अगस्तिरुवाच ॥ ॥
प्रसन्नोसि यदि स्कन्द मयि प्रीतिरनुत्तमा ॥
तत्समाचक्ष्व भगवंश्चिरं यन्मे हृदिस्थितम् ॥ १ ॥
अविमुक्तमिदं क्षेत्रं कदारभ्य भुवस्तले ॥
परां प्रथितिमापन्नं मोक्षदं चाभवत्कथम् ॥ २ ॥
कथमेषा त्रिलोकीड्या गीयते मणिकर्णिका ॥
तत्रासीत्किं पुरास्वामिन्यदा नामरनिम्नगा ॥ ३ ॥
वाराणसीति काशीति रुद्रावास इति प्रभो ॥
अवाप नामधेयानि कथमेतानि सा पुरी ॥
आनन्दकाननं रम्यमविमुक्तमनन्तरम् ॥ ४ ॥
महाश्मशान इति च कथं ख्यातं शिखिध्वज ॥
एतदिच्छाम्यहं श्रोतुं सन्देहं मेऽपनोदय ॥ ५ ॥
॥ स्कन्द उवाच ॥
प्रश्नभारोयमतुलस्त्वया यः समुदाहृतः ॥
कुम्भयोनेऽमुमेवार्थमप्राक्षीदम्बिका हरम् ॥ ६ ॥
यथा च देवदेवेन सर्वज्ञेन निवेदितम् ॥
जगन्मातुः पुरस्ताच्च तथैव कथयामि ते ॥ ७ ॥
महाप्रलय काले च नष्टे स्थावरजङ्गमे ॥
आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ८ ॥
अचन्द्रमनहोरात्रमनग्न्यनिलभूतलम् ॥
अप्रधानं वियच्छून्यमन्यतेजोविवर्धितम् ॥ ९ ॥
द्रष्टृत्वादि विहीनं च शब्दस्पर्शसमुज्झितम् ॥
व्यपेतगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ 4.1.26.१० ॥
इत्थं सत्यन्धतमसि सूचीभेद्ये निरन्तरे ॥
तत्सद्ब्रह्मेति यच्छ्रुत्या सदैकं प्रतिपाद्यते ॥ ११ ॥
अमनोगोचरोवाचां विषयं न कथञ्चन ॥
अनामरूपवर्णं च न स्थूलं न च यत्कृशम् ॥ १२ ॥
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ॥
न यत्रोपचयः कश्चित्तथा चापचयोपि च ॥ १३ ॥
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ॥
सत्यं ज्ञानमनन्तं च यदानन्दं परं महः ॥ १४ ॥
अप्रमेयमनाधारमविकारमनाकृति ॥
निर्गुणं योगिगम्यं च सर्वव्याप्येककारणम् ॥ १५ ॥
निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् ॥
यस्येत्थं संविकल्प्यन्ते सञ्ज्ञाः सञ्ज्ञोदितस्य वै ॥ १६ ॥
तस्यैकलस्य चरतो द्वितीयेच्छा भवत्किल ॥
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ॥ १७ ॥
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ॥ १८ ॥
सर्वैकवन्द्या सर्वाद्या सर्वदा सर्वसङ्कृतिः ॥
परिकल्प्येति तां मूर्तिमीश्वरीं शुद्धरूपिणीम् ॥ १९ ॥
अन्तर्दधे पराख्यं यद्ब्रह्मसर्वङ्गमव्ययम् ॥ 4.1.26.२० ॥
अमूर्तं यत्पराख्यं वै तस्य मूर्तिरहं प्रिये ॥
अर्वाचीनपराचीना ईश्वरं मां जगुर्बुधाः ॥२१॥
ततस्तदैकलेनापि स्वैरं विहरतामया ॥
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ २२ ॥
प्रधानं प्रकृतिं त्वां च मायां गुणवतीं पराम् ॥
बुद्धि तत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २३ ॥
युगपच्च त्वया शक्त्या साकं कालस्वरूपिणा॥
मयाऽऽद्य पुरुषेणैतत्क्षेत्रं चापि विनिर्मितम्॥२४॥
सा शक्तिः प्रकृतिः प्रोक्ता स पुमानीश्वरः परः ॥
ताभ्यां च रममाणाभ्यां तस्मिन्क्षेत्रे घटोद्भव ॥२५॥
परमानन्दरूपाभ्यां परमानन्दरूपिणी ॥
पञ्चक्रोशपरीमाणे स्वपादतलनिर्मिते॥२६ ॥
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन॥
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ॥ २७ ॥
न यदा भूमिवलयं न यदाऽपां समुद्भवः ॥
तदा विहर्तुमीशेन क्षेत्रमेतद्विनि र्मितम्॥ २८ ॥
इदं रहस्यं क्षेत्रस्य वेद कोपि न कुम्भज॥
नास्तिकाय न वक्तव्यं कदाचिच्चर्मचक्षुषे ॥ २९ ॥
श्रद्धालवे विनीताय त्रिकालज्ञानचक्षुषे ॥
शिवभक्ताय शान्ताय वक्तव्यं च मुमुक्षवे ॥ 4.1.26.३० ॥
अविमुक्तं तदरभ्य क्षेत्रमेतदुदीर्यते ॥
पर्यङ्क(?)भूतं शिवयोर्निरन्तरसुखास्पदम् ॥ ३१ ॥ (पर्यङ्क)
अभावः कल्प्यते मूढैर्यदा च शिवयोस्तयोः॥
क्षेत्रस्यास्य तदाभावः कल्प्यो निर्वाणकारिणः॥ ३२ ॥
अनाराध्य महेशानमनवाप्य च काशिकाम्॥
योगाद्युपायविज्ञोपि न निर्वाणमवाप्नुयात् ॥३३॥
अस्यानन्दवनं नाम पुरा कारि पिनाकिना ॥
क्षेत्रस्यानन्दहेतुत्वादविमुक्तमन्नतरम् ॥ ३४ ॥
आनन्दकन्दबीजानामङ्कुराणि यतस्ततः ॥
ज्ञेयानि सर्वलिङ्गानि तस्मिन्नानन्दकानने ॥ ३५ ॥
अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव ॥
तथा चाख्याम्यथ मुने यथासीन्मणिकर्णिका ॥ ३६ ॥
प्रागानन्दवने तत्र शिवयो रममाणयोः ॥
इच्छेत्यभूत्कलशज सृज्यः कोप्यपरः किल ॥ ३७ ॥
यस्मिन्न्यस्ते महाभारे आवां स्वः स्वैरचारिणौ ॥
निर्वाणश्राणनं कुर्वः केवलं काशिशायिनाम् ॥ ३८ ॥
स एव सर्वं कुरुते स एव परिपाति च ॥
स एव संवृणोत्यन्ते सर्वैश्वर्यनिधिः स च ॥ ३९ ॥
चेतःसमुद्रमाकुञ्च्य चिन्ताकल्लोलदोलितम् ॥
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ 4.1.26.४० ॥
यस्य प्रसादात्तिष्ठावः सुखमानन्दकानने ॥
परिक्षिप्त मनोवृत्तौ क्व हि चिन्तातुरे सुखम् ॥ ४१ ॥
सम्प्रधार्येति स विभुः सर्वतश्चित्स्वरूपया ॥
तया सह जगद्धात्र्या जगद्धाताऽथ धूर्जटिः ॥ ४२ ॥
सव्ये व्यापारयाञ्चक्रे दृशमङ्गे सुधामुचम् ॥
ततः पुमानाविरासीदेकस्त्रैलोक्यसुन्दरः ॥ ४३ ॥
शान्तः सत्त्वगुणोद्रिक्तो गाम्भीर्य जितसागरः ॥
तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् ॥ ४४ ॥
इन्द्रनीलद्युतिःश्रीमान्पुण्डरीकोत्तमेक्षणः ॥
सुवर्णाकृति सुच्छाय दुकूलयुगलावृतः ॥ ४५ ॥
लसत्प्रचण्डदोर्दण्ड युगलद्वयराजितः ॥
उल्लसत्परमामोदनाभीह्रदकुशेशयः ॥ ४६ ॥
एकः सर्वगुणावासस्त्वेकः सर्वकलानिधिः ॥
एकः सर्वोत्तमो यस्मात्ततो यः पुरुषोत्तमः ॥ ४७ ॥
ततो महान्तं तं वीक्ष्य महामहिमभूषणम् ॥
महादेव उवाचेदं महाविष्णुर्भवाच्युत ॥ ४८ ॥
तव निःश्वसितं वेदास्तेभ्यः सर्वमवैष्यसि ॥
वेददृष्टेन मार्गेण कुरु सर्वं यथोचितम्॥ ४९ ॥
इत्युक्त्वा तं महेशानो बुद्धितत्त्वस्वरूपिणम् ॥
शिवया सहितो रुद्रो विवेशानन्दकाननम् ॥ 4.1.26.५० ॥
ततः स भगवान्विष्णुर्मौलावाज्ञां निधाय च ॥
क्षणं ध्यानपरो भूत्वा तपस्येव मनो दधौ ॥ ५१ ॥
खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः ॥
निजाङ्गस्वेदसन्दोह सलिलैस्तामपूरयत् ॥ ५२ ॥
समाः सहस्रं पञ्चाशत्तप उग्रं चचार सः ॥
चक्रपुष्कीरणी तीरे तत्र स्थाणुसमाकृतिः ॥ ५३ ॥
ततः स भगवानीशो मृडान्या सहितो मृडः ॥
दृष्ट्वा ज्वलन्तं तपसा निश्चलं मीलितेक्षणम्॥ ५४ ॥
तमुवाच हृषीकेशं मौलिमान्दोलयन्मुहुः ॥
अहो महत्त्वं तपसस्त्वहो धैर्यं च चेतसः ॥ ५५ ॥
अहो अनिन्धनो वह्निर्ज्वलत्येष निरन्तरम्॥
अलं तप्त्वा महाविष्णो वरं वरय सत्तम ॥ ५६ ॥
मृडस्याम्रोडितमिदं प्रत्यभिज्ञाय भाषितम् ॥
उन्मीलित दृगम्भोजः समुत्तस्थौ चतुर्भुजः ॥ ५७ ॥
श्रीविष्णुरुवाच ॥ ॥
यदि प्रसन्नो देवेश देवदेव महेश्वर ॥
भवान्या सहितं त्वां तु द्रष्टुमिच्छामि सर्वदा ॥ ५८ ॥
सर्वकर्मसु सर्वत्र त्वामेव शशिशेखर ॥
पुरश्चरं तं पश्यामि यथा तन्मे वरस्तथा ॥ ५९ ॥
त्वदीय चरणाम्भोज मकरन्दमधूत्सुकः ॥
मच्चेतो भ्रमरो भ्रान्तिं विहायास्तु सुनिश्चलः ॥4.1.26.६०॥
॥ श्रीशिव उवाच ॥
एवमस्तु हृषीकेश यत्त्वयोक्तं जनार्दन ॥
अन्यं वरं प्रयच्छामि तमाकर्णय सुव्रत ॥ ६१ ॥
त्वदीयस्यास्य तपसो महोपचय दर्शनात् ॥
यन्मयान्दोलितो मौलिरहिश्रवणभूषणः ॥ ६२ ॥
तदान्दोलनतः कर्णात्पपात मणिकर्णिका ॥
मणिभिः खचिता रम्या ततोऽस्तु मणिकर्णिका ॥ ६३ ॥
चक्रपुष्करिणी तीर्थं पुराख्यातमिदं शुभम् ॥
त्वया चक्रेण खननाच्छङ्खचक्रगदाधर ॥ ६४ ॥
मम कर्णात्पपातेयं यदा च मणिकर्णिका ॥
तदाप्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका ॥६५॥
॥ श्रीविष्णुरुवाच ॥ ॥
मुक्ताकुण्डलपातेन तवाद्रितनयाप्रिय ॥
तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै ॥६६॥
काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वरः ॥
अतो नामापरं चास्तु काशीति प्रथितं विभो ॥ ६७ ॥
अन्यं वरं वरे देव देयः सोप्यविचारितम् ॥
स ते परोपकारार्थं जगद्रक्षामणे शिव ॥ ६८ ॥
आब्रह्मस्तम्बपर्यन्तं यत्किञ्चिज्जन्तुसञ्ज्ञितम् ॥
चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यतु ॥६९॥
अस्मिंस्तीर्थवरे शम्भो मणिश्रव णभूषणे ॥
सन्ध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ॥
तर्पण पिण्डदानं च देवतानां च पूजनम् ॥ 4.1.26.७० ॥
गोभूतिलहिरण्याश्वदीपान्नाम्बरभूषणम् ॥
कन्यादानं प्रयत्नेन सप्ततन्तूननेकशः ॥ ७१ ॥
व्रतोत्सर्गं वृषोत्सर्गं लिङ्गादि स्थापनं तथा ॥
करोति यो महाप्राज्ञो ज्ञात्वायुःक्षणगत्वरम् ॥ ७२ ॥
विपत्तिं विपुलां चापि सम्पत्तिमतिभङ्गुराम् ॥
अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्मणः ॥७३॥
अन्यच्चापि शुभं कर्म यदत्र श्रद्धयायुतम् ॥
विनात्मघातमीशान त्यक्त्वा प्रायोपवेशनम्॥७४॥
नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ॥
नानुशोचति नाख्याति कृत्वा कालान्तरेपि यत् ॥७५॥
तदिहाक्षयतामेतु तस्येश त्वदनुग्रहात्॥
तव प्रसादात्तस्येश सर्वमक्षयमस्तु तत् ॥ ७६ ॥
यदस्ति यद्भविष्यच्च यद्भूतं च सदाशिव ॥
तस्मादेतच्च सर्वस्मात्क्षेत्रमस्तु शुभोदयम् ॥ ७७ ॥
यथा सदाशिव त्वत्तो न किञ्चिदधिकं शिवम् ॥
तथानन्दवनादस्मात्किञ्चिन्मास्त्वधिकं क्वचित् ॥ ७८ ॥
विना साङ्ख्येन योगेन विना स्वात्मावलोकनम्॥
विना व्रत तपो दानैः श्रेयोऽस्तु प्राणिनामिह ॥ ७९ ॥
शशका मशका कीटाः पतं गास्तुरगोरगाः ॥
पञ्चक्रोश्यां मृताः काश्यां सन्तु निर्वाणदीक्षिताः ॥ 4.1.26.८० ॥
नामापि गृह्णतां काश्याः सदैवास्त्वेनसः क्षयः ॥ ८१ ॥
सदा कृतयुगं चास्तु सदाचास्तूत्तरायणम्॥
सदा महोदयश्चास्तु काश्यां निवसतां सताम् ॥ ८२ ॥
यानि कानि पवित्राणि श्रुत्युक्तानि सदाशिव ॥
तेभ्योऽधिकतरं चास्तु क्षेत्रमेतत्त्रिलोचन ॥ ८३ ॥
चतुर्णामपि वेदानां पुण्यमध्ययनाच्च यत् ॥
तत्पुण्यं जायतां काश्यां गायत्रीलक्ष जाप्यतः ॥ ८४ ॥
अष्टाङ्गयोगाभ्यासेन यत्पुण्यमपि जायतेः ॥
तत्पुण्यं साधिकं भूयाच्छ्रद्धाकाशीनिषेवणात् ॥ ८५ ॥
कृच्छ्रचान्द्रायणाद्यैश्च यच्छ्रेयः समुपार्ज्यते ॥
तदेकेनोपवासेन भवत्वानन्दकानने ॥ ८६ ॥
अन्यत्र यत्तपस्तप्त्वा श्रेयः स्याच्छरदां शतम् ॥
तदस्तु काश्यां वर्षेण भूमिशय्या व्रतेन हि ॥ ८७ ॥
आजन्म मौनव्रततो यदन्यत्रफलं स्मृतम् ॥
तदस्तु काश्यां पक्षाहः सत्यवाक्परिभाषणात् ॥ ८८ ॥
अन्यत्र दत्त्वा सर्वस्वं सुकृतं यत्समीरितम् ॥
सहस्रभोजनात्काश्यां तद्भूयादयुताधिकम् ॥ ८९ ॥
मुक्तिक्षेत्राणि सर्वाणि यत्संसेव्योदितं फलम् ॥
पञ्चरात्रात्तदत्रास्तु निषेव्य मणिकर्णिकाम् ॥ 4.1.26.९० ॥
प्रयागस्नानपुण्येन यत्पुण्यं स्याच्छिवप्रदम् ॥
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्त्विह ॥ ९१ ॥
यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयतः ॥
काश्यां तत्पुण्यमाप्नोतु त्रिरात्रशयनाद्यमी ॥ ९२ ॥
तुलापुरुषदानेन यत्पुण्यं सम्यगाप्यते ॥
काशीदर्शनमात्रेण तत्पुण्यं श्रद्धयास्तु वै ॥ ९३ ॥
इति विष्णोर्वरं श्रुत्वा देवदेवो जगत्पतिः ॥
उवाच च प्रसन्नात्मा तथाऽस्तु मधुसूदन ॥ ९४ ॥
॥ श्रीमहादेव उवाच ॥ ॥
शृणु विष्णो महाबाहो जगतः प्रभवाप्यय ॥
विधेहि सृष्टिं विविधां यथावत्त्वं श्रुतीरिताम् ॥ ९५ ॥
पितेव सर्वभूतानां धर्मतः पालको भव ॥
विध्वंसनीया विविधा धर्मध्वंसविधायिनः ॥ ९६ ॥
धर्मेतरपथस्थानामुपसंहृतये हरे ॥
हेतुमात्रं भवान्यस्मात्स्वकर्मनिहता हि ते ॥ ९७ ॥
यथा परिणतं सस्यं पतेत्प्रसवबन्धनात् ॥
ते परीणतपाप्मानः पतिष्यन्ति तथा स्वयम् ॥ ९८ ॥
ये च त्वामवमन्यन्ते दर्पिताः स्वतपोबलैः ॥
तेषां चैवोपसंहृत्यै प्रभविष्याम्यहं हरे ॥ ९९ ॥
उपपातकिनो ये च महापातकिनश्च ये ॥
तेपि काशीं समासाद्य भविष्यन्ति गतैनसः ॥ 4.1.26.१०० ॥
इदं मम प्रियं क्षेत्रं पञ्चक्रोशीपरीमितम् ॥
ममाज्ञा प्रभवेदत्र नान्याज्ञा प्रभवेदिह ॥ १ ॥
पुनर्विष्णुर्मया प्रोक्तो मृडानि शुभलोचने ॥
अत्युग्रतेजसा तेजो भ्रमंस्त्रैलोक्यविभ्रमः ॥ २ ॥
पापिनामपि जन्तूनामविमुक्तनिवासिनाम् ॥
नान्यः शासयिता विप्णो तेषां शास्ताऽहमेव हि ॥ ३ ॥
योजनानां शतस्थोपि यो(?)ऽविमुक्तं स्मरेद्धृदि ॥
बहुपातकपूर्णोपि न स पापैः प्रबाध्यते ॥४॥
मम प्रियस्य क्षेत्रस्य योऽविमुक्तस्य संस्मरेत् ॥
प्राण प्रयाणसमये दूरगोप्यघवानपि ॥५॥
स पापपूगमुत्सृज्य स्वर्गभोगान्समश्नुते ॥
काशीस्मरणपुण्येन स्वर्गाद्भ्रष्टो हि जायते॥६॥
पृथिव्यामेकराड्भूत्वा भुक्त्वा भोगाननेकशः ॥
प्राप्याविमुक्तं तत्पुण्यान्निर्वाणपदभाग्भवेत् ॥ ७ ॥
बहुकालमुषित्वाऽत्र नियतेन्द्रियमानसः ॥
यद्यन्यत्र विपद्येत दैवयोगाच्छुचिस्मिते ॥ ८ ॥
सोपि स्वर्गसुखं भुक्त्वा भूत्वा क्षितिपतीश्वरः ॥
पुनः काशीमवाप्याथ विन्देन्नैःश्रेयसीं श्रियम् ॥ ९ ॥
विष्णोऽविमुक्ते संवासः कर्मनिर्मूलनक्षमः ॥
द्वित्राणां हि पवित्राणां निर्वाणा येह जायते ॥ 4.1.26.११० ॥
विष्णुरुवाच ॥ ॥
देवेशक्षेत्रमाहात्म्यं यो न जानाति तत्त्वतः ॥
न श्रद्दधाति म्रियते मृते तस्येह का गतिः ॥११॥
॥ शिव उवाच ॥ ॥
अन्यत्र कृत्वा पापानि बहूनि सुमहान्ति च ॥
अश्रद्दधानोऽतत्त्वज्ञो यद्यत्र च विपद्यते ॥ १२ ॥
महिमन्यनभिज्ञोपि क्षेत्रस्यास्य जनार्दन॥
तस्य या गतिरुद्दिष्टा तां निशामय सुव्रत ॥ १३ ॥
पञ्चक्रोशीं प्रविशतस्तस्य पातकसन्ततिः ॥
बहिरेव प्रतिष्ठेत नान्तर्निर्विशते क्वचित् ॥ १४ ॥
भयाद्बहिः स्थितायां च तस्य पातकसन्ततौ ॥
त्रिशूलपाशपाणीनां गणानां सीमचारिणाम् ॥ १५ ॥
प्रवेशमात्रादनघ सर्वैरेनोभिरुज्झितः ॥
संस्नाय मणिकर्णिक्यां पुण्यं प्राप्नोत्यनुत्तमम् ॥ १६ ॥
सर्वतीर्थेषुसंस्नानाद्यत्पुण्यं समवाप्यते ॥
तत्पुण्यमाप्यते सम्यङ्मणिकर्ण्येक मज्जनात् ॥ १७ ॥
विधिना तत्र संस्नाय मृद्गोमयकुशादिभिः ॥
स्वशाखावारुणैर्मन्त्रैर्दूर्वापामार्गदर्भकैः ॥ १८ ॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
मणिकर्ण्यां विधिस्नातः श्रद्धया तदवाप्नुयात् ॥ १९ ॥
अश्रद्धयापि यः स्नातो मणिकर्ण्यां विधानतः ॥
सोपि पुण्यमवाप्नोति स्वर्गप्राप्तिकरं परम् ॥ 4.1.26.१२० ॥
श्रद्धया विधिवत्स्नात्वा कृत्वा देवादितर्पणम् ॥
तिलबर्हिर्यवैः सम्यक्सर्वयज्ञफलं लभेत् ॥ २१ ॥
श्रद्दधानो विधिस्नातः कृत सर्वोदकक्रियः ॥
जपन्देवान्समभ्यर्च्य सर्वमन्त्रफलं लभेत् ॥ २२ ॥
स्नात्वा मौनेन विश्वेश दर्शना न्नियतेन्द्रियः ॥
सर्वव्रतकृतं श्रेयो लभेद्वाचंयमः शिवे ॥ २३ ॥
स्नाने देवार्चने जप्ये मलमूत्रविसर्जने ॥
मौनं कुर्यात्प्रयत्नेन दन्तधावनहोमयोः ॥ २४ ॥
विश्वेश्वरं समभ्यर्च्य सूपचारैर्विधानतः ॥
यावज्जीवं शिवार्चायाः फलमाप्नोति वै सकृत् ॥ २५ ॥
दत्त्वाल्पमपि देवेशि न्यायेनोपार्जितं धनम् ॥
अविमुक्ते मम क्षेत्रे न दरिद्रो भवेत्क्वचित् ॥ २६ ॥
विविधं धनमावर्ज्य योऽविमुक्ते न यच्छति ॥
सम्प्राप्य निधनं मूढोऽन्यत्र शोचति सर्वदा ॥ २७ ॥
रम्याणि यानि रत्नानि गोगजाश्वाम्बराण्यपि ॥
कृतानि तानि श्रेयोर्थमविमुक्तनिवासिनाम् ॥ २८ ॥
विश्वेशप्रीणनार्थाय धनं निधनमेव वा ॥
न्यायेन काश्यां यः कुर्यात्स धन्यः स च धर्मवित् ॥ २९ ॥
योसौ विश्वेश्वरो देवः काशीपुर्यामुमे स्थितः ॥
लिङ्गरूपधरः साक्षान्मम श्रेयास्पदं हि तत् ॥ 4.1.26.१३० ॥
अविमुक्तं महत्क्षेत्रं पञ्चक्रोशपरीमितम् ॥
ज्योतिर्लिगं तदेकं हि ज्ञेयं विश्वेश्वराभिधम् ॥ ३१ ॥
एकदेशस्थितमपि यथा मार्तण्डमण्डलम् ॥
दृश्यते सर्वगं सर्वैः काश्यां विश्वेश्वरस्तथा ॥ ३२ ॥
निष्प्रत्यूहेन योगेन नानाजन्मार्जितेन च ॥
यत्फलं लभ्यतेऽन्यत्र तत्काश्यां त्यजतस्तनुम ॥ ३३ ॥
तप्त्वा तपांसि सर्वाणि बहुकालं जितेन्द्रियैः ॥
यत्फलं लभ्यतेऽन्यत्र तत्काश्यामेकरात्रतः ॥ ३४ ॥
अक्षेत्रमहिमज्ञोपि श्रद्धाहीनोपि कालतः ॥
काशीप्रवेशादनघोऽमृतत्वं लभतेमृतः ॥ ३५ ॥
कृत्वाप्येनांसि चोग्राणि कालात्प्राप्याथ काशिकाम् ॥
त्यक्त्वा तनुं प्रसादान्मे मामेव प्रतिपद्यते ॥ ३६ ॥
विना मम प्रसादं वै कः काशीं प्रतिपद्यते ॥
विना ब्रध्नं विशालाक्षि दिनकृत्क इहोच्यते ॥ ३७ ॥
अप्राप्य काशीं को देवि निरन्तर सुखं लभेत् ॥
बह्माद्याः प्राकृतैः पाशैर्यतो बद्धा निरन्तरम् ॥ ३८ ॥
चतुर्विंशतिभिः पाशैस्त्रिगुणैः क्रियया दृढैः ॥
कण्ठे बद्धा विमुच्यन्ते कथं काशीं विना जनाः ॥ ॥ ३९ ॥
बहूपसर्गो योगोयं कृच्छ्रसाध्यं तपो हि यत् ॥
योगाद्भ्रष्टस्तपोभ्रष्टो गर्भक्लेशसहःपुनः ॥ 4.1.26.१४० ॥
कृत्वापि काश्यां पापानि काश्यामेव म्रियेत चेत् ॥
भूत्वा रुद्रपिशाचोपि पुनर्मुक्तिमवाप्स्यति ॥ ४१ ॥
काश्यां मृतानां जन्तूनां दैवात्पापकृतामपि ॥
न पातो नरके तेषां तेषां शास्ताहमेव यत् ॥ ४२ ॥
कायं विज्ञाय सापायं स्मृत्वा गर्भस्य वेदनाम् ॥
त्यक्त्वा राज्यमपि प्राज्यं सेव्या काशी निरन्तरम् ॥ ४३ ॥
अतर्कितं समभ्येत्य यमदूताः सुदारुणाः ॥
बद्ध्वा पाशैर्हनिष्यन्ति क्षिप्रं काशीं ततः श्रयेत ॥ ४४ ॥
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ॥
न गर्भवासभीर्यत्र तां काशीं को न संश्रयेत् ॥ ४५ ॥
अद्य प्रातः परश्वो वा मरणं प्राप्यमेव च ॥
यावत्कालविलम्बोस्ति तावत्काशीं समाश्रयेत् ॥ ४६ ॥
प्राप्ते तु मरणे पुंसां पुनर्जन्म पुनर्मृतिः ॥
अपुनर्भवभूमिं च तस्मात्काशीं श्रयेद्बुधः ॥ ४७ ॥
पुत्रक्षेत्रकलत्राख्यां त्यक्त्वा मायां हि वैष्णवीम् ॥
भवान्तरेनेकरूपां भवघ्नीं काशिकां श्रयेत् ॥४८॥
॥ स्कन्द उवाच ॥
दूरं मे मरणंयुवाहमधुना धार्यं न चित्तेत्विति श्रोतव्यो निभृतं कृतान्त महिषग्रैवेयघण्टारवः ॥
नैकट्यात्प्रकटोत्कटश्रमघटामप्राप्य हित्वा द्रुतं जीर्णां पर्णकुटीं ततः पटुमतिर्गच्छेत्पुरीं धूर्जटेः ॥ ४९ ॥
व्यास उवाच ॥
अगस्त्यस्य पुरः सूत कथयित्वा कथामिमाम् ॥
सर्वपापप्रशमनीं पुनः स्कन्द उवाच ह ॥ 4.1.26.१५० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे मणिकर्णिकाख्यानं नाम षड्विंशोऽध्यायः ॥ २६ ॥