स्कन्द उवाच ॥
वाराणसीति प्रथितं यथा चानन्दकाननम् ॥
तथा च कथयामीह देवदेवेनभाषितम् ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
निशामय महाबाहो विष्णो त्रैलोक्यसुन्दर ॥
प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा ॥ २ ॥
निर्दग्धान्सागराञ्छ्रुत्वा कपिलक्रोधवह्निना ॥
अश्वमेधाश्वसंयुक्तान्पूर्वजान्स्वान्भगीरथः ॥ ३ ॥
सूर्यवंशे महातेजा राजा परमधार्मिकः ॥
आरिराधयिषुर्गङ्गां तपसे कृतनिश्चयः ॥४॥
हिमवन्तं नगश्रेष्ठममात्य न्यस्तराज्यधूः ॥
जगाम यशसां राशिरुद्दिधीर्षुः पितामहान् ॥ ५ ॥
ब्रह्मशापाग्निनिर्दग्धान्महादुर्गतिगानपि ॥
विना त्रिमार्गगां विष्णो को जन्तूंस्त्रिदिवं नयेत् ॥ ६ ॥
ममैव सा परामूर्तिस्तोयरूपा शिवात्मिका ॥
ब्रह्माण्डानामनेकानामाधारः प्रकृतिः परा ॥ ७ ॥
शुद्धविद्यास्वरूपा च त्रिशक्तिः करुणात्मिका ॥
आनन्दामृतरूपा च शुद्धधर्मस्वरूपिणी ॥ ८ ॥
यामेतां जगतां धात्रीं धारयामि स्वलीलया ॥
विश्वस्य रक्षणार्थाय परब्रह्मस्वरूपिणीम् ॥ ९ ॥
त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च ॥
सर्वत्र सर्वे ये धर्माः सर्वयज्ञाः सदक्षिणाः ॥ 4.1.27.१० ॥
तपांसि विष्णो सर्वाणि श्रुतिः साङ्गा चतुर्विधा ॥
अहं च त्वं च कश्चापि देवतानां गणाश्च ये ॥ ॥ ११ ॥
पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः ॥
गङ्गायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः ॥ १२ ॥
स स्नातः सर्वतीर्थेषु सर्वक्रतुषु दीक्षितः ॥
चीर्णसर्वव्रतः सोपि यस्तु गङ्गां निषेवते ॥ १३ ॥
तपांसि तेन तप्तानि सर्वदानप्रदः स च ॥
स प्राप्त योगनियमो यस्तु गङ्गां निषेवते ॥१४॥
सर्ववर्णाश्रमेभ्यश्च वेदविद्भ्यश्च वै तथा ॥
शास्त्रार्थपारगेभ्यश्च गङ्गास्नायी विशिष्यते ॥ १५ ॥
मनोवाक्कायजैर्दोषैर्दुष्टो बहुविधैरपि ॥
वीक्ष्य गङ्गां भवेत्पूतः पुरुषो नात्र संशयः ॥१६॥
कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम् ॥
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम् ॥ १७ ॥
पूर्वजन्मान्तराभ्यास वासनावशतो हरे ॥
गङ्गातीरे निवासः स्यान्मदनुग्रहतः परात् ॥ १८ ॥
ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः ॥
द्वापरे तद्द्वयं यज्ञाः कलौ गङ्गैव केवलम् ॥ १९ ॥
यो देहपतनाद्यावद्गङ्गातीरं न मुञ्चति ॥
स हि वेदान्तविद्योगी ब्रह्मचर्यव्रती सदा ॥ 4.1.27.२० ॥
कलौ कलुषचित्तानां परद्रव्यरतात्मनाम् ॥
विधिहीनक्रियाणां च गतिर्गङ्गा विना नहि ॥ २१ ॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिन्तितम् ॥
गङ्गागङ्गेति जपनात्तानि नोपविशन्ति हि ॥ २२ ॥
गङ्गा हि सर्वभूतानामिहामुत्र फलप्रदा ॥
भावानुरूपतो विष्णो सदा सर्वजगद्धिता ॥ २३ ॥
यज्ञ दान तपो योग जपाः सनियमा यमाः ॥
गङ्गासेवासहस्रांशं न लभन्ते कलौ हरे ॥ २४ ॥
किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः ॥
वास एव हि गङ्गायां ब्रह्मज्ञानस्य कारणम् ॥ २५ ॥
अपि दूरस्थितस्यापि गङ्गामाहात्म्यवेदिनः ॥
अयोग्यस्यापि गोविन्दभक्त्या गङ्गा प्रसीदति ॥ २६ ॥
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ॥
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति ॥ २७ ॥
अज्ञानरागलोभाद्यैः पुंसां सम्मूढचेतसाम् ॥
श्रद्धा न जायते धर्मे गङ्गायां च विशेषतः ॥ २८ ॥
बहिः स्थितं जलंयद्वन्नारिकेलान्तरे स्थितम् ॥
तथा ब्रह्माण्डबाह्यस्थं परब्रह्माम्बु जाह्नवी ॥ २९ ॥
गङ्गालाभात्परो लाभः क्वचिदन्यो न विद्यते ॥
तस्माद्गङ्गामुपासीत गङ्गैव परमः पुमान् ॥4.1.27.३०॥
शक्तस्य पण्डितस्यापि गुणिनो दानशीलिनः ॥
गङ्गास्नानविहीनस्य हरे जन्म निरर्थकम् ॥ ३१ ॥
वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः ॥
वृथा दानानि तस्येह कलौ गङ्गां न यो भजेत् ॥ ३२ ॥
गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ॥
यथा गङ्गाजलस्नान पूजने विधिना फलम् ॥ ३३ ॥
ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता ॥
दाहिका सर्वदोषाणां सर्वपापविनाशिनी ॥ ३४ ॥
स्मरणादेव गङ्गायाः पापसङ्घातपञ्जरम् ॥
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ३५ ॥
गङ्गां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत् ॥
तयोस्तुल्यफलं प्राहुर्भक्तिरेवात्र कारणम्॥ ॥ ३६ ॥
गच्छंस्तिष्ठञ्जपन्ध्यान्भुञ्जञ्जाग्रत्स्वपन्वदन् ॥
यः स्मरेत्सततं गङ्गां स हि मुच्येत बन्धनात् ॥ ३७ ॥
पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम् ॥
गुडसर्पिस्तिलैःसार्धं गङ्गाम्भसि विनिक्षिपेत् ॥ ३८ ॥
तृप्ता भवन्ति पितरस्तस्य वर्षशतं हरे ॥
यच्छन्ति विविधान्कामान्परितुष्टाः पितामहाः ॥ ॥ ३९ ॥
लिङ्गे सम्पूजिते सर्वमर्चितं स्याज्जगद्यथा ॥
गङ्गास्नानेन लभते सर्वतीर्थफलं तथा ॥ 4.1.27.४० ॥
गङ्गायां तु नरः स्नात्वा यो लिङ्गं नित्यमर्चति ॥
एकेन जन्मना मुक्तिं परां प्राप्नोति स ध्रुवम् ॥ ४१ ॥
अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च ॥
गङ्गायां लिङ्गपूजायाः कोट्यंशेनापि नो समाः ॥ ४२ ॥
गङ्गां गन्तुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे ॥
स्थितस्य सम्यक्सङ्कल्पात्तस्य नन्दन्ति पूर्वजाः ॥ ४३ ॥
पापानि च रुदन्त्याशु हा क्व यास्याम इत्यलम् ॥
लोभमोहादिभिः सार्धं मन्त्रयन्ति पुनःपुनः ॥ ४४ ॥
यथा न गङ्गां यात्येष तथा विघ्नं प्रकुर्महे ॥
गङ्गां गतो यथा चैष न उच्छित्तिं विधास्यति ॥ ४५ ॥
गृहाद्गङ्गावगाहार्थं गच्छतस्तु पदेपदे ॥
निराशानि व्रजन्त्येव पापान्यस्य शरीरतः ॥ ४६॥
पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे ॥
व्युदस्य सर्वविघ्नौघान्गङ्गां प्राप्नोति पुण्यवान् ॥ ४७ ॥
अनुषङ्गेण मौल्येन वाणिज्येनापि सेवया ॥
कामासक्तोपि वा मर्त्यो गङ्गास्नातो दिवं व्रजेत् ॥ ४८ ॥
अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत् ॥
अनिच्छयापि संस्नाता गङ्गा पापं तथा दहेत् ॥ ४९ ॥
तावद्धमति संसारे यावद्गङ्गां न सेवते ॥
संसेव्य गङ्गां नो जन्तुर्भवक्लेशं प्रपश्यति ॥ 4.1.27.५० ॥
यो गङ्गाम्भसि निस्नातो भक्त्या सन्त्यक्तसंशयः ॥
मनुष्यचर्मणा नद्धः स देवो नात्र संशयः ॥ ५१ ॥
गङ्गास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि ॥
गङ्गास्नानफलं सोपि तदाप्नोति न संशयः ॥ ५२ ॥
माहात्म्यं ये च गङ्गायाः शृण्वन्ति च पठन्ति च ॥
तेप्यशेषैर्महापापैर्मुच्यन्ते नात्र संशयः ॥ ५३ ॥
दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः ॥
पश्यन्ति मोहिता विष्णो गङ्गामन्य नदीमिव ॥ ५४ ॥
जन्मान्तरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः ॥
इह जन्मनि गङ्गायां नृणां भक्तिः प्रजायते ॥ ५५ ॥
गङ्गाभक्तिमतामर्थे महेन्द्रादि पुरेषु च ॥
हर्म्याणि रम्यभोगानि निर्मितानि स्वयम्भुवा ॥ ५६ ॥
सिद्धयः सिद्धिलिङ्गानि स्पर्शलिङ्गान्यनेकशः ॥
प्रासादा रत्नरचिताश्चिन्तामणिगणा अपि ॥ ५७ ॥
गङ्गाजलान्तस्तिष्ठन्ति कलिकल्मषभीतितः ॥
अतएव हि संसेव्या कलौ गङ्गेष्टसिद्धिदा ॥ ५८ ॥
सूर्योदये तमांसीव वज्रपातभयान्नगाः ॥
तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव ॥ ५९ ॥
तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ॥
तथा सर्वाणि पापानि यान्ति गङ्गेक्षणात्क्षयम् ॥ 4.1.27.६० ॥
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ॥
यथा ग्रीष्मोष्मसम्पत्तिरगाधह्रद मज्जनात् ॥ ६१ ॥
तूलशैलः स्फुलिङ्गेन यथा नश्यति तत्क्षणात् ॥
तथा दोषाः प्रणश्यन्ति गङ्गाम्भः स्पर्शनाद्ध्रुवम् ॥ ६२ ॥
क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ॥
अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ॥ ६३ ॥
दम्भ कौटिल्य मायाभिर्यथाधर्मो विनश्यति ॥
तथा नश्यन्ति पापानि गङ्गाया दर्शनेन तु ॥ ६४ ॥
मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥
गङ्गां यः सेवते सोत्र बुद्धेः पारं परं गतः ॥ ६५ ॥
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ॥
सहस्रसूर्यप्रतिमां गङ्गां पश्यन्ति ते भुवि ॥ ६६ ॥
साधारणाम्भसा पूर्णां साधारण नदीमिव॥
पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः ॥ ६७ ॥
संसारमोचकश्चाहं जनानामनुकम्पया ॥
गङ्गातरङ्गरूपेण सोपानं निर्ममे दिवः ॥ ६८ ॥
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ॥
सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे ॥ ६९ ॥
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ॥
व्रतानां च यथा सत्यं दानानामभयं यथा ॥ 4.1.27.७० ॥
प्राणायामश्च तपसां मन्त्राणां प्रणवो यथा ॥
धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ॥ ७१ ॥
यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ॥
सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम ॥। ७२ ॥
सर्वषामेव पात्राणां शिवभक्तो यथा वरः ॥
तथा सर्वेषु तीर्थेषु गङ्गातीर्थं विशिष्यते ॥ ७३ ॥
हरेयश्चावयोर्भेदं न करोति महामतिः ॥
शिवभक्तः स विज्ञेयो महापाशुपतश्च सः ॥ ७४ ॥
पापपांसुमहावात्या पापद्रुमकुठारिका ॥
पापेन्धनदवाग्निश्च गङ्गेयं पुण्यवाहिनी ॥ ७५ ॥
नानारूपाश्च पितरो गाथा गायन्ति सर्वदा ॥
अपि कश्चित्कुलेस्माकं गङ्गास्नायी भविष्यति ॥ ७६ ॥
देवर्षीन्परिसन्तर्प्य दीनानाथांश्च दुःखितान् ॥
श्रद्धया विधिना स्नात्वा दास्यते सलिलाञ्जलिम् ॥ ७७ ॥
अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ॥
तदालयकरो भक्त्या तस्य सम्मार्जनादिकृत् ॥ ७८ ॥
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥
गङ्गायां यो मृतो मर्त्यो नरकं स न पश्यति ॥७९॥
तीर्थमन्यत्प्रशंसन्ति गङ्गातीरे स्थिताश्च ये ॥
गङ्गां न बहु मन्यन्ते ते स्युर्निरयगामिनः ॥4.1.27.८०॥
मां च त्वां चैव यो द्वेष्टि गङ्गां च पुरुषाधमः॥
स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत् ॥ ८१ ॥
षष्टिर्गणसहस्राणि गङ्गां रक्षन्ति सर्वदा ॥
अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते ॥ ८२ ॥
कामक्रोधमहामोहलोभादि निशितैः शरैः ॥
घ्नन्ति तेषां मनस्तत्र स्थितिं चापनयन्ति च ॥ ८३ ॥
गङ्गां समाश्रयेद्यस्तु स मुनिः स च पण्डितः ॥
कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये ॥ ८४ ॥
गङ्गायां च सकृत्स्नातो हयमेधफलं लभेत् ॥
तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् ॥ ८५ ॥
नैरन्तर्येण गङ्गायां मासं यः स्नाति पुण्यवान् ॥
शक्रलोके स वसति यावच्छक्रः सपूर्वजः ॥ ८६ ॥
अब्दं यः स्नाति गङ्गायां नैरन्तर्येण पुण्यभाक् ॥
विष्णोर्लोकं समासाद्य स सुखं संवसेन्नरः ॥ ८७ ॥
गङ्गायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने ॥
जीवन्मुक्तः स विज्ञेयो देहान्ते मुक्त एव सः ॥ ॥८८ ॥
तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले ॥
स्नानमात्रेण गङ्गायां सञ्चिताघं विनश्यति ॥ ८९ ॥
पण्डितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः ॥
यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत् ॥ 4.1.27.९० ॥
किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया ॥
किं वा बुद्ध्या विमलया यदि गङ्गां न सेवते ॥ ९१ ॥
यः कारयेदायतनं गङ्गाप्रतिकृतेर्नरः ॥
भुक्त्वा स भोगान्प्रेत्यापि याति गङ्गा सलोकताम् ॥ ९२॥
शृण्वन्ति महिमानं ये गङ्गाया नित्यमादरात् ॥
गङ्गास्नानफलं तेषां वाचकप्रीणनाद्धनैः ॥९३॥
पितॄनुद्दिश्य यो लिङ्गं स्नपयेद्गाङ्ग वारिणा ॥
तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि ॥ ९४ ॥
अष्टकृत्वो मन्त्रजप्तैर्वस्त्रपूतैः सुगन्धिभिः ॥
प्रोचुर्गाङ्गजलैः स्नानं घृतस्नानाधिकं बुधाः ॥ ९५ ॥
अष्टद्रव्यविमिश्रेण गङ्गातोयेन यः सकृत् ॥
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ॥ ९६ ॥
भानवेऽर्घं प्रदद्याच्च स्वकीय पितृभिः सह ॥
सोतितेजो विमानेन सूर्यलोके महीयते ॥ ९७ ॥
आपः क्षीरं कुशाग्राणि घृतं मधुगवान्दधि ॥
रक्तानि करवीराणि रक्तचन्दनमित्यपि ॥ ९८ ॥
अष्टाङ्गार्घो यमुद्दिष्टस्त्वतीव रवितोषणः ॥
गाङ्गैर्वार्भिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः ॥ ९९ ॥
गङ्गातीरे स्वशक्त्या यः कुर्याद्देवालयं सुधीः ॥
अन्यतीर्थप्रतिष्ठातो भवेत्कोटिगुणं फलं ॥ 4.1.27.१०० ॥
अश्वत्थवटचूतादि वृक्षारोपेण यत्फलम् ॥
कूपवापीतडागादि प्रपा सत्रादिभिस्तथा ॥ १ ॥
अन्यत्र यद्भवेत्पुण्यं तद्गङ्गादर्शनाद्भवेत् ॥
पुष्पवाट्यादिभिश्चापि गङ्गास्पर्शं ततोऽधिकम् ॥२॥
कन्यादानेन यत्पुण्यं यत्पुण्यं गोऽन्नदानतः ॥
तत्पुण्यं स्याच्छतगुणं गङ्गागण्डूषपानतः ॥ ३ ॥
चान्द्रायणसहस्रेण यत्पुण्यं स्याज्जनार्दन ॥
ततोऽधिकफलं गङ्गाऽमृतपानादवाप्नुयात् ॥ ४ ॥
भक्त्या गङ्गावगाहस्य किमन्यत्फलमुच्यते ॥
अक्षयः स्वर्गवासोपि निर्वाणमथवा हरे ॥ ५ ॥
गङ्गायाः पादुकायुग्मं नित्यमर्चति यो नरः ॥
आयुः पुण्यं धनं पुत्रान्स्वर्गमोक्षौ च विन्दति ॥ ६ ॥
नास्ति गङ्गासमं तीर्थं कलिकल्मषनाशनम् ॥
नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे ॥ ७ ॥
गङ्गास्नानरतं मर्त्यं दृष्ट्वैव यमकिकराः ॥
दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ॥ ८ ॥
गङ्गाभजनशीलस्य गङ्गातटनिवासिनः ॥
अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् ॥ ९ ॥
गोभूहिरण्यदानेन भक्त्या गङ्गातटे शुभे ॥
नरो न जायते भूयः संसारे दुःखकण्टके ॥4.1.27.११० ॥
दीर्घायुष्यं च वासोभिर्ज्ञानं पुस्तकदानतः ॥
अन्नदानेन सम्पत्तिं कीर्तिं कन्याप्रदानतः ॥ ११ ॥
अन्यत्र यत्कृतं कर्म व्रतं दानं जपस्तपः ॥
गङ्गातटे तु तत्सर्वं हरे कोटिगुणं भवेत् ॥ १२ ॥
धेनुं सवत्सा यो दद्याद् गङ्गातीरे विधानतः ॥
गोरोमसङ्ख्यया विष्णो युगान्सर्वसमृद्धिमान् ॥ १३ ॥
गोलोके मम लोके वा कामधेनुप्रदानतः ॥
भुञ्जानः सर्वकामांस्तु दिव्यान्नानाविधान्बहून् ॥ १४ ॥
देवानामप्यलभ्यांश्च भुक्त्वा तु सह बान्धवैः ॥
पितृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः ॥ १५ ॥
जायते सत्कुले पश्चाद्धनधान्यसमाकुले ॥
रत्नकाञ्चनसम्पन्ने शीलविद्यासमन्विते ॥ १६ ॥
भुक्त्वा स विपुलान्भोगान्पुत्रपौत्रसमन्वितः ॥
पुनर्गङ्गां समासाद्य काश्यामुत्तरवाहिनीम् ॥ १७ ॥
विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् ॥
कालाद्देहान्तमासाद्य ब्रह्म सम्पद्यते ततः ॥ १८ ॥
विवर्तनद्वयमपि भूमेर्भागीरथीतटे ॥
नरो ददाति यो भक्त्या तस्य पुण्यफलं शृणु ॥ १९ ॥
तद्भूमित्रसरेणूनां सङ्ख्यया युगमानया ॥
महेन्द्र चन्द्रलोकेषु भुक्त्वा भोगान्मनःप्रियान् ॥ 4.1.27.१२० ॥
सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः ॥
नरकस्थान्पितॄन्सर्वान्प्रापयेत्त्रिदिवं हरे ॥२१॥
स्वर्गस्थांश्च पितॄन्सर्वान्मोचयित्वा महाद्युतिः ॥
अन्ते ज्ञानासिना छित्त्वा ह्यविद्यां पाञ्चभौतिकीम् ॥ २२ ॥
परवैंराग्यमापन्नो युञ्जानो योगमुत्तमम् ॥
प्राप्याथवा विमुक्तं च परं ब्रह्माधिगच्छति ॥ ॥ २३ ॥
सुवर्णमात्रमपि यः सुवर्णं सम्प्रयच्छति ॥
सुवर्णाय सुवर्णं च हरे भागीरथीतटे ॥ २४ ॥
स हेमरत्नखचिते विमाने सर्वगे शुभे ॥
सर्वैश्वर्यसमायुक्तः सर्वलोकेषु पूजितः ॥ २५ ॥
ब्रह्माण्डान्तरसंस्थेषु भुञ्जन्भोगान्मनोरमान् ॥
सर्वैः सम्पूजितो विष्णो यावदाभूतसम्प्लवम् ॥ २०५ ॥
एकराट्च ततो भूत्वा जम्बूद्वीपे प्रतापवान् ॥
ततोऽविमुक्तमासाद्य पदं निर्वाणमृच्छति ॥ २७ ॥
जन्मर्क्षे तु कृते स्नाने गङ्गायां भक्तिपूर्वकम् ॥
जन्मप्रभृतिपापौघात्सञ्चितान्मुच्यते क्षणात् ॥ २८ ॥
वैशाखे कार्तिके माघे गङ्गास्नानं सुदुर्लभम् ॥
दर्शे शतगुणं पुण्यं सङ्क्रातौ च सहस्रकम् ॥२९॥
चन्द्रसूर्यग्रहे लक्षं व्यतीपातेत्वनन्तकम् ॥
अयुतं विषुवे चैव नियुतं त्वयनद्वये ॥ 4.1.27.१३० ॥
सोमग्रहः सोमदिने रविवाररवग्रहः ॥
तच्चूडामणिपर्वाख्यं तत्रस्नानमसङ्ख्यकम् ॥ ३१ ॥
स्नानं दानं जपो होमो यद्यच्चूडामणौ कृतम् ॥
तदक्षयं सर्वमिह विष्णो भागीरथीतटे ॥ ३२ ॥
श्रद्धया भक्तियुक्तस्तु गङ्गां स्नात्वा विधानतः ॥
ब्रह्महापि विशुद्ध्येत किम्पुनस्त्वन्य पातकी ॥ ३३ ॥
कृमिकीटपतङ्गाद्या ये मृता जाह्नवीतटे ॥
कूलात्पतन्ति ये वृक्षास्तेपि यान्ति परां गतिम् ॥ ३४ ॥
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥
गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः ॥. ३५ ॥
निशायां जागरं कुयाद्गङ्गां दशविधैर्हरे ॥
पुष्पैः सुगन्धैर्नैवेद्यैः फलैर्दशदशोन्मितैः ॥३६॥
प्रदीपैर्दशभिर्धूपैर्दशाङ्गैर्गरुडध्वज ॥
पूजयेच्छ्रद्धया धीमान्दशकृत्वो विधानतः ॥ ३७ ॥
साज्यांस्तिलान्क्षिपेत्तोये गङ्गायाः प्रसृतीर्दश ॥
गुडसक्तुमयान्पिण्डान्दद्याच्च दशमन्त्रतः ॥ ३८ ॥
नमः शिवायै प्रथमं नारायण्यै पदं ततः ॥
दशहरायै पदमिति गङ्गायै मन्त्र एष वै ॥ ३९ ॥
स्वाहान्तः प्रणावादिश्च भवेद्विंशाक्षरो मनुः ॥
पूजादानं जपो होमो ऽनेनैव मनुना स्मृतः ॥ 4.1.27.१४० ॥
हेम्ना रूप्येण वा शक्त्या गङ्गामूर्तिं विधाय च ॥
वस्त्राच्छादितवक्त्रस्य पूर्णकुम्भस्य चोपरि ॥ ४१ ॥
प्रतिष्ठाप्यार्चयेद्देवीं पञ्चामृतविशोधिताम् ॥
चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ॥ ४२ ॥
लावण्यामृतनिष्पन्द संशीलद्गात्रयष्टिकाम् ॥
पूर्णकुम्भसिताम्भोज वरदाभयसत्कराम् ॥ ४३ ॥
ततो ध्यायेत्सुसौम्या च चन्द्रायुतसमप्रभाम् ॥
चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम ॥ ४४ ॥
सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् ॥
त्रैलौक्यपूजितपदां देवर्षिभिरभिष्टुताम् ॥ ४५ ॥
ध्यात्वा समर्च्य मन्त्रेण धूपदीपोपहारतः ॥
मां च त्वां च विधिं ब्रध्नं हिमवन्तं भगीरथम् ॥ ४६ ॥
प्रतिमाग्रे समभ्यर्च्य चन्दनाक्षतनिर्मितान् ॥
दशप्रस्थतिलान्दद्याद्दशविप्रेभ्य आदरात् ॥ ४७ ॥
पलं च कुडवः प्रस्थ आढको द्रोण एव च ॥
धान्यमानेन बोद्धव्याः क्रमशोमी चतुर्गुणाः ॥ ४८ ॥
मत्स्य कच्छप मण्डूक मकरादि जलेचरान् ॥
हंसकारण्डव बक चक्रटिट्टिभसारसान् ॥ ४९ ॥
यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् ॥
अभ्यर्च्य गन्धकुसुमैर्गङ्गायां प्रक्षिपेद्व्रती ॥ 4.1.27.१५० ॥
एवं कृत्वा विधानेन वित्तशाठ्यं विवर्जितः ॥
उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते ॥ ५१ ॥
अदत्तानामुपादानं हिंसाचैवाविधानतः ॥
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ ५२ ॥
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ॥
असम्बद्ध प्रलापश्च वाङ्मयंस्याच्चतुर्विधम् ॥ ५३ ॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ ॥ ५४ ॥
एतैर्दशविधैः पापैर्दशजन्मसमुद्भवैः ॥
मुच्यते नात्र सन्देहः सत्यं सत्यं गदाधर ॥ ५५ ॥
उत्तरेन्नरकात्पूर्वान्दशघोराद्दशावरान् ॥
वक्ष्यमाणमिदं स्तोत्रं गङ्गाग्रे श्रद्धया जपेत् ॥ ५६ ॥
ॐ नमः शिवायै गङ्गायै शिवदायै नमोनमः ॥
नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्त्यै नमोस्तु ते ॥ ५७ ॥
नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमोनमः ॥
सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ॥ ५८ ॥
सर्वस्यसर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ॥
स्थास्नुजङ्गमसम्भूत विषहन्त्र्यै नमोस्तु ते ॥ ५९ ॥
संसारविषनाशिन्यै जीवनायै नमोस्तु ते ॥
तापत्रितय संहन्त्र्यै प्राणेश्यै ते नमोनमः ॥ 4.1.27.१६० ॥
शान्ति सन्तानकारिण्यै नमस्ते शुद्धमूर्तये ॥
सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये ॥६१॥
भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमोनमः ॥
भोगोपभोगदायिन्यै भोगवत्यै नमोस्तु ते ॥ ६२ ॥
मन्दाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ॥
नमस्त्रैलोक्यभूषायै त्रिपथायै नमोनमः ॥ ६३ ॥
नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमोनमः ॥
त्रिहुताशनसंस्थायै तेजोवत्यै नमोनमः ॥ ६४ ॥
नन्दायै लिङ्गधारिण्यै सुधाधारात्मने नमः ॥
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ॥ ६५ ॥
बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमोस्तु ते ॥
नमस्ते विश्वमित्रायै नन्दिन्यै ते नमोनमः ॥ ६६ ॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ॥
परापरशताढ्यायै तारायै ते नमोनमः ॥ ६७ ॥
पाशजालनिकृन्तिन्यै अभिन्नायै नमोस्तु ते ॥
शान्तायै च वरिष्ठायै वरदायै नमोनमः ॥६८॥
उग्रायै सुखजग्ध्यै च सञ्जीविन्यै नमोस्तु ते ॥
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥ ६९ ॥
प्रणतार्ति प्रभञ्जिन्यै जगन्मात्रे नमोस्तुते ॥
सर्वापत्प्रतिपक्षायै मङ्गलायै नमोनमः ॥ 4.1.27.१७० ॥
शरणागतदीनार्त परित्राणपरायणे ॥
सर्वस्यार्ति हरे देवि नारायणि नमोस्तु ते ॥ ७१ ॥
निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः ॥
परापरपरायै च गङ्गे निर्वाणदायिनि ॥ ७२ ॥
गङ्गे ममाग्रतो भूया गङ्गे मे तिष्ठ पृष्ठतः ॥
गङ्गे मे पार्श्वयोरेधि गङ्गे त्वय्यस्तु मे स्थितिः ॥ ७३ ॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे ॥
त्वमेव मूलप्रकृतिस्त्वं पुमान्पर एव हि ॥
गङ्गे त्वं परमात्मा च शिवस्वतुभ्यं नमः शिवे ॥ ७४ ॥
य इदं पठते स्तोत्रं शृणुयाच्छ्रद्धयापि यः ॥
दशधा मुच्यते पापैः कायवाक्चित्तसम्भवैः ॥ ॥ ७५ ॥
रोगस्थो रोगतो मुच्येद्विपद्भ्यश्च विपद्युतः ॥
मुच्यते बन्धनाद्बद्धो भीतो भीतः प्रमुच्यते ॥ ७६ ॥
सर्वान्कामानवाप्नोति प्रेत्य च त्रिदिवं व्रजेत् ॥
दिव्यं विमानमारुह्य दिव्यस्त्रीपरिवीजितः ॥ ७७ ॥
गृहेपि लिखितं यस्य सदा तिष्ठति धारितम ॥
नाग्निचोरभयं तस्य न सर्पादि भयं क्वचित ॥ ७८ ॥
ज्येष्ठे मासे सिते पक्षे दशमी हस्तसंयुता ॥
संहरेत्त्रिविधं पापं बुधवारेण संयुता ॥ ७९ ॥
तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ॥
यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ 4.1.27.१८० ॥
सोपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः ॥
पूर्वोक्तेन विधानेन यत्फलं सम्प्रकीर्तितम ॥ ८१ ॥
यथा गौरी तथा गङ्गा तस्माद्गौर्यास्तु पूजने ॥
यो विधिर्विहितः सम्यक्सोपि गङ्गाप्रपूजने ॥ ८२ ॥
यथाऽहं त्वं तथा विष्णो यथा त्वं तु तथाह्युमा ॥
उमा यथा तथा गङ्गा चतूरूपं न भिद्यते ॥ ८३ ॥
विष्णुरुद्रां तरं चैव श्रीगौर्योरन्तरं तथा ॥
गङ्गागौर्यन्तरं चैव यो ब्रूते मूढधीस्तु सः ॥ ८४ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे गङ्गामहिमवर्णनपूर्वक दशहरा स्तोत्रकथनन्नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥