॥ व्यास उवाच ॥ ॥
शृणु सूत प्रवक्ष्यामि कथां कलशजन्मनः ॥
यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम् ॥ १ ॥
गिरिं प्रदक्षिणीकृत्य श्रीसञ्ज्ञं कलशोद्भवः ॥
सपत्नीको ददर्शाथ रम्यं स्कन्दवनं महत् ॥ २ ॥
सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम् ॥
सुसेव्य कन्दमूलाढ्यं सुवल्कलमहीरुहम्॥ ३ ॥
निवीतश्वापदगणं ससरित्पल्वलावृतम् ॥
स्वच्छ गम्भीरकासारं सारं सर्वभुवः परम् ॥ ४ ॥
नानापतत्रिसङ्घुष्टं नानामुनिजनोषितम् ॥
तपःसङ्केतनिलयमिवैकं सम्पदां पदम् ॥ ५ ॥
लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः ॥
सुकन्दरप्रस्रवणः स्वसानु शिखरप्रभः ॥६॥
कैलासस्यैकशकलं कर्मभूमाविहागतम् ॥
तपस्तप्तुमिव प्रोच्चैर्नानाश्चर्यसमन्वितम्॥ ७ ॥
तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम् ॥
प्रणम्य दण्डवद्भूमौ सपत्नीको महातपाः ॥ ८ ॥
तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः ॥
तथा स्वकृतया स्तुत्या प्रबद्ध करसम्पुटः ॥ ९ ॥
अगस्तिरुवाच ॥ ॥
नमोस्तु वृन्दारकवृन्दवन्द्य पादारविन्दाय सुधाकराय ॥
षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥4.1.25.१०॥
नमोस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् ॥
दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुर तारकस्य ॥ ११ ॥
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ॥
अपारपाराय परापराय नमोस्तु तुभ्यं शिखिवाहनाय ॥ १२ ॥
नमोस्तु ते ब्रह्मविदांवराय दिगम्बरायाम्बर संस्थिताय ॥
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ १३ ॥
तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ॥
सदा कुमाराय हिमारमारिणे तणीकृतैश्वर्य विरागिणे नमः ॥ १४ ॥
नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये ॥
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ १५ ॥
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ॥
नमोस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ १६ ॥
सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ॥
स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ १७ ॥
इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ॥
द्विस्त्रिःपरिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः ॥ १८ ॥
॥ कार्तिकेय उवाच ॥ ॥
क्षेमोस्ति कुम्भज मुने त्रिदशैकसहायकृत् ॥
जाने त्वामिह सम्प्राप्तं तथा विन्ध्याचलोन्नतिम् ॥ १९ ॥
अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते ॥
यत्र क्षीणायुषां साक्षाद्विरूपाक्षोऽस्ति मोक्षदः ॥ 4.1.25.२० ॥
भूर्भुवः स्वस्तले वापि न पातालतले मलम् ॥
नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं क्वचिन्मुने ॥ २१ ॥
अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने ॥
तप्ये तपांसिनाद्यापि फलेयुर्मे मनोरथाः ॥ २२ ॥
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः ॥
न लभ्यं विविधैर्यज्ञैर्लभ्यमैशादनुग्रहात् ॥ २३ ॥
ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः ॥
सुलभः स्यान्मुने नूनं न वै सुकृतकोटिभिः ॥ २४ ॥
अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी ॥
न तत्क्षेत्रगुणान्वक्तुमीश्वरोऽपीश्वरो यतः ॥ २५ ॥
अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम् ॥
अहो मोहस्य माहात्म्यं यत्काशीह न सेव्यते ॥२६॥
शरीरं जीर्यते नित्यं सञ्जीर्यन्तीन्द्रियाण्यपि ॥
आयुर्मृगो मृगयुना कृतलक्ष्यो हि मृत्युना ॥ २७ ॥
सापदं सम्पदं ज्ञात्वा सापायं कायमुच्चकैः ॥
चपला चपलं चायुर्मत्वा काशीं समाश्रयेत् ॥ २८ ॥
यावन्नैत्यायुषश्चान्तस्तावत्काशी न मुच्यते ॥
कालः कलालवस्यापि सङ्ख्यातुं नैव विस्मरेत् ॥ २९ ॥
जरानिकटनिक्षिप्ता बाधन्ते व्याधयो भृशम् ॥
तथापि देहो नानेहो नाहो काशीं समीहते ॥ 4.1.25.३० ॥
तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः ॥
विनार्थं लभ्यते धर्मो धर्मादर्थः स्वयं भवेत् ॥ ३१ ॥
विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम् ॥
अतोऽर्थचिन्तामुत्सृज्य धर्ममेकं समाश्रयेत् ॥ ३२ ॥
धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः ॥
स्वर्गोपि सुलभो धर्मात्काश्ये का दुर्लभा परम् ॥ ३३ ॥
उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम्॥
शर्वाण्यग्रेव भाणाद्धा परिनिर्णीय सर्वतः ॥ ३४ ॥
पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम् ॥
ततोप्येकमनायासमविमुक्तं विमुक्तिदम् ॥ ३५ ॥
श्रीशैल हिमशैलाद्या नानान्यायतनानि च ॥
त्रिदण्डधारणञ्चापि सन्न्यासः सर्वकर्मणाम् ॥ ३६ ॥
तपांसि नानारूपाणि व्रतानि नियमा यमाः ॥
सिन्धूनामपि सम्भेदा अरण्यानि बहून्यपि ॥ ३७ ॥
मानसान्यपि भौमानि धारातीर्थादिकानि च ॥
ऊषराश्चापि पीठानि ह्यच्छिन्नाम्नायपाठनम्॥ ३८ ॥
जपश्चापि मनूनां च तथाऽग्निहवनानि च ॥
दानानि नानाक्रतवो देवतोपासनानि च ॥ ३९ ॥
त्रिरात्रं पञ्चरात्राणि साङ्ख्ययोगादयस्तथा ॥
विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल ॥ 4.1.25.४० ॥
पुर्यश्चापि समाख्यातानृतजन्तु विमुक्तिदा ॥
कैवल्यसाधनानीह भवन्त्येव विनिश्चितम् ॥ ४१ ॥
एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च ॥
प्राप्य काशीं भवेन्मुक्तो जन्तुर्नान्यत्रकुत्रचित् ॥ ४२ ॥
अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत् ॥
विश्वेशितुः प्रियनित्यं विष्वग्ब्रह्माण्डमण्डले ॥ ४३ ॥
इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम् ॥
एह्येहि देहि मे स्पर्शं निजगात्रस्य सुव्रत ॥ ४४ ॥
अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते ॥
मयात्र तिष्ठता नित्यं किन्तु त्वं तत आगतः ॥ ४५८ ॥
त्रिरात्रमपिये काश्यां वसन्ति नियतेन्द्रियाः ॥
तेषां पुनन्ति नियतं स्पृष्टाश्चरणरेणवः ॥ ४६ ॥
त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः ॥
उत्तरप्रवहा स्नान जातपिङ्गलमूर्धजः ॥ ४७ ॥
तव तत्र तु यत्कुण्डमगस्तीश्वरसन्निधौ ॥
तत्र स्नात्वा च पीत्वा च कृतसर्वोदकक्रियः ॥ ४८ ॥
पितॄन्पिण्डैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः ॥
कृत्यकृत्यो भवेज्जन्तुर्वाराणस्याः फलं लभेत् ॥ ४९ ॥
इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुम्भोद्भवस्य च ॥
स्कन्दोऽमृतसरोवारि विगाह्य सुखमाप्तवान् ॥4.1.25.५०॥
जय विश्वेश नेत्राणि विनिमील्य वदन्नपि ॥
ततः किञ्चित्क्षणं दध्यौ गुहः स्थाणुसुनिश्चलः ॥ ५१ ॥
स्कन्दे विसर्जितध्याने सुप्रसन्नमनोमुखे ॥
प्रतीक्ष्य वागवसरं पप्रच्छाथ मुनिर्गुहम् ॥ ५२ ॥
॥ अगस्तिरुवाच ॥ ॥
स्वामिन्यथा भगवता भगवत्यै पुराऽकथि ॥
वाराणस्यास्तु महिमा हिमशैलभुवे मुदा ॥ ५३ ॥
त्वया यथा समाकर्णि तदुत्सङ्गनिवासिना ॥
तथा कथय षड्वक्त्र तत्क्षेत्रं मेऽतिरोचते ॥ ५४ ॥
॥ स्कन्द उवाच ॥ ॥
शृणुष्व मैत्रावरुणे यथा भगवताऽकथि ॥
तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा ॥ ५५ ॥
श्रुतं च यत्तदुत्सङ्गे स्थितेन स्थिरचेतसा ॥
माहात्म्यं तच्छृणु मुने कथ्यमानं मयाऽनघ ॥ ५६ ॥
गुह्यानां परमं गुह्यमविमुक्तमिहेरितम् ॥
तत्र सन्निहिता सिद्धिस्तत्र नित्यं स्थितो विभुः ॥ ५७ ॥
भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वन्तरिक्षगम् ॥
अयोगिनो न वीक्षन्ते पश्यन्त्येव च योगिनः ॥ ॥ ५८ ॥
यस्तत्र निवसेद्विप्र संयतात्मा समाहितः ॥
त्रिकालमपि भुञ्जानो वायुभक्षसमो भवेत् ॥ ५९ ॥
निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् ॥
ब्रह्मचर्यसमायुक्तं तेन तप्तं महत्तपः ॥ 4.1.25.६० ॥
यस्तु मासं वसेद्धीरो लघ्वाहारो जितेन्द्रियः ॥
सर्वं तेन व्रतं चीर्णं दिव्यं पाशुपतं भवेत् ॥ ६१ ॥
संवत्सरं वसंस्तत्र जितक्रोधो जितेन्द्रियः ॥
अपरस्वविपुष्टाङ्गः परान्नपरिवर्जकः ॥ ६२ ॥
परापवादरहितः किञ्चिद्दानपरायणः ॥
समाः सहस्रमन्यत्र तेन तप्तं महत्तपः ॥ ६३ ॥
यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः ॥
जन्ममृत्यु भयं हित्वा स याति परमां गतिम् ॥ ६४ ॥
न योगैर्या गतिर्लभ्या जन्मान्तरशतैरपि ॥
अन्यत्रहेलया साऽत्र लभ्येशस्य प्रसादतः ॥६५॥
ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम् ॥
तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ॥ ६६ ॥
आदेहपतनं यावद्योविमुक्तं न मुञ्चति ॥
न केवलं ब्रह्महत्या प्रकृतिश्च निवर्तते ॥ ६७ ॥
अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुञ्चति ॥
स मुञ्चति जरामृत्युं गर्भवासं सुदुःसहम् ॥ ६८ ॥
अविमुक्तं निषेवेत देवर्षिगणसेवितम् ॥
यदीच्छेन्मानवो धीमान्न पुनर्जननं भुवि ॥ ६९ ॥
अविमुक्तं न मुञ्चेत संसारभयमोचनम् ॥
प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते ॥ 4.1.25.७० ॥
कृत्वा पापसह्स्राणि पिशाचत्वं वरन्त्विह ॥
न तु क्रतुशतप्राप्यः स्वर्गः काशीपुरीं विना ॥ ७१ ॥
अन्तकाले मनुष्याणां भिद्यमानेषु मर्मसु ॥
वातेनातुद्यमानानां स्मृतिर्नैवोपजायते ॥ ७२ ॥
तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम् ॥
व्याचष्टे तारकं ब्रह्म येनासौ तन्मयो भवेत् ॥ ७३ ॥
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ॥
अविमुक्तं निषेवेत संसारभयनाशनम् ॥ ७४ ।
विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुञ्चति ॥
नैःश्रेयसी श्रियं प्राप्य दुःखान्तं सोधिगच्छति ॥ ७५ ॥
महापापौघशमनीं पुण्योपचयकारिणीम् ॥
भुक्तिमुक्तिप्रदामन्ते को न काशीं सुधीः श्रयेत् ॥ ७६ ॥
एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः ॥
अविमुक्तप्रसादेन विमुक्तो जायते यतः ॥ ७७ ॥
अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया ॥
वक्तुं शक्यं न शक्नोति सहस्रास्योपि यत्परम् ॥ ७८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे स्कन्दागस्त्यदर्शनं नाम पञ्चविशतितमोऽध्यायः ॥ २५ ॥ ॥