॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्यमहाभाग स च राजा भगीरथः ॥
आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान् ॥१॥
ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः ॥
महता तपसा भूमिमानिनाय त्रिवर्त्मगाम् ॥ २ ॥
त्रयाणामपि लोकानां हिताय महते नृपः ॥
समानैषीत्ततो गङ्गां यत्रासीन्मणिकर्णिका ॥ ३ ॥
आनन्दकाननं शम्भोश्चक्रपुष्करिणी हरेः ॥
परब्रह्मैकसुक्षेत्रं लीलामोक्षसमर्पकम् ॥ ४ ॥
प्रापयामास तां गङ्गां दैलीपिः पुरतश्चरन् ॥
निर्वाणकाशनाद्यत्र काशीति प्रथिता पुरी ॥ ५ ॥
अविमुक्तं महाक्षेत्रं न मुक्तं शम्भुना क्वचित ॥
प्रागेव हि मुनेऽनर्घ्यं जात्यं जाम्बूनदं स्वयम् ॥ ६ ॥
पुनर्वारितरेणापि हीरेणयदि सङ्गतम् ॥
चक्रपुष्करणीतीर्थं प्रागेव श्रेयसाम्पदम् ॥७॥
ततः श्रेष्ठतरं शम्भोर्मणिश्रवणभूषणात् ॥
आनन्दकानने तस्मिन्नविमुक्ते शिवालये॥ ॥ ८ ॥
प्रागेव मुक्तिः संसिद्धा गङ्गासङ्गात्ततोधिका ॥
यदा प्रभृति सा गङ्गा मणिकर्ण्यां समागता ॥ ९ ॥
तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि ॥
कृत्वा कर्माण्यनेकानि कल्याणानीतराणि वा ॥ 4.1.30.१० ॥
तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत् ॥
तस्यां वेदान्तवेद्यस्य निदिध्यासनतो विना ॥ ११ ॥
विना साङ्ख्येन योगेन काश्यां संस्थोऽमृतो भवेत् ॥
कर्मनिर्मूलनवता विना ज्ञानेन कुम्भज ॥ १२ ॥
शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत् ॥
यत्नतोऽयत्नतो वापि कालात्त्यक्त्वा कलेवरम् ॥ १३ ॥
तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत् ॥
अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः ॥ १४ ॥
असिसम्भेद योगेन काशीसंस्थोऽमृतो भवेत् ॥
देहत्यागोऽत्र वै दानं देहत्यागोत्र वै तपः ॥ १५८ ॥
देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत् ॥
प्राप्योत्तरवहां काश्यामतिदुष्कृतवानपि ॥ १६ ॥
यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ॥
यमेन्द्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान् ॥ १७ ॥
सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः ॥
असिं महासिरूपां च पाप्यसन्मतिखण्डनीम् ॥ १८ ॥
दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः ॥
वरणां च व्यधुस्तत्र क्षेत्रविघ्ननिवारिणीम् ॥ १९ ॥
दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः ॥
दक्षिणोत्तरदिग्भागे कृत्वाऽसिं वरणां सुराः ॥ 4.1.30.२० ॥
क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः ॥
क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम् ॥ २१ ॥
स्वयं व्यापारयामास रक्षार्थं शशिशेखरः ॥
अनुज्ञातप्रवेशानां विश्वेशेन कृपावता ॥ २२ ॥
ते प्रवेशं प्रयच्छन्ति नान्येषां हि कदाचन ॥
इत्यर्थे कथयिष्येऽहमितिहासं पुरातनम् ॥
आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम् ॥ २३ ॥
॥ स्कन्द उवाच ॥ ॥
दक्षिणाब्धितटे कश्चित्सेतुबन्धसमीपतः ॥
वणिग्धनञ्जयो नाम मातृभक्तिसमन्वितः ॥ २४ ॥
पुण्यमार्गार्जित धनो धनतोषितमार्गणः ॥
मार्गणस्फारितयशा यशोदातनयार्चकः ॥ २५ ॥
समुन्नतोपि सम्पत्त्या विनयानतकन्धरः ॥
आकरोपि गुणानां हि गुणिष्वाकारगोपकः ॥ २६ ॥
रूपसम्पदुदारोपि परदारपराङ्मुखः ॥
ससम्पूर्णकलोप्यासीन्निष्कलङ्कोदयः सदा ॥ २७ ॥
ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने ॥
वर्णेतरोप्यभूल्लोके सुवर्णकृतवर्णनः ॥ २८ ॥
सदाचरणगोप्येष सुखयानचरः कृती ॥
अदरिद्रोपि मेधावी सोभूत्पापदरिद्रधीः ॥ २९ ॥
तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् ॥
जननी निधनं प्राप्ता व्याधिताऽतिजरातुरा ॥4.1.30.३० ॥
तया च यौवनं प्राप्य मेघच्छायातिचञ्चलम् ॥
प्रावृण्नदीपूरसमं स्वपतिः परिवञ्चितः ॥ ३१ ॥
दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम्॥
भर्तारं वञ्चयेन्मोहात्साऽक्षयं नरकं व्रजेत् ॥ ३२ ॥
शीलभङ्गेन नारीणां भर्ताधर्मपरोपि हि ॥
पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया ॥ ३३ ॥
विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः ॥
आभूतसम्प्लवं यावत्ततः स्याद्ग्रामसूकरी ॥३४॥
स्वविष्ठापायिनी चाथ वल्गुली वृक्षलम्बिनी॥
उलूकी वा दिवान्धा स्याद्वृक्षकोटरवासिनी ॥ ॥ ३५ ॥
रक्षणीयं महायत्नादिदं सुकृतभाजनम् ॥
वपुः परस्य दुःस्पर्शात्सुखाभासात्मकात्स्त्रिया ॥ ३६ ॥
अनेनैव शरीरेण भर्तृसाद्विहितेन हि ॥
किं सती न च तस्तम्भ भानुमुद्यन्तमाज्ञया ॥ ३७ ॥
अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः ॥
दधार न त्रयीं गर्भे पतिव्रत परायणा ॥ ३८ ॥
इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः ॥
पातिव्रत्यात्स्त्रिया लभ्यं सखित्वं च श्रिया सह ॥ ३९ ॥
सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् ॥
स्वच्छन्दचारिणी भूत्वामृतानिरयमुद्ययौ ॥ 4.1.30.४० ॥
धनञ्जयोपि च मुने केनचिच्छिवयोगिना ॥
सार्धं तपोदयादित्थं सोऽभवद्धर्मतत्परः ॥४१॥
धनञ्जयोपि धर्मात्मा मातृभक्तिपरायणः ॥
आदायास्थीन्यथो मातुर्गङ्गा मार्गस्थितोऽभवत् ॥४२॥
पञ्चगव्येन संस्नाप्य ततः पञ्चामृतेन वै ॥
यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च ॥ ४३ ॥
आवेष्ट्य नेत्रवस्त्रेण ततः पट्टाम्बरेण वै ॥
ततः सुरसवस्त्रेण ततो माञ्जिष्ठवाससा ॥४४॥
नेपालकम्बलेनाथ मृदाचाऽथ विशुद्धया ॥
ताम्रसम्पुटके कृत्वा मातुरङ्गान्यहो वणिक् ॥ ४५ ॥
अस्पृष्टहीनजातिः स शुचिष्मान्स्थण्डिलेशयः ॥
आनयञ्ज्वरितोप्यासीन्मध्ये मार्गं धनञ्जयः ॥४६॥
भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम् ॥
किं बहूक्तेन घटज काशी प्राप्ताऽथ तेन वै ॥ ४७ ॥
धृत्वा सम्भृतिरक्षार्थं भारवाहं धनञ्जयः ॥
जगामापणमानेतुं किञ्चिद्वस्त्वशनादिकम् ॥ ४८ ॥
भारवाह्यन्तरं प्राप्य तस्य सम्भृतिमध्यतः ॥
ताम्रसम्पुटमादाय धनं ज्ञात्वा गृहं ययौ ॥ ४९ ॥
वासस्थानमथागत्य तमदृष्ट्वा धनञ्जयः ॥
त्वरावान्सम्भृतिं वीक्ष्य ताम्रसम्पुटवर्जिताम् ॥ 4.1.30.५० ॥
हाहेत्याताड्य हृदयं चक्रन्द बहुशो भृशम् ॥
इतस्ततस्तमालोक्य गतस्तदनुसारतः ॥ ५१ ॥
अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम् ॥
तस्य संवसथं प्राप्तो भारवोढुर्धनञ्जयः ॥ ५२ ॥
भारवाडप्यरण्यान्यां ताम्रसम्पुटमध्यतः॥
दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ। ॥५३॥
वणिक्च तद्गृहं प्राप्य शुष्ककण्ठोष्ठतालुकः ॥
दृष्ट्वाऽथ चैलशकलं तृणकुट्यन्तरे तदा ॥५४॥
आशया किञ्चिदाश्वस्य तत्पत्नीं परिपृष्टवान् ॥
सत्यं ब्रूहि न भेतव्यं दास्याम्यन्यदपि ध्रुवम् ॥ ५५ ॥
वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय ॥
वयं कार्पटिका भद्रे भवामो न च दुःखदाः ॥ ५६ ॥
अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसम्पुटः ॥
तस्यैष दोषो नो भद्रे मातुर्मे कर्म तादृशम् ॥५७॥
अथवा न प्रसू दोषो मन्दभाग्योऽस्मि तत्सुतः ॥
सुतेनकृत्यं यत्कृत्यं तत्प्राप्तिर्नास्ति भिल्लि मे ॥५८॥
उद्यमं कृतवानस्मि न सिद्ध्येन्मन्दभाग्यतः ॥
आयातु सत्यवाक्यान्मे मा बिभेतु वनेचरः ॥ ॥ ५९ ॥
अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः ॥
इत्युक्ता तेन सा भिल्ली व्याजहार निजं पतिम् ॥ 4.1.30.६० ॥
लज्जानम्रशिराःसोऽथ वृत्तान्तं विनिवेद्य च ॥
निनाय तामरण्यानीं शबरस्तं धनञ्जयम् ॥६१॥
वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने ॥
दिग्भ्रान्तिं समवाप्याथ परिबभ्राम कानने ॥६२॥
इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत् ॥
वनाद्वनान्तरं भ्रान्त्वा खिन्नः सोपि वनेचरः ॥ ६३ ॥
विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम् ॥
द्वित्राण्यहानि सम्भ्रम्य स कार्पटिकसत्तमः ॥ ६४ ॥
क्षुत्क्षामः शुष्ककण्ठोष्ठो हाहेति परिदेवयन् ॥
पुनः काशीपुरीं प्राप्तः परिम्लानमुखो वणिक् ॥८६५ ॥
तन्मन्दभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने ॥
कृत्वा गयां प्रयागं च ततः स्वविषयं ययौ ॥ ६६ ॥
काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव ॥
विना वैश्वेश्वरीमाज्ञां बहिर्यातानि तत्क्षणात् ॥ ॥ ६७ ॥
एवं काश्यां प्रविश्यापि पापी धर्मानुषङ्गतः ॥
न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात् ॥ ६८ ॥
तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम् ॥
असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ॥ ६९ ॥
वाराणसीति विख्याता तदारभ्य महामुने ॥
असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ॥ 4.1.30.७० ॥
वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन ॥
विश्वेशदृङ्महसि यत्सहसा प्रविश्य रूपेण तां वितनुतां पदवीं दधाति ॥ ७१ ॥
जातो मृतो बहुषु तीर्थवरेषु रे त्वं जन्तो न जातु तव शान्तिरभून्निमज्य ॥
वाराणसी निगदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात्स्मरशासनः स्याः ॥ ७२ ॥
अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम् ॥
चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्र जन्मा ॥ ७३ ॥
नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः ॥
यस्यां परं पौरुषमर्थमिच्छन्सिद्धिं नयेत्पौरपरम्परांसः ॥ ७४ ॥
तीर्थान्तराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात् ॥
वाराणसीपरिसरे तु विसृज्य देहं सन्देहभाग्भवति देहदशाप्तयेपि ॥ ७५ ॥
वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहन्त्री ॥
तत्तारकं श्रवणगोचरतां नयन्ती तद्बह्मदर्शयति येन पुनर्भवो न ॥ ७६ ॥
वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य ॥
इष्टं पदं किमपि हृष्टतरोभिलष्य लाभोस्तुमूलमपि नो यदवाप शून्यम् ॥ ७७ ॥
आःकाशिवासिजनता ननु वञ्चिताभूद्भाले विलोचनवतावनितार्धभाजा ॥
आदाय यत्सन्ध्यकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयतापुनर्भु ॥ ७८ ॥
वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात् ॥
सर्वे गले गरलिनोऽक्षियुजो ललाटे वामार्धवामतनवोऽतनवस्ततोंऽते ॥ ७९ ॥
आनन्दकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ॥
स्वः सिन्धुसङ्गतिरथो परमास्पदं च विश्वेशितुः किमिह तन्न विमुक्तये यत्॥ 4.1.30.८०॥
वाराणसीह वरणासि सरिद्वरिष्ठा सम्भेदखेदजननी द्युनदी लसच्छ्रीः ॥
विश्रामभूमिरचलाऽमलमोक्षलक्ष्म्याहैनां विहाय किमुसीदति मूढजन्तुः ॥ ८१ ॥
किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तान्तदूतकृतबन्धन ताडनं च ॥
शम्भोरनुग्रह परिग्रह लभ्य काशीं मूढो विहाय किमु याति करस्थ मुक्तिम् ॥ ८२ ॥
तीर्थान्तराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयन्ति ॥
पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते बत मूलनाशम्॥८३ ॥
काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवन्ति ॥
भाले विलोचनवतीं गलनीललक्ष्मीं वामार्धबन्धुरवधूं विधुरावरोधाः ॥ ८४ ॥
ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगन्धि ॥
स्वात्मावबोधमहसा सहसा मिलित्वा कल्पान्तरेष्वपि स नैव पृथक्त्वमेति ॥ ८५ ॥
रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् ॥
ये कल्पयन्त्यपरतीर्थसमां समन्तात्ते पापिनो न सह तैः परिभाषणीयम् ॥ ८६ ॥
वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगन्तरेषु ॥
प्राप्याप्यजाद्यसुलभांस्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः ॥ ८७ ॥
विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चन्दनानि वनिताश्च नितान्त रम्याः ॥
स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः।
धात्रा धृतानि तुलया तुलनामवैतुं वैकुण्ठमुख्यभुवनानि च काशिका च ॥
तान्युद्ययुर्लघुतयान्यगियं गुरुत्वात्तस्थौ पुरीह पुरुषार्थचतुष्टयस्य ॥ ८९ ॥
काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणइहमान्यहवैकरुद्रः ॥
नानोपसर्गजनिसर्गजदुःखभारैःकर्मापनुद्यसविशेत्परमेशधाम्नि ॥ 4.1.30.९० ॥
स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः ॥
वपुस्तेजोरूपं स्थिरतरपरानन्दसदनं विमूढोऽसौ जन्तुः स्फुटितमिवकाम्म्यं विनिमयन् ॥ ९१ ॥
अहो लोकः शोकं किमिह सहते हन्तहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः ॥
क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किञ्चिद्भूयः प्रविशति न येनोदरदरीम् ॥ ९२ ॥
काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने ॥
स्वैरचारिणि जितेन्द्रियेप्यहो काशिवासिनि जने विशिष्टता ॥ ९३ ॥
नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरन्तकृतां हि काश्याम् ॥
बीजानि कर्मजनितानि यदूषरायां नाङ्कूरंयति हरदृग्ज्वलितानितेषाम् ॥ ९४ ॥
शशका मशका बकाः शुकाः कलविङ्काश्च वृकाः सजम्बुकाः ॥
तुरगोरग वानरानरा गिरिजे काशिमृताः परामृतम् ॥ ९५ ॥
अरुद्ररुद्राक्षफणीन्द्रभूषणास्त्रिपुण्ड्रचन्द्रार्धधराधरागताः ॥
निरन्तरं काशिनिवासिनोजना गिरीन्द्रजे पारिषदा मता मम ॥ ९६ ॥
यावन्त एव निवसन्ति च जन्तवोऽत्र काश्यां जलस्थलचरा झषजम्बुकाद्याः ॥
तावन्त एव मदनुग्रह रुद्रदेहा देहावसानमधिगम्य मयि प्रविष्टाः ॥ ९७ ॥
ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः ॥
वातेषवोंऽतरिक्षे ये ये भुव्यन्नेषवः प्रिये ॥ ९८ ॥
रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः ॥
ऊर्ध्वदिक्स्थाश्च ये रुद्राः पठ्यन्ते वेदवादिभिः ॥ ९९ ॥
असङ्ख्याताः सहस्राणि ये रुद्रा अधिभूतले ॥
तत्सर्वेभ्योऽधिका काश्यां जन्तवो रुद्ररूपिणः ॥4.1.30.१००॥
रुद्रावासस्ततः प्रोक्तमविमुक्तं घटोद्भव ॥
तस्मात्समर्च्य काशिस्थान्वर्णान्वर्णेतराश्रमान्॥ १ ॥
श्रद्धयेश्वरबुद्ध्या च रुद्रार्चा फलभाङ्नरः ॥ २ ॥
श्म शब्देन शवः प्रोक्तः शानं शयनमुच्यते॥
निर्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः ॥ ३ ॥
महान्त्यपि च भूतानि प्रलये समुपस्थिते ॥
शेरतेऽत्र शवा भूत्वा श्मशानं तु ततो महत् ॥ ४ ॥
अप्सु भूरिह लये लयं व्रजेदाप और्ववदनोग्रकन्दरे ॥
मातरिश्वनि महातनूनपाद्व्योम्नि सङ्क्षयति वै सदागतिः ॥ ५ ॥
व्योम चापि लयमेत्यहङ्कृतौ सापि षोडशविकारसंयुता ॥
लीयते महति बुद्धिसञ्ज्ञकेहा महान्प्रकृतिमध्यगो भवेत् ॥ ६॥
सा गुणत्रयमयी च निर्गुणं तं पुमांसमवगुह्य तिष्ठति ॥
पञ्चविंशतितमः परः पुमान्देहगेहपतिरेष जीवकः ॥ ७ ॥
प्राकृतः प्रलय एष उच्यते हंसयान हरि रुद्रवर्जितः ॥
कालमूर्तिरथ तं च पूरुषं हेलया कलयतीश्वरः परः ॥ ८ ॥
स वै महाविष्णुरितीर्यते बुधैस्तं वै महादेवमुदाहरन्ति ॥
सोंऽतादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोपि हि पार्वतीपतिः ॥ ९ ॥
दैनन्दिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् ॥
बिभर्ति संवर्त महास्थिभूषणस्ततो हि काशी कलिकालवर्जिता ॥ 4.1.30.११० ॥
॥ स्कन्द उवाच ॥ ॥
वाराणसीति काशीति रुद्रावास इति द्विज ॥
महाश्मशानमित्येवं प्रोक्तमानन्दकाननम् ॥११॥
इति देवीपुरः प्रोक्तं देवदेवेन शम्भुना ॥
यथाविष्णोः पुराख्यातं तथैव च मया श्रुतम् ॥
तच्च त्वदग्रे कथितं रहस्यं काशिजं महत् ॥१२॥
जप्त्वाध्यायमिमं पुण्यं महापातकनाशनम् ॥
श्रावयित्वा द्विजान्सम्यक्छिवलोके महीयते ॥ १३ ॥
अतः परं कलशज किं शुश्रूषसि तद्वद ॥
काशीकथा कथ्यमाना ममापि परितोषकृत् ॥ ११४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे वाराणसीमहिमवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥