गणावूचतुः ॥ ॥
शिवशर्मन्नुदर्कं ते कथयावो निशामय ॥
त्वमत्र वैष्णवे लोके भुक्त्वा भोगान्सुपुष्कलान् ॥ १ ॥
ब्रह्मणो वत्सरं पूर्णं रममाणोऽप्सरोगणैः ॥
सुतीर्थमरणोपात्त पुण्यशेषेण वै पुनः ॥ २ ॥
भविष्यसि महीपालो नगरे नन्दिवर्धने ॥
राज्यं प्राप्यासपत्नं च समृद्धबलवाहनम् ॥३॥
कृष्टिभिर्हृष्टपुष्टैश्च रम्यहाटकभूषणैः ॥
सञ्जुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः॥४॥
सदासम्पन्नसस्यं च सूर्वरक्षेत्रसङ्कुलम्॥
सुदेशं सुप्रजं सुस्थं सुतृणं बहुगोधनम् ॥ ५ ॥
देवतायतनानां च राजिभिः परिराजितम् ॥
सुयूपा यत्र वै ग्रामाः सुवित्तर्द्धि विराजिताः ॥ ६ ॥
सुपुष्प कृत्रिमोद्यानाः ससदाफलपादपाः ॥
सपद्मिनीककासारा यत्र राजन्ति भूमयः ॥ ७ ॥
सदम्भा निम्नगाराजिर्न यत्र जनता क्वचित् ॥
कुलान्येव कुलीनानि न चान्यायधनानि च ॥ ८ ॥
विभ्रमो यत्र नारीषु नविद्वत्सु च कर्हिचित् ॥
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः ॥ ९ ॥
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥
रजोयुजः स्त्रियो यत्र न धर्मबहुला नराः ॥ 4.1.24.१० ॥
धनैरनन्धो यत्रास्ति मनो नैव च भोजनम् ॥
अनयः स्यन्दनं यत्र न च वै राजपूरुषः ॥ ११ ॥
दण्डः परशुकुद्दाल वालव्य जनराजिषु ॥
आतपत्रेषु नान्यत्र क्वचित्क्रोधापराधजः ॥१२॥
अन्यत्राक्षिकवृन्देभ्यः क्वचिन्न परिदेवनम् ॥
आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः ॥ १३ ॥
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥
कठोरहृदया यत्र सीमन्तिन्यो न मानवाः ॥ १४ ॥
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥
वेधोप्यन्तःसुरत्नेषु शूलं मूर्तिकरेषु वै ॥ १५ ॥
कम्पःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥
सञ्ज्वरः कामजो यत्र दारिद्र्यं कलुषस्य च ॥ १६ ॥
दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः ॥
इभा एव प्रमत्ता वै युद्धं वीच्योर्जलाशये ॥ १७ ॥
दानहानिर्गजेष्वेव द्रुमेष्वेव हि कण्टकाः ॥
जनेष्वेव विहारा हि न कस्यचिदुरःस्थली ॥ १८ ॥
बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा ॥
स्नेहत्यागः सदैवास्ति यत्र पाशुपते जने ॥ १९ ॥
दण्डवार्ता सदा यत्र कृतसन्न्यासकर्मणाम् ॥
मार्गणाश्चापकेष्वेव भिक्षुका ब्रह्मचारिणः ॥ 4.1.24.२० ॥
यत्र क्षपणका एव दृश्यन्ते मलधारिणः ॥
प्रायो मधुव्रता एव यत्र चञ्चलवृत्तयः ॥ २१ ॥
इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति ॥
धर्मेण राजधर्मज्ञ शौण्डीर्यगुणशालिनि ॥ २२ ॥
सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते ॥
सीमन्तिनीनां रम्याणां लावण्यवर्जित सुश्रियाम् ॥ २३ ॥
राज्ञीनामयुतम्भावि कुमाराणां शतत्रयम् ॥
वृद्धकाल इति ख्यात उग्रः परपुरञ्जयः ॥ २४ ॥
विजितानेकसमरः श्रीसन्तर्पितमार्गणः ॥
अनेकगुणसम्पूर्णः पूर्णचन्द्रनिभद्युतिः ॥ २५ ॥
सन्ततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः ॥
प्रजापालनसम्पन्नः कोशप्रीणितभूसुरः ॥ २६ ॥
पदारविन्दं गौविन्दं हृदि ध्यायन्नतन्द्रितः ॥
वासुदेवकथालापपरिक्षिप्त दिनक्षपः ॥ २७ ॥
कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज ॥
दूरात्कार्पटिकैर्दृष्टो वाराणस्याः समागतैः ॥ २८ ॥
तत्कर्मभाविसदृशैस्तदात्वमभिनन्दितः ॥
तैः सर्वै राजशार्दूलस्याशीर्वादैरनेकशः ॥ २९ ॥
श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः ॥
काशीनाथस्तुते कुर्यात्कुमतेरपवर्जनम् ॥ 4.1.24.३० ॥
नैःश्रेयसीं च सम्पत्तिं यो देयात्स्मरणादपि ॥
काशीनाथः स ते दिश्याज्ज्ञानं मलविवर्जितम् ॥ ३१ ॥
येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकण्टकम् ॥
तत्पुण्यशेषतोभूयाद्विश्वनाथे मतिस्तव ॥ ३२ ॥
यस्य प्रसादात्सुलभमायुः पुत्राम्बरागनाः ॥
समृद्धयः स्वर्गमोक्षौ स विश्वेशः प्रसीदतु ॥ ३३ ॥
नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः ॥
महापातकविच्छेदः स विश्वेशोऽस्तु ते हृदि ॥ ३४ ॥
त्वं वृद्धकालो भूपालः श्रुत्वेत्याशीः परम्पराम् ॥
स्मरिष्यसीदं वृत्तान्तं पुलकाङ्कवपुस्तदा ॥ ३५ ॥
आकारगोपनं कृत्वा तेभ्यो दत्त्वा धनं बहु ॥
सुमुहूर्तमनुप्राप्य सुते राज्यं विधाय च ॥ ३६॥
अनङ्गलेखया राज्ञ्या ततः काशीं गमिष्यसि ॥
दत्त्वा दानानि भूरीणि प्रीणयित्वाऽर्थिनो जनान् ॥ ३७ ॥
स्वनाम्ना तत्र संस्थाप्य लिङ्गं निर्वाणकारणम् ॥
प्रासादं तत्र कृत्वोच्चैस्तदग्रे कूपमुत्तमम् ॥ ३८ ॥
विधाय विधिवत्तत्र कलशारोपणादिकम् ॥
मणिमाणिक्य चाम्पेय दुकूलेभाश्वगोधनम् ॥ ३९ ॥
महाध्वजपताकाश्च च्छत्रचामरदर्पणम् ॥
देवोपकरणं भूरि विश्राण्य श्रमवर्जितः ॥ 4.1.24.४० ॥
व्रतोपवासनियमैः परिक्षीणकलेवरः ॥
मध्याह्ने निर्जने तत्र द्रक्ष्यस्येकं तपोधनम् ॥ ४१ ॥
अतीवजीर्णवपुषं परिपिङ्गजटान्वितम् ॥
मूर्तिमन्तम्मिव प्रांशुं धर्मं जनमनोहरम्॥ ४२॥
भारं शरीरयष्टेश्च दृढयष्ट्यां समर्प्य च ॥
गर्भागाराद्विनिष्क्रम्याभ्यायान्तंरङ्गमण्डपे ॥४३॥
उपविश्य समीपे ते प्रक्ष्यत्येवमनुक्रमात् ॥
कोसि त्वं किमिहासि त्वं द्वितीय इव कस्त्वयम् ॥ ४४ ॥
प्रासादः कारितः केन जानास्येष ततो वद ॥
अस्य लिङ्गस्य किं नाम प्रायो जाने न वार्धकात् ॥ ४५ ॥
पृष्टस्त्वमिति ते नाथ तदा वृद्ध तपस्विना ॥
कथयिष्यस्यहं राजा वृद्धकाल इति श्रुतः ॥ ४६ ॥
दाक्षिणात्य इह प्राप्तस्त्वेतया सह कान्तया ॥
ध्यायामि लिङ्गमेतच्च प्रार्थयामि न किञ्चन ॥ ४७ ॥
प्रासादस्यास्य जटिल स्वयङ्कारयिता शिवः ॥
विशेषतोऽस्यलिङ्गस्य नाम नो वेद्मि निश्चितम्॥ ४८ ॥
इति श्रुत्वा नरपतेर्वाक्यम्प्राह जटाधरः ॥
सत्यमुक्तं त्वयैकं हि लिङ्गनाम न वेत्सि यत् ॥ ४९ ॥
पश्येयं त्वामहं नित्यमुपविष्टं सुनिश्चलम् ॥
श्रुतो भविष्यति तव प्रासादो येन कारितः ॥ 4.1.24.५० ॥
ममाग्रे तत्समाचक्ष्व यदि जानासि तत्त्वतः ॥
आकर्ण्येति वचस्तस्य पुनः प्राह भवानिति ॥। ५१ ॥
कर्ता कारयिता शम्भुः किमतथ्यं ब्रवीम्यहम् ॥
अथवा चिन्तया किं मे तपस्विन्ननया विभो ॥ ५२ ॥
इति त्वयि स्थिते जोषं स पुनर्वृद्धतापसः ॥
पिपासुरस्मि पानीयमानीयाशु प्रयच्छ मे ॥ ५३ ॥
इति तेन च नुन्नस्त्वं वार्यानीय च कूपतः ॥
पाययिष्यसि तं वृद्धं तापसं तत्क्षणाच्च सः ॥ ५४ ॥
तदम्बुपानतो भूयात्सुपार्वण शशिप्रभः ॥
तरुणो रूपसम्पन्नः कोशोन्मुक्तोरगो यथा ॥ ५५ ॥
जाताश्चर्येण भवता पुनरेवाभ्यभाषि सः ॥
कः प्रभावो हि भगवन्नेष येन भवान्पुनः ॥ ५६ ॥
परित्यज्यात्र जरसं न वो भ्राजसि साम्प्रतम् ॥
अस्ति चेदवकाशस्ते ततो ब्रूहि तपोधन ॥ ५७ ॥
तपोधन उवाच ॥ ॥
वृद्धकालक्षितिपते जाने त्वां सुमहामते ॥
इमामपि च जानेऽहं तव पत्नीं पतिव्रताम्॥ ५८ ॥
जन्मनोऽस्मादियं राजन्नासीद्विप्रस्य कन्यका ॥
तुर्वसोर्वेदवपुषः शुभाचारा शुभानना ॥ ५९ ॥
तेन दत्ता विवाहार्थं नैध्रुवाय महात्मने ॥
स च कालवशं प्राप्तो नैध्रुवोऽप्राप्तयौवनः ॥ 4.1.24.६० ॥
वैधव्यं पालयन्त्येषा मृताऽवन्त्यां शुभव्रता ॥
तेन पुण्येन सञ्जाता पाण्ड्यस्य नृपतेः सुता ॥ ६१ ॥
परिणीता त्वया राजन्पतिव्रतरता सदा ॥
त्वया सहेह सम्प्राप्ता मुक्तिं प्राप्स्यत्यनुत्तमाम् ॥ ६२ ॥
अयोध्यायामथावन्त्यां मथुरायामथापि वा ॥
द्वारवत्यां च काञ्च्यां वा मायापुर्यामथो नृप ॥ ६३ ॥
अपि पातकिनो ये च कालेन निधनं गताः ॥
ते हि स्वर्गादिहागत्य काश्यां मोक्षमवाप्नुयुः ॥ ६४ ॥
अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि ॥
माथुरः शिवशर्माख्यो मायापुर्यां भवान्मृतः ॥ ६५ ॥
तत्पुण्यात्प्राप्य वैकुण्ठं भुक्त्वा भोगान्मनोरमान् ॥
तत्पुण्यशेषात्क्षितिपो जातस्त्वं नन्दिवर्धने ॥ ६६ ॥
वृद्धकालावनीपाल तेनैव सुकृतेन च ॥
मोक्षक्षेत्रमिदं प्राप्तो मुक्तिं प्राप्स्यस्यनुत्तमाम् ॥ ६७ ॥
अन्यच्च शृणु राजेन्द्र त्वया यत्समुदीरितम् ॥
कर्ता कारयिता शम्भुः प्रासादस्येति तत्स्फुटम् ॥ ६८ ॥
सुकृतं नैव सततमाख्यातव्यं कदाचन ॥
कृतं मयेति कथनात्पुण्यं क्षयति तत्क्षणात् ॥ ६९ ॥
तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् ॥
सुकृतं कीर्तनाद्व्यर्थं भवेद्भस्महुतं तथा॥ 4.1.24.७० ॥
निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ ॥
कृतं हि कृतकृत्येन प्रासादादिह वेद्म्यहम् ॥ ७१ ॥
वृद्धकालेश्वरं नाम लिङ्गमेतन्महीपते ॥
जानीह्यनादिसंसिद्धं निमित्तं किन्तु वै भवान् ॥ ७२ ॥
दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः ॥
वृद्धकालेशलिङ्गस्य सर्वं प्राप्नोति वाञ्छितम् ॥ ७३ ॥
कूपः कालोदको नाम जराव्याधिविघातकृत् ॥
यदीय जलपानेन मातुःस्तन्यमपानवान् ॥ ७४ ॥
कृतकूपोदकस्नानः कृतैतल्लिङ्गपूजनः ॥
वर्षेण सिद्धिमाप्नोति मनोभिलषितां नरः ॥ ७५ ॥
न कुष्ठं न च विस्फोटा नरङ्घा न विचर्चिका ॥
पीतात्स्पृष्टात्प्रतिष्ठन्ति कफः कालतमोदकात् ॥ ७६ ॥
नाग्निमान्द्यं नैव शूलं न मेहो न प्रवाहिका ॥
न मूत्रकृच्छ्रं ना पामा पानायस्यास्य सेवनात् ॥ ७७ ॥
भूतज्वराश्च ये केचिद्ये केचिद्विषमज्वराः ॥
ते क्षिप्रमुपशाम्यन्ति ह्येतत्कूपोदसेवनात् ॥ ७८ ॥
तवाग्रतो मम जरा पलितं च यथाविधि ॥
एतत्कूपोदपानेन क्षणान्नष्टं नवोऽभवम् ॥ ७९ ॥
वृद्धकालेश्वरे लिङ्गे सेवितेन दरिद्रता ॥
नोपसर्गा न वा रोगा न पापं नाघजं फलम् ॥ 4.1.24.८० ॥
उत्तरे कृत्तिवासस्य वाराणस्यां प्रयत्नतः ॥
वृद्धकालेश्वरं लिङ्गं द्रष्टव्यं सिद्धिकामुकैः ॥ ८१ ॥
इत्युक्त्वा तं महीपालं हस्ते धृत्वा तपोधनः ॥
सानङ्गलेखा राज्ञीकं तस्मिल्ँलिङ्गे लयं ययौ ॥ ८२ ॥
महाकाल महाकाल महाकालेति कीर्तनात् ॥
शतधा मुच्यते पापैर्नात्र कार्या विचारणा ॥ ८३ ॥
इत्थं भवित्री ते मुक्तिः कैटभारातिदर्शनात् ॥
भोगान्भुक्त्वा बहुविधान्वैकुण्ठ नगरे शुभे ॥ ८४ ॥
इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य ॥
स्वमुदर्कमथार्ककोटिरम्यं हरिलोकं परिलोकयाञ्चकार ॥ ८५ ॥
॥ मैत्रावरुणिरुवाच ॥ ॥
लोपामुद्रे स विप्रेन्द्रो भोगान्भुक्त्वा मनोरमान् ॥
मायापुर्यां कृतप्राणत्याग पुण्यबलेन च ॥ ८६ ॥
वैकुण्ठलोकादागत्य पत्तने नन्दिवर्धने ॥
भौमानि भुक्त्वा सौख्यानि पुत्रानुत्पाद्य सुन्दरान् ॥ ॥ ८७ ॥
तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम् ॥
विश्वेश्वरं समाराध्य निर्वाणपदमीयिवान् ॥ ८८ ॥
एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः ॥
श्रुत्वा पापविनिर्मुक्तो ज्ञानं परममृच्छति॥ ॥ ८९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वाद्धे शिवशर्मनिर्वाणप्रापणं नाम चतुर्विंशोध्यायः ॥ २४ ॥