहम् ॥ ४२ ॥
साक्षात्तपस्यन्तमिव तपो धृत्वा नराकृतिम् ॥
निराकृतिं निराकाङ्क्षं कृत्वा भक्तिं च काञ्चन ॥४३॥
कुरङ्गशावैर्गणशो भ्रमद्भिः परिवारितम् ॥
नितान्तभीषणास्यैश्च पञ्चास्यैः परिरक्षितम् ॥ ४४ ॥
तं तथाभूतमालोक्य देवी देवं व्यजिज्ञपत् ॥
वरेणच्छन्दयेशामुं निजभक्तं तपस्विनम् ॥ ४५ ॥
त्वदेकचित्तं त्वदधीनजीवितं त्वदेककर्माणममुं त्वदाश्रयम् ॥
तीव्रैस्तपोभिः परिशुष्कविग्रहं कुरुष्व यक्षस्य वैररनुग्रहम् ॥ ४६ ॥
देवो वृषेन्द्रादवरुह्य देव्या शैलादिना दत्तकरावलम्बः ॥
समाधिसङ्कोचितनेत्रपत्रं पस्पर्श हस्तेन दयार्द्रचेताः ॥ ४७ ॥
ततः स यक्षो विनिमील्य चक्षुषी त्र्यक्षं पुरो वीक्ष्य समक्षमात्मनः ॥
उद्यत्सहस्रांशु सहस्रतेजसं जगाद हर्षाकुल गद्गदाक्षरम् ॥ ४८ ॥
जयेश शम्भो गिरिजेश शङ्कर त्रिशूलपाणे शशिखण्डशेखर ॥
स्पर्शत्कृपालो तव पाणिपङ्कजं प्राप्यामृतीभूततनूलतोऽभवम् ॥ ४९ ॥
श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु ॥
भक्तस्य धीरस्य महातपोनिधे ददौ वराणां निकर तदा मुदा ॥ 4.1.32.१५० ॥
क्षेत्रस्य यक्षास्य मम प्रियस्य मे भवाधुना दण्डधरो वरान्मम ॥
स्थिरस्त्वमद्यादि दुरात्मदण्डकः सुपालकः पुण्यकृतां च मत्प्रियः ॥ ५१ ॥
त्वं दण्डपाणिर्भव नामतोऽधुना सर्वान्गणाञ्छाधि ममाज्ञयोत्कटान् ॥
गणाविमौ त्वामनुयायिनौ सदा नाम्ना यथार्थौ नृषु सम्भ्रमोद्भ्रमौ ॥ ५२ ॥
त्वमन्त्यभूषां कुरु काशिवासिनां गले सुनीलां भुजगेन्द्र कङ्कणाम् ॥
भालेसु नेत्रां करिकृत्तिवाससं वामेक्षणालक्षित वामभागाम् ॥ ५३ ॥
मौलौ लसत्पिङ्गकपर्दभारिणी विभूतिसङ्क्षालित पुण्यविग्रहाम् ॥
अहोहिमांशोः कलया लसच्छ्रियं वृषेन्द्रलीला गतिमन्दगामिनीम् ॥ ५४ ॥
त्वमन्नदः काशिनिवासिनां सदा त्वं प्राणदो ज्ञानद एक एव हि ॥
त्वं मोक्षदो मन्मुखसूपदेशतस्त्वं निश्चलां सद्वसतिं विधास्यसि ॥ ५५ ॥
त्वं विघ्नपूगैः परिपीड्य पापिनः सम्भ्रातिमुत्पाद्य विनेष्यसे बहिः ॥
आनीय भक्तान्क्षणतोपिदूरतो मुक्तिं परां दापयितासि पिङ्गल ॥ ५६ ॥
त्वत्सात्कृते क्षेत्रवरे हि यक्षराट्कस्त्वामनाराध्य विमुक्तिभाजनम् ॥
सभाजनं पूर्वत एव ते चरेत्ततः समर्चां मम भक्त आचरेत् ॥ ५७ ॥
त्वं ग्रामवासप्रद एव मे पुरेऽध्यक्षस्त्वमेधीह च दण्डनायकः ॥
दुष्टान्समुद्घाटय काशिवैरिणः काशीं पुरीं रक्ष सदा मुदान्वितः ॥ ५८ ॥
पूर्णभद्रसुतदण्डनायक त्र्यक्षयक्षहरिकेश पिङ्गल ॥
काशिवास वसतां सदान्नदज्ञानमोक्षदगणाग्रणीर्भव ॥ ५९ ॥
मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत ॥
गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दण्डपाणे ॥ 4.1.32.१६० ॥
ज्ञानोदतीर्थे विहितोदकक्रियो यस्त्वां समाराधयिता गणेशम् ॥
स एव लोके कृतकृत्यतामगान्ममातुलानुग्रहतोऽत्र पुण्यवान् ॥ ६१ ॥
त्वं दक्षिणस्यां दिशि दण्डपाणे सदैव मे नेत्रसमक्षमत्र ॥
त्वं दण्डयन्प्राणभृतो दुरीहानिहास्वनॄन्स्वानभयं दिशन्वै ॥ ६२ ॥
॥ स्कन्द उवाच ॥ ॥
इति दत्त्वा वरान्विप्र गिरीशो दण्डपाणये ॥
वृषेन्द्रमधिरुह्याथ विवेशानन्दकाननम् ॥ ६३ ॥
कुम्भोद्भव तदारभ्य यक्षराड्दण्डनायकः ॥
पुरीं वाराणसीं सम्यगनुशास्ति निदेशतः ॥ ६४ ॥
अहमप्यत्र वसतिं चक्रे तदनुसूयया ॥
वसन्नपि मया काश्यां यतः सम्भावितो न सः ॥ ६९ ॥
मुने क्षेत्रं यदत्याक्षीस्त्वमप्येवंविधो वशी ॥
शङ्के तत्राहमेवाद्धा कामं तस्यैव विक्रियाम् ॥ ६६ ॥
मनाग्विरुद्धाचरणं यदि द्विज विलक्षयेत् ॥
हरिकेशस्तदा काश्यां क्व स्थितिः क्व च निर्वृतिः ॥ ६७ ॥
दण्डपाणिमनाराध्य कः काश्यां सुखमाप्नुयात् ॥
प्रविविक्षुरहं काशीं दूरगोपि भजामि तम् ॥ ६८ ॥
रत्नभद्राङ्गजोद्भूतं पूर्णभद्रसुतो त्तम ॥
निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ॥ ६९ ॥
धन्यो यक्षः पूर्णभद्रो धन्या काञ्चनकुण्डला ॥
ययोर्जठरपीठेभूर्दण्डपाणे महामते ॥ 4.1.32.१७० ॥
जय यक्षपते धीर जय पिङ्गललोचन ॥
जय र्पिगजटाभार जय दण्ड महायुध ॥ ७१ ॥
अविमुक्त महाक्षेत्र सूत्रधारोग्रतापस ॥
दण्डनायक भीमास्य जय विश्वेश्वरप्रिय ॥ ७२ ॥
सौम्यानां सौम्यवदन भीषणानां भयानक ॥
क्षेत्रपापधियां काल महाकालमहाप्रिय ॥ ७३ ॥
जयप्राणद यक्षेन्द्र काशीवासान्नमोक्षद ॥
महारत्नस्फुरद्रश्मि चयचर्चित विग्रह ॥ ७४ ॥
महासम्भ्रातिजनक महोद्भ्रान्ति प्रदायक ॥
अभक्तानां च भक्तानां सम्भ्रात्युद्भ्रान्ति नाशक ॥ ७५ ॥
प्रान्तनेपथ्यचतुर जयज्ञाननिधिप्रद ॥
जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ॥ ७६ ॥
यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ॥
जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ॥ ७७ ॥
दण्डपाण्यष्टकं धीमाञ्जपन्विघ्नैर्न जातुचित् ॥
श्रद्धया परिभूयेत काशीवासफलं लभेत ॥ ७८ ॥
प्रादुर्भावं दण्डपाणेः शृण्वन्तोत्रमिदं गृणन् ॥
विपत्तिमन्यतः प्राप्य काशीं जन्मान्तरे लभेत् ॥ ७९ ॥
श्रुत्वाध्यायमिमं पुण्यं दण्डपाणिसमुद्भवम् ॥
पठित्वा पाठयित्वापि न र्विघ्रैरभिभूयतै ॥ 4.1.32.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे दण्डपाणिप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥