०३१ भैरवप्रादुर्भावः

॥ अगस्त्य उवाच ॥ ॥
सर्वज्ञ हृदयानन्द स्कन्दस्कन्दित तारक ॥
न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम् ॥ १ ॥
अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि ॥
तदा कथय मे नाथ काश्यां भैरव सङ्कथाम् ॥ २ ॥
कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः ॥
किं रूपमस्य किं कर्म कानि नामानि चास्य वै ॥३॥
कथमाराधितश्चैव सिद्धिदः साधकस्य वै ॥
आराधितः कुत्र काले क्षिप्रं सिद्ध्यति भैरवः ॥ ४ ॥
॥ स्कन्द उवाच ॥ ॥
वाराणस्यां महाभाग यथा ते प्रेम वर्तते ॥
तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः ॥ ५ ॥
प्रादुर्भावं भैरवस्य महापातकनाशनम् ॥
यच्छ्रुत्वा काशिवासस्य फलं निर्विघ्रमाप्नुयात् ॥ ६ ॥
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्माण्डं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः ॥
पायम्पायमपायतस्त्रिजगतीमुन्मत्तवत्तै रसैर्नृत्यंस्ताण्डवडम्बरेण विधिनापायान्महाभैरवः ॥ ७ ॥
कुम्भयोने न वेत्त्येव महिमानं महेशितुः ॥
चतुर्भजोपि वैकुण्ठश्चतुर्वक्त्रोपि विश्वकृत् ॥ ८ ॥
न चित्रमत्र भूदेव भवमाया दुरत्यया ॥
तया सम्मोहिताः सर्वे नावयन्त्यपि तं परम् ॥ ९ ॥
वेदयेद्यदिचात्मानं स एव परमेश्वरः ॥
तदा विन्दन्ति ब्रह्माद्याः स्वेच्छयैव न तं विदुः ॥ 4.1.31.१० ॥
स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः ॥
देववद्बुध्यते मूढैरतीतो यो मनोगिराम् ॥ ११ ॥
पुरा पितामहं विप्र मेरुशृङ्गे महर्षयः ॥
प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम् ॥ १२ ॥
समा यया महेशस्य मोहितो लोकसम्भवः ॥
अविज्ञाय परं भावमात्मानं प्राह वर्पिणम् ॥ १३ ॥
जगद्योनिरहं धाता स्वयम्भूरेक ईश्वरः ॥
अनादिमदहं ब्रह्म मामनर्च्य न मु च्यते ॥ १४ ॥
प्रवर्तको हि जगतामहमेको निवर्तकः ॥
नान्यो मदधिकः सत्यं कश्चित्कोपि सुरोत्तमाः ॥ १५ ॥
तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः ॥
प्रोवाच प्रहसन्वाक्यं रोषताम्रविलोचनः ॥ १६ ॥
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते ॥
अज्ञानं योगयुक्तस्य न चैतदुचितं तव ॥ १७ ॥
अहं कर्ता हि लोकानां यज्ञो नारायणः परः ॥
न मामनादृत्य विधे जीवनं जगतामज ॥ १८ ॥
अहमेव परं ज्योतिरहमेव परा गतिः ॥
मत्प्रेरितेन भवता सृष्टिरेषा विधीयते ॥ ॥ १९ ॥
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ ॥
पप्रच्छतुः प्रमाणज्ञानागमांश्चतुरोपि तौ ॥ 4.1.31.२० ॥
॥ विधिक्रतू ऊचतुः ॥ ॥
वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ॥
यूयमेव न सन्देहः किं तत्त्वं प्रतितिष्ठत ॥ २१ ॥
श्रुतय ऊचुः ॥ ॥
यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ॥
तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २२ ॥
श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ॥
युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम् ॥ २३ ॥
ऋगुवाच ॥ ॥
यदन्तःस्थानि भूतानि यतः सर्वं प्रवर्तते ॥
यदाहुस्तत्परं तत्त्वं स रुद्रस्त्वेक एव हि ॥ २४ ॥
॥ यजुरुवाच ॥ ॥
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ॥
येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः ॥२५॥
॥ सामोवाच ॥ ॥
येनेदं भ्रश्यते विश्वं योगिभिर्यो विचिन्त्यते ॥
यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ॥ २६ ॥
॥ अथर्वोवाच ॥ ॥
यं प्रपश्यन्ति देवेशं भक्त्यानुग्रहिणो जनाः ॥
तमाहुरेकं कैवल्यं शङ्करं दुःखतस्करम् ॥ २७ ॥
श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ ॥
स्मित्वाहतुः क्रतु विधीमोहाध्येनाङ्कितौ मुने ॥ २८ ॥
कथं प्रमथनाथोसौ रममाणो निरन्तरम्॥
दिगम्बरः पितृवने शिवया धूलिधूसरः ॥ २९ ॥
विटङ्कवेशो जटिलो वृषगोव्यालभूषणः ॥
परं ब्रह्मत्वमापन्नः क्व च तत्सङ्गवर्जितम्॥ 4.1.31.३० ॥
तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः ॥
अमूर्तो मूर्तिमान्भूत्वा हसमान उवाच तौ ॥ ३१ ॥
प्रणव उवाच ॥
न ह्येष भगवाञ्छक्त्या स्वात्मनो व्यतिरिक्तया ॥
कदाचिद्रमते रुद्रो लीलारूपधरो हरः ॥ ३२ ॥
असौ हि भगवानीशः स्वयञ्ज्योतिः सनातनः ॥
आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा ॥ ३३ ॥
इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि ॥
नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३४ ॥
प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ॥
पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम्॥ ३५ ॥
ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ॥
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ॥ ३६ ॥
आवयोरन्तरं कोसौ बिभृयात्पुरुषाकृतिम् ॥
विधिः सम्भावयेद्यावत्तावत्स हि विलोकितः ॥ ३७ ॥
स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः ॥
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ॥ ३८ ॥
हिरण्यगर्भस्तं प्राह जाने त्वां चन्द्रशेखरम् ॥
भालस्थलान्ममपुरा रुद्रः प्रादुरभूद्भवान् ॥ ३९ ॥
रोदनाद्रुद्रनामापि योजितोसि मया पुरा ॥
मामेव शरणं याहि पुत्र रक्षां करोमि ते ॥ 4.1.31.४० ॥
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्॥
सकोपतः समुत्पाद्य पुरुषं भैरवाकृतिम् ॥ ४१ ॥
प्राह पङ्कजजन्मासौ शास्यस्ते कालभैरव ॥
कालवद्राजसे साक्षात्कालराजस्ततो भवान् ॥ ४२ ॥
विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः ॥
त्वत्तो भेष्यति कालोपि ततस्त्वं कालभैरवः ॥ ४३ ॥
आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः ॥
आमर्दक इति ख्याति ततः सर्वत्र यास्यति ॥ ४४ ॥
यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ॥
पापभक्षण इत्येव तव नाम भविष्यति ॥ ४५ ॥
या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी ॥
आधिपत्यं च तस्यास्ते कालराज सदैव हि ॥४६॥
तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि ॥
शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ४७ ॥
एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः ॥
वामाङ्गुलिनखाग्रेण चकर्त च शिरो विधेः ॥ ४८ ॥
यदङ्गमपराध्नोति कार्यं तस्यैव शासनम् ॥
अतो येन कृता निन्दा तच्छिन्नं पचमं शिरः ॥ ४९ ॥
यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शङ्करम् ॥
भीतो हिरण्यगर्भोपि जजाप शतरुद्रियम् ॥ 4.1.31.५० ॥
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ॥
प्राह स्वां मूर्तिमपरां भैरवं तं कपर्दिनम् ॥ ५१ ॥
मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम् ॥
कपालं वैधसं चापि नीललोहित धारय ॥ ५२ ॥
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन्॥
चर त्वं सततं भिक्षां कापालव्रतमास्थितः ॥
इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः ॥ ५३ ॥
उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम् ॥
रक्ताम्बरधरां रक्तां रक्तस्रग्गन्धलेपनाम्॥ ५४ ॥
दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम् ॥
अन्तरिक्षैकपादाग्रां पिबन्तीं रुधिरं बहु ॥५५॥
कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिङ्गोग्रतारकाम् ॥
गर्जयन्तीं महावेगां भैरवस्यापिभीषणाम् ॥ ५६ ॥
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ॥
तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणि ॥ ५७ ॥
सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्॥
नियोज्यतामिति शिवोप्यन्तर्धानं गतस्ततः ॥ ५८ ॥
तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः ॥
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्॥ ५९ ॥
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्॥
नात्याक्षीच्चापि तं देवं ब्रह्महत्या सुदारुणा ॥ 4.1.31.६० ॥
सत्यलोकेपि वैकुण्ठे महेन्द्रादि पुरीष्वपि ॥
त्रिजगत्पतिरुग्रोपि व्रती त्रिजगतीश्वरः ॥६१॥
प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया ॥६२॥
अनेनैवानुमानेन महिमा त्ववगम्यताम् ॥
ब्रह्महत्यापनोदिन्याः काश्याः कलशसम्भव ॥ ६३ ॥
सन्ति तीर्थान्यनेकानि बहून्यायतनानि च ॥
अधि त्रिलोकिनो काश्याः कलामर्हन्ति षोडशीम् ॥ ६४ ॥
तावद्गर्जन्ति पापानि ब्रहत्यादिकान्यलम् ॥
यावन्नाम न शृण्वन्ति काश्याः पापाचलाशनेः ॥ ६५ ॥
प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः ॥
कापालिको ययौ देवो नारायणनिकेतनम् ॥ ६६ ॥
अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ॥
महादेवांशसम्भूतं भैरवं भीषणाकृतिम् ॥ ६७ ॥
पपात दण्डवद्भूमौ दृष्ट्वा तं गरुडध्वजः ॥
देवाश्च मुनयश्चैव देवनार्यः समन्ततः ॥ ६८ ॥
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः ॥
शिरस्यञ्जलिमारोप्य स्तुत्वा बहुविधैः स्तवैः ॥६९॥
क्षीरोदमथनो तां प्राह पद्मालयां हरिः ॥
प्रिये पश्याऽब्जनयने धन्याऽसि सुभगेनघे ॥ 4.1.31.७० ॥
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥
अयं धाता विधाता च लोकानां प्रभुरीश्वरः ॥ ७१ ॥
अनादिः शरणः शान्तः परः षड्विंशसम्मितः ॥
सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः ॥७२॥
सर्वभूतान्तरात्माऽयं सर्वेषां सर्वदः सदा ॥
यं विनिद्रा विनिःश्वासाः शान्ता ध्यानपरायणाः ॥ ७३ ॥
धिया पश्यन्ति हृदये सोयमद्य समीक्ष्यताम्॥
यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥ ७४ ॥
अरूपो रूपवान्भूत्वा सोयमायाति सर्वगः ॥
अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः ॥७४॥।
यस्याख्यां ब्रुवतां नित्यं न देहः सोपि देहधृक्॥
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि॥७६॥
सोयमायाति भगवांस्त्र्यम्बकः शशिभूषणः ॥
पुण्डरीकदलायामे धन्येमेऽद्य विलोचने ॥ ७७ ॥
धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शङ्करम् ॥
लभ्यते यन्न निर्वाणं सर्वदुःखान्तकृत्तु यत् ॥ ७८ ॥
देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ॥
दृष्ट्वापि सर्वदेवेशं यन्मुक्तिं न लभामहे ॥ ७९ ॥
एवमुक्त्वा हृषीकेशः सम्प्रहृष्टतनूरुहः ॥
प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥ 4.1.31.८० ॥
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ॥
क्रियते जगतां धात्रा सर्वपापहराऽव्यय ॥ ८१ ॥
क्रीडेयं तव देवेश त्रिलोचन महामते ॥
किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन ॥८२ ॥
किमर्थं भगवत्र्छम्भो भिक्षां चरसि शक्तिप ॥
संशयो मे जगन्नाथ नतत्रैलोक्यराज्यद ॥ ८३ ॥
एवमुक्तस्ततः शम्भुर्विष्णुमेतदुदाहरत् ॥
ब्रह्मणस्तु शिरश्छिन्नमङ्गु्ल्यग्रनखेन ह ॥ ८४ ॥
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम् ॥
एवमुक्तो महेशेन पुण्डरीकविलोचनः ॥ ८५ ॥
स्मित्वा किञ्चिन्नतशिराः पुनरेवं व्यजिज्ञपत् ॥
यथेच्छसि तथा क्रीड सर्वविष्टपनायक ॥ ८६ ॥
मायया मां महादेव नच्छादयितुमर्हसि ॥
नाभीकमलकोशात्तु कोटिशः कमलासनान् ॥ ८७ ॥
कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो ॥
त्यज मायामिमां देव दुस्तरामकृतात्मभिः ॥ ८८ ॥
मदाद्यो महादेव मायया तव मोहिताः ॥
यथावदवगच्छामि चेष्टितं ते शिवापते ॥ ८९॥
संहारकाले सम्प्राप्ते सदेवानखिलान्मुनीन् ॥
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥ 4.1.31.९० ॥
तदा क्व ते महादेव पाप ब्रह्मवधादिकम् ॥
पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडेत्ततो भवान् ॥ ९१ ॥
अतीतब्रह्मणामस्थ्नां स्रक्कण्ठे तव भासते ॥
तदातदा क्वानुगता ब्रह्महत्या तवानघ ॥ ९२ ॥
कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः ॥
आधारं जगतामीशं तस्य पापं विलीयते ॥ ९३ ॥
यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ॥
तथा न भवभक्तस्य पापं तस्य व्रजेत्क्षयम् ॥ ९४ ॥
यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम् ॥
ब्रह्महत्यादिकमपि पापं तस्य व्रजेत्क्षयम् ॥ ९५ ॥
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥ ९६ ॥
रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम् ॥
क्व च ते शिव नाम मङ्गलं जनजीवातु जगद्रुजापहम् ॥ ९७ ॥
यदि जातुचिदन्धकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम् ॥
शिवशङ्कर चन्द्रशेखरेत्यसकृत्तस्य न संसृतिः पुनः ॥ ९८ ॥
परमात्मन्परन्धाम स्वेच्छा विधृत विग्रह ॥
कुतूहलं तवेशेदं क्व पराधीनतेश्वरे ॥ ९९ ॥
अद्य धन्योस्मि देवेश यं न पश्यति योगिनः ॥
पश्यामि तं जगन्मूलं परमेश्वरमक्षयम् ॥ 4.1.31.१०० ॥
अद्य मे परमो लाभस्त्वद्य मे मङ्गलं परम् ॥
त्वद्दृष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गदम् ॥ १ ॥
इत्थं वदति गोविन्दे विमला पद्मया तया ॥
मनोरथवती नाम भिक्षापात्रे समर्पिता ॥ २ ॥
भिक्षाटनाय देवोपि निरगात्परया मुदा ॥
दृष्ट्वाऽनुयायिनीं तां तु समाहूय जनार्दनः ॥
सम्प्रार्थयद्ब्रह्महत्यां विमुञ्च त्वं त्रिशूलिनम्॥ ३ ॥
॥ ब्रह्महत्योवाच ॥ ॥
अनेनापि मिषेणाऽहं संसेव्यामुं वृषध्वजम् ॥
आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम् ॥ ४ ॥
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥
तमूचेऽथ हरिं शम्भुः स्मेरास्यो वचनं शुभम् ॥ ५ ॥
त्वद्वाक्पीयूषपानेन तृप्तोस्मि बहुमानद ॥
वरं वृणीष्व गोविन्द वरदोऽस्मि तवानघ ॥ ६ ॥
न माद्यन्ति यथा भैक्षैर्भिक्षवोप्यतिसंस्कृतैः ॥
यथामानसुधापानैर्नुन्न भिक्षाटनज्वराः ॥ ७ ॥
महाविष्णुरुवाच ॥ ॥
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ॥
पश्यामि त्वां देवदेवं मनोरथपथातिगम् ॥ ८ ॥
अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः ॥
अयत्नो निधिलाभो यद्वीक्षणं हरते सताम् ॥ ९ ॥
अवियोगोऽस्तु मे देव त्वदङ्घ्रियुगलेन वै ॥
एष एव वरः शम्भो नान्यं कञ्चिद्वरं वृणे ॥ 4.1.31.११० ॥
ईश्वर उवाच ॥ ॥
एवं भवतु तेऽनन्त यत्त्वयोक्तं महामते ॥
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥ ११ ॥
अनुगृह्येति दैत्यारिं केन्द्रादि भुवने चरन् ॥
भेजे विमुक्तिजननीं नाम्ना वाराणसीं पुरीम् ॥ १२ ॥
यत्र स्थितानां जन्तूनां कलां नार्हन्ति षोडशीम्॥
अपि ब्रह्मादि देवानां पदानि विपदां पदम् ॥ १३ ॥
वरं वाराणसी वासी जटी मुण्डी दिगम्बरः ॥
नान्यत्रच्छत्रसञ्छन्न वसुधामण्डलेश्वरः ॥ १४ ॥
वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः ॥
लक्षाधीशो विशेद्गर्भं तद्भिक्षाशी न गर्भभाक् ॥ १५ ॥
भिक्षापि यत्र भिक्षुभ्यो दत्तामलकसम्मिता ॥
सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत् ॥ १६॥
वर्षाशनं हि यो दद्यात्काश्यां सीदत्कुटुम्बिने ॥
यावन्त्यब्दानि तावन्ति युगानि स दिवीज्यते ॥ १७ ॥
वाराणस्यां वर्षभोज्यं यो दद्यान्निरुपायिने ॥
स कदाचित्तृट्क्षुधा नो दुःखं भुङ्क्ते नरर्षभः ॥ १८ ॥
वाराणस्यां निवसतां यत्पुण्यमुपजायते ॥
तदेव संवासयितुः फलं त्वविकलं भवेत् ॥ १९ ॥
ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् ॥
त्यजन्ति पापिनं काशी सा केनेहोपमीयते ॥ 4.1.31.१२० ॥
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥
हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत् ॥ २१ ॥
कपालब्रह्मणो रुद्रः सर्वेषामेव पश्यताम्॥
हस्तात्पतितमालोक्य ननर्त परया मुदा ॥ २२ ॥
विधेः कपालं नामुञ्चत्करमत्यन्तदुःसहम्॥
हरस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥ २३ ॥
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥
सा काश्यां क्षणतो नष्टा कथं काशी न दुर्लभा ॥२४॥
अतः प्रदक्षिणीकार्या पूजनीया पुरी त्वियम् ॥ २५ ॥
वाराणसीति काशीति महामन्त्रमिमं जपम् ॥
यावज्जीवं त्रिसन्ध्यं तु जन्तुर्जातु न जायते ॥ २६ ॥
अविमुक्तं महाक्षेत्रं स्मरन्प्राणांस्तु यस्त्वजेत् ॥
दूरदेशान्तरस्थोपि सोपि जातु न जायते ॥ २७ ॥
आनन्दकानने यस्य चित्तं संस्मरते सदा ॥
तत्क्षेत्रनामश्रवणान्न स भूयोऽभिजायते ॥ २८ ॥
रुद्रावासे वसेन्नित्यं नरो नियतमानसः ॥
एनसामपि सम्भारं कृत्वा कालाद्विमुच्यते ॥ २९ ॥
महाश्मशानमासाद्य यदि देवाद्विपद्यते ॥
पुनः श्मशानशयनं न क्वापि लभते पुमान् ॥ 4.1.31.१३० ॥
कपालमोचनं काश्यां ये स्मरिष्यन्ति मानवाः ॥
तेषां विनङ्क्ष्यति क्षिप्रमिहान्यत्रापि पातकम् ॥ ३१ ॥
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥ ३२ ॥
अशाश्वतमिदं ज्ञात्वा वाराणस्यां वसन्ति ये ॥
देहान्ते तत्परं ज्ञानं तेषां दास्यति शङ्करः ॥ ३३ ॥
इयं काशीपुरी विप्र साक्षाद्रुद्रतनुः परा ॥
अनिर्वाच्या परानन्दा दुष्प्राप्येशविरोधिभिः ॥ ३४ ॥
अस्यास्तत्त्वमहं जाने शिवभक्तिपरोपि वा ॥
मुच्यन्ते जन्तवोऽत्रैव यथा योगेन योगिनः ॥ ३५ ॥
परम्पदमियं काशी परानन्द इयं पुरी ॥
इयमेव परं ज्ञानं सेव्याऽसौ मोक्षकाङ्क्षिभिः ॥ ३६ ॥
अत्रोषित्वापीशभक्तान्विरुणद्धि तु यः कुधीः ॥
पुर्यैद्रुह्यति वा मूढस्तस्यान्यत्रात्र नो गतिः ॥ ३७ ॥
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥
तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥ ३८ ॥
पापभक्षणमासाद्य कृत्वापापशतान्यपि ॥
कुतो बिभेति पापेभ्यः कालभैरवसेवकः ॥ ३९ ॥
आमर्दयति पापानि दुष्टानां च मनोरथान् ॥
आमर्दक इति ख्यातस्ततोऽसौ कालभैरवः॥ 4.1.31.४० ॥
कलिकालं कलयति सदा काशी निवासिनाम्॥
अतः ख्यातिं परां प्राप्तः कालभैरवसञ्ज्ञिताम् ॥ ४१ ॥
सदैव यस्य भक्तेभ्यो यमदूताः सुदारुणाः ॥
परमां भीरुतां प्राप्तास्ततोसौ भैरवः स्मृतः ॥ ४२ ॥
मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ॥
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥ ४३ ॥
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धितः ॥
तत्सर्वं विलयं याति कालभैरव दर्शनात् ॥४४॥
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम्॥
तत्सर्वं विलयत्याशु कालभैरव दर्शनात् ॥ ४५॥
कृत्वा च विविधां पूजां महासम्भारविस्तरैः ॥
नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ॥ ४६ ॥
अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे ॥
यात्रां च भैरवीं कृत्वा कृतैः पापैः प्रमुच्यते ॥ ४७ ॥
कालभैरव भक्तानां सदा काशीनिवासिनाम् ॥
विघ्नं यः कुरुते मूढः स दुर्गतिमवाप्नुयात् ॥ ४८ ॥
विश्वेश्वरेपि ये भक्ता नो भक्ताः कालभैरवे ॥
काश्यां ते विघ्नसङ्घातं लभन्ते तु पदे पदे ॥ ४९ ॥
तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः ॥
विलोक्य कालराजं च निरयादुद्धरेत्पितॄन् ॥ 4.1.31.१५० ॥
अष्टौ प्रदक्षिणीकृत्य प्रत्यहं पापभक्षणम् ॥
नरो न पापैर्लिप्येत मनोवाक्कायसम्भवैः ॥५१॥
तस्मिन्नामर्दके पीठे जप्त्वास्वाभीष्टदेवताम् ॥
षण्मासं सिद्धिमाप्नोति साधको भैरवाज्ञया ॥ ५२ ॥
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥
तस्य पापानि वर्धन्ते शुक्लपक्षे यथा शशी ॥५३॥
यं यं सञ्चितयेत्कामं पापभक्षणसेवया ॥
बलिपूजोपहारैश्च तं तं स समवाप्नुयात् ॥ ५४ ॥
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥
भजेत्तस्यक्षयेत्पुण्यं कृष्णपक्षे यथा शशी ॥ ५५ ॥
श्रुत्वाध्यायमिमं पुण्यं ब्रह्महत्यापनोदकम् ॥
भैरवोत्पत्तिसञ्ज्ञं च सर्वपापैः प्रमुच्यते ॥ ५६ ॥
बन्धनागारसंस्थोपि प्राप्तोपि विपदं पराम् ॥
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात् ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे भैरवप्रादुर्भावोनामेकत्रिंशोध्यायः ॥ ३१ ॥