उमोवाच ॥ ॥
किञ्चित्प्रष्टुमना नाथ स्वसन्देहापनुत्तये ॥
वद खेदो यदि न ते त्रिकालज्ञानकोविद ॥ १ ॥
तदा भगीरथो राजा क्व क्व भागीरथी तदा ॥
यदा विष्णुस्तपस्तेपे चक्रपुष्करिणी तटे ॥ २ ॥
॥ शिव उवाच ॥ ॥
सन्देहोऽत्र न कर्तव्यो विशालाक्षि सदामले ॥
श्रुतौ स्मृतौ पुराणेषु कालत्रयमुदीर्यते ॥ ॥ ३ ॥
भूतं भावि भवच्चापि संशयं मा वृथा कृथाः ॥
इत्युक्त्वा पुनराहेशो गङ्गामाहात्म्यमुत्तमम् ॥४॥
॥ अगस्त्य उवाच ॥
पार्वतीनन्दन पुनर्द्युनद्याः परितो वद ॥
महिमोक्तो हरौ यद्वद्देवदेवेन वै तदा ॥ ५ ॥
स्कन्द उवाच ॥
मुनऽत्र मैत्रावरुणे यथा देवेन भाषितम् ॥
शुणु त्रिपथगामिन्या माहात्म्यं पातकापहम् ॥६॥
त्रिस्रोतसं समासाद्य सकृत्पिण्डान्ददाति यः ॥
उद्धृताः पितरस्तेन भवाम्भोधेस्तिलोदकैः ॥ ७ ॥
यावन्तश्च तिला मर्त्यैर्गृहीता पितृकर्मणि॥
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ॥ ८ ॥
देवाः सपितरो यस्माद्गङ्गायां सर्वदा स्थिताः ॥
आवाहनं विसर्गं च तेषां तत्र ततो नहि ॥ ९ ॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरु श्वशुर बन्धूनां ये चान्ये बान्धवा मृताः ॥ 4.1.28.१० ॥
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ॥
अग्निविद्युच्चोरहता व्याघ्रदंष्ट्रिभिरेव च ॥११ ॥
उद्बन्धन मृता ये च पतिता आत्मघातकाः ॥
आत्मविक्रयिणश्चोरा ये तथाऽयाज्ययाजकाः ॥ १२ ॥
रसविक्रयिणो ये च ये चान्ये पापरोगिणः ॥
अग्निदा गरदाश्चैव गोघ्नाश्चैव स्ववंशजाः ॥ १३ ॥
असिपत्रवने ये च कुम्भीपाके च ये गताः ॥
रौरवेप्यन्धतामिस्रे कालसूत्रे च ये गताः ॥१४॥
जात्यन्तरसहस्रेषु भ्राम्यन्ते ये स्वकर्मभिः ॥
ये तु पक्षिमृगादीनां कीटवृक्षादि वीरुधाम् ॥ १५ ॥
योनिं गतास्त्वसङ्ख्याताः सङ्ख्यातानामशोभनाः ॥
प्रापिता यमलोकं तु सुघोरैर्यमकिङ्करैः ॥ १६ ॥
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ॥
येपि चाज्ञातनामानो ये चापुत्राः स्वगोत्रजाः ॥ १७ ॥
विषेण च मृता वै ये ये वै शृङ्गिभिराहताः ॥
कृतघ्नाश्च गुरुघ्नाश्च ये च मित्रद्रुहस्तथा ॥ १८ ॥
स्त्री बालघातका ये च ये च विश्वासघातकाः ॥
असत्यहिंसानिरता सदा पापरताश्च ये ॥ १९ ॥
अश्वविक्रयिणो ये च परद्रव्यहराश्च ये ॥
अनाथाः कृपणा दीना मानुष्यं प्राप्तुमक्षमाः ॥ 4.1.28.२० ॥
तर्पिता जाह्नवीतोयैर्नरेण विधिना सकृत् ॥
प्रयान्ति स्वर्गतिं तेपि स्वर्गिणो मुक्तिमाप्नुयुः ॥२१॥
एतान्मन्त्रान्समुच्चार्य यः कुर्यात्पितृतर्पणम् ॥
श्राद्धं पिण्डप्रदानं च स विधिज्ञ इहोच्यते ॥ २२॥
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानिचित् ॥
तानि सर्वाणि सेवन्ते काश्यामुत्तरवाहिनीम् ॥ २३ ॥
स्वःसिन्धुः सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥
काश्यां विशेषतो विष्णो यत्र चोत्तरवाहिनी ॥ २४ ॥
गायन्ति गाथामेतां वै दैवर्षिपितरोगणाः ॥
अपि दृग्गोचरा नः स्यात्काश्यामुत्तरवाहिनी ॥२५॥
यत्रत्यामृतसन्तृप्तास्तापत्रितयवर्जिताः ॥
स्याम त्वमृतमेवाद्धा विश्वनाथप्रसादतः ॥ २६ ॥
गङ्गैव केवला मुक्त्यै निर्णीता परितो हरे ॥
अविमुक्ते विशेषेण ममाधिष्ठानगौरवात् ॥ २७ ॥
ज्ञात्वा कलियुगं घोरं गङ्गाभक्तिः सुगोपिता ॥
न विन्दतिं जना गङ्गां मुक्तिमागैर्कदायिकाम् ॥ २८ ॥
अनेकजन्मनियुतं भ्राम्यमाणस्तु योनिषु ॥
निर्वृतिं प्राप्नुयात्कोत्र जाह्नवीभजनं विना ॥ २९ ॥
नराणामल्पबुद्धीनामेनो विक्षिप्तचेतसाम् ॥
गङ्गेव परमं विष्णो भेषजं भवरोगिणाम् ॥ 4.1.28.३० ॥
खण्डस्फुटितसंस्कारं गङ्गातीरे करोति यः ॥
मम लोके चिरं कालं तस्याक्षय सुखं हरे॥ ३१॥
गन्तुमुद्दिश्य यो गङ्गां परार्थस्वार्थमेव वा ॥
न गच्छति परं मोहात्स पतेत्पितृभिः सह ॥ ३२ ॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् ॥
भूमिस्था अपि ते मर्त्या अमर्त्या एव वै हरे ॥ ३३ ॥
चरमेपि वयोभागे स्वःसिन्धुं यो निषेवते ॥
कृत्वाप्येनांसि बहुशः सोपि यायाच्छुभां गतिम् ॥३४॥
यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ॥
तावदब्दसहस्राणि स्वर्गलोके महीयते॥३५॥
विष्णुरुवाच ॥ ॥
देवदेवजगन्नाथ जगतां हितकृत्प्रभो ॥
कीकसं चेत्पतेद्दैवाद्दुर्वृत्तस्य दुरात्मनः ॥३६॥
जले द्युनद्या निष्पापे कथं तस्य परा गतिः ॥
अपमृत्यु विपन्नस्य तदीश विनिवेद्यताम् ॥ ३७ ॥
॥ महेश्वर उवाच ॥ ॥
अत्रार्थे कथयिष्यामि पुरावृत्तमधोक्षज ॥
शृणुष्वैकमना विष्णो वाहीकस्य द्विजन्मनः ॥ ३८ ॥
पुरा कलिङ्गविषये द्विजो लवणविक्रयी ॥
सन्ध्यास्नानविहीनश्च वेदाक्षरविवर्जितः ॥ ३९ ॥
वाहीको नामतो यज्ञसूत्रमात्रपरिग्रहः ॥
परिग्रहश्च तस्यासीत्कौविन्दी विधवा नवा ॥ 4.1.28.४० ॥
दुर्भिक्षपीडितेनाथ वृषलीपतिना विना ॥
प्राणाधारं तदा तेन देशाद्देशान्तरं ययौ ॥ ४१ ॥
मध्येऽथ दण्डकारण्यं क्षुत्क्षामः सङ्गवर्जितः ॥
व्याघ्रेण घातितस्तत्र नरमांसप्रियेण सः ॥ ४२ ॥
तस्य वामपदं गृध्रो गृहीत्वोदपतत्ततः ॥
मांसाशिनाऽन्य गृध्रेण तस्य युद्धमभूद्दिवि ॥ ४३ ॥
गृध्रयोरामिषं गृध्न्वोः परस्परजयैषिणोः ॥
अवापतत्पादगुल्फं कङ्कचञ्चुपुटात्तदा ॥ ४४ ॥
तस्य वाहीक विप्रस्य व्याघ्रव्यापादितस्य ह ॥
मध्ये गङ्गं दैवयोगादपतद्द्वन्द्वकारिणोः ॥ ४५ ॥
यदैव हतवान्द्वीपी तं वाहीकमरण्यगम् ॥
तस्मिन्नेव क्षणे बद्धः स पाशैः क्रूरकिङ्करैः ॥ ४६ ॥
कशाभिर्घातितोत्यन्तमाराभिः परितोदितः ॥
वमन्रुधिरमास्येन नीतस्तैः स यमाग्रतः ॥ ४७॥
आपृच्छि धर्मराजेन चित्रगुप्तोथ मापते ॥
धर्माधर्मं विचार्यास्य कथयाशु द्विजन्मनः ॥ ४८ ॥
वैवस्वतेन पृष्टोथ चित्रगुप्तो विचित्रधीः ॥
सर्वदा सर्वजन्तूनां वेदिता सर्वकर्मणाम् ॥ ४९ ॥
जगाद यमुनाबन्धुं वाहीकस्य द्विजन्मनः ॥
जन्मकर्मदिनारभ्य दुर्वृत्तस्य शुभेतरम् ॥ 4.1.28.५० ॥
चित्रगुप्त उवाच ॥ ॥
गर्भाधानादिकं कर्म प्राक्कृतं नास्य केनचित् ॥
जातकर्मकृतं नास्य पित्राऽज्ञानवता हरे ॥ ५१ ॥
गर्भैनः शमने हेतुः समस्तायुः सुखप्रदम् ॥
एकादशेह्नि नामास्य न कृतं विधिपूर्वकम् ॥५२॥
ख्यातः स्याद्येन विधिना सर्वत्र विधिपावनम् ॥
नाकार्षीन्निर्गमं चास्य चतुर्थे मासि मन्दधीः ॥५३॥
जनकः शुभतिथ्यादौ विदेशगमनापहम् ॥
षष्ठेऽन्नप्राशनम्मासि न कृतं विधिपूर्वकम् ॥ ५४ ॥
सर्वदा मिष्टमश्नाति कर्मणा येन भास्करे ॥
न चूडाकरणं चास्य कृतमब्दे यथाकुलम् ॥ ५५ ॥
कर्मणा येन केशाः स्युः स्निग्धाः कुसुमवर्षिणः ॥
नाकारि कर्णवेधोस्य जनित्रा समये शुभे ॥ ५६ ॥
सुवर्णग्राहिणौ येन कर्णौ स्यातां च सुश्रुती ॥
मौञ्जीबन्धोप्यभूदस्य व्यतीतेब्देऽष्टमे हरे ॥
ब्रह्मचर्याभिवृद्ध्यै यो ब्रह्मग्रहणहेतुकः ॥ ५७ ॥
मौञ्जीमोक्षणवार्तापि कृता नास्य जनुःकृता ॥
गार्हस्थ्यं प्राप्यते यस्मात्कर्मणोऽनन्तरं वरम् ॥ ५८ ॥
यथाकथञ्चिदूढाऽथ पत्नी त्यक्तकुलाध्वगा ॥
वृषलीपतिना तेन परदारापहारिणा ॥५९॥
आरभ्य पञ्चमाद्वर्षात्परस्वस्यापहारकः ॥
अभूदेष दुराचारो दुरोदरपरायणः ॥ 4.1.28.६० ॥
रुमायाम्1 वसताऽनेन हतागौरेकवार्षिकी ॥ 1.लवणाकरे भूप्रदेशे
एकदा दृढदण्डेन लिहन्ती लवणं मृता ॥ ६१ ॥
जननीं पादपातेन बहुशोऽसावताडयत् ॥
कदाचिदपि नो वाक्यं पितुः कृतमनेन वै ॥ ६२ ॥
विषं भक्षितवानेष बहुशः कलहप्रियः ॥
जनोपतापशीलोसौ कृतोदरविदारणः ॥ ५३ ॥
धत्तूरकरवीरादि बहुधोपविषाणि च ॥
क्रीडाकलहमात्रेण भक्षयच्चैष दुर्मतिः ॥ ६४ ॥
दग्धोसावग्निना सौरे श्वभिश्च कवलीकृतः ॥
शृङ्गिभिः परितः प्रोतो विषाणाग्रैरसौ बहु ॥ ६५ ॥
दन्दशूकैर्भृशं दष्टो दुष्टः शिष्टैर्विगर्हितः ॥
काष्ठेष्टलोष्टैः पापिष्ठः कृतानिष्टः सदात्मनः ॥ ६६ ॥
आस्फालितं शिरोनेनासकृच्चापि दुरात्मना ॥
यदर्च्यते सदा सद्भिरुत्तमाङ्गमनेकधा ॥ ६७ ॥
असौ हि ब्राह्मणो मन्दो गायत्रीमपिवेदन ॥
कामतो मत्स्यमांसानि जग्धान्येतेन दुर्धिया ॥ ६८ ॥
आत्मार्थं पायसमसौ पर्यपाक्षीदनेकधा ॥
लाक्षालवणमांसानां सपयोदधिसर्पिषाम् ॥६९॥
विषलोहायुधानां च दासीगोवाजिनामपि ॥
विक्रेताऽसौ सदा मूढस्तथा वै केशचर्मणाम् ॥ 4.1.28.७० ॥
शूद्रान्न परिपुष्टाङ्गः पर्वण्यहनि मैथुनी ॥
पराङ्मुखो दैवपित्र्यकर्मण्येष दुरात्मवान् ॥ ७१ ॥
पक्षिणो घातितानेन मृगाश्चापि परः शतम् ॥
अकारण द्रुमच्छेदी सदा निर्दयमानसः ॥ ७२ ॥
उद्वेगजनको नित्यं निजबन्धुजनेष्वपि ॥
असत्यवादी सततं सदा हिंसापरायणः ॥ ७२ ॥
अदत्तदानः पिशुनः शिश्नोदरपरायणः ॥
किं बहूक्तेन रविज साक्षात्पातक मूर्तिमान् ॥ ७४ ॥
रौरवेप्यन्धतामिस्रे कुम्भीपाकेऽतिरौरवे ॥
कालसूत्रे कृमिभुजि पूयशोणितकर्दमे ॥ ७५ ॥
असिपत्रवने घोरे यन्त्रपीडे सुदंष्ट्रके ॥
अधोमुखे पूतिगन्धे विष्ठागर्त्तेष्वभोजने ॥७६॥
सूचीभेद्येऽथ सन्दंशे लालापे क्षुरधारके ॥
प्रत्येकं नरके त्वेष पात्यतां कल्पसङ्ख्यया ॥ ७७ ॥
धर्मराजः समाकर्ण्य चित्रगुप्तमुखादिति ॥
निर्भर्त्स्य तं दुराचारं किङ्करानादिदेश ह ॥ ७८ ॥
भ्रू सञ्ज्ञया हृतैर्नीतः स बद्ध्वा निरयालयम् ॥
आक्रन्दरावो यत्रोच्चैः पापिनां रोमहर्षणः ॥ ७९ ॥
॥ ईश्वर उवाच ॥ ॥
यातनास्वतितीव्रासु वाहीके संस्थिते तदा ॥
तत्कालपुण्यफलदे गाङ्गेयाम्भसि निर्मले ॥ 4.1.28.८० ॥
पतितं तद्धि गृध्रास्याद्वाहीकस्य द्विजन्मनः ॥
हरे विमानं तत्कालमापन्नं सुरसद्मतः ॥ ८१ ॥
घण्टावलम्बितं दिव्यं दिव्यस्त्रीशतसङ्कुलम् ॥
आरुह्य देवयानं स दिव्यवेषधरो द्विजः ॥ ८२ ॥
वीज्यमानोऽप्सरोवृन्दैर्दिव्यगन्धानुलेपनः ॥
जगाम स्वर्गभुवनं गङ्गास्थिपतनाद्धरे ॥ ८३ ॥
स्कन्द उवाच ॥ ॥
वस्तुशक्तिविचारोयमद्भुतः कोपि कुम्भज ॥
द्रवरूपेण काप्येषा शक्तिः सादाशिवी परा ॥ ८४ ॥
करुणामृतपूर्णेन देवदेवेन शम्भुना ॥
एषा प्रवर्तिता गङ्गा जगदुद्धरणाय वै ॥ ८५ ॥
यथान्याः सरितो लोके वारिपूर्णाः सहस्रशः ॥
तथैषानानुमन्तव्या सद्भिस्त्रिपथगामिनी॥८६॥
श्रुत्यक्षराणि निश्चित्य कारुण्याच्छम्भुना मुने ॥
निर्मिता तद्द्रवैरेषा गङ्गा गङ्गाधरेण वै ॥ ८७ ॥
योगोपनिषदामेतं सारमाकृष्य शङ्करः ॥
कृपया सर्वजन्तूनां चकार सरितां वराम् ॥ ८८ ॥
अकलानिधयो रात्र्यो विपुष्पाश्चैव पादपाः ॥
यथा तथैव ते देशा यत्र नास्त्यमरापगा ॥ ८९ ॥
अनयाः सम्पदो यद्वन्मखा यद्वददक्षिणाः ॥
तद्वद्देशा दिशः सर्वा हीना गङ्गाम्भसा हरे ॥ 4.1.28.९० ॥
व्योमाङ्गणमनर्कं च नक्तेऽदीपं यथा गृहम ॥
अवेदा ब्राह्मणा यद्वद्गङ्गाहीनास्तथा दिशः ॥ ९१ ॥
चान्द्रायणसहस्रं तु यः कुर्याद्देहशोधनम् ॥
गङ्गामृतं पिबेद्यस्तु तयोर्गङ्गाबुपोऽधिकः ॥ ९२ ॥
पादेनैकेन यस्तिष्ठेत्सहस्रं शरदां शतम् ॥
अब्दं गङ्गाम्बुपो यस्तु तयोर्गङ्गाम्बुपोऽधिकः ॥ ९३ ॥
अवाक्छिराः प्रलम्बेद्यः शतसंवत्सरान्नरः ॥
भीष्मसूवालुकातल्पशयस्तस्माद्वरो हरे ॥ ९४ ॥
पापतापाभितप्तानां भूतानामिह जाह्ववी ॥
पापतापहरा यद्वद्गङ्गा नान्यत्तथा कलौ ॥ ९५ ॥
तार्क्ष्यवीक्षणमात्रेण फणिनौ निर्विषा यथा ॥
निष्प्रभाणि तथेनांसि भागीरथ्यवलोकनात् ॥ ९६ ॥
गङ्गातटोद्भवां मृत्स्नां यो मौलौ बिभृयान्नरः ॥
बिभर्ति सोऽर्कबिम्बं वै तमोनाशाय निश्चितम् ॥ ९७ ॥
व्यसनैरभिभूतस्य धनहीनस्य पापिनः ॥
गङ्गैव केवलं तस्य गतिरुक्ता न चान्यथा ॥ ९८ ॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता ॥
पुंसां वंशद्वयं गङ्गा तारयेन्नात्र संशयः ॥ ९९ ॥
कीर्तनाद्दर्शनात्स्पर्शाद्गङ्गापानावगाहनात् ॥
दशोत्तरगुणा ज्ञेया पुण्यापुण्यर्द्धिनाशयोः ॥ 4.1.28.१०० ॥
न सुतैर्न च वा वित्तैर्नान्येनापि सुकर्मणा ॥
तत्फलं प्राप्यते मर्त्ये गङ्गामाप्य यदाप्यते ॥ १ ॥
जात्यन्धाः पङ्गवस्ते वै जीवन्तोप्यथ ते मृताः ॥
समर्था अपि ये गङ्गां न स्नायुर्मोक्षगर्भिणीम् ॥ २ ॥
श्रुतिं निशामय हरे गङ्गामाहात्म्यभाषिणीम् ॥
विनिश्चितार्थां यां श्रुत्वा श्रयेद्गङ्गां नरोत्तमः ॥ ३ ॥
इरावतीं मधुमतीं पयस्विनीममृतरूपामूर्जस्वतीम् ॥
त्रिदिवप्रसूतां गङ्गां श्रितासस्त्रिदिवं व्रजन्ति ॥ ४ ॥
ऋषिजुष्टां विष्णुपदीं पुराणां सुपुण्यधारां मनसा हि लोके ॥
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं सम्प्रयान्ति ॥५॥
लोकानिमान्नयति या जननीव पुत्रान्स्वर्गं सदा सर्वगुणोपपन्ना ॥
स्थानमिष्टं ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥६॥
उस्रैर्जुष्टामिषतीं विश्वरूपामिरावतीं जनयित्रीं गुहस्य ॥
शिष्टैः सेव्याममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मविशुद्धिकामः ॥ ७ ॥
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥
विधूतपापो भवति वाजपेयं च विन्दति ॥ ८ ॥
अशुभैः कर्मभिर्ग्रस्तान्मज्जमानान्महार्णवे ॥
पततो निरये गङ्गा संश्रितानुद्धरेत्सदा ॥ ९ ॥
ब्रह्मलोकस्तु लोकानां सर्वेषामुत्तमो यथा ॥
सरितां सरसां वापि वरिष्ठा जाह्नवी तथा ॥ 4.1.28.११० ॥
अन्यत्र सम्यक्सङ्कल्प्य तपः कृत्वा समा त्रयम् ॥
यत्फलं तद्भवेद्भक्त्या गङ्गायां घटिकाऽर्धतः ॥ ११ ॥
स्वर्गस्थस्य न सा प्रीतिर्भुञ्जतः सुखमक्षयम् ॥
या स्याद्गङ्गातटे पुंसां रात्रौ चन्द्रोदये सति ॥ १२ ॥
जरारोगाभिपन्नं तु कुणपं जाह्नवी जले॥
धैर्येण तृणवत्त्यक्त्वा प्रविशेदमरावतीम्॥ १३॥
वार्योघैः सततं यस्याः प्लाव्यते शशिमण्डलम्॥
भूयोधिकतरां शोभां बिभर्ति तदहः क्षये॥ १४ ॥
आहुतस्य जले यस्याः सद्यो नश्यन्ति पातकम् ॥
महतः श्रेयसः प्राप्तिस्तत्क्षणादेव जायते ॥१५॥
पितृभ्यः श्रद्धया यत्र दत्तास्त्वापः स्ववंशजैः॥
प्रयच्छन्ति परां तृप्तिं शरदां त्रयमच्युत॥ १६॥
तारयेत्क्षितियान्मर्त्यानधःस्थांश्च सरीसृपान्॥
स्वर्गे स्वर्गसदो विष्णोर्गं(?)गा त्रिपथगा ततः॥ १७॥
तीर्थानामुत्तमं तीर्थं सरितामुत्तमा सरित् ॥
स्वर्गदा सर्वजन्तूनां महापातकिनामपि ॥ १८ ॥
अध्युष्टाः कोटयो विष्णो सन्ति तीर्थानि सर्वतः ॥
दिवि भुव्यन्तरिक्षे च जाह्नव्यां तानि कृत्स्नशः ॥ १९ ॥
ज्ञात्वाज्ञात्वा च गङ्गायां यः पञ्चत्वमवाप्नुयात् ॥
अनात्मघाती स्वर्गी स्यान्नरकान्स न पश्यति ॥ 4.1.28.१२० ॥
गङ्गैव सर्वतीर्थानि गङ्गैव च तपोवनम् ॥
गङ्गैव सिद्धिक्षेत्रं हि नात्र कार्या विचारणा ॥ २१ ॥
यत्र कामफला वृक्षा मही यत्र हिरण्मयी ॥
जाह्नवी स्नायिनस्तत्र निवसन्ति घटोद्भव ॥ २२ ॥
धेनुं भागीरथी तीरे सुशीलां च पयस्विनीम् ॥
वासोरत्नैरलङ्कृत्वा ब्राह्मणाय ददाति यः ॥ २३ ॥
यावन्ति तस्या लोमानि मुने तत्सन्ततेरपि ॥
तावद्वर्षसहस्राणि स स्वर्गसुखभुग्भवेत् ॥ १२४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे गङ्गामहिमानामाष्टाविंशतितमोऽध्याय ॥२८॥